स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 113
इति श्रीस्कन्दपुराणे रेवाखण्डे मन्मथेश्वरमहिमानुवर्णनोनाम द्वादशाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 113
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र एरण्डीसङ्गमेश्वरम् ।
प्रख्यातं सर्वलोकेषु ब्रह्महत्याप्रणाशनम्
युधिष्ठिर उवाच:
कारणं नैव जाने ऽहं तत्सर्वं कथयस्व मे ।
एवम् उक्तस् तु धर्मात्मा धर्मपुत्रेण धीमता
कथयामास तत्सर्वम् ऋषिसङ्घैः समावृतः ।
मार्कण्डेय उवाच:
कथितं चोमया पूर्वं शम्भुना परमेष्ठिना
तत् ते ऽहं सम्प्रवक्ष्यामि श्रूयतां भ्रातृभिः सह ।
महेश्वर उवाच:
अत्रिर् नामाह्वयो देव मानसो ब्रह्मणः सुतः
अग्निहोत्ररतो नित्यं देवता ऽतिथिपूजकः ।
सोमः संस्थापितो ऽत्रैव कृतो विप्रेण पर्वते
अनसूयेति नाम्ना वै तस्य भार्या गुणान्विता ।
पतिव्रता पतिप्राणा पत्युः कार्यहिते रता
एवं जातः सदा कालो न पुत्रो न च पुत्रिका ।
अपराह्णे महाबाहो सुखासीनौ तु तौ क्वचित्
वदतः सुखदुःखानि दैवदत्तानि यानि च ।
अत्रिर् उवाच:
सौम्ये शुभे प्रिये कान्ते सुरूपे प्रियभाषिणि
पूर्णचन्द्रनिभाकारे प्रियकामे निरालसे ।
न त्वया सदृशी लोके त्रैलोक्ये सचराचरे
पतिपुत्रप्रिया नारी सुहृज्जनहिते रता ।
पुत्रेण लोकाज् जयति पुत्रेण परमा गतिः
नास्ति पुत्रसमो बन्धुः पृथिव्यां चैव दृश्यते ।
असिपत्रवने घोरे पतन्तं यो ऽभिरक्षति
दुर्भिक्षेष्व् अपि दैन्यादौ वृद्धकाले ऽपि पुत्रकः ।
पुत्रं विना च किं भद्रे जीवितैः सधनैर् अपि
व्याधिभिः परिभूतो ऽपि निर्विण्णो ऽपि यदा सुतः ।
लोकलज्जानयत्रस्तः पवित्रं कर्तुम् अर्हति
एतद् गुणसमायुक्तो निर्गुणः सगुणः सुतः ।
पुत्रहीने कुतः सौख्यम् इह लोके परत्र च
अहश् च मध्यरात्रे च चिन्त्यमानश् च सर्वदा ।
शुष्यन्ति मम गात्राणि ग्रीष्मे कुसरितो यथा
अनसूयोवाच:
यत् त्वया सूचितं विप्र तत्सर्वं शोचयाम्य् अहम् ।
तवोद्वेगकरं कार्यं तन् मे दहति चेतसि
ये च पुत्रा भविष्यन्ति दीर्घायुर् गुणसंयुताः ।
तत्कार्यं च समीक्षे ऽहं येन तुष्टः प्रजापतिः
अत्रिर् उवाच:
तपस् तप्तं मया भद्रे जन्मप्रभृतिदुष्करम् ।
व्रतोपवासैर् नियमैः शाकाहारेण सुन्दरि
क्षीणं देहं तु पश्यामि अशक्तो ऽहं शुभानने ।
स्थातुं शोचामि चात्मानं रहस्यं कथितं मया
अनसूयोवाच:
भर्तः पतिव्रता नारी पतिपुत्रविवर्द्धिनी ।
त्रिवर्गसाधना सा च सेव्या सा विपुले जने
जपस्तपस्तीर्थयात्रा पुत्रेज्यामन्त्रसाधनम् ।
वदन्ति गुरवः सर्वे यथोक्तं गुरुभाषितम्
अनुज्ञाता च दुःखे ऽहं तपस् तप्स्यामि दुष्करम् ।
पुत्रार्थिनी बहुदिनान्य् अहं यामि सुरोत्तमम्
अत्रिर् उवाच:
साधु साधु महाप्राज्ञे मम सन्तोषकारिणि ।
अनुज्ञाता मया भद्रे पुत्रार्थं तप आचर
देवानां च मनुष्याणां पितॄणाम् अनृणं कुरु ।
न भार्या सदृशो बन्धुस् त्रिषु लोकेषु विद्यते
नहि देवाः प्रशंसन्ति भार्यया रहितं सुखम् ।
सम्मुखे सम्मुखा याति विलोमे च पराङ्मुखी
तेन भार्या प्रशंसन्ति सदेवासुरमानुषाः ।
महाव्रते महाप्रज्ञे सत्यरूपे शुभे क्षणे
तपश्चरस्व शीघ्रं त्वं पुत्रार्थं च ममाज्ञया ।
एतद् वाक्यावसाने सा साष्टाङ्गं प्रणता ऽब्रवीत्
त्वत्प्रसादेन विप्रेन्द्र सर्वम् एतद् अवाप्नुयाम् ।
हंसलीलागतिर् यान्ती लोलाक्षी वरवर्णिनी
विषमस्थानसूया तु प्राप्तासौ नर्मदां नदीम् ।
सोमनाथेन तत् तुल्यं नात्र कार्या विचारणा
ये स्मरन्ति दिवा रात्रौ योजनानां शतैर् अपि ।
मुच्यन्ते सर्वपापेभ्यो रुद्रलोके वसन्ति ते
नर्मदायाः समीपे तु द्वे तटे द्वे च योजने ।
प्रविशन्ती तपस् तत्र रेवायां वरवर्णिनी
यस्या दर्शनमात्रेण नश्यते पापसंचयम् ।
ततः तस्योत्तरे तीरे परे पर्णाशना शुभा
नियमस्था विशालाक्षी शाकाहारेण सुन्दरी ।
स्तुवन्ती तु ततो देवाञ् छुभैः स्तोत्रैश् च संयता
ग्रीष्मेषु च महादेवी पञ्चाग्निं साधयेत् ततः ।
वर्षाकाले सार्द्रवासाचरच् चान्द्रायणं व्रतम्
हेमन्ते च ततः प्राप्ते तोयवासाभवत् ततः ।
प्रातः स्नानं ततः सान्ध्यं कुर्याद् देवादितर्पणम्
देवानाम् अर्चनं कृत्वा होमं कृत्वा यथा विधि ।
एवं वर्षशते प्राप्ते विष्णुरुद्रपितामहाः
सम्प्राप्ता द्विजरूपेण एरण्ड्याः सङ्गमं प्रति ।
संस्थिता अग्रतस् तस्या वेदम् अभ्युच्चरन्ति ते
अनसूया जपं त्यक्त्वा निरीक्षन्ती मुहुर्मुहुः ।
उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते
प्रदक्षिणां ततः कृत्वा साष्टाङ्गं प्रणता ऽब्रवीत् ।
कन्दमूलफलैर् दिव्यैर् अद्याहं तर्पयामि वः
विप्रा ऊचुः:
तपसा तु विचित्रेण तव सत्येन सुव्रते ।
तृप्ता वै सर्वकामैस् तु तपस्विन्याश् च दर्शनात्
अस्माकं कौतुकं जातं किम् अर्थं तप्यते त्वया ।
स्वर्गमोक्षं तु रक्षार्थं तपस् तप्यसि दुष्करम्
अनसूयोवाच:
तपसा सिध्यते स्वर्गस् तपसा परमा गतिः ।
तपसा चैव भो विप्राः सर्वकामम् अवाप्नुयात्
ब्राह्मणा ऊचुः:
तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।
हंसलीलागतिस् त्वं हि किं चात्मानं विशोषसि
अनसूयोवाच:
युवत्वे च तपः कार्यं युवत्वे परमा गति ।
युवत्वे च सुतोत्पत्तिर् वृद्धत्वे सर्वम् अप्रियम्
विप्रा ऊचुः:
साधु साधु महाप्राज्ञे वरं प्रार्थय सुव्रते ।
यत् त्वया चाभिलषितं तत्सर्वं प्रददाम्य् अहम्
अहं विष्णुर् अहं रुद्रो ह्य् अहं साक्षात् पितामहः ।
गूढरूपधरा लोके स्वचिह्नैर् उपलक्षिताः
तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।
स्वैः स्वै रूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः
चतुर्भुजो वासुदेवः शङ्खचक्रगदाधरः ।
अतसीपुष्पवर्णस् तु पीतवासा जनार्दनः
गरुत्मान् वाहनं यस्य श्रिया च सहितो हरिः ।
प्रसन्नवदनः श्रीमाञ् छिवरूपो व्यवस्थितः
सितवासा महाभागश् चतुर्वदनसंयुतः ।
हंसोपरिसमारूढो ह्य् अक्षमालाकरो ऽनघ
आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।
वृषभं तु समारूढो दशबाहुसमन्वितः
भस्मोद्धूलितगात्रस् तु पञ्चवक्त्रस्त्रिलोचनः ।
जटामुकुटसंयुक्तश् चन्द्रार्धकृतशेखरः
एतद्रूपधरो देवः सर्वव्यापी महेश्वरः ।
अनसूया तु तत्रैव देवानां दर्शनात् परम्
वेपमाना रहस्ये तु तान् पश्यन्ती मुहुर् मुहुः ।
अहं ब्रह्मा ह्य् अहं विष्णुर् अहं रुद्रः प्रकीर्तितः
आनन्दिता तु सा देवी दृष्ट्वैतान् महाव्रत ।
अनसूयोवाच:
किं व्यापाराश् च के यूयं विष्णुरुद्रपितामहाः
तद् अहं श्रोतुम् इच्छामीमं प्रश्नं कथयन्तु ते ।
ब्रह्मोवाच:
प्रावृट्कालो ह्य् अहं प्रोक्त आपश् चैव प्रकीर्तितः
मेघरूपो ह्य् अहं प्रोक्तो वर्षामि वसुधातले ।
अहं सर्वाणि भूतानि प्राक्सन्ध्या ह्युदिते रवौ
एतस्मात् कारणाद् भावरहस्यं कथितं मया ।
विष्णुर् उवाच:
हेमन्तत्वाच् च विहितं विष्णुरूपं चराचरम्
पालनीयं जगत् सर्वं विष्णोर् माहात्म्यम् उत्तमम् ।
रुद्र उवाच:
ग्रीष्मकालो ह्य् अहं प्रोक्तः सर्वभूतक्षयंकरः
शोषयामि जगत्सर्वं रुद्ररूपस् तपस्विनि ।
एवं ब्रह्मा च विष्णुश् च रुद्रश् चैव महीपते
तिस्रः सन्ध्यास् त्रयो देवास् त्रयः कालास् त्रयो ऽग्नयः ।
तथा ब्रह्मा च विष्णुश् च रुद्रश् चैकत्वम् आगताः
वरं ददामि ते भद्रे यत् ते मनसि वर्तते ।
अनसूयोवाच:
वन्ध्या लोकैर् अहं लोके ख्याप्यमाना च सर्वदा
ब्रह्मा विष्णुश् च रुद्रश् च प्रसादात् सुमुखा यतः ।
परितुष्टास् त्रयो देवा दुर्धर्षा ऽपि ममोपरि
अस्मिंस् तीर्थे तु सान्निध्यं वरं ददतु मे ऽधुना ।
देवा ऊचुः:
एवं भवतु ते वाक्यं यत् त्वया प्रार्थितं शुभे
प्रत्यक्षा वैष्णवी माया एरण्डी चैव नामतः ।
अनसूयोवाच:
यदि तुष्टास् त्रयो देवा मम भक्तिप्रबोधिताः
मम पुत्रा भवन्त्व् अत्र हरिरुद्रपितामहाः ।
विष्णुर् उवाच:
अर्थदाः पुत्रतां यान्ति न कदाचिच् छ्रुतं मया
भद्रे ददामि तान् पुत्रान् देवतुल्यपराक्रमान् ।
पितृतुल्यगुणोपेतान् सोमयाजि बहुश्रुतान्
अनसूयोवाच:
ईप्सितं तु प्रदातव्यं यन् मया प्रार्थितं हरे ।
नान्यथा तच् च कर्तव्यं निवसन्तु ममोदरे
श्रीभगवान् उवाच:
पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।
तस्याहं चैव पारं तु न च पश्यामि शोभने
स्मरमाणः पुरावृत्तं चिन्तयामि पुनः पुनः ।
एवं संचिन्त्यमानौ हि पितामहमहेश्वरौ
अयोनिजा भविष्यामस्तव पुत्राः सुशोभने ।
योनिवासं च वै देवा नैव यान्ति वरानने
इत्य् उक्त्वा च तया सार्धं प्रत्यक्षास्ते ऽभवंस् तदा ।
त्रयो देवा गताः पार्थ नर्मदायोत्तरे तटे
प्राप्ता वरं तु सा देवी प्रियं माहेन्द्रपर्वते ।
क्षीणदेहा च सा नारी शुष्कदेहा सुदारुणा
कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ।
शिलातले निषण्णा सा ऽपश्यत् कान्ता महाव्रतम्
हृष्टा तुष्टा महादेवी तिष्ठ कान्तेति चाब्रवीत् ।
तां दृष्ट्वा स मुनिर् धीमान् पुनः कान्ताम् उवाच ह
अत्रिर् उवाच:
साधु साधु महाप्राज्ञे अनसूये महाव्रते ।
असाध्यं सर्वनारीणां वरं प्राप्तासि दुर्लभम्
अनसूयोवाच:
त्वत्प्रसादान् महर्षे ऽहं वरं प्राप्ता च दुर्लभम् ।
तेनाहं ते प्रयच्छामि पुत्रान् ऋषितपोधनान्
एवम् उक्त्वा ततो देवी हर्षेण महता युता ।
अलोकयत् तदा कान्तं तेनापि शुभदर्शना
दर्शनाद् एव संजातं ललाटे मण्डलं शुभम् ।
नवयोजनसाहस्ररश्मि जालसमावृतम्
कदम्बगोलकाकारं त्रिगणं परिमण्डलम् ।
तस्य मध्ये तु देवेशः पुरुषो दिव्यरूपधृक्
हेमवर्णः स वै देवः सूर्यकोटिसमप्रभः ।
पूर्वपुत्रो ऽनसूयायाः साक्षाद् देवः पितामहः
चन्द्रमा इति विख्यातः सोमः पुत्रो नृपात्मज ।
इष्टः पुत्रो वरीयांस् तु कलाषोडशसंयुतः
प्रतिपच् च द्वितीया च तृतीया च तथा नृप ।
चतुर्थी पञ्चमी षष्ठी सप्तमी चाष्टमी तथा
नवमी दशमी चैव तथा चैकादशी परा ।
द्वादशी च त्रयोदशी चतुर्दशी ततः परम्
ततः पञ्चदशी देवी पूर्णमासी प्रकीर्तिता ।
अमावास्या तु विख्याता अथ सा षोडशी कला
चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।
आप्यायते जगत् सर्वं सोमो ऽयं सचराचरम्
सुरासुराश् च गन्धर्वा राक्षसाः पन्नगास् तथा ।
पिशाचाश् च तथादित्याः पितरश् च पितामहः
सर्वे तम् उपजीवन्ति हुतं द्रव्यं तु तत्स्थितम् ।
वनस्पतिगते सोमे यच्छिन्द्याच् च वनस्पतिम्
भुङ्क्ते दुःखं च वै मूढो दहत्य् अब्दकृतं शुभम् ।
वनस्पतिगते सोमे यो भक्षेद् दन्तधावनम्
चन्द्रमा भक्षितस् तेन पितृवंशस् तु घातितः ।
अमावास्यां तु राजेन्द्र स्नानं कुर्याद् यथाविधि
अब्दम् एकं विशालाक्षि पितॄणां परमा गतिः ।
हिरण्यं रजतं वस्त्रं यो ददति द्विजातिषु
सर्वं लक्षगुणं राजंल् लभते नात्र संशयः ।
एतद् गुणविशिष्टो ऽसौ सोमरूपः प्रजापतिः
संजातः प्रथमः पुत्रो ऽनसूयायास् तु नन्दनः ।
द्वितीयस् तु महाभाग दुर्वासा नाम नामतः
सृष्टिसंहारकर्ता च स्वयं साक्षान् महेश्वरः ।
इन्द्रो ऽपि शापितस् तेन द्वितीयेन वरानने
द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ।
दत्तात्रेयस् तु नाम्ना वै तृतीयो मधुसूदनः
जगद्व्यापी जगन्नाथः स्वयं देवो जनार्दनः ।
अवतीर्णो महाभागब्रह्मशम्भुसमन्वितः
पुत्रप्राप्तिपदं तीर्थं नर्मदायोत्तरे तटे ।
अनसूयाकृतं पार्थ सर्वपापक्षयं करम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0