स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 101
इति श्रीस्कन्दपुराणे रेवाखण्डे पराशरतीर्थमहिमानुवर्णनो नाम शततमो ऽध्यायः ॥
र्क्स् अध्याय 101
मार्कण्डेय उवाच:
भीमेश्वरं ततो गच्छेत् सर्वपापक्षयंकरम् ।
सेव्यते ऋषिसङ्घैश् च भीमव्रतधरैर् अपि
तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।
जपंश् चैकाक्षरं मन्त्रम् ऊर्ध्वबाहुर् दिवाकरम्
तस्य जन्मार्जितं पापं तत्क्षणाद् एव नश्यति ।
सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम्
दशभिर् जन्मजनितं शतेन च पुराकृतम् ।
त्रिजन्मना सहस्रेण गायत्री हन्ति किल्बिषम्
वैदिकं लौकिकं चापि जाप्यं जप्तं जनेश्वर ।
तत्क्षणाद् दहते पापं तृणं च ज्वलनो यथा
तदेव बलमाश्रित्य कदाचित् पापम् आचरेत् ।
अज्ञानात् तस्य तत्क्षिप्रं न फलं हि कदाचन
तत्र तीर्थे तु गोदानं शक्तिमात्रेण दापयेत् ।
तद् अक्षयं फलं सर्वं जायते पाण्डुनन्दन
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र नारदेश्वरम् उत्तमम् ।
तीर्थानां परमं तीर्थं निर्मितं नारदेन तु
युधिष्ठिर उवाच:
नारदेन मुनिश्रेष्ठ कस्य तीर्थं विनिर्मितम् ।
एतद् आख्याहि मे सर्व प्रसन्नो यदि सत्तम
मार्कण्डेय उवाच:
परमेष्ठिसुतश्चापि नारदो भगवानृषिः ।
नर्मदायोतरे कूले तपस् तेपे पुराकृते
नवनाडीनिरोधेन काष्ठावस्थां गतेन च ।
तोषितः श्रीमहादेवो नारदेन युधिष्ठिर
ईश्वर उवाच:
तुष्टो ऽहं तव विप्रेन्द्र योगीश्वर अयोनिज ।
वरं प्रार्थय हे देव यत् ते मनसि वर्तते
नारद उवाच:
त्वत्प्रसादेन भो देव योगश् चैव प्रसिध्यतु ।
ईश्वर उवाच:
योगो भवतु भक्तिस् ते सर्वकालं ममैव तु
स्वेच्छाचारो भवे गच्छ स्वर्गपातालगोचरे ।
मर्त्ये च भ्रमसे योगिन् न केनापि निवार्यसे
सप्तस्वरास्त्रयो ग्रामा मूर्छनास् त्व् एकविंशतिः ।
मम प्रियकरं दिव्यं नृत्यं गीतं च योगिना
कलिं च पश्यसे नित्यं देवदानवकिन्नरैः ।
त्वत् तीर्थं भूतले पुण्यं मत्प्रसादाद् भविष्यति
इत्युक्त्वान्तर्दधे देवो नारदस् तत्र लिङ्गिनम् ।
स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम्
मार्कण्डेय उवाच:
पृथिव्याम् उत्तमं तीर्थं निर्मितं नारदेन तु ।
तस्मिंस् तीर्थे नरश्रेष्ठ नागच्छेद् विजितेन्द्रियः
मासि भाद्रपदे रम्ये कृष्णपक्षे चतुर्दशीम् ।
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम्
छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणम् ।
शस्त्रेण निहता ये तु तेषां श्राद्धं प्रदापयेत्
यान्ति ते परमं लोकं पिण्डदानप्रभावतः ।
कपिला चैव दातव्या तत्र देशे नराधिप
अस्य श्राद्धप्रभावेण ब्राह्मणानां नराधिप ।
नर्मदातोयपानस्य न्यायार्जितधनस्य च
एतेषां च प्रभावेण प्रेता यान्तु परां गतिम् ।
इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः
हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ।
विद्यादानेन चैकेन अक्षया गतिराप्यते
तस्मिंस् तीर्थे तु राजेन्द्र यो दद्याद् अग्रजन्मने ।
कांचनं स तिलं चैव स गच्छेच् च त्रिविष्टपम्
मार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थद्वयम् अनुत्तमम् ।
दधिछन्दं मधुछन्दं सर्वपापक्षयं करम्
दधिच्छन्दे नरः स्नात्वा यो दद्याच् च द्विजे दधि ।
उपतिष्ठति तस्यैतत् सप्तजन्मसु भारत
न व्याधिर् न जरा तस्य न शोको न च मत्सरः ।
दशचन्द्रशतं यावज् जायते विपुले कुले
मधुच्छन्दे तु मधुना मिश्रितं च तिलोदकम् ।
न च वैवस्वतं देवं पश्यते सप्तजन्मसु
मधुना सह मिश्रं च तिलं यस् तु प्रयच्छति ।
तस्य पुत्रस्य पौत्रस्य दारिद्र्यं नैव जायते
मधुना सह संमिश्रं तिलं यस् तु प्रयच्छति ।
मधुना सह संमिश्रं यस् तु पिण्डं प्रदापयेत्
तस्मिंस् तीर्थे तु यः स्नात्वा विधिवद् दक्षिणामुखः ।
पिता पितामहश् चैव तथैव प्रपितामहः
षोडशाब्दानि तुष्यन्ति नात्र कार्या विचारणा ।
मार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र नन्दितीर्थम् अनुत्तमम्
यत्र सिद्धश् च वै नन्दी तत् सर्वं कथयाम्य् अहम् ।
नर्मदां पुरतः कृत्वा पुरा नन्दी महेश्वरम्
तपस् तप्तं जपंश् चैव तीर्थात् तीर्थं जगाम ह ।
दधिच्छन्दं मधुच्छन्दं यावत् त्यक्त्वा च गच्छति
ततस् तुष्टो महादेवो नन्दिनं तमुवाच ह ।
महेश्वर उवाच:
भो भोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम्
तपसा तेन तुष्टो ऽहं तीर्थयात्राकृतेन च ।
नन्द्य् उवाच:
न चाहं कामये वित्तं न चाहं कुलसन्ततिम्
मुक्तिं न कामये चान्यद् देवेश चरणाम्बुजम् ।
कृमिकीटपतङ्गेषु तिर्यग्योनिगतेषु च
जन्मजन्मनि यास्यामि त्वद्भक्तिरचला च मे ।
तथेति चोक्तो देवेन परमेशेन नन्दिकः
गृहीत्वा तं करे शीघ्रं जगाम निलयं हरः ।
तस्मिंस् तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत्
अग्निष्टोमे च यत्पुण्यं फलं प्राप्नोति मानवः ।
तत्र तीर्थे महापुण्ये प्राणत्यागं करोति यः
शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम् ।
ततः कालेन महता जायते विपुले कुले
वेदवेदाङ्गतत्त्वज्ञे जीवेच् च शरदां शतम् ।
एतत् ते कथितं पार्थ सर्वतुष्टिप्रदं शुभम्
दुर्लभं सत्यसंज्ञस्य सर्वपापक्षयं करम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0