भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 103

103.1

इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थपञ्चकवर्णनो नाम द्व्यधिकशततमो ऽध्यायः ॥
र्क्स् अध्याय 103
युधिष्ठिर उवाच:
हनूमदीश्वरन् नाम कथं जातं महामते ।
ब्रह्महत्याहरं तीर्थं रेवायादक्षिणे तटे

103.2

मार्कण्डेय उवाच:
साधु पृष्टं महाबाहो सोमवंशविभूषण ।
गुह्याद् गुह्यतरं तीर्थं नाख्यातं कस्यचिन् मया

103.3

तव स्नेहात् प्रवक्ष्यामि पीडितो वार्धकेन तु ।
जातं पूर्वं महायुद्धं रामरावणयोर् अपि

103.4

पुलस्त्यो ब्रह्मणः पुत्रस् तस्य वै विश्रवाः सुतः ।
रावणस् तस्य संजातो दशग्रीवो ऽपि राक्षसः

103.5

त्रैलोक्यविजयी जातः प्रसादाच् छूलिनस् तथा ।
गीर्वाणा निर्जिताः सर्वे रामस्य गृहिणी हृता

103.6

यद् भ्राता कुम्भकर्णो वै सीता सा वनमाश्रिता ।
विभीषणेन पापो ऽयं मन्दस् त्यक्तो विचार्य च

103.7

स जितः कार्तवीर्येण स जितो जामदग्निना ।
स हतो रामचन्द्रेण तस्य राज्यं हृतं तथा

103.8

ततो रामेण रक्षो ऽपि जितः संख्ये महाबलः ।
वनं भग्नं हतो रक्षो गत्वा वायुसुतेन वै

103.9

रावणस्य सुतः संख्ये हतश् चाक्षकुमारकः ।
एवं रामायणे जाते सीता मोक्षे कृते ततः

103.10

अयोध्यायां गते रामे हनूमाश् च महाबलः ।
कैलासं हि गतः पार्थ प्रणामार्थं महेश्वरे

103.11

तिष्ठ तिष्ठेति चोक्तो वै नन्दिना वानरोत्तमः ।
ब्रह्महत्यायुतस् त्वं हि राक्षसानां वधेन हि

103.12

भैरवस्यासनं पुण्यं न गन्ता ऽसि महाबल ।
हनुमान् उवाच:
नन्दिंस् त्वं हि वरं यच्छ पातकस्योपशान्तये

103.13

भूत्वा निष्पातको ऽहं वै प्रणमामि महेश्वरम् ।
नन्द्य् उवाच:
रुद्रदेहोद्भवा पुण्या नर्मदा सरितां वरा

103.14

श्रवणाज् जन्मचरितं कीर्तनाद् द्विगुणं व्रजेत् ।
सप्तजन्मार्जितं पापं नश्येद् रेवावगाहनात्

103.15

तस्मात् तीरे वस त्वं च रेवासङ्गमदक्षिणे ।
ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम्

103.16

जटामुकुटसंकाशं व्यालयज्ञोपवीतकम् ।
उमार्धाङ्गधरं देवं गोराजासनसंस्थितम्

103.17

वत्सरान् सुबहून् यावद् ध्यायतस् तस्य तत्र वै ।
तत्र तुष्टो महादेव आगतः सह भार्यया

103.18

उवाच मधुरां वाणीं मेघगम्भीरया गिरा ।
साधु वत्स त्वया चात्र कष्टं तपसि संस्थितम्

103.19

हनूमांश् च हरं दृष्ट्वा उमार्धाङ्गधरं स्थितम् ।
साष्टाङ्गं प्रणतो भूत्वा जयदेव नमो ऽस्तु ते

103.20

जय चान्धकघाताय बाणासुरविमर्दिने ।
जय भूतपनाथाय जय भैरवभूषण

103.21

जय कामविनाशाय गङ्गां शिरसि धारिणे ।
एवं स्तुतो महादेवो वरदो वानरस्य च

103.22

ईश्वर उवाच:
वरं प्रार्थय त्वं वत्स प्रार्थितं रभसं वद ।
हनुमान् उवाच:
ब्रह्मरक्षोवधाज् जाता ब्रह्महत्या महेश्वर

103.23

निष्पापो ऽहं भवेयं वै युष्मत् सम्भाषणेन च ।
ईश्वर उवाच:
नर्मदातीर्थं माहात्म्यध्यानयोगप्रभावतः

