भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.133

7.133.1

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थिता देवि महाकालीति विश्रुता ॥
अधः स्थिते महापीठे पातालविवरान्विते

7.133.2

सर्वदुःखप्रशमनी सर्वशत्रुक्षयंकरी ॥
पूजनीया विधानेन कृष्णाष्टम्यां महानिशि ॥
गन्धैः पुष्पैस्तथा धूपैः क्रव्यैर्बलिभिरेव च

7.133.3

फलतृतीयां नारी च कुर्याद्वै तत्र भाविता ॥
वर्षमेकं सिते पक्षे देवीं पूज्य विधानतः ॥
फलानि ब्राह्मणे देयान्येव नूनं विधानतः

7.133.4

एतानि वर्जयेन्नक्ते ह्यन्नानि सुरसुन्दरि ॥
निष्पावा आढकी मुद्गा माषाश्चैव कुलित्थकाः

7.133.5

मसूरा राजमाषाश्च गोधूमास्त्रिपुटास्तथा ॥
चणका वर्तला वापि मकुष्ठाश्चैवमादयः

7.133.6

न भक्ष्यास्तावत्ते देवि यावद्गौरीव्रतं चरेत् ॥
तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे

7.133.7

धनं धान्यं गृहे तस्या न कदाचित्क्षयं व्रजेत् ॥
दुःखिता दुर्भगा दीना सप्त जन्मानि नो भवेत्

7.133.8

महाकालीव्रतं प्रोक्तं देव्या माहात्म्यसंयुतम् ॥
कृतं पातकनाशाय सर्वकामसमृद्धये

7.133.9

एवं देवि समाख्यातं महाकालीमहोदयम् ॥
क्षेत्रपीठं महादेवि मन्त्रसिद्धिप्रदायकम्

7.133.7.1.133.10

आश्वयुक्छुक्लपक्षे तु नवम्यां तत्र जागृयात् ॥
पीठे पूजाबलिं दत्त्वा मन्त्रं कामं जपन्निशि ॥
सौम्यचित्तः समाप्नोति वांछितां सिद्धिमुत्तमाम्

7.133.133

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालीमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc