भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 13

13.1

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये गाञ्जालतीर्थवर्णनो नाम द्वादशो ऽध्यायः ॥
र्क्स् अध्याय 13
मार्कण्डेय उवाच:
अथान्यत् परमं तीर्थं सर्वपापविनाशनम् ।
दिशि याम्यां समाख्यातं नाम्ना वै बालुकेश्वरम्

13.2

पुण्यं प्रकीर्तितं तत्र लिङ्गम् परमसिद्धिदम् ।
तत्र स्नात्वा यथान्यायं हेमभारफलं लभेत्

13.3

शङ्कुकर्ण इति ख्यातो यक्षः परमसिद्धिदः ।
उत्तरायणम् आसाद्य कन्या रेवासमागमे

13.4

संजगाम नृपश्रेष्ठ शिवसंसक्तमानसः ।
मणिमाणिक्यरत्नानि ब्राह्मणार्थमकल्पयत्

13.5

तावन् नृपस् तु तं स्थानात् स्थाणुं चैव महेश्वरम् ।
चालयामास यक्षस् तु ततः क्रुद्धो महेश्वरः

13.6

ददाह हस्तौ यक्षस्य विस्मयाविष्टचेतसः ।
आकाशवचसा प्रोक्तं विषादं त्यज पुत्रक

13.7

सुरसङ्घास्त्रयस्त्रिंशत् नैनं चालयितुं क्षमाः ।
सुरासुरगुरून् देवं स्थाणुभूतं स्वयम्भुवम्

13.8

किं पुनर्दानवा यक्षमानुषाश्चाल्पचेतसः ।
क्षमयित्वा तु देवेशं शङ्कुकर्णो महेश्वरम्

13.9

सूर्यकोटिसमप्रख्यं ज्वलन्तं दीप्ततेजसम् ।
अज्ञानात् कृतम् एतत् तु क्षन्तव्यं मयि पुत्रके

13.10

उवाच वचनं देवं वरं देहि महेश्वर ।
प्रसाद्य चाब्रवीद् यक्षस् तव भृत्यं वशं गतम्

13.11

गणत्वं गणमध्ये तु देहि हे सुरसत्तम ।
यक्षतीर्थम् इति ख्यातं लिङ्गं वै बालुकेश्वरम्

13.12

कर्तुम् अर्हसि देवेश तीर्थे ऽस्मिन् सचराचरैः ।
अयने चोत्तरे ह्य् अत्र स्नानदानमनुत्तमम्

13.13

इमं वरम् अहं मन्ये यदि तुष्टो ऽसि शङ्कर ।
शङ्कर उवाच:
सर्वकाभफलावाप्तिर् मत्प्रसादाद् भविष्यति

13.14

एवम् उक्त्वा महेशानस् तत्रैवान्तर धीयत ।
शङ्कुकर्णो महातेजास् तीर्थस्यास्य प्रभावतः

13.15

दिव्ययानं समारुह्य ययौ माहेश्वरं पुरम् ।
अथान्यत् परमं तीर्थं सर्वपापप्रणाशनम्

13.16

दिशि याम्यां समाख्यातं नाम्ना पूर्णमनोरथम् ।
पुण्यकीर्तनलिङ्गं तु ब्रह्महत्याप्रणाशनम्

13.17

तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।
हरिवर्मा पुरा चासीद् विराट्नगराधिपः

13.18

सर्वधर्मगुणोपेतो यज्ञयाजी महायशाः ।
इष्टस् तत्र महायज्ञो येन वै कल्पगातटे

13.19

गोलक्षं तत्र दत्तं च हेमभारपरिष्कृतम् ।
देवाश् च तार्पितास् तत्र ब्रह्माविष्णुर् बृहस्पतिः

13.20

ब्राह्मणाः पूजिता भक्त्या नानारत्नविभूषिताः ।
प्रशशंसुश्च नृपतिं सुराः पूर्णमनोरथाः

13.21

अथान्यत् कथयिष्यामि तीर्थात् तीर्थमनुत्तमम् ।
रेवामत्स्यासमायोगे सुरासुरनमस्कृतम्

13.22

नाभागस्य च संवादम् आपस्तम्बस्य चानघ ।
मन्वन्तरे चाक्षुषे वै संप्राप्ते द्वापरे युगे

13.23

नाम्ना मत्स्येश्वरं लिङ्गं जलमध्ये व्यवस्थितम् ।
पूज्यते नागकन्याभिर् न तं पश्यन्ति मानुषाः

13.24

महातेजो मणिमयं चन्द्रबिम्बसमप्रभम् ।
स्मरणाद् यस्य देवस्य ब्रह्महत्या प्रणश्यति

13.25

युधिष्ठिर उवाच:
साधुभिः सह संवासात् के गुणाः परिकीर्तिताः ।
काः कथाः कानि पुण्यानि सङ्गमे साप्तकल्पगे

13.26

मार्कण्डेय उवाच:
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
नाभागस्य च संवादम् आपस्तम्ब तपोनिधेः

13.27

महर्षिश्चात्मवान् पूर्वम् आपस्तम्बो द्विजोत्तमः ।
उपवासकृतारम्भो बभूव भगवांस् तथा

13.28

नित्यम् क्रोधं च कामञ्च लोभं मोहं विसृज्य च ।
रेवामत्स्यासमायोगे विवेश सलिलाशये

13.29

स मत्स्यैः सलिलावर्ते सरितश्चानुगैस् तदा ।
तत्रान्योत्पतितैर् जालैः समानीतो महायशाः

13.30

तस्माद् उत्तारयाम् आसुः सलिलाद् ब्रह्मनन्दनम् ।
तं दृष्ट्वा तपसा दीप्तं कैवर्ता भयविह्वलाः

13.31

शिरोभिः प्रणिपत्योच्चैर् इदं वचनमब्रुवन् ।
अज्ञानात् क्रियमाणानामस्माकं क्षन्तुम् अर्हसि

13.32

किं वा किं च प्रियं ते ऽद्य तदाज्ञापय सुव्रत ।
स मुनिस्तन् महद् दृष्ट्वा मत्स्यानां कदनं कृतम्

13.33

कृपया परयाविष्टो दाशान् प्रोवाच दुःखितः ।
दुःखितानीह भूतानि यो न भूतैः पृथग् विधैः

13.34

केवलात्म सुखेच्छातो ऽवेन् नृशंसतरो ऽस्ति कः ।
अहो ऽस्वस्थेष्वकारुण्यं स्वआर्थे चैव बलिर्वृथा

13.35

ज्ञानिनाम् अपि चेद् यस् तु केवलात्महिते रतः ।
ज्ञानिनो हि यथा स्वार्थम् आश्रित्य ध्यानम् आश्रिताः

13.36

दुःखार्तानीह भूतानि प्रयान्ति शरणं ततः ।
यो ऽभिवाञ्छति भोक्तुं वै सुखान्येकान् ततो जनः

13.37

पापात् परतरं तं हि प्रवदन्ति मुमुक्षवः ।
को नु मे स्याद् उपायो हि येनाहं दुःखितात्मनाम्

13.38

अन्तःप्रविश्य भूतानां भवेयं सर्वदुःखभुक् ।
यन्ममास्ति शुभं किंचित् तद् दीनान् उपगच्छतु

13.39

यत् कृतं दुष्कृतं तैश्च तदशेषमुपैतु माम् ।
दृष्ट्वा तान् कृपणान् व्यङ्गान् अनङ्गान् रोगिणस् तथा

13.40

दया न जायते यस्य स रक्ष इति मे मतिः ।
प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान्

13.41

यो न रक्षति शस्तो ऽपि स तत्पापं समश्नुते ।
आहूतानां नयार्तानां सुखं यद् उपजायते

13.42

तस्य स्वर्गापवर्गौ च कलां नार्हन्ति षोडशीम् ।
तस्माच्चैतान् अहं दीनां छक्तुं मीनान् सुदुःखितान्

13.43

यादृङ्मात्रं न पश्यामि किं पुनस् त्रिदशालयम् ।
निशम्यैतन् मुनेर् वाक्यं दाशास्ते जातसंभ्रमाः

13.44

यथार्थं तु तथा सर्वं नाभागाय न्यवेदयन् ।
नाभागो ऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम्

13.45

त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः ।
स सम्यक् पूजयित्वा तु देवकल्पं नृपस् ततः

13.46

प्रोवाच भगवन् विद्वन् किं करोमि तवाज्ञया ।
आपस्तम्ब उवाच:
श्रमेण महताविष्टाः कैवर्ता दुःखजीविनः

