भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 115

115.1

इति श्रीस्कन्दपुराणे रेवाखण्डे सौभाग्यतीर्थमहिमानुवर्णनो नाम चतुर्दशाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 115
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र भाण्डारं तीर्थम् उत्तमम् ।
दारिद्र्यभेदकरणं पुरुषांश् चैकविंशतिम्

115.2

धनदेन तपस्तप्तं प्रसन्नः पद्मसम्भवः ।
तत्रैव स्वस्वदानेन प्राप्तं वित्तमनन्तकम्

115.3

तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति ।
तस्य वित्तपरिच्छेदो न भवेच् च कदाचन

115.4

तस्यैवानन्तरं राजन् रोहिणीतीर्थम् उत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापहरं परम्

115.5

युधिष्ठिर उवाच:
रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् ।
श्रोतुम् इच्छामि तत् त्वेन तन् मे त्वं वक्तुम् अर्हसि

115.6

मार्कण्डेय उवाच:
तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
तस्योदरे शयानस्य देवदेवस्य पाण्डव

115.7

नाभ्याम् अभून् महत्पद्मं रविमण्डलसन्निभम् ।
कीर्णकाकेसरयुतं पत्रैश् च समलंकृतम्

115.8

तत्र ब्रह्मा समुत्पन्नश् चतुर्वदनपङ्कजः ।
किं करोमीति देवेश चिन्त्यमानः स्वदेहतः

115.9

भगवान् अभवत् तत्र मरीचिर् भरताधिप ।
मरीचेः कश्यपो जातः सर्वसृष्टिकरस् ततः

115.10

दक्षस्यापि तदा जाताः पञ्चाशत् कन्यकास् तु वै ।
ददौ स दश धर्माय कश्यपाय त्रयोदश

115.11

तथैव च पराः कन्याः सप्तविंशतिम् इन्दवे ।
रोहिणी नाम या तासां मध्ये ताराधिपानना

115.12

अभीष्टा सर्वनारीणां भर्तुश्चापि विशेषतः ।
पुनः सा निश्चयीभूता तपसे भो नराधिप

115.13

ततः सा नर्मदातीरे चचार विपुलं तपः ।
एकरात्रं द्विरात्रं च षड्द्वादश तथापरैः

115.14

पक्षमासोपवासैश् च कर्षयन्ती कलेवरम् ।
आराधयन्ती सततं महिषासुरमार्दिनीम्

115.15

स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिः स्मिता ।
ततस् तुष्टा महाभागा देवी नारायणी नृप

115.16

प्रसन्ना ते महाभागे व्रतेन नियमेन च ।
ददामि ते न सन्देहो वरं वृणु यथेप्सितम्

115.17

एवं श्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ।
वरं वव्रे ततो देवीम् इदं वचनम् अब्रवीत्

115.18

सर्वासां च सपत्नीनामधिका शशिनः प्रिया ।
यथा भवानि ह्य् अचिरात् त्वत्प्रसादात् तथा कुरु

115.19

एवम् अस्त्व् इति सा प्रोक्ता भवान्या भक्तितत्परैः ।
स्तूयमाना सुरगणैस् तत्रैवान्तरधीयत

115.20

तदा प्रभृति सा देवी रोहिणी शशिनः प्रिया ।
संजाता सर्वलोकस्य वल्लभा नृपसत्तम

115.21

तत्र तीर्थे तु या नारी नरो वा स्नाति भक्तितः ।
वल्लभा भवते सा तु भर्तुर् वै रोहिणी यथा

115.22

तत्र तीर्थेषु यः कश्चित् प्राणत्यागं करोति च ।
सप्तजन्मनि तस्यैव वियोगो नैव जायते

115.23

मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र चक्रतीर्थम् अनुत्तमम् ।
सेनापुरेति विख्यातं सर्वपापक्षयकरम्

115.24

सैनापत्ये ऽभिषिक्तेन देवदेवेन चक्रिणा ।
अभिषिक्तो महासेनः स देवेन्द्रपुरोगमैः

115.25

दानवस्य वधार्थाय विजयाय दिवौकसाम् ।
भूमिदानेन विप्रेन्द्रांस् तर्पयित्वा यथा विधि

115.26

शङ्खभेरीनिनादेन पटहानां च निःस्वनैः ।
वीणाभिश् च मृदण्गैश् च झल्लरीकांस्यतालकैः

115.27

तच्छ्रुत्वा निनदं घोरं दानवो बलदर्पितः ।
सुराणामाविघातार्थम् अभिषेकस्य चाग्रतः

115.28

हस्त्यश्वरथपत्त्याद्यैः परिपूर्णो रवाकुलैः

115.29

ततस् तु ताम् रौद्रवस्य वाहिनीं शरैः सुशार्ङ्गोज्झितकैः सुतीक्ष्णैः ।
विध्वस्य हस्त्यश्वरथान् महात्मा चक्रं विमुक्तं मधुघातिना च

115.30

दृष्ट्वा तु भीषणं चक्रमभिव्याप्तं षडाननः ।
त्यक्त्वा तत्राप्य् अवस्थानं चकार विपुलं तपः

115.31

चक्रं मुक्तं विनाशाय हरिणा लोकधारिणा ।
विह्वलां दाहयामास पपात विमले जले

115.32

निष्पापं तच् च संजातं नर्मदायाः प्रभावतः ।
प्रावृट्काले शुभे पक्षे द्वादश्यां चैव भारत

115.33

यश् च याति जितक्रोधश् चक्रतीर्थं हरिप्रियम् ।
सो ऽपि पापैः प्रमुच्येत यमं घोरं न पश्यति

115.34

रात्रौ जागरणं कृत्वा दीपं देवस्य दापयेत् ।
कथां च वैष्णवीं तत्र देवदेवं समाहितः

115.35

भीमव्रतं च पाराकं कृच्छ्रं चान्द्रायणं तथा ।
व्रतं सान्तपनं देव त्रिरात्रव्रतकं भृशम्

115.36

तरेद् वैतरणीम् अन्ते भीमं चक्रमहर्निशम् ।
कूटशाल्मलिवृक्षांश् च कदाचिन् नैव पश्यति

115.37

एतत् ते कथितं सर्वं चक्रतीर्थस्य यत्फलम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc