स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 11
इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाख्यानं नाम दशमो ऽध्यायः ॥
र्क्स् अध्याय 11
अथान्यत् परमं तीर्थं सुरासुरनमस्कृतम् ।
योगतीर्थम् इति ख्यातं सर्वपापप्रणाशनम्
योगी स्नात्वा विधानेन योगान्ते त्रिदिवं गतः ।
तत्र स्नात्वा नरो राजंस् तिर्यग् योनौ न गच्छति
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
अथान्यत् परमं तीर्थं ध्रुवो यत्र प्रकाशते
ध्रुवतीर्थे नरः स्नात्वा सर्वकामफलोदये ।
ध्रुवेश्वरं महादेवं भक्त्या यस् तु प्रपूजयेत्
दशायुतानि राजा वै पुरे वैद्याधरे शुभे ।
नाक्षत्रं नाम तीर्थं तु नर्मदातीरम् आश्रितम्
यत्र ऋक्षेश्वरो देवः सर्वपापप्रणाशनः ।
सप्तविंशतिसंसिद्धिं नक्षत्राणि गतानि वै
तस्य तीर्थस्य माहात्म्याद् दिवि दीव्यन्तिदेवताः ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः
अथान्यत् परमं तीर्थं वाराहं नाम विश्रुतम्
महाशूकररूपेण धात्री यत्र समुद्धृता ।
एकादश्यां नरः स्नात्वा कृत्वा चैव यथोदितम्
उपवासपरो भूत्वा द्वादश्यां तु युधिष्ठिर ।
वैष्णवस् तु शुचिर् भूत्वा वाराहं च समर्चयेत्
पुष्पोपहारधूपैश् च गन्धदीपविलेपनैः ।
वर्षलक्षं तु साग्रं वै लोके क्रीडति वैष्णवे
ब्रह्मचारी जितक्रोधो विष्णुधर्मपरायणः ।
भक्त्या भोजयते यस् तु विप्रान् वैष्णवकांस् तथा
लेखयित्वा विष्णुधर्मान् वस्त्रालङ्कारभूषितान् ।
निवेदयेद् ब्राह्मणाय श्रोत्रियाय विशेषतः
पुराणं नर्मदाख्यानं श्रावयेच् च समाहितः ।
वरदाश् च त्रयो देवा ब्रह्मविष्णुमहेश्वराः
भवन्ति तस्य सत्यं वै ना ऽत्र कार्य्या विचारणा ।
यावद् अक्षरसंख्यानं यावत् पत्रसमुच्चयः
तावद् युगसहस्राणि स्वर्गलोके महीयते ।
विद्यादानात् परं दानं नान्य लोकेषु गीयते
अदीपा च यथा रात्रिर् अनादित्यं यथा नभः ।
विद्याहीनं तथा सर्वमन्धे तमसि मज्जति
एतत्ते कथितं सर्वं विद्यादानस्य यत् फलम् ।
सर्वदानफलं तस्य विद्यादानप्रभावतः
अथान्यत् परमं तीर्थं चान्द्रायणम् इति स्मृतम् ।
शशाङ्के रोहिणीयुक्ते पौर्णमास्यां महोत्सवे
शशाङ्कभूषणं देवं सर्वसिद्धिप्रदायकम् ।
अर्चयित्वा विधानेन स्वर्गलोके महीयते
पौर्णमास्यां तु कुरुते राहुसूर्यसमागमे ।
तिलोदकं पिण्डदानं पुत्रः परमधार्मिकः
पितरस् तस्य तृप्यन्ति पापोपहतचेतसः ।
सर्वं पाखण्डयुक्तं च आवृतं कलिना तथा
पुराणवेदधर्माश् च दानं यज्ञस् तपस् तथा ।
आच्छादितम् इदं पुण्यं हेतुकैः पापकर्मभिः
नग्नैर् मलिनदीनैश् च कलौ लोके दिगम्बरैः ।
तस्माद् धर्मपरैर् नित्यम् उपास्या नर्मदा नदी
सौम्ये तु द्वादशादित्यं तीर्थं पुण्यविवर्धनम् ।
तत्र स्नात्वा नरो राजन्न् अर्चयित्वा तु भास्करम्
संक्रान्तौ विषुवे चैव सूर्यलोके महीयते ।
एकस्मिन् भोजिते विप्रे लक्षं भवति भोजितम्
तिलान्नं च हिरण्यं च यथा शक्त्या ददाति यः ।
शुक्लपक्षस्य माघस्य शुभा षष्ठी च सप्तमी
तस्यां दानप्रभावेण ह्य् उपवासपरायणः ।
दशवर्षसहस्राणि सूर्यलोके महीयते
तीर्थम् आप्सरसं नाम याम्यां दिशि समाश्रितम् ।
चम्पका सीमपा नामा केशिनी भामिनी तथा
कौमुदी सुप्रभा चैव उत्पला च महोदया ।
निषादयोनिं संप्राप्ताः पूर्वजन्मनि भारत
एता आप्सरसं देवं गौरी चैव सुरेश्वरी ।
माघे मासि तृतीयायां निराहाराश् च निर्जलाः
उदकैः स्नापयित्वा तु बिल्वपत्रैर् अपूजयन् ।
दशवर्षसहस्राणि सावधानास् तु नार्मदैः
सर्वकामसमृद्धास्ता अप्सरोभिः सुपूजिताः ।
सर्वालङ्कारशोभाढ्या नानावसनभूषिताः
तस्य तीर्थस्य माहात्म्यात् संसिद्धिं परमां गताः ।
अथान्यत् कथयिष्यामि पुण्यतीर्थम् अनुत्तमम्
यत्र स्नातस्य विधिवत् कन्यादानफलं भवेत् ।
शङ्करं नाम लिङ्गं तु उत्तरस्यां दिशि स्मृतम्
अर्चयित्वा तु तं देवं दर्शे चैव नराधिप ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
अथातः संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् ।
दत्तात्रेया नदी यत्र सङ्गता सह रेवया
सौम्यभागे वरारोहासुरासुरनमस्कृता ।
तत्र स्नात्वा च दत्त्वा च अर्चयित्वा तु केशवम्
पापिष्ठा ये दुराचारा धर्मकर्मबहिष्कृताः ।
प्रभावात् तस्य तीर्थस्य ते ऽपि यान्ति हरेः पुरम्
मेधातिथिः करः स्कन्दः सावर्णिः कौशिको मनुः ।
काश्यपो गालवश् चैव मैत्रेयस् तपसां निधिः
एते चान्ये ऽपि बहवो ऋषयः संशितव्रताः ।
तीर्थस्या ऽस्य प्रभावेण शंसिद्धिं परमां गताः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0