भाषा

ENहिગુ
ग्रंथ पाठ

शिष्यलेख · श्लोक 62-81

62

म्लेच्छेषु वा नरकपालसमव्रतेषु तिर्यक्षु वा कृतपरस्परभक्षणेषु ।
जातिं लभेत यदि तत्र तदेव शीलमासेवते पतति येन पुनः प्रपातम्

63

यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम् ।
चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफलीकरोति

64

अत्यन्तदुर्लभमुपेत्य मनुष्यभावं यद्वाञ्छितं तदभिवाञ्छितमेव कुर्यात् ।
चण्डानिलाकुलितदीपशिखाचलस्य न ह्यायुषः क्षणमपि स्थितिनिश्चयोऽस्ति

65

श्वः कार्यमेतदिदमद्य परं मुहूर्तादेतत्क्षणादिति जनेन विचिन्त्यमाने ।
तिर्यग्निरीक्षणपिशङ्गितकालदण्डः शङ्के हसत्यसहनः कुपितः कृतान्तः

66

आयाति फुल्लकुसुमः कुसुमागमो ऽयमेषा शशाङ्कतिलका शरदागतेति ।
सर्वः प्रहृष्यति जनो न पुनर्ममैतदायुः प्रहीणमिति याति परं विषादम्

67

आसन्नपीनशशिमण्डलमण्डनासु विश्रान्तवारिगुरुवारिदमेखलासु ।
निःसङ्गमासु गिरिशृङ्गवनस्थलीषु धन्या नयन्त्यनिलचञ्चलशीलमायुः

68

किं सा रतिर्भवति नन्दनभूमिकासु दिव्याङ्गनाजघनपृष्ठशिलातलासु ।
या मुग्धमुग्धहरणीगणसेवितासु निःसङ्गचारुसुभगासु वनस्थलीषु

69

दिव्याङ्गनापरिमलाविलये निभिन्नसंतानकस्तवकहासवितण्वनीषु ।
किं सा रतिः सुरसरित्सु विविक्तरम्यतीरासु या शुचिजलासु वने नदीषु

70

विशालाः शैलानां विरतजनसंपातसुभगा गुहा गाढाभोगा हरितवनलेखापरिकराः ।
सरित्तीरासन्ना सुरजमधुरैर्निर्जनरवैर्न गम्याः क्लेशाग्नेरयमिति वदन्तीव पथिकान्

71

मायामरीचिदकचन्द्रतरंगकल्पाः कामा जिनेन गदिता विभवाः स्त्रियश्च ।
स्वप्नान्तदुर्लभितविभ्रमविप्रलब्धा बालाः पतन्ति निरयेष्वपि येषु सक्ताः

72

आपातमात्रमधुरा विषया विषश्च घोरा विषाककटुका विषया विषश्च ।
मोहान्धकारगहना विषया विषश्च दुर्वारवेगचपला विषया विषश्च

73

कामा विषश्च विषयाश्च निरूप्यमानाः श्रेयो विषं न विषया विषमस्वभावाः ।
एकत्र जन्मनि विषं विषतां प्रयाति जन्मान्तरे ऽपि विषया विषतां प्रयान्ति

74

विषस्य विषयाणां च दूरमत्यन्तगोचरम् । उपयुक्तं विषं हन्ति विषयाः स्मरणादपि

75

संसृष्टं व्रजति विषं विषेण शान्तिं सन्मन्त्रैरगदधरैश्च साध्यमानम् ।
युक्तं वा भवति विषं हिताय नॄणां न त्वेवं विषयमहाविषं कदाचित्

76

यद्वद्वृषो विषमकूपतटान्तत्रूढो दूर्वाप्रवाललवलालसमानसः सन् ।
श्वभ्रे पतत्यथ च नास्तु त एव लाभस्तद्वत्सुखान्वितमतिः खलु जीवलोकः

77

मन्दाकिनीजलरयाकुलितालकाभिः क्रीडाविहारमनुभूय सहाप्सरोभिः ।
भूयो भ्रमन्ति खरवैतरणे तरंगसंपर्कजर्जरितदारुणदुःखभाजः

78

आस्तीर्णकल्पतरुपल्ल्वसंस्तरेषु कान्तासखाः सुरवनेषु मखं विहृत्य ।
भूयो भ्रमन्ति निशिताकुलशस्त्रपातविच्छिन्नगात्रमसिपत्त्रवनस्थलीषु

79

स्पर्शे सुखासु पदपातनतोन्नतासु मेरोर्नितम्बपदवीषु चिरं विहृत्य ।
उत्तप्तसैकतकुकूलकृशानुराशिं संसीर्यमाणचरणोरुभुजो भ्रमन्ति

80

गत्वा दिवं मुखरभासुरकिङ्कनीकहारावलीनिकरदन्तुरितैर्विमानैः ।
घोरं स्थिराश्रयममेयमनन्तपारमन्धं तमः पुनरधःशिरसा पतन्ति

81

शक्रो ऽपि यत्र सुरकिंनरनागयक्षमौलिप्रभाप्रकरपिञ्जरपादपीठः ।
कर्मानिलाकुलगतिः कुगतिः प्रयाति को नाम तत्र पुरुषो न भयं भजेत

मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc