भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 110

110.1

इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरव्यासतीर्थवर्णनो नाम नवाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 110
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र प्रभासेश्वरम् उत्तमम् ।
विख्यातां त्रिषु लोकेषु स्वर्गसोपानम् उत्तमम्

110.2

युधिष्ठिर उवाच:
प्रभासं नाम तीर्थं तु यथाजातं महाफलम् ।
स्वर्गसोपानमार्गं च संक्षेपात् कथयस्व मे

110.3

मार्कण्डेय उवाच:
दुर्भगा रविपत्नी च प्रभा नामेति विश्रुता ।
तया चाराधितः शम्भुर् उग्रेण तपसा पुरा

110.4

वायुभक्षा स्थिता वर्षं शिवध्यानपरायणा ।
ततस् तुष्टो महादेवः प्रभां तां पाण्डुनन्दन

110.5

उवाच क्लिश्यते कस्माद् बाले त्वं ब्रूहि चेष्टितम् ।
अहं च भास्करोपेतश् चान्तरं नैव विद्यते

110.6

प्रभोवाच:
नान्यो देवस् तथा शम्भो भर्ता पुष्यति न क्वचित् ।
सगुणो वापि चाख्यातो निर्गुणो द्रव्यवर्जितः

110.7

प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्ता हि देवता ।
दुर्भगा त्वेन दग्धाहं लोकमध्ये महेश्वर

110.8

अलब्धसौख्या भर्तुश् च तेन क्लिश्ये महेश्वर ।
देव उवाच:
वल्लभा भास्करस्य त्वं मत्प्रभावाद् भविष्यसि

110.9

पार्वत्य् उवाच:
वल्लभा तव वाक्येन भास्करे न भविष्यति ।
वृथा क्लेशो भवेद् एव प्रभायास् तत्र का कथा

110.10

देवीवाक्येन रुद्रेण ध्यातस् तिमिरनाशनः ।
आगतो गगनाद् भानुर् नर्मदायोत्तरे तटे

110.11

भानुर् उवाच:
कस्माद् आह्वानितो देव अन्धकासुरनाशन ।
देव उवाच:
प्रभां पालय हे भानो सन्तोषेण परेण च

110.12

प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन ।
एवं लब्धवरा देवात् प्रभा स्थाप्याह शङ्करम्

110.13

स्वांशेन स्थीयताम् अत्र तीर्थमुन्मीलयानघ ।
मार्कण्डेय उवाच:
सर्वदेवम् अयं लिङ्गं स्थापितं पाण्डुनन्दन

110.14

प्रभासेश्वरनामेदं सर्वलोके च दुर्लभम् ।
अन्यानि यानि तीर्थानि काले ते ऽपि फलन्ति वै

110.15

प्रभासंचापि राजेन्द्र सद्यः पुण्यफलप्रदम् ।
माघमासे च सप्तम्यां विशेषफलदं भवेत्

110.16

अश्वं यो दापयेत् तत्र यथोक्तं ब्राह्मणे नृप ।
इन्द्रस्य प्राप्यते लोकम् अथवा भास्करं व्रजेत्

110.17

दौर्भाग्यं नश्यते तत्र स्नानमात्रेण पाण्डव ।
तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति

110.18

ब्राह्मणाय विवाहार्थे दापेयत् पाण्डुनन्दन ।
समानवयसे विप्रे कुलीने धनिने तथा

110.19

यो ददाति महाराज महापातकसंयुतः ।
तस्य पापं च नश्येत उदके लवणं यथा

110.20

स्वामिद्रोहोद्भवं पापं यत्पापं स्तेयसम्भवम् ।
कूटसाक्ष्यप्रदं पापं चाण्डालव्रतचारिणाम्

110.21

दाम्भिकं वृक्षकच्छेदम् अगम्यागमनोद्भवम् ।
ग्रामकूटोद्भवं यच् च गरदं वा प्रवारकम्

110.22

विद्याविक्रयणे यच् च संसर्गोद्भवपातकम् ।
पत्नीद्रोहोद्भवं घोरं सर्वद्रोहोद्भवं नृप

110.23

ब्रह्महत्या च यत्पापं यत्पापं भूमिहारिणः ।
गोवधे चैव यत्पापं गुर्वग्निब्राह्मणेषु च

110.24

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश् च भवेन् नृप ।
कुशक्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः

110.25

तत्पापं विलयं याति कन्यादानेन पाण्डव ।
भित्त्वाथ भास्करं लोकं शुभं व्रजेत्

110.26

क्रीडते रुद्रलोकस्थो यावद् इन्द्राश् चतुर्दश ।
सर्वपापक्षये जाते शिवो भवति भावतः

110.27

तावद् भ्रमति तत्तीर्थं प्रभासं पाण्डुनन्दन ।
सो ऽश्वमेधफलं प्राप्य सत्यम् ईश्वरभाषितम्

110.28

गोदानं च महत्पुण्यं सर्वपापक्षयंकरम् ।
प्रत्यक्षं सुरभीं तत्र जलधेनुं तथादृतः

110.29

तिलधेनुप्रदाता च अश्वदाता तथैव च ।
कन्याविद्याप्रदाता च अक्षयं लोकम् आप्नुयात्

110.30

भूरिवस्त्रां क्षीरयुक्तां धान्योपस्करसंयुताम् ।
दापयेत् सर्वकामो ऽथ सुरभीं नृपसत्तम

110.31

सप्तसागरपर्यन्ता वेष्टिता तेन भारत ।
द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गं जितेन्द्रियैः

110.32

सर्वकालं तु कर्तव्यं चतुर्दश्यां विशेषतः

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc