भाषा

ENहिગુ
ग्रंथ पाठ

शिष्यलेख · श्लोक 42-61

42

धावञ्जवेन निशितक्षुरसंस्तरेषु विच्छिन्नमूर्तिरसिपत्त्रलतावनेषु ।
कूपे पतत्यशरणः शितशूलशक्तिप्रासासिहासनिजितान्तकवक्त्ररन्धे

43

तीव्रातपक्वषितदुःसहाखिन्नदेहो वृक्षान्निरीक्ष्य घननीलदलानुपैति ।
तत्पत्त्रशस्त्रशतपातविभिन्नमूर्तिस्तत्रैव तिष्ठति चिरं विरुतैकबन्धुः

44

पर्यन्तनिर्गतशिखाशतविस्फुलिङ्गमालाकुलज्वलितमण्डनमण्डिताभिः ।
प्रेमान्तरप्रणयनिर्दयमङ्गनाभिरालिङ्ग्यते क्रकचकर्कशविग्रहाभिः

45

शैलाभभीषणविसंकटमेषयूथसंघट्टचूर्णितविशीर्णसमस्तगात्रः ।
आपातवातलवशैत्यसमर्पितासुः संचूर्ण्यते पुनरसौ शतशस्तथैव

46

उत्त्रासितो मुखरखड्गशिवासहस्रैरारोहति द्रुतपदं पुनरेव रौद्रान् ।
तां कूटशाल्मलिमधोमुखकण्ठकौघनिर्भिद्यमानवपुरर्पितगाढशल्यः

47

मृत्योः करान्तगलितैरिव कालपाशैराशीविषैर्धृतफणैर्दृढसंयतस्य ।
उत्पाटयन्ति नयने स्फुरतः प्रसह्य तत्र स्थितस्य बकवायसकङ्कगृध्राः

48

तेषां मुखैः कुलिशकोटिनिभैः प्रसह्य निद्रायमानवपुरेष कृतार्तनादः ।
लोहोन्मुखप्रचुरपीवरतीक्ष्णशङ्कुनिर्भिन्नमूर्तिरवरोहति नष्टचेताः

49

आदीप्तशूलशितशल्यविभिन्नदेहास्तत्रैव केचिदवरोढुमशक्नुवन्तः ।
घोरैर्यदा निशितशस्त्रमुखैरयोभिराकृष्यमाणविसरद्गलितान्त्रसूत्राः

50

केचित्पतन्ति विषमेषू गिरेस्तटेषु केचित्परिक्वषिततैलकटाहकुक्षौ ।
उत्तप्तवालुकभुवं विसृतस्फुलिङ्गामेन्य विशन्ति पदसङ्गमनाप्नुवन्तः

51

एके पुनः सिमिसिमायितमूक्ष्मजन्तुसंघातजर्जरितसूनविपूतिकायाः ।
संचालमात्रमपि हर्तुमशक्नुवन्तो जीवन्ति कर्ममयपाशनिबद्धजीवाः

52

अस्थीन्यपि प्रणयता रहितोपमेन शीतेन जर्जरितवेपितपिण्डिताङ्गाः ।
उत्पन्नभिन्नपिटका शतजातजन्तुजग्धक्षतश्रुतसमज्जवशालशीकाः

53

संदष्टलग्नदशनास्तनुलोमकेशाः संघट्टितव्यधितलोचनकर्णकण्ठाः ।
आ चेतसो जडतरत्वमुपेतकायास्तिष्ठन्ति शीतनरकेषु भृशं नदन्तः

54

विकीर्णबहलोग्रगन्धकटुधूमधूम्रान्तरं विजृम्भितशिखाकरप्रकररुद्रदिग्मण्डलम् ।
सितास्थिसकलाटलीरचितभूषणं भीषणं प्रवृत्तमिव भैरवं ससुजचर्म हाहारवम्

55

चटच्छढदिति क्वचित्स्फुरदुरुस्फुलिङ्गाकुलं छमच्छमदिति क्षणस्थगितजृम्भितं मेदसि ।
कटत्कटदिति क्वणन्तमुरसो ऽस्थिरन्ध्रान्तरे पतन्ति नरकानलं विजितकल्पकालानलम्

56

पुराणतृणजर्जरज्वलितपर्शुका x x x x x x x x लतालवो धगिति वान्तदीप्तार्चिषः ।
स्फुटज्जठरनिःसृतप्रसरदन्त्रसंत्रासिताः विमुक्तगुरुघर्घरध्वनितमात्रशेषक्रियाः

57

निरीक्ष्य विवरान्तरं मुहुरपावृतं दूरतः प्रयान्ति कथमप्यमी प्रमतदुःखमोक्षाश्रयाः ।
यदा तदपि घट्टितं भवति कर्मपट्टैर्दृढैस्तदा विफलवाञ्छिताः किमपि यान्ति दुःखान्तरम्

58

ज्वलन्निशिततोमरप्रकरवर्षणानन्तरं द्रवीकृतमयोरसं दहनरश्मिमालाकुलम् ।
पिबन्ति गलदस्रवो नरकपालदण्डाहता मुखश्रवणनासिकाविवरलब्धधूमोद्गमाः

59

आदग्धविस्फुटितनेत्रशिरः कपालमस्तिष्कदीपितपिशङ्गशिखाकलापः ।
शुष्केन्धनप्रकरनिर्दयतामुपैति शोकाग्निकोष इव गात्रचयेषु तेषाम्

60

ते जन्तवो गिरिनदीजललोलजीवा औष्ठ्यं तदेव नरकेषु त एव चाग्निः ।
कर्माणि तत्खलु तथा परिणामयन्ति सर्वं यथा परमदारुणमाविभाति

61

आत्मीयकर्मविवशाकुलवेष्टितस्य मुक्तस्य पापनिलयान्निरयां कथंचित् ।
लोकेष्वनन्तगतिभेदभयाकुलेषु मानुष्यकं परमदुर्लभमेव जन्तोः

मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc