भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 111

111.1

इति श्रीस्कन्दपुराणे प्रभासतीर्थमहिमानुवर्णनो नाम दशाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 111
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र नर्मदादक्षिणे तटे ।
स्थापितं वासुकेर् नाम्ना अशेषाघौघनाशनम्

111.2

युधिष्ठिर उवाच:
आः कस्मात् कारणात् तात स्थापितं दक्षिणे तटे ।
तत्त्वं सर्वं ममाख्याहि त्व् अशेषं धर्मकारणम्

111.3

मार्कण्डेय उवाच:
शृणु त्वं कुरुशार्दूल यः प्रश्नः क्रियते त्वया ।
भैरवं रूपमास्थाय नृत्यं शम्भुश् चकार ह

111.4

तच् छ्रमाज् जायते स्वेदो गङ्गातोयविमिश्रितः ।
तत्रैव पन्नगः स्नातो हरतोयविमिश्रिते

111.5

मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।
अजगरत्वमाप्नोषि उरगं चाब्रवीत् तदा

111.6

वासुकिर् उवाच:
अनुग्राह्यो ऽस्म्य् अहं पापो भवत्या हरसम्भृते ।
त्रैलोक्यपावनी पुण्या सरित् त्वं शुभलक्षणे

111.7

संसारच्छेदनकरी आर्ता नामार्तिनाशिनी ।
स्वर्गद्वारस्थिते देवि दयां कुरु ममोपरि

111.8

गङ्गोवाच:
चर त्वं विपुलं नाग तपो वै शङ्करं प्रति ।
ततस् तपश् चचारासाव् ईश्वराराधनं परम्

111.9

ततश् च ध्यायतो देवं दमयुक्तो ऽभवत् स च ।
ततो वर्षशते पूर्णे उपरुद्धो जगद्गुरुः

111.10

आगत्य तत्समीपस्थः श्लक्ष्णां वाणीम् उदाहरत् ।
वरं वरयतु श्रेष्ठं पन्नग त्वं महाबल

111.11

पन्नग उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुं त्रिशूलभृत् ।
तदा मे दीयतां स्थानं स्वकीयं वृषवाहन

111.12

ईश्वर उवाच:
प्रसन्नो ऽहं महाबाहो रेवां गच्छ शुभां त्वरम् ।
याम्ये चैव तटे पुण्ये स्नानं कृत्वा विधानतः

111.13

इत्युक्त्वा ऽन्तर्दधे देवो वासुकिस् त्वरितान्वितः ।
रूपेणाजगरेणाथ विवेश नर्मदाजले

111.14

मार्गेण तस्य तज् जातं जाह्नव्याः स्रोत उत्तमम् ।
निर्धूतकल्मषः सर्पः स जातो नर्मदाजले

111.15

स्थापितश् चेश्वरस् तत्र नर्मदाया युधिष्ठिर ।
तेन नागेश्वरो भूम्यां सर्वपापविनाशनः

111.16

अष्टम्यां च चतुर्दश्यां मधुना स्नापयेच् छिवम् ।
विमुक्तः सर्वपापेभ्यो जायते ह्य् अनलो यथा

111.17

अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति संगमे ।
ते लभन्ते शुभान् पुत्रान् कार्तवीर्योपमान् अपि

111.18

श्राद्धं तत्रैव ये भक्त्या उपवासपरायणाः ।
कुर्वन्ति तारयन्ति स्वान् नरकान् नृपनन्दन

111.19

एवम् आख्यातवान् अस्मि तव स्नेहाद् विशेषतः ।
मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र मार्कण्डेश्वरम् उत्तमम्

111.20

नर्मदादक्षिणे कूले गीर्वाणैर् वन्दितं शुभम् ।
गुह्याद् गुह्यतरं तीर्थं नाख्यातं कस्यचिन् मया

111.21

स्थापितं च मया पुण्यं स्वर्गभोगं च मुक्तिदम् ।
ज्ञानं तत्रैव मे जातं प्रसादाच् छङ्करस्य च

111.22

अन्यसूक्तं च यो ध्यायेद् द्रुपदं च जले जपेत् ।
सो ऽपि घोराद् अघौघाच् च मुच्यते पाण्डुनन्दन

111.23

वाचिकैर् मानसैश् चापि कर्मजैर् अपि पाण्डव ।
पञ्चेन्द्रियाण्यवष्टभ्य याम्यामाशां च संस्थितः

111.24

यो जपेत् सलिले भक्त्या इत्येवं शङ्करो ऽब्रवीत् ।
श्राद्धं तत्रैव यो भक्त्या कुरुते नृपनन्दन

111.25

पितरस् तस्य वै तृप्ता यावदाहूतसम्प्लवम् ।
आमलैर् बदरैर् बिल्वैर् अक्षतैर् वा जलेन वा

111.26

तर्पयेत् तत्र यः प्रेतान् प्रेता यान्ति शुभां गतिम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc