भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 102

102.1

इति श्रीस्कन्दपुराणे रेवाखण्डे नन्दितीर्थवर्णनो नामैकशततमो ऽध्यायः ॥
र्क्स् अध्याय 102
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र वरुणेश्वरम् उत्तमम् ।
यत्र सिद्धः पुरा देवो वरुणो नृपसत्तम

102.2

पिण्याकशाकपर्णैश् च कृच्छ्रचान्द्रायणादिभिः ।
आराध्य गिरिजानाथं ततः सिद्धिं गता जनाः

102.3

तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।
पूजयेच् छङ्करं भक्त्या स गच्छेत् परमं पदम्

102.4

कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् ।
अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु

102.5

यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके ।
तत्फलं समवाप्नोति नात्र कार्या विचारणा

102.6

सर्वेषाम् एव दानानाम् अन्नदानम् अनुत्तमम् ।
यद्यत् प्रीतिकरं चैव तोयं च नृपसत्तम

102.7

तत्र तीर्थे मृतानां च नराणां भावितात्मनाम् ।
वारुणे च पुरे वासो यावद् आहूत सम्प्लवम्

102.8

भुक्त्वा तत्र बहुं कालं मर्त्यलोके ऽभिजायते ।
अन्नदानप्रदो नित्यं जीवेच् च शरदां शतम्

102.9

मार्कण्डेय उवाच:
ततो गच्छेच् च राजेन्द्र अग्नितीर्थम् अनुत्तमम् ।
यत्र सिद्धो महातेजास् तपः कृत्वा हुताशनः

102.10

सर्वभक्षीकृतो यश् च दण्डके मुनिना पुरा ।
नर्मदातटम् आश्रित्य पूतो जातो हुताशनः

102.11

तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् ।
उमया सहित भक्त्या सर्वपापैः प्रमुच्यते

102.12

तत्र तीर्थे नरः स्नात्वा दत्ते वै कांचनं नृप ।
ब्राह्मणेभ्यो जलं दत्त्वा लभते वार्बुदं फलम्

102.13

दधिच्छन्दे मधुच्छन्दे नन्दीशे वारुणे तथा ।
आग्नेये तत्फलं तात स्नात्वा मुच्येत किल्बिषैः

102.14

ते वन्द्या मानुषे लोके धन्याश् चाप्तमनोरथाः ।
यैर् हि दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम्

102.15

स्वर्गलोकम् अवापुस्ते यावद् इन्द्राश् चतुर्दश ।
ततः स्वर्गाच् च्युताश् चापि राजानः सन्ति धार्मिकाः

102.16

सर्वपापविनिर्मुक्ता भुञ्जते ते ऽचलां महीम् ।
आखण्डलप्रतापो ऽयं नर्मदातटसेवने

102.17

गङ्गाकनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा

102.18

रेवातीरं वसेन् नित्यं तोयं यस् तु सदा पिबेत् ।
स्नातो ऽसौ सर्वतीर्थेषु सोमपानं दिने दिने

102.19

गङ्गाद्याः सरितः सर्वाः समुद्राश् च सरांसि च ।
कल्पान्ते संक्षयं यान्ति न मृतैका च नर्मदा

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc