स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 109
इति श्रीस्कन्दपुराणे रेवाखण्डे यमहासमहिमानुवर्णनो नामाष्टाधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 109
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र कोटीश्वरम् अनुत्तमम् ।
ऋषिकोटिः समायाता तत्र वै कुरुनन्दन
कृष्णद्वैपायनस् तत्र मोक्षार्थं मुनिपुङ्गवः ।
मन्त्रयित्वा द्विजैः सर्वैर् वेदमण्डलपारगैः
पञ्चामृतेन गव्येन तिलमिश्रेण तत्पर ।
पितृणां तर्पणं कृत्वा पिण्डदानं यथाविधि
श्रावणस्य तु मासस्य पूर्णिमायां विशेषतः ।
प्राप्यते चाक्षया तृप्तिर् यावद् आहूतसम्प्लवम्
पितॄणां परमं गुह्यं रेवाजलम् उपाश्रितम् ।
मोक्षदं सर्वभूतानां निर्मितं मुनिपुङ्गवैः
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र व्यासतीर्थम् अनुत्तमम् ।
दुर्लभं मनुजैः पार्थ अन्तरिक्षे व्यवस्थितम्
युधिष्ठिर उवाच:
कस्माद् वै व्यासतीर्थं तु अन्तरिक्षे व्यवस्थितम् ।
एतद् आचक्ष्व संक्षेपान् न च ग्रन्थस्य विस्तरः
मार्कण्डेय उवाच:
साधु साधु महाबाहो धर्मवान् गुरुवत्सलः ।
स्वधर्मनिरतः पार्थ तीर्थयात्राकृतादरः
दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर ।
धर्षितो वृद्धभावेन वैकल्येन नराधिप
गतचेतास् तु सञ्जातस् तथा भोः पाण्डुनन्दन ।
गुह्याद् गुह्यतरं तीर्थं नाख्यातं कस्यचिन् मया
कालस् तत्रैव राजेन्द्र न वसेद् वासवाज्ञया ।
अन्तरिक्षे च संजातं रेवायाश् चेष्टितं यतः
विरञ्चिर् नैव शक्नोति रेवाया गुणकीर्तनम् ।
व्यासतीर्थं विशेषेण श्रुतमात्रं वदाम्य् अहम्
प्रत्यक्षः प्रत्ययो यत्र दृश्यते हि कलौ युगे ।
विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम्
तस्योत्पत्तिं समासेन कथयामि नृपात्मज ।
आसीत् पूर्वं महाराज ऋषिश् चैव पराशरः
तेन चोग्रं तपस् तप्तं गङ्गाम्भसि तु भारत ।
प्राणायामेन चातिष्ठत् प्रविष्टो जाह्नवीजले
पूर्णे च द्वादशे वर्षे निष्क्रान्तो जलमध्यतः ।
भिक्षार्थे चागतो ग्रामं नावि तत्रैव तिष्ठती
तत्र दृष्टा परोत्सृष्टा बाला तेन मनोरमा ।
तां च दृष्ट्वा स कामार्त उवाच मधुराक्षरम्
मां रमस्वाद्य त्वं कासि कामुकं मृगलोचने ।
नावारूढे नदीतीरे मम चित्तप्रमाथिनी
एवमुक्ता तु सा तेन प्रणम्य ऋषिसत्तमम् ।
नावं रक्षाम्य् अहं विप्र जानामि स्वामिनं न तु
ममेदं च वयो ब्रह्मञ्च् छेषं त्वं ज्ञातुम् अर्हसि ।
एवमुक्तस् तया सो ऽपि क्षणं ध्यात्वाब्रवीद् इदम्
अहं ज्ञानबलाद् भद्रे जानामि तव सम्भवम् ।
कैवर्तपुत्रिका न त्वं राजपुत्री हि सुन्दरी
कन्योवाच:
कः पिता कथ्यतां ब्रह्मन् कस्याहमुदरोद्भवा ।
कस्मिन् वंशे प्रजाताहं कैवर्ततनया कथम्
पराशर उवाच:
कथयामि च ते तातं यं त्वं मां परिपृच्छसि ।
वसु नामा च राजाभूत् सोमवंशे प्रतापवान्
जम्बूद्वीपाधिपो भद्रे शत्रुसंत्रासनस् तथा ।
शतानि सप्त भार्याणां पुत्राणां तु दशैव हि
धर्मेण पालिता लोकाः शिवपूजारतः सदा ।
म्लेच्छास् तस्य विरोधेन शाकद्वीपनिवासिनः
तेषां च साधनार्थाय गतोल्लङ्घ्य महोदधिम् ।
संयुक्तः पुत्रभृत्यैश् च पौरुषे महति स्थितः
सग्रामस् तैः समारब्धश्चार्वङ्गि वसुना सह ।
जिता म्लेच्छाः समस्ताश् च वसुना ह्यवनीभृता
करदास् ते कृतास् तेन सभृत्यबलवाहनाः ।
प्रधाना तस्य महिषी तव माता मृगेक्षणा
प्रवासस्थे च भूपाले संजाता च रजस्वला ।
नारीणां तु सदा काले मन्मथो ह्य् अधिको भवेत्
विशेषेण ऋतौ काले भिद्यते कामसायकैः ।
मन्मथेन तु संतप्ताचिन्तयत् सा शुभेक्षणा
दूतं सम्प्रेषयाम्यद्य वसुराजसमीपतः ।
व्याहृतः सत्वरो दूतो गच्छ त्वं नृपसन्निधौ
दूत उवाच:
परराज्ये वसुर्देवि गतो राजा द्विडन्तकृत् ।
तत्र गन्तुं न शक्येत जलयन्त्रैर् विना शुभे
जलयानानि सर्वाणि नेयानि च परे तटे ।
तस्य वाक्येन सा नारी विषण्णा मदपीडिता
राज्ञीं दृष्ट्वा सखी ब्रूते कस्मात् त्वं परिखिद्यसे ।
लेखो ऽयं प्रेष्यतां देवि शुकहस्ते यथा तथा
समुद्रं लङ्घयित्वा तु शकुन्तो याति सुन्दरि ।
व्याहृतो लेखकस् तत्र लिख लेखं ऽममाज्ञया
त्वां विना पट्टराज्ञी सा वसुराज न जीवति ।
ऋतुकालश् च सम्प्राप्तः समस्तं चावधार्यताम्
लिखितो भूर्जपत्रे च वृत्तः स लेखकेन तु ।
शूकः पञ्जरमध्यस्थ आनीतस् तत्र सन्निधौ
राज्ञी उवाच तं तत्र गृह्यलेखं शुक व्रज ।
गतः पक्षी ततः शीघ्रं वसुराजसमीपतः
क्षिप्तो लेखः शुकेनैव सत्यभामा विसर्जितः ।
लेखार्थं चिन्तयामास वीर्यं गृह्य नरेश्वरः
अमोघपुटिकां कृत्वा प्रतिलोकेन विश्रुतः ।
शूकस्य चार्पयामास गच्छ राज्ञी समीपतः
वसुराजं प्रणम्याथ बीजं गृह्य पपात ह ।
समुद्रोपरि संप्राप्तः शुको याति यथेच्छया
सामिषं च शुकं ज्ञात्वा श्येनस् तत्रापि धावितः ।
हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत
मूर्छापन्नस्य तद्वीर्य पतितं जलमध्यतः ।
मत्स्येन गिलितं तत्र तद्वीर्यं पार्थिवस्य च
दाशैर्मत्स्यो गहीतश् च आनीतः स्वगृहं प्रति ।
यावत् तं पाटयामासूर्यमलं ददृशे तदा
शशिमण्डलसङ्काशं सूर्यतेजः समप्रभम् ।
दृष्ट्वा ते धर्षिताः सर्वे कैवर्ता जाह्नवीतटे
हर्षितास् ते गताः सर्वे प्रधानस्य च मन्दिरम् ।
पुत्रं राज्ञे प्रदायैव पुत्रीं च प्रत्यपालयत्
तत् त्वं देवि वरारोहे कैवर्तकन्यका नहि ।
ततः सा चिन्तयामास पराशरवचस् तदा
एवमुक्ता तु सा तेन दत्त्वात्मानं नरेश्वर ।
उवाच साध्वी भो ब्रह्मन् मत्स्यगन्धो निवर्त्यताम्
ततस् तेन तु सा बाला दिव्यगन्धाभिवासिता ।
कृता योगबलेनैव ज्वालयित्वा विभावसुम्
कृत्वा प्रदक्षिणं वह्नेर् उद्धृता तेन सा तदा ।
ज्वलमानस्य मध्ये तु कामस्थानानि सो ऽस्पृशत्
ज्ञात्वा कामोत्सुकं विप्रं भीता सा नृपनन्दन ।
उवाच सहसा बाला दिवा च लोकसन्निधौ
ततस् तेन क्षणं ध्याता पूरयन्ती दिगम्बरम् ।
आगता तामसी तात यया व्याप्तं समन्ततः
ततः सविस्मयं तेन रहोबाला मृगेक्षणा ।
कामेनैव हि तप्तेन स्त्रीसौख्यं क्रीडता तदा
ततस् तेन मुहूर्तेनापत्यभारेण पीडिता ।
बालकं तत्र जटिलं सुभगं दण्डधारकम्
कमण्डलुधरं शान्तं मेखलाकटिभूषणम् ।
धृतोपवीतकं स्कन्धे विष्णुमायाविवार्जितम्
माता हि शङ्किता तत्र दृष्ट्वा पुत्रस्य चापलम् ।
वेपमाना ततो बाला गता सा शरणं मुनेः
रक्ष रक्ष मुनिश्रेष्ठ पराशर महामुने ।
जातमत्य् अद्भुतं विप्रं कौपीनाम्बरमेखलम्
दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् ।
पराशर उवाच:
मा भैषीस्त्वं सुतो जातः कन्यैव त्वं भविष्यसि
नाम्ना सत्यवती चेति द्वितीया गन्धयोजना ।
शन्तनुर् नाम राजा वै स ते भर्ता भविष्यति
प्रथमा महिषी तस्य सोमवंशविभूषणा ।
गच्छ त्वं स्वाश्रमं भद्रे पूर्वरूपेण संस्थिता
मा वैकल्यं कुरुष्वेदं दृष्टं ज्ञानस्य मे बलम् ।
इत्य् उक्त्वा प्रययौ विप्रः सा बाला स्थलमाश्रिता
नत्वा पुत्रं पराभक्त्या साष्टाङ्गं प्रणयेन च ।
तं प्रयान्तमथालोक्य सत्यवत्य् अब्रवीत् सुतम्
कामो देयस् त्वयाभीष्टः स्नेहो वै यदि मातरि ।
किमप्य् उपादिश त्वं मां येन सिद्धिम् अवाप्नुयाम्
व्यास उवाच:
ईश्वराराधने यत्नं कुरुष्व त्वं सदाम्बिके ।
ततः सा पुत्रवाक्येन विषण्णा पाण्डुनन्दन
योजनगन्धोवाच:
त्वद् वियोगाद् अहं पुत्र पञ्चत्वं यामि नान्यथा ।
नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं बलम्
पुत्र उवाच:
मा विषादं कुरुं त्वं हि सत्यं वै पितृभाषितम् ।
आपत्काले त्वयाहं वै स्मर्तव्यः कार्यसिद्धये
आपदस्तारयिष्यामि क्षम्यतां मातरात्मजे ।
इत्युक्त्वा तु ययौ व्यासः कन्या सा ऽपि पितुर्गृहम्
पराशरसुतस् तत्र निषण्णो वनमध्यतः ।
त्रेतायुगावसाने तु द्वापरादौ नरेश्वर
व्यासो विरञ्चये जात आख्यातो नारदेन च ।
ऋषिर् महानुभावस् तु पुत्रः पाराशरस्य च
कैवर्तकन्यकाजातो जानीहि जाह्नवी तटे ।
वाक्योक्त्या नारदस्यैव आगताः सुरसत्तमाः
भानुः पितामहः शक्र ऋषिसङ्घैः समावृतः ।
आशीर्वादं पृथग् दत्त्वा साधु साध्विति भाषितः
पितामहेन बालो ऽसौ जातमकर्मादि संस्कृतः ।
द्वैपायनो द्वीपजन्मा पाराशर्यः पराशरात्
कृष्णगात्रात् कृष्णनामा हव्यादातुर् विशिष्यति ।
विरञ्चिनाभिषिक्तो ऽसौ ऋषिसङ्घैः पुनः पुनः
व्यासस् त्वं सर्वलोकानाम् इत्य् उक्त्वा प्रययुः पुनः ।
तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु
गङ्गावगाहिता तेन केदारं पुष्करं तथा ।
गया च नैमिषं तीर्थं कुरुक्षेत्रे सरस्वती
उज्जयिन्यां महाकालं सोमनाथं ययौ ततः ।
पृथिव्यां सागरान्तायां स्नातो व्यासो महामुनिः
अटन् वै नर्मदां प्राप्तो रुद्रदेहोद्भवां नदीम् ।
साह्लादं नर्मदां दृष्ट्वा चित्तं विश्राम्यपार्थिव
तपश् चचार विपुलं नर्मदातटम् आश्रितः ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः
सार्द्रवासास् तु हेमन्ते ध्यायमानो महेश्वरम् ।
सृष्टिसंहारकर्तारम् अच्छेद्यं च सदाशिवम्
नित्यं सिद्धेश्वरं लिङ्गं पूजयन् पाण्डुनन्दन ।
अर्चनात् सिद्धलिङ्गस्य ध्यानयोगप्रभावतः
प्रत्यक्ष ईश्वरो जातः कृष्णद्वैपायनस्य तु ।
तोषितो ऽहं त्वया विप्र वरं प्रार्थय शोभनम्
व्यास उवाच:
यदि तुष्टो ऽसि मे देव यदि देयो वरो मम ।
प्रत्यक्षो नर्मदातीरे स्वयं भवाद्य मे विभो
अतीतानागतज्ञानं त्वत्प्रसादान् महेश्वर ।
ईश्वर उवाच:
एवं भवतु ते विप्र मत्पसादात् न संशयः
त्वया भक्तिगृहीतो ऽहं प्रत्यक्षो नर्मदातटे ।
इत्युक्त्वा प्रययौ देवः कैलासं नगम् उत्तमम्
पत्नीसंग्रहणं जातं पुत्रो जातो यदास्य च ।
देवैर् अध्यासितः सर्वैः सेन्द्रब्रह्मपुरोगमैः
पुत्रजन्मततोज्ञात्वा आगता ऋषिसत्तमाः ।
तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनो ऽङ्गिराः ।
यम् आपस्तम्बसंवर्ता कात्यायनबृहस्पती
एवम् आदि सहस्राणि लक्षकोटिर् अनेकधा ।
व्यासाश्रमे शुभे पुण्ये प्राप्ताः सर्वे द्विजोत्तमाः
दृष्ट्वा व्यासस् तु विप्रेन्द्रानभ्युत्थाय कृतोद्यमः ।
पितृपूर्वं प्रणम्यादौ तेषां वार्तां प्रदापयन्
कृताञ्जलिपुटो भूत्वा इदं वाक्यम् उवाच ह ।
उद्धृतं तु ममानन्दं युष्मत् सम्भाषदर्शनात्
आरण्यानि च शाकानि फलान्य् आरण्यकानि च ।
तानि दास्यामि सर्वेषां युष्माकं पितृपूर्वकम्
नियमैः संयुतान् सर्वान् प्रत्येकं प्रणनाम च ।
ततस् तं प्रणतं दृष्ट्वा तत्र द्वैपायनं द्विजम्
वर्धयित्वा जयाशीर्भिस् ततो वीक्ष परस्परम् ।
पराशरः समस्तैश् च वीक्षितो मुनिपुङ्गवैः
उत्तरं दीयतां तात कृष्णद्वैपायनस्य च ।
एवम् उक्तस् तु तैः सर्वैर् भगवांश् च पराशरः
उवाच स्वात्मजं व्यासम् ऋषिभिर् यच् चिकीर्षितम् ।
नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयात् सुत
परं वै भोक्तुकामाश् च तव श्रद्धाविशेषतः ।
व्यास उवाच:
करोमि भवतां युक्तम् अत्रैव स्थीयतां क्षणम्
यावद् आसाद्य सरितं करोमि विधिपूर्वकम् ।
एवम् उक्त्वा शुचिर् भूत्वा नर्मदातटम् आश्रितः
स्तोत्रं जगाद सहसा तं निबोध जनेश्वर
व्यास उवाच:
जय देवि नमो वरदे शिवदे जय पापविमर्दिनि शूलकरे ।
जय भैरवदेहविलीनकरे जय देवि पितामहसन्नमिते
जय भास्करशक्रसदानमिते जय षण्मुखतातसुते वरदे ।
जय देवशरीरसमूहमये जय सागरगामिनि भूमिसुते
जय जय लोकसमस्तकृताभरणे जय दुःखदरिद्रविनाशकरे ।
जय पुत्र कलत्रविवृद्धिकरे जय देवि सुदर्शनपापहरे
एतद् व्यासकृत स्तोत्रं यः पठेच् छिवसन्निधौ ।
गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ।
व्यासस् तस्य भवेत् प्रीतः प्रीतो ऽयं वृषवाहनः
स्तुता च नर्मदादेवी ततो वचनम् अब्रवीत् ।
नर्मदोवाच:
स्तुतिवादेन तुष्टास्मि भो भो व्यासमहामुने
यम् इच्छसि वरं सम्यक् तं ते सर्वं ददाम्य् अहम् ।
व्यास उवाच:
यदि तुष्टासि मे देवि यदि देयो वरो मम
आतिथ्यम् उत्तरे कूले मम दातुं त्वम् अर्हसि ।
नर्मदोवाच:
अयुक्तं चिन्तितं व्यास अमार्गे त्वं प्रवर्तसे
इन्द्रचन्द्रयमाः शक्ता उन्मार्गेण न वाहितुम् ।
अन्यं याचस्व हे वत्स यत्किंचिद् भुवि दुर्लभम्
एव श्रुत्वा वचो देव्या व्यासो मूर्च्छां गतस् तदा ।
वृथा क्लेशश् च संजातः पतितो धरणीतले
धरणी कम्पिता सर्वा सशैलवनकानना ।
मूर्छापन्नं ततो व्यासं ज्ञात्वा देवाः पराशरम्
आयाता देवताः सर्वे हाहाकारं प्रकुर्वतः ।
उत्थापयन्तस् ते व्यासम् ऊचुश्च सरितां वराम्
ब्राह्मणार्थं तु संक्लिष्टा नामहेतोः सरिद्वरे ।
गवार्थे ब्राह्मणार्थे च प्राणान् परित्यजेत्
एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैश् च सुरैर् द्रुतम् ।
विकूलतां वै प्रददौ समन्ताद् रेवाभिषिक्तः स जलेन पूतः
सचेतनः सत्यवती सुतो ऽयं ननाम देवैः सह नर्मदान्तैः ।
व्यास उवाच:
तीर्थं समस्तं त्वयि देवतानां फलं प्रदिष्टं मम मन्दभाग्यम्
नर्मदोवाच:
यतो यतो व्यासमहानुभाव सुमेरुनाम्नो धरणीधरस्य ।
विन्ध्यस्य चान्यस्य च ते हि मार्गं यास्यामि वै धर्मधरस्य धन्या
एवमुक्तो महातेजा व्यासः सत्यवतीयुतः ।
दक्षिणे चालयामास स्वाश्रमान् मुनिपुङ्गवान्
दण्डहस्तो महातेजा हुङ्कारैर् नृपनन्दन ।
व्यासहुङ्कारभीता च चलिता रुद्रनन्दिनी
दण्डेन दर्शयन् मार्गं देवी तत्र प्रवर्तिता ।
व्यासमार्गगतां देवीं दृष्ट्वा चेन्द्रपुरोगमाः
पुष्पवृष्टिं ददुर् व्यासे स्तुतिं कुर्वन्ति किन्नराः ।
प्रफुल्लनयना जाताः पराशरमुखा द्विजाः
किं कुर्मो ऽत्र महिम्ना ते कर्मणा ते वरं जिताः ।
व्यास उवाच:
तपः कृत्वा सुविपुलं दानं दत्त्वा महत्फलम्
एतद् एव नरैः कार्यं साधूनां परितोषणम् ।
सुविभक्ता महाभागा अनुग्राह्यस्य सम्प्रति
तस्मान् ममाश्रमे पुण्ये स्थीयतां नात्र संशयः ।
आतिथ्यं शाकपर्णैश् च उदकेन विमिश्रितैः
प्रतिपन्नं समस्तैश् च पराशरमुखैर् द्विजैः ।
श्रयध्वम् आश्रमं पुण्यं नर्मदायोत्तरे तटे
मार्कण्डेय उवाच:
स्नानतर्पणकृत्यानि कृतानि च द्विजोत्तमैः ।
व्यासकुण्डं ततो गत्वा होमं सम्यगकारयन्
श्रीफलैर् बिल्वपत्रैश् च ध्यानयुक्ताश् च जुह्वति ।
गौतमो भृगुमाण्डव्यौ नारदो लोमशस् तथा
पराशरस् तथा शङ्खः कौशिकश् च्यवनो मुनिः ।
पिप्पलादो वशिष्ठश् च नाशिकेतुर् महातपाः
विश्वामित्रो ह्य् अगस्त्यश् च उद्दालकयमौ तथा ।
शाण्डिल्यो जैमिनिः काव्यो याज्ञवल्क्योशनाङ्गिराः
अत्रिः शातातपश् चैव भरतो मुद्गलस् तथा ।
वात्स्यायनो महातेजाः संवर्तः शक्तिर् एव च
जातूकर्णो भरद्वाजो बालखिल्यादयस् तथा ।
एकचित्ता द्विजा राजन् मन्त्रतन्त्रं प्रकुर्वतः
ततः समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ।
साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम्
आशीर्वादं पुनर् विप्रा दत्त्वा व्यासं तदा ययुः ।
ततः प्रभृति तत्त्वज्ञ तीर्थं ख्यातं तु पाण्डव
स्नानदानविधानं च यस्मिन् काले प्रतिष्ठितम् ।
कथयामि समस्तं ते भ्रातॄणां चैव पाण्डव
कार्त्तिकस्यासिते पक्षे चतुर्दश्यां नृपोत्तम ।
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्
स्नापयेद् ईश्वरं भक्त्या क्षौद्रेण क्षीरसर्पिषा
दध्ना च खण्डयुक्तेन कुशतोयेन वा पुनः ।
श्रीखण्डेन सुगन्धेन पूजयेत महेश्वरम्
ततः सुगन्धपुष्पैश् च बिल्वपत्रैश् च पूजयेत् ।
कुमुदेन च कुन्देन कुशपुष्पाक्षतादिभिः
उन्मत्तपुष्पैश् च रसैः सौम्यैश् चैवाप्य् अनुत्तमैः ।
अर्चयेत् परया भक्त्या द्वीपेश्वरम् अनुत्तमम्
मन्दारादिकपुष्पैश् च पूजयेत् परमेश्वरम् ।
गुडमण्डप्रदानेन पातकं दिवसार्जितम्
मासार्जितं च नश्येत गुडमण्डशतेन च ।
षण्मासं च सहस्रेण अर्काब्दं द्विगुणेन तु
आजन्मजनितं पापम् अयुतेन प्रणश्यति ।
पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः
मन्त्रोक्तेन विधानेन कृत्वा पापक्षयंकरम् ।
वारुणं च तथा ज्ञेयं सर्वपापक्षयं करम्
देवान् पितॄन् मनुष्यांश् च विधिवत् तर्पयेन् नृप ।
ऋचम् एकां जपेत् स्नातः सामवेदफलं लभेत्
यजुर्वेदम् अथर्वाणं गायत्र्या सर्वम् आप्नुयात् ।
जपेद् अष्टाक्षरं मन्त्रं सौरं वा शैवम् एव च
अथवा वैष्णवं मन्त्रं द्वादशाक्षरम् एव च ।
पूजयेद् ब्राह्मणान् भक्त्या सर्वलक्षणलक्षितान्
स्वधर्मनिरतान् विप्रान् दम्भलोभविवर्जितान् ।
हीनाङ्गानधिकाङ्गांश् च पतिताञ् छूद्रसेवितान्
शूद्रान्नेन च संयुक्ता वृषली यस्य मन्दिरे ।
पौनर्भवास् तथा दुष्टा गुरुनिन्दापरायणाः
वेदाध्ययनहीनाश् च हेतुकाः काकवृत्तयः ।
ईदृशान् वर्जयेच् छ्राद्धे दाने चैव व्रते तथा
गायत्री पाठमात्रेण वरं विप्रः सुपण्डितः ।
नायं भृतचतुर्विद्यः सर्वाशीसर्वविक्रयी
ईदृशान् वर्जयेच् छ्राद्धे व्रते दाने हिरण्मये ।
उपानहौ च वस्त्रं च शय्यां वा छत्रमासनम्
यो दद्याद् ब्राह्मणे भक्त्या सो ऽपि स्वर्गे महीयते ।
प्रत्यक्षा सुरभी तत्र तिलधेनुस् तथा मता
तिलधेनुप्रदातारः स्वस्वदातार एव च ।
कृष्णाजिनप्रदातारो दातारः कुञ्जरस्य च
कन्याविद्याप्रदातारो ऽक्षयं लोकम् अवाप्नुयुः ।
धूर्वहौ दक्षिणायुक्तौ धान्योपस्करसंयुतौ
दापयेत् सर्वकामाय इति मे सत्यभाषितम् ।
सूत्रेण वेष्टयेद् ईशम् अथवा जगतीरुहम्
मन्दिरं परया भक्त्या अथवा परमेश्वरम् ।
अथ प्रदक्षिणा कार्या विना शूद्रेण मानवैः
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश् च भवेन् नृप ।
कुशः क्रौञ्चस् तथा शाकः पुष्करश् चेति सप्तमः
सप्तसागरपर्यन्ता वेष्टिता तेन भारत ।
द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गो जितेन्द्रियैः
वृषस्य मोक्षणे नैव ऐश्वरं लोकम् आप्नुयात् ।
यस् तु वै पाण्डुरो वक्त्रे ललाटे चरणे तथा
लाङ्गूले च मुखे शुभ्रः स वै नाकस्य दर्शनः ।
नीलो ऽयमीदृशः प्रोक्तो दद्याद् द्वीपेश्वरे शूभे
पामरास्ते ऽप्य् असंख्याता नाके गच्छन्ति पार्थिव ।
सौरे चण्डेश्वरे लोके पुरे वै चक्रपाणिनः
स भुङ्क्ते स्वेच्छया लोकं व्यासतीर्थप्रभावतः ।
सपत्नीकांस् ततो विप्रान् पूजयेत् तत्र भक्तितः
सितरत्नानि वस्त्राणि प्रदद्यादग्रजन्मने ।
कृत्वा प्रदक्षिणायुग्मं प्रीयतां मे जगद्गुरुः
नास्ति विप्रसमो बन्धुर् इह लोके परत्र च ।
यमलोके महाघोरे पतितं यो ऽभिरक्षति
पुरुषाः परया भक्त्या वेदशास्त्रार्थचिन्तकाः ।
द्वीपेश्वरं महादेवं संस्मरन्ति गृहे स्थिताः
तेषां न जायते शोको न हानिर् न च दुष्कृतम् ।
प्रथमं पूजयेत् तत्र लिङ्गं सिद्धेश्वरं नृप
यत्र सिद्धो महाभागः सत्यवत्याश् च नन्दनः ।
अस्यैवार्चनतः सिद्धः पाराशर्यो मुनिस् ततः
तस्मिंस् तीर्थे तु ये राजन् प्राणत्यागं प्रकुर्वते ।
ते यान्ति परमं लोकं नात्र कार्या विचारणा
समा सहस्राणि मृतो जले हि यो वै निमग्नः पतने च षोडश ।
महाहवे षष्टिरशीतिगोगृहे त्वनाशके भारत चाक्षया गतिः
अथ योगेन तेनैव प्राप्यते चाक्षया गतिः ।
सूर्यलोकं ततो गत्वा शिवलोकं व्रजन्ति ते
पितापितामहश् चैव तथैव प्रपितामहः ।
अनुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम्
तिष्ठते चैव गोत्रेषु यो दद्याच् च तिलोदकम् ।
कार्तिक्यां च तथा माघ्यां वैशाख्यां च विशेषतः
स्वर्गं च ते प्रयान्त्यन्ते स्वस्वपुत्रप्रभावतः ।
एतत् ते कथितं सर्वं द्वीपेश्वरफलं शुभम्
यः पठेत् प्रातर् उत्थाय यः शृणोति नरो नृप ।
सो ऽपि पापैर् विनिर्मुक्तो मोदते शिवमन्दिरे
ईश्वरं सर्वतीर्थानां निर्मितं ऋषिपुङ्गवैः ।
कामदं सर्वजन्तूनां रेवायां च नृपोत्तम
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0