भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 12

12.1

इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थमहिमवर्णनो नामैकादशो ऽध्यायः ॥
र्क्स् अध्याय 12
मार्कण्डेय उवाच:
अथ शृणुष्व राजेन्द्र दक्षिणां दिशमाश्रितम् ।
शैवं गाञ्जालभेदं च संगमं सुरपूजितम्

12.2

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
यः कुर्यात् पितृदेवानां तर्पणं पिण्डपातनम्

12.3

पितरस् तस्य तृप्यन्ति यावच् चन्द्रार्कतारकम् ।
महोत्सवे च कौमुद्यां कार्त्तिक्यां चैव पर्वणि

12.4

गाञ्जालेश्वरलिङ्गं च अर्चयेत् सिद्धिदायकम् ।
हरिकेशश्चक्रवर्ती कन्यापुरपतिः पुरा

12.5

तीर्थस्या ऽस्य प्रभावेण मुक्तो भूद् वत्सगोवधात् ।
मार्कण्डेय उवाच:
ममास्ति संशयस् तात सुमहांल्लोमहर्षणः

12.6

कथं राजनि गोहत्या कथं मुक्तश् च गोवधात् ।
मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्याम् इतिहासं पुरातनम्

12.7

सोमवंशे नृपश्चासीत् सत्यधर्मव्रते स्थितः ।
देवानीक इति ख्यातो हरिकेशस् तदात्मजः

12.8

सर्वलक्षणसम्पूर्णश् चक्रवर्ती महाबलः ।
अनेकाश् च मखास् तेन राजन् निष्टा महात्मना

12.9

ख्यातं कन्यापुरं तस्य धनदस्यालका यथा ।
चिरायुषः प्रजाः सर्वा धनधान्यसमन्विताः

12.10

तुङ्गभद्रेति विख्याता श्रीशैले त्रिपुरान्तिके ।
उक्ता पातालगङ्गेति मल्लिकार्जुनदर्शनात्

12.11

पूर्वभागे ततस् तस्य श्रीधामं नाम खेटकम् ।
नाना मुनिसमाकीर्णं देवकोटिसमावृतम्

12.12

ललितोद्वाहिता तत्र शिवेन परमात्मना ।
पुरा त्वस्यायुषा नाम प्रजापतिरकल्पयत्

12.13

सुप्रभा नाम तस्यास् तु विख्यातम् अभवत् तथा ।
देव्याः पूर्वावतारो ऽयं कथितस् ते विशाम्पते

12.14

द्वितीये हिमवत्पुत्री पार्वती च उमा तथा ।
तृतीये दक्षदुहिता नाम्ना गौरीति विश्रुता

12.15

पुण्यतीर्थे च क्षेत्रे ऽस्मिन् हरिकेशः प्रतापवान् ।
सुप्रभा निकटे नाम सुप्रभो राजसत्तम

12.16

शशास मेदिनीं राजा सर्वधर्मपरायणः ।
लक्षम् एकं तु दोग्ध्रीणां राहुसूर्यसमागमे

12.17

निष्काणां तु सहस्रं वै प्रतिगङ्गामकल्पयत् ।
सर्वाभरणशोभाढ्याम् एकां गां चोपवेशयत्

12.18

ब्राह्मणांश् च समाहूय वेदविद्याबहुश्रुतान् ।
पञ्चभिर्दिवसैः पूर्वं राहुसूर्यसमागमे

12.19

प्रयागे तत्र योगे वा इत्युक्तं वेदपारगैः ।
दैवोपकृतयोगेन पूर्वकर्म्मकृतेन च

12.20

आग्नेयी हूयते चेष्टी राज्ञा ऽनलसमागमे ।
अग्नावाहवनीये ऽत्र रौद्रैर्मन्त्रैः सुतेजसैः

12.21

पातालाद् उत्थितो वह्णिर् युगान्ताग्निसमप्रभः ।
दग्धं गोमण्डलं कृत्स्नम् अयुतं ब्रह्मचारिणाम्

12.22

भस्मीभूतं च तत्सर्वं मण्डपं पुरम् एव हि ।
हरिकेशो विषण्णात्मा प्रवेष्टुं वै हुताशनम्

12.23

आसनाद् उत्थितो राजा सान्तः पुरपरिच्छदः ।
अमात्यैः संवृतस् तावत् समयज्ञैर् बलोत्तरैः

12.24

हाहाकारो महानासीत् त्रिषु लोकेषु भारत ।
उवाच वचनं राजा ब्राह्मणान् वेदपारगान्

12.25

ब्राह्मणस्यैव हत्याया गवां चैव विशेषतः ।
अपि वर्षसहस्रेण निष्कृतिर् न विधीयते

12.26

धेनूनां चैव वत्सानां ब्राह्मणानां यथागतिः ।
सा गतिर् मे भवेन् नित्यं सत्यम् एतद् ब्रवीम्य् अहम्

12.27

ब्राह्मण उवाच:
गच्छ त्वं महाभाग कल्पग्रामं पुरोत्तमम् ।
अगस्तिर् भगवान् यत्र कश्यपो भृगुर् एव च

12.28

भारद्वाजो ऽत्रिगर्गौ च गौतमो मनुर् एव च ।
याज्ञवल्क्यो वशिष्ठश् च ऋषयः शंसितव्रताः

12.29

तत्र गत्वा महाराज प्रायश्चित्तं प्रगृह्यताम् ।
महर्षीणां मतेनैव वेदशास्त्रार्थदर्शिनाम्

12.30

एवम् उक्तो ययौ राजा पादचारी द्विजैः सह ।
विवेश नगरीं पुण्यां ब्रह्मलोकसमां नृपः

12.31

महर्षींस् तत्र तान् दृष्ट्वा सो ऽभिवाद्य प्रणम्य च ।
निश्चयं चिरकालं तु तेषामेवाग्रत स्थितः

12.32

ऋषय ऊचुः:
स्वागतं ते नृपश्रेष्ठ फलं कर्मसहस्रशः ।
किमागमनकार्यं च सत्यमेतद् वदस्व नः

12.33

तेषां तद्वचनं श्रुत्वा ऋषीणाम् ऊर्द्ध्वरेतसाम् ।
कृताञ्जलिपुटो भूत्वा वृत्तान्तं स्वं न्यवेदयत्

12.34

दैवाद् विपद्यते कार्यं संसिद्धमपि भो द्विजाः ।
दशा ऽयुतं गवां दग्धं द्विजानाम् अयुतं तथा

12.35

अनुग्रहं बहु मन्ये प्रायश्चित्तमथोदितम् ।
ब्राह्मणा ऊचुः:
दशलक्षाणि गायत्र्यास् तीर्थे तीर्थे जपं कुरुं

12.36

अयुतं तु गवां दत्त्वा सहिरण्यं नृपोत्तम ।
कोटिहोमं तु कुर्वीत सहस्रशतदक्षिणम्

12.37

प्रयागं च महातीर्थं गच्छेद् वाराणसीं शुभाम् ।
केदारं च तथेशानं गङ्गासागरसङ्गमम्

12.38

पितृतीर्थं गयां चैव नैमिषं पुष्करं तथा ।
मायापुरीं हरिक्षेत्रं गङ्गाद्वारं महाफलम्

12.39

तीर्थेष्वेतेषु चान्येषु यावद् द्वादशवत्सरान्

12.40

अनेन क्रमयोगेन शुद्धिस् ते नात्र संशय ।
मुक्तिस् ते भविता राजन् ब्राह्मणानां प्रभावतः

12.41

दत्तं ते श्रुतिवाक्येन प्रायश्चित्तं द्विजोत्तमैः ।
पादपूजा द्विजेन्द्राणां कर्तव्या च विधानतः

12.42

कुरुक्षेत्रं जगामाथ कर्तुं सोमसवं नृपः ।
विचिन्त्यैवं स्वाघन्यासं सरस्वत्यां समाश्रयत्

12.43

जपति स्म शिवस्तोत्रं हरं विष्णुं सरस्वतीम् ।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्

12.44

कुरुक्षेत्रस्य नाम्ना ऽपि नरः पापात् प्रमुच्यते ।
अखिलशब्दम् अहौषधप्रक्षालितसकलाभूतकलङ्का ।
मुनिभिरुपासिततीर्था सरस्वतीह हरतु मे दुरितम्

12.45

राज्ञस् तद् वचनं श्रुत्वा प्राह पापहरा नदी ।
विषादं त्यज राजेन्द्र शृणु मे वचनं परम्

12.46

उपदेशं प्रदास्यामि स्थातुं तव नृपोत्तम ।
अनेकभाविकं घोरं स्मरणाद् एव नश्यति

12.47

ब्रह्महत्या सहस्रं तु गोहत्यालक्षम् एव च ।
न च मोचयितुं शक्ता गङ्गा चैव सरिद्वरा

12.48

चराचरे ऽस्य लोके ऽस्मिन् कर्त्री तिष्ठति कल्पगा ।
दीपादित्यादिभिर् वीक्ष्य यथान्धत्व प्रणश्यति

12.49

तथा नाशयते पापं कल्पगा सरितां वरा ।
दानैर् दग्धा पुरा चाहं क्षत्रियाणाम् अनेकधा

12.50

ग्रस्ता ऽहं तेन पापेन नृपदक्षिणया ततः ।
शुक्लतः कृष्णतां चाहं प्राप्ता भो पृथिवीपते

12.51

द्वादशा ऽब्दे चतुर्विंशे स्नानं कर्तुं समागमम् ।
ग्रस्ते वै राहुणा सूर्ये कोटितीर्थे नराधिपः

12.52

प्रत्यक्षं मे शरीरं त्वं पश्य तेजः समुज्ज्वलम् ।
स्नात्वा तु शिवमभ्यर्च्य बहु स्वर्णं मखोत्तमम्

12.53

कुरु तत्र नृपश्रेष्ठ तेन ते निष्कृतिर् भवेत् ।
ये मृता ब्राह्मणा गावस् तेषाम् अस्थिप्रवाहनम्

