स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 104
इति श्रीस्कन्दपुराणे रेवाखण्डे हनुमदीश्वरवर्णनो नाम त्र्यधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 104
मार्कण्डेय उवाच:
आश्चर्यं कथितं तात यदभून् नर्मदातटे ।
सोमनाथस्यतीर्थं हि वाराणस्या समं नृप
युधिष्ठिर उवाच:
निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।
युष्मद् वाणी जलैः स्नातो निर्दुःखो ऽहं सबान्धवः
मार्कण्डेय उवाच:
साधु साधु महाबाहो सोमवंश विभूषण ।
पृष्टं ते दुर्लभं तीर्थं गुह्याद् गुह्यतरं यथा
आदौ पितामहस् तात समस् तस्य जनस्य च ।
मनसा तस्य संजाता ऋषयो दश पुङ्गवाः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
प्रचेताश् च वशिष्ठश् च भृगुर् नारद एव च
जज्ञे प्रचेतसो दक्षो महातेजाः प्रजापतिः ।
दक्षस्यापि सुता जाताः पञ्चाशत् कन्यकाः किल
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव च महाभाग सप्तविंशतिम् इन्दवे
तासां हि रोहिणी चन्द्रस्याभीष्टा साभवत् तदा ।
तस्याश् च कारणं कृत्वा शप्तो दक्षेण चन्द्रमाः
क्षयरोग्यभवच् चन्द्रो विवक्षायाः प्रजापतेः ।
दक्षशापप्रभावेण निस्तेजाः शर्वरीपतिः
गतः पितामहं सोमो वेपमानः प्रणम्य च ।
ब्रह्मयोने नमस् तुभ्यं वेदगर्भ नमो ऽस्तु ते
ब्रह्मोवाच:
सर्वत्र दुर्लभा रेवा त्रिषु स्थानेषु भारत ।
ओंकारे च भृगुक्षेत्रे नर्मदा ह्य् उरगेश्वरे
काष्ठवत् संस्थितः सोमो ध्यायते परमेश्वरम् ।
यावद् वर्षशतं पूर्णं तावत् तुष्टो महेश्वरः
प्रेत्यक्षः सोमनाथस्य वृषासन उमार्धगः ।
साष्टाङ्गं प्रणतो भूत्वा जय देव नमो ऽस्तु ते
जय शङ्कर पापकृतान्त नमो जय ईश्वर नाथ नमो ऽस्तु नमः ।
जय वासुकिभूषण भूतपते जय शूलकपालधराय नमः
जय अन्धकदेहविनाश नमो जय दानवदेहवधाय नमः ।
जय निष्कलसकलकलाय नमो जय कालकलादमनाय नमः
जय नीलकण्ठ उमापते जय सूक्ष्मनिरञ्जनशब्द नमः ।
जय आद्य अनाद्य अनन्त नमो जय पाणिपिनाकत्रिशूल नमः
एवं स्तुतो महादेवः सोमनाथेन पाण्डव ।
तुष्टस् तस्य नृपश्रेष्ठ उमया सह शङ्करः
ईश्वर उवाच:
वरं वरय भद्रं ते यत् ते मनसि वर्तते ।
सोम उवाच:
दक्षशापेन दग्धो ऽहं क्षीणदेहो महेश्वर
पापप्रशमनं देव कुरु सर्वं ममैव तु ।
महेश्वर उवाच:
भवद्भक्तिगृहीतो ऽहं तूष्टश् चैवोमया सह
निष्पापः सोमनाथस्य संजातस् तीर्थसेवनात् ।
इत्य् उक्त्वान्तर्दधे देवः सोमो ध्यात्वा क्षणं नृप
स्थापयामास लिङ्गं तु सिद्धिदं प्राणिनां भुवि ।
सर्वदुःखहरं देवं ब्रह्महत्याविनाशनम्
मार्कण्डेय उवाच:
सोमनाथप्रभावं च संक्षेपात् कथयामि ते ।
शम्बरो नाम राजाभूत् तस्य पुत्रस् त्रिलोचनः
त्रिलोचनसुतः कण्ठः पापनिष्ठो महाधमः ।
वने विभ्रमतस् तस्य मृगयूथं त्व् अदृश्यत
मृगयूथं हतं सर्वं त्रिलोचनसुतेन च ।
मृगरूपी द्विजो मध्ये विचरन् निर्जने वने
तदा हतस् तु शस्त्रेण कण्ठेन ऋषिसत्तमः ।
ब्रह्महत्यायुतः कण्ठो निस्तेजा व्यचरन् महीम्
विचरन्न् अपि संप्राप्तो नर्मदानागसंगमे ।
कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते
चिञ्चिनी चम्पकोपेते अगस्तितरुशोभिते ।
उन्मत्तभृङ्गसंयुक्ते तथा सर्वत्र शोभिते
चित्रकैर् मृगमार्जारैः सिंहैः सर्वत्र शूकरैः ।
शशकैर् गवयैर् युक्ते शिखण्डिरवनादिते
प्रविष्टस् तद्वने कण्ठस् तृषार्तः श्रमकर्षितः ।
स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने
पत्राणि च विचित्राणि भक्षयन् सह किङ्करैः ।
सुप्तः पादपछायायां श्रान्तो मृगवधेन च
आनर्च परया भक्त्या सोमनाथं युधिष्ठिर ।
पीत्वा तोयं कण्ठमात्रं सर्वपापक्षयंकरम्
तावत् तीर्थवरे विप्रः स्नानार्थं संगमं प्रति ।
मार्गगो ब्राह्मणो भूयस् ततस् तद् गतमानसः
मार्गे वृक्षे समारूढा स्त्री चैका च भयङ्करी ।
उवाच ब्राह्मणं सा हि तिष्ठ तिष्ठ द्विजोत्तम
त्रस्तो निरीक्षते यावद् दिशः सर्वा नरेश्वर ।
तावद् वृक्ष समारूढां स्त्रियं रक्ताम्बरावृताम्
रक्तपुष्पधरां वालां रक्तचन्दनचर्चिताम् ।
रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह
स्त्र्य् उवाच:
सन्देशं शृणु मे विप्र यदि गच्छसि संगमम् ।
मद्भर्ता तिष्ठते तत्र शीघ्रम् एव विसर्जय
एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।
इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभम्
वृक्षछायास्थितं कण्ठं ब्राह्मणो हि ददर्श ह ।
ब्राह्मण उवाच:
वनान्ते च मया दृष्टा बाला कमललोचना
रक्ताम्बरधरा तन्वी रक्तचन्दनर्चर्चिता ।
रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा
वृक्षारूढावदद् वाक्यं भर्तारं प्रेषयस्व माम् ।
कण्ठ उवाच:
कस्मिन् स्थाने तु विप्रेन्द्र तिष्ठते मृगलोचना
कस्य सा केन कार्येण एतत् सर्वं वद हि मे ।
ब्राह्मण उवाच:
संगमाद् अर्धक्रोशे च उद्यानान्ते प्रशोभिते
तत्र तिष्ठति सा नारी सोत्कण्ठितमना विभो ।
ततो भृत्यम् उवाचेदं कण्ठो राजा युधिष्ठिर
पृच्छ त्वं गच्छ का चासि आगता क्व गमिष्यसि ।
ततः क्षिप्रं गतस् तत्र यत्र नारी स्थिताभवत्
वृक्षस्थां ददृशे बालाम् उवाच नृपसत्तम ।
त्वां राजा पृच्छते बाले कासि त्वं क्व गमिष्यसि
स्त्र्य् उवाच:
गुरुर् आत्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः
ब्रह्महत्यास्य संजाता मृगरूपद्विजोद्वधात् ।
मया युक्तो ऽपि राजासौ मुक्तस् तीर्थप्रभावतः
अत्रार्धक्रोशमात्रं वै ब्रह्महत्या न संविशेत् ।
सोमनाथप्रभावाच् च तीर्थं वाराणसीसमम्
गच्छ त्वं प्रेषयेः कण्ठं शीघ्रम् एव न संशयः ।
समस्तं कथयामास तद् वृत्तान्तं नृपं प्रति
तस्य वाक्येन राजासौ पपात धरणीतले ।
भृत्य उवाच:
कस्मात् त्वं शोचसे नाथ पूर्वजातं शूभाशुभम्
इत्याकर्ण्य वचस् तस्य स राजा त्विदम् अब्रवीत् ।
प्राणत्यागं करोम्य् अत्र सोमनाथ समीपतः
शीघ्रम् आनीयतां वह्णिर् इन्धनानि बहून्य् अपि ।
आनीतं तत्क्षणात् सर्वं भृत्यैः स्वैर् वशवर्तिभिः
स्नानं कृत्वा शुभे तोये संगमे पापनाशने ।
अर्चित्वा परया भक्त्या सोमनाथं नरेश्वर
त्रिःप्रदक्षिणकं कृत्वा ज्वलिते जातवेदसि ।
प्रविष्टः कण्ठराजस् तु हृदि कृत्वा जनार्दनम्
पीताम्बरधरं देवं महामुकुटधारिणम् ।
विष्णोर् ध्यानेन चात्रैव सुगतिर् मे भवत्व् इति
पपात पुष्पवृष्टिश् च साधु साधु नृपात्मज ।
आश्चर्यमतुलं दृष्ट्वा निरीक्ष च परस्परम्
हुतं तैः पावके भृत्यैर् हृदि ध्यात्वा गदाधरम् ।
विमानस्था दिवं सर्वे सङ्गताः पाण्डुनन्दन
मार्कण्डेय उवाच:
सोमनाथप्रभावो ऽयं शृणुष्वैकमना नृप ।
अष्टम्यां च चतुर्दश्यां सर्वकाले शुभे दिने
विशेषाच् छुक्लपक्षे च सूर्यवारेण सप्तमी ।
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्
पञ्चामृतेन गव्येन स्नापयेत् परमेश्वरम् ।
श्रीखण्डलेपनं कुर्यात् पुष्पधूपादिकं तथा
घृतेन बोधयेद् दीपं गीतं नृत्यं च कारयेत् ।
सोमवारेण चाष्टम्यां प्रभाते पूजयेद् द्विजम्
आत्मवन्तं जितक्रोधं द्विजनिन्दाविवर्जितम् ।
सर्वाङ्गरुचिरं शान्तं स्वदारपरिपालकम्
गायत्रीं पठमानं च विकर्मरहितं सदा ।
पुनर् भूर्वृषली शूद्री वर्तते यस्य मन्दिरे
हीनाङ्गास् त्व् अतिरिक्ताङ्गा येषां पूर्वापरे न हि ।
व्रते श्राद्धे तथा दाने द्विजा वर्ज्याः सदा बुधैः
पुंश्चली तरुणी भार्या द्विजः स्वाध्यायवर्जितः ।
आत्मना सह दातारमधो नयति पाण्डव
शाल्मली नौकया तुल्याः स्वधर्मनिरता द्विजाः ।
दातारं चैवम् आत्मानं तारयन्ति तरन्ति च
श्राद्धं सोमेश्वरे पार्थ यः कुर्यादुत मानवः ।
पितरस् तस्य तृप्यन्ति यावद् आभूतसम्प्लवम्
अन्नं वस्त्रं हिरण्यं च यो दद्याद् अग्रजन्मने ।
स याति शाङ्करं लोकम् इति मे सत्यभाषितम्
हयं यो वै ददात् यत्र सम्पूर्णाभरणान्वितम् ।
रक्तं वा पीतवर्णं वा सर्वलक्षणलक्षितम्
कुङ्कुमेन विलिप्ताङ्गम् अप्रजं च ददेद् इति ।
स्रग्दामभूषितं कण्ठे सितवस्त्रावगुण्ठितम्
अङ्घ्रिराधीयतां स्कन्धे मदीयं हयम् आरुह ।
आरूढे ब्राह्मणे भूयो भास्करः प्रीयताम् इति
स याति शाङ्करं लोकं सर्वपापविवर्जितः ।
तस्माल् लोकाच् च्युतश् चापि राजा भवति धार्मिकः
तस्य वंशे सदा राज्यं न नश्यति कदाचन ।
दीर्घायुर् जायते पुत्रो भार्या च वशवर्तिनी
जीवेद् वर्षशतं साग्रं सर्वदुःखविवर्जितः ।
सोमस्य चोपरागे तु यो गच्छेद् विजितेन्द्रियः
सोपवासो जितक्रोधो गां तु दद्याद् द्विजन्मने ।
सवत्सां क्षीरसंयुक्तां श्वेतवर्णां बलान्विताम्
शबलीं पीतवर्णां वा धूम्रां वा नीलकन्धराम् ।
कपिलां वा सवस्त्रां वा घण्टाभरणभूषिताम्
रौप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ।
श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी
शबली ताम्रवर्णा च दुःखघ्ना च प्रकीर्तिता ।
कपिला तु हरेत् पापं त्रिजन्मभिर् उपार्जितम्
तस्य लोकम् अवाप्नोति मान्धातुश् च जनेश्वर ।
पक्षान्ते च व्यतीपाते वैधृतौ रविसंक्रमे
दिनक्षये गजच्छाया ग्रहणे भास्करस्य च ।
ये व्रजन्ति विशुद्धाङ्गा वैरञ्च्ये सुरदुर्लभे
मातृहा गुरुहा यो हि आत्महा तु विशेषतः ।
द्रुपदाद्यं जपेन् नित्यं प्राणायामं तथा नृप
गायत्रीं वैष्णवीं चैव सौरीं शैवीं यदृच्छया ।
सो ऽपि पापैः प्रमुच्येत इत्य् एवं शङ्करो ऽब्रवीत्
यः कुर्यात् सोमनाथस्य तत्र कर्ता प्रदक्षिणम् ।
प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।
भ्रूणहा शुध्यते तत्र एवम् एव न संशयः
तीर्थाख्यानम् इदं पुण्यं यः शृणोति जितेन्द्रियः ।
व्याधितो राजरोगेन अतुलां श्रियम् आप्नुयात्
पुत्रार्थी लभते पुत्रं निष्कामः स्वर्गम् आप्नुयात् ।
मुच्यते सर्वपापेभ्यस् तीर्थं श्रुत्वा वरं नृप
एतत् ते सर्वम् आख्यातं सोमनाथस्य यत् फलम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0