भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 107

107.1

इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमाहात्म्यवर्णनो नाम षडधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 107
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र तीर्थं परमशोभनम् ।
चन्द्रादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः

107.2

आसीत्पुरा महाभागौ चण्डमुण्डौ तु दानवौ ।
तपश् च चेरतुस् तत्र नर्मदायां युधिष्ठिर

107.3

ध्यायतो भास्करं देवं तमो नाशं जगद्गुरुम् ।
ताभ्यां च तोषितः सो ऽपि सहस्रांशुर् उवाच ह

107.4

साधुसाध्व् इति तौ पार्थ नर्मदायास् तटे शूभे ।
चण्डमुण्डौ वरं ब्रूतं विशिष्टं मनसेप्सितम्

107.5

चण्डमुण्डाव् ऊचतुः:
अजेयौ चैव देवेश सर्वेषां देवतानृणाम् ।
रोगैश् चेव परित्यक्तौ सविकाशं दिवाकर

107.6

तत् तथेति शुभं वाक्यं भास्करस् ताव् अवीदत् ।
ततश् चान्तर्दधे भानुर्दानवाभ्यां च भास्करम्

107.7

स्थापितं परया भक्त्या पूजयेद् यो जितेन्द्रियः ।
गीर्वाणता मनुष्यस्य प्राप्ता तत्रैव वर्तते

107.8

वसते भास्करे लोके वैरञ्चे देवसन्निधौ ।
घृतेन बोधयेद् दीपं षष्ठ्यां षष्ठ्यां नरेश्वर

107.9

मुच्यते सर्वपापेभ्यो मृतो याति पुरं रवेः ।
चन्द्रादित्यम् इति ख्यातं तत्र तीर्थं नरोत्तम

107.10

विजयन्ते सदा कालं चन्द्रादित्यं व्रजन्ति ये

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc