स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 116
इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमहिमानुवर्णनो नाम पञ्चदशाधिक शततमो ऽध्यायः ॥
र्क्स् अध्याय 116
मार्कण्डेय उवाच:
धूमपातं ततो गच्छेन् महापातकनाशनम् ।
समीपे चक्रतीर्थस्या विष्णुना निर्मितं पुरा
मेकलां परमां देवीम् इमां त्रैलोक्यपावनीम् ।
कदाचित् पयसां राजा सान्तःपुरपरिच्छदः
शिष्टैर् इष्टैर् बन्धुभिश् च अर्घपात्रेण संयुतैः ।
हस्ताभरणसंयुक्तैः पुण्यैर् अमलकान्तिभिः
चन्द्रमण्डलमानैश् च युक्तैर् मुक्ताफलैस् तथा ।
प्रवाललतिकाभिश् च इन्द्रनीलसमन्वितैः
अर्घं ददौ तदा तस्यै वरुणः सरितां पतिः ।
गङ्गाद्याः सरितः सर्वास् तापी चापि पयोष्णिका
नन्दिनी नलिनी पुण्या सर्वम् अर्घं ददुस् तदा ।
नर्मदोवाच:
मदीये सङ्गमे दिव्ये स्नात्वा सन्तर्पयन्ति ये
तस्य सप्तकुलोत्पन्नांस् तारयामि न संशयः ।
जलाञ्जलिं ततो दत्त्वा समुद्रो वाक्यम् अब्रवीत्
धन्यो ऽहं कृतकृत्यो ऽहं त्वया देवि वरानने ।
समायातासि भद्रं ते मां चात्र पावनं कुरु
नर्मदोवाच:
पवित्रो ऽसि महाभाग एकाकी त्वं महोदधे ।
मार्कण्डेय उवाच:
एवं भगवती राजन् नर्मदा मेकला शुभा
पूजिता सागरेणापि शुभे सिंहासने स्थिता ।
पाणिग्रहं गृहीता सा पुरुकुत्सेन भारत
पुरुकुत्सस्य भार्या सा गृहधर्मेण संयुता ।
सदा वै वर्तते राजंस् तत्रैव सङ्गमे शुभे
पुष्पवृष्टिस् तदा ह्य् आसीत् त्रिदशानां महोत्सवे ।
तत्र स्वयंवरश्चासीत् सरितः पृथिवीपते
तत्र यः कुरुते श्राद्धं स्थानं च पितृतर्पणम् ।
लक्षयज्ञफलं प्राप्य स मुक्तो नात्र संशयः
एवं त्रैलोक्यपूज्या ते नर्मदा लोकपावनी ।
तस्या माहात्म्यम् अतुलं कीर्तितं हि महाभुज
भक्त्या श्रुत्वा महाभाग रुद्रलोके महीयते ।
आदिमध्यावसानेषु रेवामाहात्म्यम् उत्तमम्
यः कश्चिच् छृणुयाद् भक्त्या तस्य स्याद् वाञ्छितं फलम् ।
श्रुत्वा माहात्म्यम् अतुलं यो नरो हि जितेन्द्रियः
दानं कुर्यात् तदा तस्य सर्वकामार्थसिद्धयः ।
पुस्तकं पूजयित्वा तु धूपदीपकचन्दनैः
दानं तत्र प्रकर्तव्यं ब्राह्मणांश् चापि पूजयेत् ।
श्रवणेन तु दानेन सुप्रीता नर्मदा भवेत्
तीर्थे तीर्थे च कथितं तत्पूर्वं पाण्डुनन्दन ।
पुण्यं श्रुत्वा तु माहात्म्यं तद् दानेनैव पाण्डव
एतस्मात् कारणाद् दानं श्रुत्वा दानं हि कारणम् ।
तच् छ्रुत्वा राजशार्दूलो मार्कण्डेयस्य भाषितम्
अर्घं दत्त्वा यथान्यायं पूजयित्वा ऋषीन् सदा ।
अश्वैर्गजैस् तथा रथैर् भ्रातृभिः सह धर्मराट्
तीर्थयात्रां चकाराशु नर्मदायां युधिष्ठिर ।
उत्तरे दक्षिणे तीरे स्नानपानावगाहनम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0