भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.134

7.134.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करावर्तकां नदीम् ॥
ब्रह्मकुंडादुत्तरतो नातिदूरे व्यवस्थिताम्

7.134.2

पुरा यज्ञे वर्तमाने सोमस्य तु महात्मनः ॥
ब्रह्मा सुरगणैः सार्धं प्रभासं क्षेत्रमागतः

7.134.3

सोमनाथप्रतिष्ठार्थमृक्षराजनिमंत्रितः ॥
प्रतिज्ञातं पुरा तेन ब्रह्मणा लोककारिणा

7.134.4

यावत्स्थास्याम्यहं मर्त्ये कस्मिंश्चित्कारणांतरे ॥
तावत्संध्यात्रयं वंद्यं नित्यमेव त्रिपुष्करे

7.134.5

एतस्मिन्नेव काले तु लग्नकाल उपस्थिते ॥
आदिष्टं शोभनं कालं ब्राह्मणैर्दैवचिन्तकैः

7.134.6

ततस्तं प्रस्थितं ज्ञात्वा पुष्करे तु पितामहम् ॥
संध्यार्थं रात्रिनाथो वै वाक्यमेतदुवाच ह

7.134.7

।
दैवज्ञैः कलितः काल एष एव शुभोदयः ॥
यथा कालात्ययो न स्यात्तथा नीतिर्विधीयताम्

7.134.8

तं ज्ञात्वा सांप्रतं कालं ब्रह्मा लोकपितामहः ॥
मनसा चिन्तयामास पुष्कराणि समाहितः

7.134.9

तानि वै स्मृतमात्राणि ब्रह्मणा वरवर्णिनि ॥
प्रादुर्भूतानि तत्रैव नद्यास्तीरे सुशोभने

7.134.7.1.134.10

आवर्तास्तत्र सञ्जाता ज्येष्ठमध्यकनीयसः ॥
अथ नामाकरोत्तस्या ब्रह्मा लोकपितामहः

7.134.11

पुष्करावर्तका नाम्ना अद्यप्रभृति शोभना ॥
नदी प्रयास्यते लोके ख्यातिं मम प्रसादतः

7.134.12

अत्र स्नात्वा नरो भक्त्या तर्पयिष्यति यः पितॄन् ॥
त्रिपुष्करसमं पुण्यं लप्स्यते स तथेप्सितम्

7.134.13

श्रावणे शुक्लपक्षस्य तृतीयायां नरोत्तमः ॥
यः पितॄंस्तर्पयेत्तत्र तृप्तिः कल्पायुतं भवेत्

7.134.134

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करावर्तकानदीमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc