स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 112
इति श्रीस्कन्दपुराणे रेवाखण्डे मार्कण्डेश्वरमहिमानुवर्णनो नामैकादशाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 112
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र तीर्थं परमशोभनम् ।
उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः
संकर्षणं च विख्यातं पृथिव्यां पापनाशनम् ।
तपश्चीर्णं पुरा राजन् नर्मदायास् तटे शुभे
बलभद्रेण राजेन्द्र प्राणिनाम् उपकारकम् ।
गीर्वाणैश् चैव तत्रैव सन्निधौ नृपनन्दन
उमया सहितः शम्भुः स्थितस् तत्रैव केशवः ।
यस् तत्र स्नापयेद् भक्त्या जितक्रोधो जितेन्द्रियः
एकादश्यां सिते पक्षे मन्त्रेण स्नापयेच् छिवम् ।
श्राद्धं तत्र च यो भक्त्या प्रेतानां वै प्रदापयेत्
स याति परमं स्थानं बलभद्रवचो यथा ।
ततो गच्छेच् च राजेन्द्र मन्मथेश्वरम् उत्तमम्
स्नानमात्रो नरो राजन् यमलोकं न पश्यति ।
अनपत्या तु या नारी स्नापयेत् पाण्डुनन्दन
पुत्रं सा लभते पार्थ सत्यवन्तं दृढव्रतम् ।
तत्र स्नात्वा नरो राजन् मुनिः प्रयतमानसः
उपोष्य परया भक्त्या गोसहस्रफलं लभेत् ।
तत्र नृत्यं प्रकुर्वन्ति ये नरा भक्तिमानसाः
गीतवादित्रसंयुक्तं रात्रौ जागरणं शुभम् ।
सहाम्बिको महादेवस् तुष्टो वै मन्मथेश्वरः
किं करिष्यति संरुष्टो यमस् तं न च पश्यति ।
कामेन स्थापितं तत्र एतस्मात् कारणात् नृप
अन्नदानेन भो राजन् कीर्तितं फलम् उत्तमम् ।
सोपानं स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः
विशेषात् तत्र संख्यातं श्राद्धदानेन भारत ।
अन्नदानेन भो राजन् कीर्तितं फलम् उत्तमम्
एतत् ते सर्वम् आख्यातं तव भक्त्या तु भारत
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0