स्कन्द पुराण · अध्याय 7.132
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैष्णवीं शक्तिमुत्तमाम् ॥
सोमेशादीशदिग्भागे नातिदूरे व्यवस्थिताम्
सिद्धलक्ष्मीति विख्याता ह्यत्र पीठाधिदेवता
ब्रह्माण्डे प्रथमं पीठं यत्प्रभासं व्यवस्थितम् ॥
तत्र देवि महापीठे योगिन्यो भूचराः खगाः ॥
भैरवेण समे तास्तु क्रीडन्ते स्वेच्छया प्रिये
जालंधरं महापीठं कामरूपं तथैव च ॥
श्रीमद्रुद्रनृसिंहं च चतुर्थं पीठमुत्तमम्
रत्नवीर्यं महापीठं काश्मीरं पीठमेव च ॥
एतानि देवि पीठानि यो वेत्ति स च मन्त्रवित्
सर्वेषां चैव पीठानामाधारं पीठमुत्तमम् ॥
सौराष्ट्रे तु महादेवि नाम्ना ख्यातं महोदयम् ॥
कामरूपधरं ज्ञानं यत्राद्यापि प्रवर्तते
तत्र पीठे स्थिता देवी महालक्ष्मीति विश्रुता ॥
सर्वपापप्रशमनी सर्वकार्यशुभप्रदा
श्रीपञ्चम्यां नरो यस्तु पूजयेत्तां विधानतः ॥
गन्धपुष्पादिभिर्भक्त्या तस्यालक्ष्मीभयं कुतः
उत्तरां दिशमास्थाय महाल क्ष्म्यास्तु सन्निधौ॥
यो जपेन्मन्त्रराज्ञीं तां सिद्धलक्ष्मीति विश्रुताम्
लक्षजाप्यविधानेन दीक्षास्नानादिपूर्वकम् ॥
दशांशहोमसंयुक्तं त्रिमधु- श्रीफलेसुभिः
एवं प्रत्यक्षतां याति तस्य लक्ष्मीर्न संशयः ॥
ददाति वांछितां सिद्धिमिह लोके परत्र च
तृतीयायामथा ष्टम्यां चतुर्दश्यां विधानतः ॥
यस्तां पूजयते भक्त्या तस्य सिद्धिः करे स्थिता
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धलक्ष्मीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0