स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 114
इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीतीर्थमहिमानुवर्णनो नाम त्रयोदशाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 114
मार्कण्डेय उवाच:
एतस्यानन्तरं पार्थ सौवर्णं तीर्थम् उत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापक्षयंकरम्
रेवायां दुर्लभं स्नानं सङ्गमस्य समीपतः ।
विभक्तं हस्तमात्रं च पुण्यक्षेत्रे नराधिप
सुवर्णशिलके स्नात्वा शान्तिं याति परां शुभाम् ।
निर्मित्वा भास्करं देवं होतव्यं तु हुताशने
बिल्वेन घृतमिश्रेण बिल्वपत्रेण भूरिणा ।
प्रीयतां हि जगन्नाथो व्याधिर् नश्यतु मे सदा
द्विजेभ्यश् चेत् प्रयुक्तं स्याद् यागस्य फलम् आप्नुयात् ।
तत्र दानेन प्रीतात्मा मृतः स्वर्गम् अवाप्नुयात्
शुक्लपक्षे तथाष्टम्यां सोपवासो जितेन्द्रियः ।
यस् तत्र कुरुते श्राद्धं नृदेवभक्तितो नरः
समुद्धरेत् कुले तत्र दशपूर्वान् दशापरान् ।
कांचनं वापि यो दद्याद् धेनुं चैव सुशोभनाम्
स याति परमं स्थानं यत्र देवो महेश्वरः ।
पूजयित्वा शिवं तत्र शत्रूणां विजयो भवेत्
पुत्रवान् गुणवांश् चैव सर्वव्याधि विवर्जितः ।
इत्य् एवं कथितं राजन् सौवर्णं तीर्थम् उत्तमम्
मार्कण्डेय उवाच:
एतस्मिन्न् अन्तरे तीर्थं करण्डेश्वरम् उत्तमम् ।
प्रख्यातं सर्वलोकेषु नर्मदायोत्तरे तटे
सर्वपापहरं प्रोक्तं सर्वदुःखघ्नम् उत्तमम् ।
ततो गच्छेच् च राजेन्द्र तीर्थं परमशोभनम्
सौभाग्यकरणं दिव्यं नराणां पापनाशनम् ।
तत्र या दुर्भगा नारी नरो वा नृपनन्दन
स्नात्वा ऽर्चयेद् उमां रुद्रं सौभाग्यं तस्य जायते ।
तृतीयायाम् अहोरात्रं सोपवासो जितेन्द्रियः
निमन्त्रयेद् द्विजं तत्र सपत्नीकं सुरूपिणम् ।
गन्धमाल्यैर् अलंकृत्य पुष्पधूपाधिवासितम्
भोजयेत् पायसान्नेन कृशरेणाथ भक्तितः ।
भोजयित्वा यथा न्यायं प्रदक्षिणम् अथाचरेत्
त्वं तु देवो महादेव सपत्नीको वृषध्वज ।
यथा ते देव देवेश न वियोगः कदाचन
सोमनाथाख्यकार्पण्यात् तं ध्यायाम् ईह चिन्तयन् ।
ज्येष्ठे शुक्ले तृतीयायां सौभाग्ये नर्मदाजले
स्नात्वा दत्त्वा च सुभगा न प्रियेण वियुज्यते ।
युधिष्ठिर उवाच:
न दौर्भाग्यं न दारिद्र्यं न शोको न च दुर्गतिः
एतत् सर्वं भवेद् येन तत्सर्वं कथयस्व मे ।
मार्कण्डेय उवाच:
दौर्भाग्यं दुर्गतिं चैव दारिद्र्यं शोकवर्धनम्
वैधव्यं सप्तजन्मनि जायते न युधिष्ठिर ।
कर्मणा येन पापानां क्षयस् तच् च वदामि ते
ज्येष्ठे मासे सिते पक्षे ततीयायां विशेषतः ।
तत्र स्नात्वा तु यो भक्त्या पञ्चाग्निं साधयेत् तपः
सो ऽपि पापैर् अशेषैस् तु मुच्यते नात्र संशयः ।
गुग्गुलुं दाहयेद् यस् तु गौरी शिवसमीपतः
तस्मिन् कर्मणि विप्रस्य उक्तानि भवते ततः ।
देहपाते कृते स्वर्गम् इत्य् एवं शङ्करो ऽब्रवीत्
श्वेतैरक्तैस् तथा पीतैर् वस्त्रैश् च विविधैः शुभैः ।
ब्राह्मणीर्ब्राह्मणांश् चैव पूजयित्वा यथाविधि
पुष्पैर् नानाविधैश् चैव गन्धधूपैः सुशोभनैः ।
कण्ठे सूत्रं समाधाय कुङ्कुमेन विलेपयेत्
कल्पयित्वा स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् ।
ताभ्यां दद्यात् समादृत्य दानम् उत्सृज्य वारिणा
कर्णवेष्टं त्वङ्गदं च काञ्चनीं मुद्रिकां तथा ।
सप्तधान्यं तथा देयं भोजनं नृपसत्तम
अन्यानि चैव दानानि तस्मिंस् तीर्थे नरोत्तम ।
सर्वदानैश् च यत्पुण्यं तत्पुण्यं त्रिगुणं भवेत्
तत्र साहस्रगुणितं नात्र कार्या विचारणा ।
शङ्करेण समं तत्र भुङ्क्ते भोगान् अनुत्तमान्
सौभाग्यं तस्य विपुलं जायते नात्र संशयः ।
अपुत्रो लभते पुत्रं निर्धनो धनम् आप्नुयात्
कामदं तीर्थराजं तु नर्मदायां व्यवस्थितम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0