12.54

नर्मदोदकसम्पर्काद् दिवि देवत्वमाप्यते ।
तिलोदकप्रदानेन तेषां मुक्तिः परा भवेत्

12.55

श्रुत्वैतत् कथितं वाक्यं सरस्वत्या नृपश्च ताम् ।
नमस्कृत्य समुत्थाय कन्यापुरमगात् ततः

12.56

सान्तः पुरपरीवारो मुदा परमया नृपः ।
तेनाज्ञप्तास् ततो भृत्याः सर्वसम्भारसभृताः

12.57

यज्ञोपस्करम् आदाय मेकला यत्र गच्छत ।
अस्थि भस्म यथान्यायं नीतं कर्मकरैस् ततः

12.58

प्रावाहयत् कल्पगायां मन्त्रयुक्तेन वारिणा ।
अस्थ्यादि पूजयित्वा च यथा विधम् अनुत्तमम्

12.59

देवांश् च ब्राह्मणांस् तत्र तर्पयित्वा कृताञ्जलिः ।
प्रवाहो निर्गतस् तत्र नर्मदायां समाविशत्

12.60

स गाञ्जालेति विख्यातो नर्मदा सङ्गमो नृप ।
गाञ्जालसिद्धलिङ्गं च सूर्यकोटिसमप्रभम्

12.61

दिव्ययानसमारूढा दग्धाः कालाग्निना तु ये ।
आशीर्वादपरास् सर्वे हरिकेशं प्रतुष्टुवुः

12.62

त्वत् प्रसादान् महाभाग दिवि देवत्वम् आगताः ।
देवदुन्दुभिनिर्घोषैर् वेणुवीणारवैस् तथा

12.63

दिव्ययानसमारूढा गतास् ते वैष्णवं पदम् ।
हरिकेशो नृपश्रेष्ठः परया च मुदायुतः

12.64

सप्तकल्पवहां देवीं नर्मदा लोकपावनीम् ।
नमस्कृत्य सरिच्छ्रेष्ठां स्तुतिं चक्रे समाहितः

12.65

नमस्ते ऽस्तु सरिच्छ्रेष्ठे सप्तकल्पनिवासिनि ।
यत्र तत्र नरः स्नात्वा मुक्तो भवति कल्मषात्

12.66

न तस्य पुनरावृत्तिर्घोरे संसारसागरे ।
जन्मान्तरसहस्रेण न त्वां स्तम्भयते बली

12.67

जह्नुना हि पुरा पीता करतोयेन जाह्नवी ।
त्वया च पूरितं सर्वं विश्वं चैव चराचरम्

12.68

त्वत् प्रसादात् महादेवि मुक्तिश्चापि भवार्णवात् ।
प्रत्यक्षा कल्पगैतच्च स्तोत्रं श्रुत्वा नृपोदितम्

12.69

नर्मदोवाच:
वरं वृणु महाभाग यत् ते मनसि वर्तते ।
तस्यास् तद् वचनं श्रुत्वा हरिकेशो ऽब्रवीद् इदम्

12.70

यदि मे वरदादेवि पूतं मां परिकल्पय ।
स्नानावगाहनात् पानात् स्मरणात् कीर्तनाद् अपि

12.71

सप्तजन्मकृतं पापं सद्य एव प्रणश्यतु ।
रेवोवाच:
एवम् अस्तु नृपश्रेष्ठ मत्प्रसादाद् भविष्यति

12.72

एवमुक्त्वा ततो देवी तत्रैवान्तर धीयत ।
हरिकेशश्चक्रवर्ती साष्टाङ्गं प्रणिपत्य च

12.73

कामिकं यानमारुह्य सर्वालङ्कारभूषितः ।
विवेश नगरं पुण्यं यथाशक्रो ऽमरावतीम्

12.74

कालान्तरे ततः प्राप्ते राज्यं कृत्वा सुरालये ।
सान्तः पुरपरीवारो भोगान् भुङ्क्ते स्म पुष्कलान्

12.75

एतत्ते कथितं राजन् महाभाग विशाम्पते ।
द्वापरं वंशम् ऐक्ष्वाकं ब्राह्मं वैवस्वतं तथा

12.76

कापिलं पुष्करं चेति सप्तकल्पान् विदुर्बुधाः ।
कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम्

12.77

ब्राह्मं रौचं च सावित्रं बार्हस्पत्यं प्रभासकम् ।
महेन्द्रम् अग्निकल्पं वैजयन्तं मारुतं तथा

12.78

वैष्णवं ब्रह्मरूपं च ज्योतिषं च चतुर्दशम् ।
एते कल्पास् तु संख्याता न मृता येषु नर्मदा

12.79

एतत् ते कथितं राजन्नितिहासं पुरातनम् ।
धन्यं यशस्यम् आयुष्यं महतां कीर्तिवर्द्धनम्

12.80

श्रवणात् कीर्तनाद् वापि मुच्यते सर्वकिल्विषात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc