भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 106

106.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलेश्वरमहिमानुवर्णनो नाम पञ्चाधिकशतमो ऽध्यायः ॥
र्क्स् अध्याय 106
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र पूतकेश्वरम् उत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

106.2

सुस्थापितः शिवस् तत्र लोकानां हितकाम्यया ।
यस् तत्र मनुजः शम्भुं पूजयेत् पाण्डुनन्दन

106.3

सर्वान् कामान् अवाप्नोति न स याति यमालयम् ।
कृष्णाष्टम्यां चतुर्दश्यां सर्वकामा नराधिप

106.4

ये ऽर्चयन्ति महाकालं न ते यान्ति यमालयम्

106.5

जलशायीति नाम्ना वै विख्यातं वसुधातले ।
दानवानां वधं कृत्वा सुप्तस् तत्र जनार्दनः

106.6

चक्रं च क्षालितं तत्र देवदेवेन शौरिणा ।
सुदर्शनं च निष्पापं रेवातोयप्रभावतः

106.7

युधिष्ठिर उवाच:
चक्रतीर्थं समाचक्ष्व ऋषिसङ्घैर् निषेवितम् ।
विष्णोः प्रभावमतुलं रेवायाश् चैव यत्फलम्

106.8

मार्कण्डेय उवाच:
साधु साधु महाभाग विष्णुना च युधिष्ठिर ।
गृह्याद् गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम्

106.9

तत् ते ऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
आसीत् पुरा महादैत्यो नलमेघ इति श्रुतः

106.10

तेन देवा जिताः सर्वे हृतराज्या नराधिप ।
नलमेघभयात् पार्थ विष्णुरुद्राः सवासवाः

106.11

यमस्कन्दजलेशाग्निवायवो वै धनेश्वरः ।
वसुवाक्पतिसिद्धाश् च प्रचेताश् च पितामहः

106.12

गता देवाः परं लोकं विष्णुरुद्रनमस्कृतम् ।
स्तुवन्ति विविधैः स्तोत्रैर् वागीशप्रमुखा सुराः

106.13

नमः शिवमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे

106.14

इन्द्रादिप्रमुखान् देवान् विवर्णानवनीपते ।
प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः

106.15

स्वागतं सुरसङ्घाश् च कान्तिर् नष्टा पुरातनी ।
हिमप्लुष्टप्रभाणीव ज्योतिषां च मुखानि वै

106.16

प्रसभादर्चिषाम् एतद् अनुद्गीर्णं सुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्षते

106.17

किंचायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रोपहृतवीर्यस्य फणिनो दैन्यम् आगतः

106.18

कुबेरस्य मनः शल्यं शंसतीव पराभवम् ।
अपविद्धाङ्गदो बाहुर्भग्नशाख इव द्रुमः

106.19

यमो ऽपि व्यलिखद् भूमिं दण्डेनापि हतत्विषा ।
कुरु तस्मै नमो देहनिर्विण्णो याति लाघवम्

106.20

अमी च द्वादशादित्याः प्रतापक्षयशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्

106.21

मयि सृष्टिश् च लोकानां रक्षा युष्मास्व् अवस्थिता ।
ततो मन्दानिलोद्भूतकमलाकरशोभिना

106.22

गुरुनेत्रसहस्रेण प्रेरयामास वृत्रहा ।
सद्विनेत्रो हरस्त्र्यक्षः सहस्रनयनाधिकौ

106.23

वाचस्पतिर् उवाचेदं प्राञ्जलिर्हंसवाहनम् ।
युष्मद् वंशोद्भवस् तात नलमेघो महाबलः

106.24

तेन देवगणाः सर्वे निरस्ता दानवेन च ।
नलमेघो न वध्यो ऽतश् चलितेन मया सुरैः

106.25

विना माधवदेवेन साध्यो भवति नैव हि ।
शङ्खपद्मगदापाणे जय चक्रधर प्रभो

106.26

इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशायिकः ।
उवाच मधुरां वाणीं मेघगम्भीरया गिरा

106.27

किमर्थं बोधितो ब्रह्मन् समस्तैश् च सुरासुरैः ।
ब्रह्मोवाच:
नलमेघभयेनेह सम्प्राप्तास् तव मन्दिरम्

106.28

न वध्यः कस्यचित् पापो नलमेघो जनार्दन ।
तव हस्तेन दुष्टात्मा मृत्युं प्राप्स्यति नान्यथा

106.29

जनार्दन उवाच:
स्वस्थानं यान्तु गीर्वाणा वधिष्यामि महाबलम् ।
स्थानं शंसन्तु मे देवा वसते यत्र दुर्मतिः

106.30

देवा ऊचुः:
हिमालयगुहां कृष्ण वसते दानवेश्वरः ।
चतुर्विंशत्सहस्रैस् तु कन्याभिस् तु समावृतः

106.31

तुरङ्गैः स्यन्दनैश् चैव संख्या तेषां न विद्यते ।
भवनानि विचित्राणि असंख्यानि बहून्य् अपि

106.32

द्विरदाः पर्वताकारा हयाश् च द्विरदोपमाः ।
महाबलो ऽवसत् तत्र गीर्वाणभयदायकः

106.33

श्रुत्वा देवो वचस् तेषां देवानामातुरात्मनाम् ।
गरुडं चिन्तयामास शत्रुसङ्घविदारणम्

106.34

चक्रं करेण संगृह्य गदां शङ्खं ततः प्रभुः ।
शार्ङ्गं च मुशलं सीरं गृहीत्वा हि जनार्दनः

106.35

आरूढः पक्षिराजं तु वधार्थं दानवस्य च ।
दानवस्य गृहे पार्थ उत्पाता घोरदर्शनाः

106.36

गोमायुर्गृहमध्ये तु कपोतो गृहम् आविशत् ।
विना वातेन तस्यैव ध्वजदण्डं पपात ह

106.37

सर्पमूषकयोर् बुद्धं तथा केशरिनागयोः ।
उन्मार्गाः सरितस् तत्र वहन्ते चक्रमाश्रिताः

106.38

अकाले तरुपुष्पाणि दृश्यन्ते तत्र पर्वते ।
ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम्

106.39

पाञ्चजन्यं च कृष्णेन पूरितं पुरसन्निधौ ।
पाञ्चजन्यस्य शब्देन आरूढो दानवेश्वरः

106.40

नलमेघ उवाच:
को ऽयं मृत्युवशं प्राप्तस् त्व् अज्ञानेन समावृतः ।
धुन्धुमार व्रज शीघ्रं स्वसैन्यपरिवारितः

106.41

बलादानय तं बद्ध्वा ममाग्रे बलशालिनम् ।
धुन्धुमार उवाच:
आनयामि न सन्देहः सुरपक्षांश् च साम्प्रतम्

106.42

स्यन्दनैश्च समायुक्तो गजवाजिभटैः सह ।
दृष्टस् तातो जगद् योनिः सुपर्णस्थो महाबलः

106.43

गृह्यतां गृह्यताम् एष इत्य् उक्तास् ते च किङ्कराः ।
चतुर्दिक्षु च वर्तन्ते किङ्कराः केशवस्य च

106.44

सुपर्णेनाग्निबाणेन हन्यन्ते शलभा इव ।
धुन्धुमारो ऽपि कृष्णेन शरघातेन ताडितः

106.45

हतो वक्षस्थलोपान्ते पतितः स्यन्दनोपरि ।
हाहाकारं ततः सर्वे दानवाश् चक्रुरुद्यताः

106.46

नलमेघस् ततः क्रुद्धो रथारूढो विनिर्गतः ।
ददर्श केशवं पार्थ शङ्खचक्रगदाधरम्

106.47

नलमेघ उवाच:
हन्यतां दानवाः कृष्णो निहतो येन दानवः ।
हत्वा च मे चमूमुख्यमधुना च क्व यास्यति

106.48

इत्युक्त्वा दानवः पार्थ धर्षयामास सायकैः ।
दानवस्य शरांस् तत्र छेदयामास केशवः

106.49

गरुत्मान् भक्षयामास तत्सैन्यम् अतिभीषणम् ।
कृष्णेन द्विगुणास् तत्र प्रेषिता हि शिलीमुखाः

106.50

द्विगुणाद् द्विगुणीकृत्य प्रेषयामास दानवः ।
ते ऽपि चाष्टगुणाः कृष्णं छादयामासुरोजसा

106.51

ततः क्रुद्धेन देवेन आग्नेयं प्रेषितं तदा ।
वारुणं प्रतिवायव्यं नलमेघो व्यसर्जयत्

106.52

नारसिंहं नृसिंहो ऽयं प्रेषयामास पाण्डव ।
नारसिंहं ततो दृष्ट्वा नलमेघो महाबलः

106.53

उत्तीर्णः स्यन्दनाच् छीघ्रं खड्गं गृह्य करेण तु ।
प्रेषयामास कृष्णाय तं हन्तुं बलवत्तरः

106.54

क्रुद्धो ऽथ दानवः पार्थ आगतः केशवं प्रति ।
खड्गेन घातयामास गदापाणिं जनार्दनम्

106.55

मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ।
हतो वक्षस्थले दैत्यो नलमेघो महाबलः

106.56

जनार्दनं तदा दैत्यो नाराचेन जघान ह ।
जनार्दनस् ततः क्रुद्धो नलमेघं मृधे नृप

106.57

अमोघं चक्रम् आदाय शिरस् तस्य न्यपातयत् ।
पतता शिरसा तस्य वसुधा च प्रकम्पिता

106.58

समुद्राः क्षुभिताः पार्थ भयाद् उन्मार्गगामिनः ।
पुष्पवष्टिं ततो देवा ववृषुः केशवोपरि

106.59

अवध्यः सुरसङ्घानां स हतः केशवेन तु ।
स्वस्थानश् च गतो देवो नलमेघे निपातिते

106.60

जनार्दनो ऽपि कौन्तेय नर्मदातटम् आश्रितः ।
लक्ष्मीसमन्वितः कृष्णो विलीनो नर्मदातटे

106.61

चक्रं विमोचितं पापक्षालनाय मलान्वितम् ।
पतितं नर्मदातोये जलशायि समन्वितम्

106.62

निर्धूतकल्मषं जातं नर्मदायाः प्रभावतः ।
नलमेघवधोत्पन्नं यत्पापं मनुजाधिप

106.63

तत्सर्वं क्षालितं शीघ्रं रेवायाम्भसि भारत ।
तदा प्रभृति लोके ऽस्मिन् जलशायी महीतले

106.64

चक्रतीर्थं वदन्त्य् अन्ये अनेकाघौघनाशनम्

106.65

तत् तीर्थस्य प्रभावं वै शृणुष्वैकमना नृप ।
नागानां च यथानन्तो गीर्वाणानां जनार्दन

106.66

मासानां मार्गशीर्षो ऽपि नदीपुण्या हि नर्मदा ।
मासि मार्गे सिते पक्षे एकादश्यां शुभे दिने

106.67

गत्वा ये मनुजास् तत्र कामक्रोधविवर्जिताः ।
स्नापयन्ति श्रियः कान्तं नागपर्यङ्कशायिनम्

106.68

राजेन्द्र परया भक्त्या क्षौद्रसागरसर्पिषा ।
गुडेन तोयमिश्रेण जगद् योनिं जनार्दनम्

106.69

स्नाप्यमानाश् च पश्यन्ति ये लोकागतपातकाः ।
ते यान्ति परमं लोकं सुरासुरनमस्कृतम्

106.70

घृतेन बोधयेद् दीपम् अथवा तैलमिश्रितम् ।
रात्रौ जागरणं कृत्वा देवः स्यान् नात्र संशयः

106.71

कथां च वैष्णवीं भक्त्या ये शृण्वन्ति नरोत्तमाः ।
ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः

106.72

ये कुर्वन्ति प्रदक्षिणं जलशायि जगद्गुरुम् ।
प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर

106.73

ततः प्रभाते विमले पितॄन् संतर्प्य यत्नतः ।
श्राद्धं वै ब्राह्मणैस् तत्र पूज्यैः पाण्डवसत्तम

106.74

स्वदारनिरतैः शान्तैः परदारविवर्जितैः ।
वेदाभ्यसनशीलैश् च स्वकर्मनिरतैः शुभैः

106.75

नित्यं सज्जनशीलैश् च त्रिसन्ध्यापरिपालकैः ।
तादृशैः कारयेच् छ्राद्धम् इच्छेयुः श्रेय आत्मनाम्

106.76

ते धन्या मानुषे लोके पुण्याश् चैवात्र मानुषाः ।
ये वसन्ति सदा कालं पदे ब्रह्माश्रये ह्रदे

106.77

जलशायिनं च पश्यन्ति प्रत्यक्षं सुरनायकम् ।
पक्षोपवासं ये केचिद् व्रतं चान्द्रायणं शुभम्

106.78

मासोपवासम् उग्रं च तथान्यत् परमं व्रतम् ।
तत्र तीर्थे तु यः पार्थ कुर्यात् स्वर्गम् अवाप्नुयात्

106.79

अतः परं प्रवक्ष्यामि तिलधेनोस् तु यत्फलम् ।
तथा यस्मिन् यथा देयं दानं तस्य श्रुतं फलम्

106.80

एतत् कथान्तरे पुण्ये मुनीन्द्रैः पापनाशनम् ।
श्रुतं हि नैमिषारण्ये नारदाद्यैर् अनेकधा

106.81

इदम् आख्यानम् आयुष्यं पुण्यं कीर्तिविवर्धनम् ।
विप्राणां श्रावयेद् यस् तु सर्वं तत् फलम् आप्नुयात्

106.82

बहूनां न प्रदेयानि गोगृहं शयनं किल ।
विभक्तदक्षिणा ह्य् एषा दातारं नोपतिष्ठति

106.83

एकस्मै सा प्रदातव्या बहूनां न युधिष्ठिर ।
सा च विक्रयमापन्ना दहेद् आसप्तमं कुलम्

106.84

तिलाः श्वेतास् तथा कृष्णास् तिलाः प्रोक्ताश् च वर्णतः ।
तिलानां च प्रमाणानि धेनोर् वत्सस्य कारयेत्

106.85

दातव्या वत्सकेनाथ बहूनां कामिनां न तु ।
यस्मिन् देशे च यन् मानं तिलानां च विचारतः

106.86

तेन मानेन सा कार्या अक्षयं फलम् इच्छता ।
अर्चनीया प्रयत्नेन गन्धपुष्पाक्षतैर् विभो

106.87

नासायां सर्वगन्धाश् च जिह्वायां षड् रसा धृताः ।
मुक्ताफलानि वा दन्तजङ्घापुच्छेषु योजयेत्

106.88

कुक्षौ कार्पासकं देयं नाभ्यां पद्मं सकाञ्चनम् ।
ओष्ठे मधुघृतं दद्यात् कुर्यात् सर्पिश् च रोमके

106.89

कम्बले कम्बलं दद्याल् ललाटे ताम्रभाजनम् ।
स्कन्धे तु शकला देया लोहदण्डं च सङ्कटे

106.90

गुडं चैव गुदे दद्याच् छ्रोण्यां मधुघृते तथा ।
यवसे पायसं दद्याद् घृतक्षौद्रसमन्वितम्

106.91

स्वर्णशृङ्गी रौप्यखुरी मुक्तालाङ्गुलभूषणा ।
वस्त्रं सदन्नं दातव्यं कांस्यपात्रसुदोहना

106.92

यत् तु बालकृतं पापं यद् वा कृतम् अजानता ।
वाचा कृतं कर्मकृतं मनसा यच् च चिन्तितम्

106.93

जलमात्रे ष्ठीवने च मुशले वा विलङ्घिते ।
वृषलीगमने चैव गुरुदारनिषेवणे

106.94

कन्यायां गमने चैव सुव्रर्णस्तेय एव च ।
सुरापानं च यच् चापि तिलधेनुः पुनाति हि

106.95

अहोरात्रोपवासेन विधिवत् सा मयोदिता ।
यासौ यमपुरे चैव नदी वैतरणी स्मृता

106.96

बालुकायाः स्थले चैव पच्यते यत्र दुष्कृती ।
अवीचिनरकोपेतौ यौ वै युगलपर्वतौ

106.97

यत्र लोहमुखाः काका यत्र स्थानं भयानकम् ।
असिपत्रवनं यत्र तप्तं च बालुकम्

106.98

तत्सुखेन व्यतिक्रम्य धर्मराजा ऽश्रमं व्रजेत् ।
धर्मराजस् तु तं दृष्ट्वा सूनृतं वाक्यम् अब्रवीत्

106.99

वितानं विततं योग्यं मणिरलविभूषितम् ।
अत्रागच्छ नृपश्रेष्ठ गच्छ त्वं परमां गतिम्

106.100

मा च पापरते दानं न तद् दानं परं हितम् ।
मा विकाले विरूपे च न व्यङ्गे तु तथैव च

106.101

अवेदविदुषे चैव ब्राह्मणे मदविक्लवे ।
मित्रघ्ने च कृतघ्ने च व्रतहीने तथैव च

106.102

वेदान्तगाय दातव्या तस्य तत् त्वं विजानते ।
वेदान्तगे तु सा देया श्रोत्रिये ऽभूतबालका

106.103

सर्वाङ्गरुचिरे देया पवित्रे च प्रियंवदे ।
पौर्णमास्याम् अमावास्यां कार्तिक्यां चापि भारत

106.104

वैशाख्यां मार्गशीर्षे च ग्रहणे चन्द्रसूर्ययोः ।
अयने विषुवे चैव व्यतीपाते च सर्वथा

106.105

षडशीतिमुखे चैव गजछायासु सर्वदा ।
एष ते कथितः कल्पस्तिलधेनोर् मयानघ

106.106

भित्त्वा च भास्करं लोकं हरिलोकं व्रजन्ति ते ।
एतत् ते सर्वमाख्यातं चक्रतीर्थफलं नृप

106.107

श्रवणात् कीर्तनाद् वा ऽपि गोसहस्रफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc