स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 14
इति श्रीस्कन्दपुराणे रेवाखण्डे मत्स्येश्वरतीर्थवर्णनोनाम त्रयोदशो ऽध्यायः ॥
र्क्स् अध्याय 14
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि तीर्थं पापविमोक्षणम् ।
मत्स्यायाः शुभताप्याश्च सङ्गमे सुरसेवितम्
देवो मत्स्येश्वरो नाम नागकन्याभिरर्चितः ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः
पञ्चवक्त्रास्त्रिनेत्राश्च मत्स्यतीर्थप्रभावतः ।
कलहंस इति ख्यातो देवर्षिर् ध्यानतत्परः
तस्याश्रमं परं रम्यं ब्रह्मर्षि विनिषेवितम् ।
शाकमूलफलाहारो जपध्यानपरायणः
सो ऽतिष्ठद् अयुतं सार्द्धम् एकपादेन भारत ।
शिवध्यानपरो भूत्वा सर्वभूतहिते रतः
ततस् तु ध्यानयोगेन तस्य देवः शतक्रतुः ।
चकम्पे तपसा चासौ देवराजो भविष्यति
हरिष्यति न सन्देहो पुरीं चैवामरावतीम् ।
ब्राह्मणश्च सुरेशानः कुब्जो वामनरूपधृक्
जगाम वृद्धरूपेण कलहंसाश्रमम् प्रति ।
उवाच वचनं शक्रो ब्राह्मणं तपसि स्थितम्
किमर्थं तपसे शीघ्रं कामम् एतद् ब्रवीहि मे ।
आराधयसि कं देवं सत्यम् एतत् तपोधन
संहृत्य तपसा योगं प्रहसन्नब्रवीद् वचः ।
जानामि त्वां महाभाग शक्रस् त्वं त्रिदशेश्वरः
न कामये ऽहम् इन्द्रत्वं राज्यं कुरु यथेप्सितम् ।
आराधयाम्यहं देवं नान्यं देवं कथञ्चन
एतच्छ्रुत्वा वचस् तस्य महर्षेर् अब्रवीद् वृषः ।
वरं वृणु महाभाग यथा द्रक्ष्यसि शङ्करम्
कलहंस उवाच:
विना ऽहं त्र्यम्बकं याचे नान्याद् देवादहो वरम् ।
विजयी भव शक्र त्वं नान्यं वृणे वरं त्वहम्
एवमुक्तो ययौ शक्रः सर्वकामसमन्वितः ।
ज्ञात्वा तस्य परां भक्तिं देवदेवो महेश्वरः
अदर्शयद् अथात्मानं नीलकण्ठं त्रिलोचनम् ।
दृष्ट्वा रूपं महेशस्य साष्टाङ्गं प्रणिपत्य च
कलहंसो मुनिश्रेष्ठः स्तोतुं समुपचक्रमे ।
नमो ऽस्तु ते महादेव नीलकण्ठत्रिलोचन
नमः शिवाय शान्ताय शूलहस्त नमो ऽस्तु ते ।
नमः शिवाय शम्भवाया ऽनाथाय नमो नमः
त्र्यम्बकाय महादेवेत्यादि नामादिभिःस्तुत ओं नमो देवाय शम्भवाय भूर्भुवः स्वः ।
सोमरुद्रध्वान्तसूर्याय नमो रुद्राग्नये नमः
नमः शम्भो पञ्चवक्त्र महाशिव नमो ऽस्तु ते ।
स्वयम्भूवन पाताल नीलकण्ठ नमो ऽस्तु ते
ब्रह्मशर्वसुरेशानहरिहराय नमो नमः ।
ज्ञानशक्तिक्रियाशक्तिचराचर नमो ऽस्तु ते
हाटकाय नमस् तुभ्यम् उमानाथ नमो ऽस्तु ते ।
ब्रह्मविष्णुमहेशाय सर्वज्ञाय नमो नमः
सद्योजातस् तथा घोरस् तत् पुरुषाय नमो नमः ।
त्वया व्याप्तम् इदं सर्वं त्रैलोक्यं सचराचरम्
आदिमध्यान्तरूपाय कलिकाल नमो ऽस्तु ते ।
उमाकान्तार्धदेहाय श्रीकण्ठोरगभूषण
अनन्तगणरूपाय नागयज्ञोपवीतिने ।
शब्दः स्पर्शश् च गन्धश्च रसो रूपं च पञ्चमम्
बुद्धिर् मनस्त्व् अहङ्कारो ह्य् अष्टमूर्ते नमो ऽस्तु ते ।
सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः
गभस्तिमांश् च त्वं कालो मृत्युर् धाता प्रकाशकः ।
पृथिव्यापस् तथा तेजो वायुराकाशम् एव च
सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च ।
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिर्जनेश्वरः
कलास्ते विष्णुब्रह्माद्या वेदो वैश्रवणो यमः ।
कलाकाष्ठामुहूर्ताश् च पक्षमासर्तवस् तथा
संवत्सरस् त्वम् एवासि कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगो व्यक्ताव्यक्तः सनातनः
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः शीतभारश् च जीमूतो जीवनो ऽरिहा
भूतो यज्ञो भूतपतिर् लोकपालैर् निषेवितः ।
मनः सुपर्णो भूतादिः सदाशिव नमो ऽस्तु ते
जिह्वाचापल्यभावेन खेदितो ऽसि मया प्रभो ।
ब्रह्मविष्ण्वादिभिर् देवैर् यस्यान्तो नैव लभ्यते
भवसागरमग्नानां कः स्तोतुं शक्तिमान् भवेत् ।
अज्ञानाञ्ज्ञानतो वा ऽपि शूलपाणे क्षमस्व तत्
मार्कण्डेय उवाच:
श्रुत्वा स्तोत्रम् इदं देवः कलहंसस्य भारत ।
वरं वृणु महाप्राज्ञप्रीतः स्तोत्रेण ते ऽनघ
कलहंस उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुम् इहेच्छसि ।
कलहंसेश्वरं नाम तीर्थलिङ्गं सुरेश्वर
अक्षया देवदेवा ऽत्र होमदानबलिक्रियाः ।
अत्राक्षयं कृतं सर्वं त्वत् प्रसादात् महेश्वर
शिवाज्ञा वर्तते ते ऽत्र नरः स्वर्गमवाप्नुयात् ।
उत्क्रान्तिं कुरुते यस् तु अवशः स्ववशो ऽपि वा
स्तवेनानेन य स्तौतियस्त्वा स्तोष्यति शङ्कर ।
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः
तीर्थस्यास्य प्रभावेण सर्वे यान्तु शिवालयम् ।
इदं वरमहं मन्ये सर्वकामसमृद्धये
ईश्वर उवाच:
यं यं कामयते कामं त्रैलोक्ये सचराचरे ।
मत्प्रसादान् न सन्देह सर्वम् एतद् भविष्यति
एवमुक्त्वा ययौ देवः कैलासनिलयं नृप ।
कलहंसो ऽथ मुनिभिर् ब्रह्मिष्ठैः सजितेन्द्रियः
वर्षायुतानि साग्राणि भुङ्क्ते भोगाञ्छिवालये ।
दिव्ययानसमारूढः स्तूयमानो ऽप्सरोगणैः
वेणुवीणानिनादेन सर्वालङ्कारभूषितः ।
दश वर्षसहस्राणि तथैव शिवसन्निधौ
दक्षिणोत्तरदिग्भागपञ्चक्रोशप्रमाणतः ।
स्नानात् तत्र दिवं याति म्रियते विबुधो भवेत्
एतत् ते कथितं राजन् कलहंसस्य कीर्तनम् ।
स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे
कलहंसस्य चाख्यानान् न सीदन्ति कलौ जनाः ।
पुत्रदारावृतानाघ मायामोहसमन्विताः ।
आख्यानसहितं देवं कर्मणा मनसा गिरा
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0