13.47

मम मूल्यं प्रयच्छेति यद् योग्यं मन्यसे नृप ।
नाभाग उवाच:
सहस्राणि शतं मूल्यं निषादेभ्यो ददाम्य् अहम्

13.48

निष्क्रयार्थं हि भगवन् नीतं ते ब्रह्मनन्दन ।
आपस्तम्ब उवाच:
नाहं शतसहस्रेण नियम्यः पार्थिव त्वया

13.49

सदृशं दीयतां मूल्यम् अमात्यैः सह चिन्तय ।
नाभाग उवाच:
कोटिं प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम

13.50

यद्य् एतद् अपि योग्यं नो ततो भूयः प्रदीयताम् ।
आपस्तम्ब उवाच:
राजन्नार्हा वयं कोटिमधिकं चापि पार्थिव

13.51

सदृशं दीयतां मूल्यं ब्राह्मणैः सह संवद ।
राजोवाच:
अर्द्धं राज्यं समस्तं वा निषादेभ्यः प्रदीयते

13.52

एतन् मूल्यम् अहं मन्ये किं वालं मन्यसे द्विज ।
आपस्तम्ब उवाच:
अर्द्धं राज्यं समस्तं वा नाहम् अर्हामि वै नृप

13.53

सदृशं दीयतां मह्यं ऋषिभिः सह चिन्तय ।
महर्षेस् तद्वचः श्रुत्वा नाभागस् तु विवादयन्

13.54

चिन्तयामास धर्मात्मा सामात्यः सपुरोहितः ।
ततः कश्चिद् ऋषिस् तत्र लोमशस्तु महातपाः

13.55

नाभागम् अब्रवीत् माभैः तोषयिष्यामि तं मुनिम् ।
राजोवाच:
ब्रूहि मूल्यं महाभाग मे ज्ञातिकुलबान्धवान्

13.56

निर्दग्धवान् ऋषिः क्रुद्धस् त्रैलोक्यं सचराचरम् ।
किं पुनर् मानवं दीनम् अत्यल्पं विषयात्मकम्

13.57

लोमश उवाच:
त्वं समर्थो महाराज जगत्पूज्या द्विजोत्तमाः ।
गावश्च दिव्यास्तस्माद् वै मूल्यम् अस्मै प्रदीयताम्

13.58

ततः श्रुत्वा तु वचनं स सामात्यपुरोहितः ।
हर्षेण महताविष्टः प्रोवाचेदं वचो मुनिम्

13.59

उत्तिष्ठोत्तिष्ठ भगवन् कृतमेव न संशयः ।
एतद् योग्यतं मूल्यं भवतो मुनिसत्तम

13.60

आपस्तम्ब उवाच:
उत्तिष्ठाम्य् एव संप्रीत्या सम्यक् क्रीतो ऽस्मि पार्थिव ।
गोभ्यो मूल्यं न पश्यामि पवित्रं पापनाशनम्

13.61

गावः प्रदक्षिणी कार्य्या वन्दनीया हि नित्यशः ।
मङ्गलायतन दिव्यास् सृष्टास् त्वेताः स्वयम्भुवा

13.62

अप्यागाराणि विप्राणां देवतायतनानि च ।
यद्गोमयेन शुद्ध्यन्ति किं ब्रूमो ह्यधिकं ततः

13.63

गोमूत्रं गोमयं क्षीरं दधि सर्पिस् तथैव च ।
गवां पञ्च पवित्राणि पुनन्ति सकलं जगत्

13.64

गावो मे चाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे हृदये चैव गवां मध्ये वसाम्यहम्

13.65

एव यः पठते नित्यं त्रिसन्ध्यं नियतः शुचिः ।
मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति

13.66

अग्रे ग्रासपरो भावः कर्तव्यो भक्तितो ऽन्वहम् ।
अकृत्वा स्वयमाहारं कुर्वन्नाप्नोति दुर्गतिम्

13.67

तेनाग्नयो हुतास् सम्यक् पितरश् चापि तार्पिताः ।
देवाश्च पूजितास् तेन यो ददाति गवाह्निकम्

13.68

मन्त्रः
सौरभेयी जगत्पूज्या नित्य विष्णुपदे स्थिता ।
सर्वदेवमयी ग्रासं मया दत्तं प्रतीक्षताम्

13.69

रक्षणाद् ब्रह्मपुत्राणां गवां कण्डूयनात् तथा ।
क्षीणार्तरक्षणाच् चैव ततः स्वर्गे महीयते

13.70

आदिर्हि गावो यज्ञस्य मध्यं चान्त्यं प्रकीर्तिताः ।
क्षरन्ति तास् तु सकलं क्षीराज्यममृतं तथा

13.71

तस्माद् गावः प्रदातव्याः पूजनीया हि नित्यशः ।
स्वर्गस्य सङ्गमायैतास् सोपानं हि विनिर्मिताः

13.72

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यम् उत्तमम् ।
प्रणिपत्य महाभागम् आपस्तम्बम् अथाब्रुवन्

13.73

निषादा ऊचुः:
सम्भाषा दर्शनस्पर्शवर्णनं कीर्तनं तथा ।
पावनानि समस्तानि साधूनाम् इति नः श्रुतम्

13.74

सम्भाषा दर्शनं चैवम् इहास्माभिः कृतं द्विज ।
कुरुष्वानुग्रहं तस्मात् त्वां वयं शरणं गताः

13.75

आपस्तम्ब उवाच:
एतां गां प्रतिगृह्णन्तु ततस् ते मुक्तकिल्बिषाः ।
निषादाश्च गताः स्वर्गं सह मत्स्यैर् जलोद्भवैः

13.76

प्राणिनां प्रीतिमुत्पाद्य निन्दितेना ऽपि कर्मणा ।
नरकं यदि पश्यामि वत्स्यामि स्वर्गम् एव वा

13.77

यन्मया सुकृतं किंचिन् मनोवाक्कायकर्मभिः ।
कृत तेनापि दुःखार्ताः सर्वे यान्तु शुभां गतिम्

13.78

ततस् तस्य प्रसादेन महर्षेर् भावितात्मनः ।
निषादास् तेन वाक्येन सह मत्स्या दिवं गताः

13.79

तान् दृष्ट्वा अथ गतान् स्वर्गं समत्स्यान् मत्स्यजीविनः ।
सामात्यभृत्यो नृपतिर् विस्मयाद् इदम् अब्रवीत्

13.80

सेव्याः श्रेयो ऽर्थिभिः सन्तः तीर्थं पुण्यं जलोत्तमम् ।
क्षणोपासनमप्यत्र न तेषां निष्कलं भवेत्

13.81

सद्भिस्सह समासीत सद्भिः कुर्वीत सत्कथाम् ।
आपस्तम्बो मुनिस् तत्र लोमशश्च महातपा

13.82

पदैस् तु विविधैर् इष्टैर् बोधयामास तु नृपम् ।
ततः संधारयामास धर्मबुद्धिं सुदुर्लभाम्

13.83

तथेति कृत्वा चोक्त्वा च नृपं तं प्रशशंसतुः ।
अहो धन्यो ऽसि राजेन्द्र यत् ते धर्मपरामतिः

13.84

धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ।
यदि राज्यमदाविष्टः स्वधर्मं न परित्यजेत्

13.85

ततो जगति कस् तस्मात् पुनर् अभ्यधिको भवेत् ।
ध्रुवं धर्मश्च राज्यं वै मोहश्चैव सदा ध्रुवः

13.86

महाध्रुवश्च नरको राज्यं निन्दन्ति ते बुधाः ।
राज्यं हि मन्यते मूढो नरो विषयलोलुपः

13.87

मनीषिणस् तु पश्यन्ति सदैव नरकोपमम् ।
तस्माच्छोकश्च मोहश्च न कर्तव्यो मदस् त्वया

13.88

यदीच्छसि महाराज शाश्वतीं गतिमात्मनः ।
मार्कण्डेय उवाच:
इत्युक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम्

13.89

नाभागो ऽपि वरं लब्ध्वा प्रहृष्टस्त्वविशत् पुरम् ।
एतत् ते कथितं राजन् ये गणाः सत्समागमे

13.90

माहात्म्यं वै गवां तद्वत् किं भूयः श्रोतुम् इच्छसि ।
रेवामत्स्यासमायोगे गवां माहात्म्यमुत्तमम्

13.91

तत्र स्नात्वा महाराज मत्स्येश्वरमथा ऽर्चय ।
आपस्तम्बो महाभागो निषादा मत्स्यजीविनः

13.92

मत्स्यैः सह गताः स्वर्गं तीर्थस्यास्य प्रभावतः ।
दिव्यकान्तिधराः सर्वे लोके क्रीडन्ति वैष्णवे

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc