शिष्यलेख · श्लोक 102-115
अविद्याधूम्रान्धभ्रमपरिगतव्याकुलगतिप्रदीप्ते दुःखाग्नौ पतितमवशं वीक्ष्य भुवनम् ।
स्फुरद्वह्निज्वाला प्रमथितशिरोवेष्टननिभा यातन्ते ये ऽत्राद्भुत इह पुरुषास्ते सुकृतिनः
अवीचिं गाहन्ते हुतवहशिखापूरितमपि प्रसर्पद्रोमाञ्चा हिमनिकरचन्द्रांशुशिशिरम् ।
परार्थे x x x स्फुटनलिनहासापि नलिनी करोत्येषां तापं हुतवहशिखासंहतिरिव
परहितकरणाय बद्धकक्षाः सुखमसिपत्त्रवने वसन्ति सन्तः ।
न पुनरमरसुन्दरीसहायाः क्षणमपि नन्दनकानने रमन्ते
अशरणजनतारणाय तीर्णाः पुनरपि वैतरणीं तरन्ति धीराः ।
न तु गगनसरित्तरंगभङ्गव्यतिकरसङ्गसुखं स्वयं भजन्ते
इति सुचरितरत्नं भूषणं भूषणानां शिवममृतमुदारं भासुरं भासुराणाम् ।
असुलभमकृतज्ञैर्नन्दनं नन्दनानां भज समसुखहेतुं मङ्गलं मङ्गलानाम्
सुगतवचनपुष्पं सर्वदा सेवनीयं फलति फलमुदारं पुष्पमेव द्रुमाणाम् ।
सुगतवचनपुष्पादर्थराशिर्निषेव्यो मधुनि मुधकराणां यस्य वाञ्छाप्रकर्षम्
विसृज विषयान्नीत्याकीर्णां क्षणव्ययसङ्गिनो भज समसुखं साकाङ्क्षं कृतान्तभयोज्झितम् ।
विकर तिमिरं मोहव्याजं विमोक्षयथार्गलं न खलु सुचिरं निद्रायन्ते सदश्वकिशोरकाः
विनयविसरो वीर्यस्कन्धः क्षमादमपल्लवः शमथकुसुमः प्रज्ञाशाखः प्रदानघनच्छदः ।
प्रणिधिशिखरः शीलच्छायः प्रशान्तिफलप्रदो भव भव मरौ तापार्तानां त्वमेकमहाद्रुमः
बहुजनहितो माभैर्वादप्रदानमहास्वनः पृथुतरशोधारासारः कृपानिलचोदितः ।
प्रशमितरजः शीलच्छायाविभूषितभूतलो भव भव मरौ तापार्तानां त्वमेकमहाघनः
प्रकटविपुलं पङ्कागाधः प्रसन्नतराश्रयः सततशिशिरो जालव्यालप्रमादविवर्जितः ।
प्रकृतिसुभगस्तृष्णाच्छेदाविमर्दभरक्षमो भव भव मरौ तापार्तानां त्वमेकमहाह्रदः
इति निगदता यदुपार्जितं पुण्यं मया कियत्सुगतचरिते कृत्वा श्रद्धामनेन जनो ऽखिलः ।
सततसुखितो रम्याभोगः समृद्धमनोरथः परहितरतः सर्वज्ञत्वं प्रयातु ततः शनैः
करतलसमाः स्पष्टालोकाः प्रशान्तकृशानवः स्थलकमलिनीपत्त्रच्छन्ना बिसाङ्कुरदन्तुराः ।
शुचिसुरभयः स्फुल्लाम्भोजैर्विभूषितभूमयो दधतु नरकाः स्फीतां शोभां सशीकरवायवः
विजितंविरुतमारानीकाः कृताभयघोषणा गगनसलिलक्रीडा रम्या समेत नरामराः ।
जननमरणक्लेशायासप्रबन्धविघातिनो दिशि दिशि सदा बुद्धोत्पादा भवन्तु समीहिताः
भवतु जगतां धर्मामोदः प्रबन्धमहोत्सवः सुचिरगुणिता मृत्योर्बन्ध्या भवन्तु मनोरथाः ।
मुनिजनकथागोष्ठीबन्धैः समावृतवर्षिभिः सततशिशिरः सुभगचन्द्रालोकः प्रयातु कृतार्थताम्
मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0