भाषा

ENहिગુ
ग्रंथ पाठ

शिष्यलेख · श्लोक 21-41

21

तत्र स्थितं तमशुचौ परिवर्तमानमार्द्रोल्बवेष्टिततनुं बहलोग्रगन्धम् ।
पूर्वस्मृतिव्रणमिवोल्बणदोषपाकं भिन्नं जहाति घृणयेव निपीड्यमानः

22

सर्वोपचारविवशं शिथिलाकुलाङ्गमुत्सृज्य बाल्यमुपजातकणैरभावः ।
तुङ्गेषु यौवनगिरीन्द्रदरीतटेषु मोहायते विषयदृष्टिविषालयेषु

23

स ततोऽपि पतत्यचेतनः पतितो नैव जहाति विक्रियाम् ।
अजरामरमात्मविग्रहं ललितं मन्यत एवं बालिशः

24

स विहाय मुनीन्द्रसेवितं सुपथं यात्यपथेन मोहितः ।
रभसेन परां विचूर्णयन् गजवज्जातमदो निरङ्कुशः

25

अथ तस्य बलादनिच्छतः शिरसि न्यस्तपदा सुनिर्दयम् ।
निशितं पलिताङ्कुशं जरा करिणो हस्तिपकीव यच्छति

26

स तथापि विजिह्यचेष्टितः कुशलेनापि भयादिवोज्झितः ।
सुकृतानि करोति मोहितः शरवत्स्वात्मवधाय पुष्पितः

27

अथ तं प्रहसन्निवान्तकः पलितौघैर्दर्शनैरिवोल्बणैः ।
शिरसि ग्रसितुं प्रवर्तते निरुपायप्रशमो जरारुजः

28

विदलन्ति ततो ऽस्य सन्वयो मतिरुत्क्रामति हीयते गतिः ।
क्षयमेति वपुः परिश्लषं नियतं वर्धत एव जीविताशा

29

क्रमशश्च निमीलितेन्द्रियो हतशक्तिर्विषयेषु लालसः ।
उपगच्छति यामयं दशां नरके सा यदि भीम एव सः

30

कथमेवमिदं मया कृतं कथमेवं न कृतं हता गतिः ।
कथमेवमयं मयास्तकः शिरसि न्यस्तपदो न लक्षितः

31

इति x x x चित्तमाधिभिः कुकृतैः शोकमयैरुपद्रुतः ।
व्यधितेन सवाष्पवारिणा करुणं बन्धुजनेन वीक्षितः

32

विनिपीडितमर्मबन्धनस्तिमिरं घोरतरं विशन्निव ।
विजहाति निजं कडेवरं दयितं यत्नपरेण रक्षितम्

33

स विरौति गृहीतमूर्धजो यमदूतैर्दृढपाशसंयतः ।
न शृणोति जनो ऽस्य भाषितं स्वकृताक्रन्दरवादिवाकुलः

34

प्रस्तारशैलसरिदन्तरदुर्गमेषु मार्गेषु तीक्ष्णतरकण्टकसंकटेषु ।
घोरैः कृतान्तपुरुषैर्यमदण्डघातमाकृष्यते गलनिषेवितकालपाशः

35

दूरान्निरीक्ष्य विमलं सलिलं पिपासुरभ्येति गाढतृषितो यदयं तदेव ।
केशौघशैवलविमिश्रितपूतिपूयपङ्कापङ्कितं क्षतजवं जलता प्रयाति

36

वेलानिलाकुलितशीकरशीतसानुमानीलचन्दनतरुं मलयं प्रयाति ।
सो ऽप्यस्य चण्डवनदावशिखावलीढशीर्णोल्मुकप्रकरदन्तुरतां प्रयाति

37

यद्येति वारिनिधिमुद्वतभीमलोलकल्लोलभेदजनितोल्वणफेनहासम् ।
सो ऽप्यस्य तप्तविषदारुणसैकताभ्रविभ्रान्तकर्कशमरुन्मरुतां प्रयाति

38

तत्र स्थितस्य जलदागमशंसिनो ऽस्य साङ्गारधूमकुलिशोपलविस्फुलिङ्गम् ।
विद्युल्लताकनकराजिपिशङ्गमङ्गे नाराचवर्षमभिवर्षति वारिवहः

39

तापार्दितस्य दहनं तु हितानिलो ऽपि शीतार्दितस्य दहनो ऽपि करोति शीतम् ।
अत्युग्रकर्मपरिणामविमोहितस्य विश्वं तदास्य विपरीतमिदं विभाति

41

शूचीमुखस्य बहुयोजनभीमकुक्षेरार्तस्य वारिपिबतो ऽपि महासमुद्रे ।
अप्राप्त एव पृथुकण्ठदरीप्रपातश्लेष्मोष्मणा जललवः परिशोषमेति ॥ श्ल्_40
चञ्चच्छटानिक x पीवरसारमेयदंष्ट्राङ्कुराग्रकुलिशक्षतचूर्णिताङ्गः ।
क्षाराम्बुपूर्णतरवैतरणीतटेषु निष्कृष्यते विषमकोटिशितोपलेषु

मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc