स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 108
इति श्रीस्कन्दपुराणे रेवाखण्डे चन्द्रादित्येश्वरमहिमानुवर्णनो नाम सप्ताधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 108
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र यमहासमनुत्तमम् ।
सर्वपापहरं पार्थ रेवायास्तटम् आश्रितम्
युधिष्ठिर उवाच:
यमहासं कथं जातं पृथिव्यां मुनिपुङ्गव ।
एतत् सर्वं समाख्याहि मम कौतूहलं परम्
मार्कण्डेय उवाच:
साधु साधु महाभाग पृष्टं ते धर्मनन्दन ।
स्नानार्थं नर्मदायां तु आगतस् ते पिता पुरा
रजकेन यथा धौतं निर्मलं वसनं भवेत् ।
तथैव पश्यता राजन् रेवाजलम् अनुत्तमम्
हास्यं कृतं यमेनाथ उत्थितं लिङ्गम् उत्तमम् ।
ततस् तदा हि राजेन्द्र वागुवाचा ऽशरीरिणी
यमहासम् इदं तीर्थं ख्यातिं यास्यति सर्वदा ।
स्नापयित्वा शिवं तत्र यमः स्वर्गं जगाम ह
यमहासे तु राजेन्द्र जितक्रोधो जितेन्द्रियः ।
विशेषादाश्विने मासि कृष्णपक्षे चतुर्दशीम्
उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते ।
रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत्
घृतेन चैव राजेन्द्र शृणु तस्यैव यत्फलम् ।
मुच्यते सर्वपापैस् तु अगम्यागमनोद्भवैः
अभक्ष्यभक्षणैः पापैः पापैर् वा पेयसम्भवैः ।
अवाह्यवाहनेयच् च अद्रोह्य द्रोहणे तथा
स्नानमात्रेण तच् चैव नश्येत् पापमनेकधा ।
यमलोकं न पश्येच् च न त्यजेत् पाण्डुनन्दन
बहूनां परमं गुप्तं तीर्थं भूम्यां नृपात्मज ।
तद् अक्षयफलं तेषां यमहासे प्रदायिनाम्
अमावास्यां जितक्रोधो यस् तु पूजयते द्विजान् ।
भूमिदानेन यो भक्त्या तिलदानेन भारत
कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः ।
वसुभे वृद्धियोगे च ये प्रदास्यन्ति भक्तितः
ओदनं वारि धूर्वाहं हयं चापि महाबलम् ।
कन्यां वस्त्रमजां गां वै महिषीम् अथवाश्विनीम्
ये यच्छन्ति नृपश्रेष्ठ नोपसर्पन्ति ते यमम् ।
यमो ऽपि भवति प्रीतो जन्मजन्म युधिष्ठिर
यमस्य वाहनं स्त्रीं च महिषीं तत्र भारत ।
तस्य दानेन सततं यमः प्रीतो भवेन् नृप
न स याति यमे लोके यदि पापैः समाश्रितः ।
एतस्मात् कारणात् पार्थ महिषीदानं उत्तमम्
और्णवस्त्रद्वयं कार्यं लोहवर्णं च वेष्टितम् ।
दापयेद् धर्मराजाय प्रीयतां मे द्विजोत्तम
अनेनैव तु दानेन यमः प्रीतो ऽस्तु मे सदा ।
इत्युच्चार्य द्विजस्याग्रे यमलोकं भयावहम्
असिपत्रवने घोरे यमवल्ली सुदारुणा ।
रौद्रा वैतरणी चेति कुम्भीपाकः सुदारुणः
कालसूत्रं महाभीमं तथा यमलपर्वतौ ।
क्रकचं तैलयन्त्रं च स्थाने गृध्राः सुदारुणाः
अनिश्वासो महारौद्रो भीषणो रौरवस् तथा ।
एते घोराश् च नरकाः श्रूयन्ते द्विजसत्तम
तत्प्रसादेन ते सौम्यास् तीर्थस्यास्य प्रभावतः ।
दानस्यास्य प्रभावेण यमहासप्रभावतः
यमलोकं न वै याति नरकं नैव पश्यति
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0