103.24

मन्मूर्तिदर्शनात् सद्यो निष्पापो नात्र संशयः ।
इत्युक्त्वान्तर्दधे देव उमासार्धं त्रिलोचनः

103.25

हनुमदीश्वरं तत्र स्थापयामास भक्तितः ।
आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः

103.26

ईश्वरस्य प्रभावेण कामदं स्थापितं शिवम् ।
अच्छेद्यम् अप्रतर्क्यं च विनाशोत्पत्तिवर्जितम्

103.27

मार्कण्डेय उवाच:
हनुमदीश्वरे तत्र प्रत्ययं यत्पुराभवत् ।
यद्वृत्तं द्वापरस्यादौ त्रेतान्ते च नरेश्वरा

103.28

सुपर्णो नाम राजर्षिर् बभूव वसुधातले ।
तस्य राज्ये सदा सौख्यं दीर्घायुर् मानवः सदा

103.29

शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ।
आसक्तः स सदाकालं जपध्याने नरेश्वर

103.30

क्रीडते पृथिवीं सर्वां पर्वतांश् च वनानि च ।
वधार्थं मृगयूथानाम् आगतो विन्ध्यपर्वते

103.31

मृगजातिसमाकीर्णे हस्तिजातिसमाश्रिते ।
हस्तिचित्रकशोभाढ्ये मृगवाराहसंकुले

103.32

क्रीडित्वा च ततो राजा चासने संस्थितः स च ।
वनमध्ये तदा दृष्ट्वा भ्रमन्तं पिङ्गलं द्विजम्

103.33

राजोवाच:
एको वने वने कस्माद् भ्रमसे पुस्तिकाकरः ।
इतश्चेतो निरीक्षंस् त्वं कथयस्व द्विजोत्तम

103.34

ब्राह्मण उवाच:
कान्यकुब्जात् समायातः प्रेषितो राजकन्यया ।
राजोवाच:
कथयस्व प्रसादेन कस्मात् कार्याद् वद प्रभो

103.35

ब्राह्मण उवाच:
शिखण्डी चैव राजा वै कान्यकुब्जं बुभुक्षते ।
अपुत्रः स महीपालः कन्या जाता मनोरथैः

103.36

हे नृप
जातिस्मरा शुभाचारा नर्मदायाः प्रभावतः ।
पित्रोक्ता सा च कन्या वै विवाहाय प्रकल्पिता

103.37

असारे चाद्य संसारे कन्यादानं ददाम्यहम् ।
कन्योवाचा:
यस्मिन् काले ह्य् अहं लिप्से तस्मिन् काले प्रदीयताम्

103.38

पुत्रीवाक्येन राजासौ विस्मयाविष्टचेतनः ।
शिखण्ड्य् उवाच:
कथ्यतां मे महाभागे भाषितं हि त्वया कथम्

103.39

पितृवाक्येन सा वाला शिरसावनता भुवि ।
कथयामास यद्वृत्तं हनुमदीश्वरे नृप

103.40

कलापिन्य् अस्म्य् अहं तात स्थिता भर्तृसहानुगा ।
उरङ्गमेश सान्निध्ये रेवाया उत्तरे तटे

103.41

हनुमतो वने पुण्ये क्रीडामि स्म यदृच्छया ।
भर्तृयुक्ता तत्र गुह्ये वञ्जुले सरले द्रुमे

103.42

आगता लुब्धकास् तत्र क्षुधार्ता वनम् उत्तमम् ।
भर्तृकोपयुतैः पापैर् हताहं पतिना सह

103.43

ग्रीवां निमोटयामासुर् भक्षणोत्पाटनं कृतम् ।
हुताशनमुखे ते तु हसन्तश् चाशु लुब्धकाः

103.44

भर्जयित्वा ततो मांसं भक्षयित्वा यथेच्छया ।
सुप्ताः स्वस्थेन्द्रिया रात्रौ विगता शर्वरी क्षयम्

103.45

तन्मांसशेषं जुष्टं वै जम्बुकैर् गृध्रवायसैः ।
मच्छरीरोद्भवं चास्थि स्नायुमांसेन संयुतम्

103.46

गृहीत्वा पत्रिणैकेन आकाशात् पतता तदा ।
सामिषं पक्षिणं दृष्ट्वा पक्षिणो ऽन्ये समागताः

103.47

दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।
विहगानां समस्तानां धावतां चापि पश्यताम्

103.48

पतितं नर्मदातोये हनुमदीश्वरे नृप ।
मदीयमस्थिखण्डं च पतितं नर्मदाजले

103.49

तस्य तीर्थप्रभावेण जाताहं क्षत्रिये कुले ।
भूप कन्याप्य् अहं जाता सम्पूर्णशशिवन्मुखी

103.50

जातिस्मरा नरेन्द्रास्मि जाताहं क्षत्रिये कुले ।
एतत् ते सर्वम् आख्यातं कारणं नृपसत्तम

103.51

मदर्थं विषमस्थाने शकुन्तमृगजातिषु ।
यदि प्रेषयसे तात कम् अपि नर्मदाजले

103.52

तस्याहं कथयिष्यामि स्थानचिह्नं समग्रकम् ।
कन्याया वचनं श्रुत्वा शिखण्डी ह्याह मां नृप

103.53

ग्रामविंशं च दास्यामि गच्छ त्वं नर्मदातटे ।
प्रेक्षणं मे प्रतिज्ञातम् अलक्ष्या ऽपीडितेन तु

103.54

गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् ।
अग्रजां सोमनाथस्य हनुमदीश्वरे शुभे

103.55

अर्धक्रोशे तु रेवाया विस्तीर्णे वटपादपैः ।
कदम्बकवनैश् चैव संप्रधाने वनस्य च

103.56

न्यग्रोधवटसान्निध्ये अस्थिलक्ष्यं प्रदृश्यते ।
मृत्तिकामस्थिसंगृह्य गच्छ रेवान् द्विजोत्तम

103.57

आश्विनस्य सिते पक्षे त्रिपुरारितिथौ स्थिते ।
स्नापय शूलिनं भक्त्या रात्रौ कुरु च जागरम्

103.58

प्रभाते क्षिप्यतां शीघ्रं नाभिमात्रे जले स्थितः ।
इत्य् उच्चार्य द्विजश्रेष्ठ सुगतिस् तस्य जायते

103.59

अस्थि क्षिप्त्वा पुनः स्नानं कर्तव्यमघनाशनम् ।
कथितं कन्यया यच् च तत्सर्वं पुस्तके कृतम्

103.60

आगतो ऽहं नृपश्रेष्ठ तस्मिंस् तीर्थे महालये ।
साभिज्ञानं ततो दृष्ट्वा गृहीत्वास्थि नृपोत्तम

103.61

पूर्वोक्तेन विधानेन निक्षिप्तं नर्मदाजले ।
पुष्पवृष्टिः पपाताथ साधु साध्विति ब्राह्मण

103.62

विमानं तु ततो दिव्यं दृष्टं हनुमदीश्वरे ।
ततो ब्राह्मणराजानौ गृहीत्वानशनं स्थितौ

103.63

आत्मानं शोषयित्वा च ईश्वराराधने रतौ ।
एवं सन्ध्यायतो देवं शतबाहुर् द्विजोत्तमः

103.64

मासार्धात् तु मृतो राजा शतबाहुर् महामतिः ।
किङ्किणीजालशोभाढ्यं विमानं तत्र चागतम्

103.65

साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ।
राजोवाच:
ऊर्ध्वमार्गं न गच्छामि विप्रो यावन् न संस्थितः

103.66

उपदेशप्रदो मह्यं गरुरूपो द्विजोत्तमः ।
देवा ऊचुः:
हनुमदीश्वरे राजन्ये मृताः सन्ति मानवाः

103.67

ते यान्ति शिवलोकं वै सर्वपापक्षयं करम् ।
नैव पापक्षयश् चास्य ब्राह्मणस्य नरेश्वर

103.68

गृहं च गृहिणी वित्तं ब्राह्मणस्य प्रवर्तते ।
शतबाहुस् ततो विप्रं भाषयामास भक्तितः

103.69

त्यज मूलम् अधर्मस्य लोभम् एकं द्विजोत्तम ।
इत्य् उक्त्वा प्रययौ राजा स्वर्गं स्वर्गिजनैः सह

103.70

दिनैः कैश्चिद् गतो विप्रः स्वर्गं सुकृतिभिः सह ।
वाहिन्याः काशिराजस्य पुत्र्याः तीर्थप्रभावतः

103.71

आत्मनः कन्यया दत्ते पूर्वजन्मार्जितं तपः ।
अष्टम्यां च चतुर्दश्यां सर्वकालं मुनीश्वर

103.72

विशेषाद् आश्विने मासे कृष्णपक्षे चतुर्दशी ।
स्नापयेद् ईश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा

103.73

दध्ना च खण्डयुक्तेन तिलतोयेन वा पुनः ।
श्रीखण्डेन सुगन्धेन चार्चयेत् तं महेश्वरम्

103.74

ततः सुगन्धपुष्पैश् च बिल्वपत्रैश् च पूतनम् ।
श्राद्धं यः कारयेत् तत्र ब्राह्मणैर् वेदपारगैः

103.75

सर्वलक्षणसम्पूर्णैः कुलीनैर् गृहपालकैः ।
तर्पयेद् ब्राह्मणं भक्त्या अन्नवस्त्रहिरण्यकैः

103.76

नरकस्था दिवं यान्ति इत्य् उच्चार्य द्विजातयः ।
स्वर्गस्थाः परमं लोकम् इत्युक्त्वा प्रणमेद् द्विजान्

103.77

पतितान् वर्जयेद् विप्रान् वृषली यस्य मन्दिरे ।
स्ववृषं तु परित्यज्य वृषैर् अन्यैर् वृषायते

103.78

वृषलीं तां विदुर्देवा न शूद्रा वृषली भवेत् ।
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम्

103.79

सुवर्णहरणं तस्य मित्रद्रोहभवं तथा ।
नश्यन्ति पातकाः सर्वे इत्य् एवं शङ्करो ऽब्रवीत्

103.80

वाक्प्रलापेन किं वत्स बहुनोक्तेन किं तु वा ।
सर्वपापसमोपेतो दद्याद् दानं द्विजोत्तमे

103.81

सर्वदेवमयी धेनुः सर्वदेवात्मिका स्थिता ।
शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः

103.82

हरि स्कन्धे शिरो ब्रह्मा ललाटे वृषवाहनः ।
चन्द्रार्कौ लोचने ज्ञेयौ जिह्वायां तु सरस्वती

103.83

मरुद्गणाः सदा साध्यास् तस्याङ्गानि नरेश्वर ।
ओंकारश्चतुरो वेदाः सषडङ्गपदक्रमाः

103.84

ऋषयो रोमकूपेषु अस्थिख्याता महानगाः ।
दण्डहस्तो महाकायः कृष्णो महिषवाहनः

103.85

पृष्ठभागस्थितो नित्यं शुभाशुभनिरीक्षकः ।
चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च

103.86

विष्णुदेहोद्भवा गङ्गा दर्शनात् पापहारिणी ।
एवं या संस्थिता यस्मात् तस्माद् एषा सदा बुधैः

103.87

लक्ष्मीश् च गोमये यस्याः पवित्रा सर्वमङ्गला ।
गोमयाल् लेपनं तस्मात् कर्तव्यं पाण्डुनन्दन

103.88

गन्धर्वाप्सरसो गङ्गा गोखुरेषु च संस्थिताः ।
अश्विनौ कर्णयोर् नित्यं वर्तेते रविपुत्रकौ

103.89

पृथिव्यां सागरान्तायां यानि तीर्थानि पाण्डव ।
तानि सर्वाणि प्राप्तानि गवां पादेषु नित्यशः

103.90

युधिष्ठिर उवाच:
सर्वतीर्थसमा गावो गीर्वाणैः समलंकृताः ।
एतत्कथय मे तात कस्माद् गोषु समाश्रिताः

103.91

मार्कण्डेय उवाच:
सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः ।
देयास् तस्मात् सदा वन्द्याः कल्पिता विबुधैर् जनैः

103.92

श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन ।
सर्वासां क्षीरिणीर् गावः श्वेतवस्त्रावगुण्ठिताः

103.93

कांस्यदोहनिका देयाः स्वर्णशृङ्गीर्विभूषिताः ।
हनूमदीश्वरस्याग्रे भक्त्या विप्रेषु दापयेत्

103.94

निसर्गस्थेन सा देया स्वर्गमात्मन इच्छता ।
असमर्थो यमस् तेषां विष्णुलोकं प्रयान्ति ते

103.95

विष्णुलोकच्युतः सो ऽपि प्रयाति द्विजमन्दिरम् ।
तत्रैव जायते पुत्रो विद्वान् वनसमन्वितः

103.96

सर्वपापहरं तीर्थं हनुमदीश्वरं शुभम् ।
शृणोति मुच्यते पापाद् वर्णसङ्करसम्भवात्

103.97

दर्शे संचिन्तयेद् यस् तु मुच्यते नात्र संशयः

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc