स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 105
इति श्रीस्कन्दपुराणे रेवाखण्डे सोमनाथतीर्थमहिमानुवर्णनो नाम चतुरधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 105
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र पिङ्गलावर्तकं नृप ।
सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ।
युधिष्ठिर उवाच:
हव्यवाहेन विप्रेन्द्र स्थापितश् चेश्वरः कथम्
मार्कण्डेय उवाच:
रेतसा यदि रुद्रेण तर्पितो हव्यवाहनः ।
प्राप्तो रुद्रेण सौम्येन देहं प्राप्य जगाम सः
हव्यवाहमुखे क्षिप्ते रुद्रेणामिततेजसा ।
रुद्रस्य तेजसा दग्धः तीर्थयात्रां करोति सः
चचार परया भक्त्या ध्यानम् उग्रं हुताशनः ।
वायुभक्षः शतं साग्रं यावद् आसीत् हुताशनः
तावत् तुष्टो महादेवो हुताशनम् उवाच ह ।
हव्यवाह वरं ब्रूहि यत् ते मनसि वर्तते
हुताशन उवाच:
नमस्ते सर्वलोकेश उग्ररूप नमो ऽस्तु ते ।
युष्मद् रेतेन संप्लुष्टः कुब्जो जातो महेश्वर
शरीरार्तो ह्य् अहं कृष्णः संस्थितो नर्मदातटे ।
इत्युक्त्वान्तर्दधे देवो नीरुजस्त्वं भविष्यसि
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ।
जितक्रोधो ऽपि यस् तत्र उपवासं समाचरेत्
अतिरात्रफलं तत्र अन्ते रुद्रम् अवाप्नुयात् ।
गुणान्विताय दीनाय कपिलां तत्र भारत
अलंकृत्वा सवस्त्रां च सवत्सां रूपसंयुताम् ।
यः प्रयच्छति विप्राय स गच्छेत् परमं पदम्
ततो गच्छेत् तु राजेन्द्र तीर्थं परमशोभनम् ।
स्थापितं ह्य् ऋषिसङ्घैश् च ब्रह्मवंशोद्भवैर् द्विजैः
ऋणमोचनविख्यातं रेवातटसमाश्रितम् ।
षण्मासं मनुजो भक्त्या तत्र यस् तर्पयेत् पितॄन्
दिव्यैः पित्र्यैर् मनुष्यैश् च ऋणैर् आत्मकृतैः सह ।
मुच्यते तत्क्षणात् सो ऽथ स्नात्वा वै नर्मदाजले
प्रत्यक्षं पातकं तत्र दृश्यते चैव रूपि च ।
तत्र तीर्थे तु यो राजन्न् एकचित्तो जितेन्द्रियः
स्नानं दानं नरो धीमान् कारयेद् भक्तितत्परः ।
ऋणत्रयविमुक्तस् तु वीर्यवान् मोदते दिवि
मार्कण्डेय उवाच:
तस्यैवानन्तरं पार्थ कपिलातीर्थम् उत्तमम् ।
स्थापितं कपिलेनैव सर्वपापप्रणाशनम्
अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर ।
स्नापयेत् परया भक्त्या कपिलाक्षीरसर्पिषा
मधुना खण्डयुक्तेन दध्यक्षतफलेन च ।
कपिलेशं नृपश्रेष्ठ निशीथे तं जगत्प्रभुम्
श्रीखण्डेन सुगन्धेन गुण्ठयेच् च महेश्वरम् ।
ततः सुगन्धपुष्पैश् च श्वेतैश् च नृपनन्दन
अर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् ।
असिपत्रवनं घोरं यमवल्लीं सुदारुणाम्
ते व्रजन्ति सुखं पार्थ कपिलेशे सुपूजिते ।
स्नात्वा रेवाजले पुण्ये पूजयेद् ब्राह्मणं शुभम्
गोप्रदानेन वस्त्रेण अन्नेन किल भारता ।
छत्रशय्याप्रदानेन भूमौ राजा भवेत् तु सः
नीरोगस् तीव्रतेजाश् च जीवत्पुत्रः प्रियंवदः ।
शत्रवो मित्रतां यान्ति जायते नात्र संशयः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0