भाषा

ENहिગુ
ग्रंथ पाठ

शिष्यलेख · श्लोक 82-101

82

प्रम्लायमानकुसुमाः श्रु x x x दिग्धा म्लानाम्बराः करुणदीक्षितबन्धुवर्गाः ।
दुःखं परं यदमरा मरणे व्रजन्ति तन्मानवा न जलबुद्बुदलोलजीवाः

83

दुःखाग्निप्रकरनिरोधभैरवे ऽस्मिन्यलोके वहति जनः सुखाभिमानम् ।
तन्मत्योर्वदनमपावृतं विशालं तद्बीजं पुनरपि जन्मपादपस्य

84

तं तृष्णामयदृढदीर्घतन्तुबद्धं पर्यस्तप्रणिहितभीमकालदण्डम् ।
सत्त्वानां भवजलधौ परिप्लुतानां मत्स्यनां बडिशमिवान्तकेन दत्तम्

85

कुम्भीपाकक्वथितकलिलादुष्णसंरम्भवेगात्कृत्वोद्ग्रीवं क्षणमपि सुखं लब्धनिश्वासमोक्षाः ।
क्रोधापूर्णैः सुबहुभिरयोमुद्गरैस्ताड्यमाना मन्यते तं परमिव सुखं नारका यद्वदेव

86

तद्वद्दुःखैरनिशमवशो दारुणैः पीड्यमानस्तावत्कालं जरणमणरक्षोभमुक्तः कथंचित् ।
मन्दीभूते क्षणमपि निजे दुःसहे दुःखवह्नौ सर्वो लोकस्तनुसुखलवग्रामतृष्णां करोति

87

यावद्यावज्जगति सकले जायते सौख्यसंज्ञा तावत्तावद्बहुतरशिखो जायते रागबह्निः ।
यावद्यावद्विसरति शुभा भावना भाव्यमाना तावत्तावद्बहलतरतामेति मोहान्धकारम्

88

यावद्यावन्नियतमशुभा भावना याति वृद्धिम् ।
तावत्तावत्तरलतरतमिति मोहान्धकारम्

89

दुर्गन्धिपूतिविकृतैररविन्दमिन्दुमिन्दीवरं च तुलयन्ति यदाङ्गनाङ्गैः ।
तस्यानृतस्य फलमुग्रमिदं कवीनां तास्वेव गर्भनिलयं पदमी विशन्ति

90

का सौगतिर्जगति या शतशो न याता किं तत्सुखं यदशकृन्न पुरानुभूतम् ।
कास्ताः श्रियश्चपलचामरचारुहासाः प्राप्ता न यास्तदपि वर्धत एव रागः

91

नद्यो न ता न विहृतं पुलिनेषु यासां स्थानं न तज्जगति यत्र कृतो न वासः ।
व्योम्नापि तन्न पदमस्ति न यत्र यातं दुष्पूरणस्तदपि वर्धत एव रागः

92

दुःखं न तद्यदसकृन्न पुरानुभूतं कामा न ते जगति यैरिह तृप्तिरासीत् ।
सत्त्वो न सो ऽस्ति जठरे शयितं न यस्य संसारिणस्तदपि नास्ति कथं विरागः

93

अत्यायते जगति जन्मपरिग्रहे ऽस्मिन्दुःखे सुखे च बहुशः परिवर्तमानः ।
नासौ जनो जगति यो न बभूव बन्धुर्द्वेषोरगस्तदपि तिष्ठति भीमभोगः

94

यैः सार्धमेत्य हसितं ललितं प्रगीतमेकत्र पीतमशितं च कृताश्च गोष्ठ्यः ।
कालक्रमेण गमिताः कति के ऽपि रम्या नीताः समाश्च विषमाश्च दशाः कथंचित्

95

तानार्जवं जवविवर्तनदृष्टनष्टानावर्तमध्यपतितानिव वीक्ष्यमाणः ।
संसारसागरगतानपहाय बन्धूनेकः प्रयाति यदि नास्ति ततः कृतघ्नः

96

अङ्कस्थितेन शिशुना विवशेन यासां पीतः पयोधररसं प्रणयानुयातः ।
तन्निष्फलप्रचुरदुर्ललितैकभाजः को नाम दस्युरपि हातुमिहोत्सहेत

97

या संस्थितो ऽयमुदरे ऽपि कृतावकाशो याः स्नेहविक्लवधियः श्लथमेनमूहुः ।
ता दुःखिता अशरणाः कृपणा विहाय को नाम शत्रुरपि गन्तुमिहोत्सहेत

98

विकीर्णे दुःखौघैर्जगति विवशे ऽस्मिन्नशरणे परार्थे यद्दुःखं तदिह सुखमाहुः सुपुरुषाः ।
क्षणं क्षुत्तृष्णोष्णश्रमविगमरम्यानरुचः परं कृत्वा तेषामपि यदिह क इवास्य प्रतिसमः

99

न सारम्यैर्या नैव च नृपतिलक्ष्मीपरिकरैर्न दारैर्नापत्यैर्न सुरभवने नासुरगतौ ।
कथंचित्संप्राप्यं x विषयसुखं भोगपरमैर्लभन्ते या प्रीतिं परहितसुखाधाननिरताः

100

स्वयं घासग्रासं पशुरपि करोत्येव सुलभं यदृच्छा लब्धं वा पिबति सलिलं गाढतृषितः ।
परस्यार्थ कर्तुं यदिह पुरुषो ऽयं प्रयतते तदस्य स्वं तेजः सुखमिदमहो पौरुषमिदम्

101

यदालोकं कुवन् भ्रमति रविरश्रान्ततुरगः सदालोकं धत्ते यदगणितभारा वसुमती ।
न स स्वार्थः कश्चित्प्रकृतिरियमेव महतां यदेते लोकानां हितसुखरसैकान्तरसिकाः

मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc