शिष्यलेख · श्लोक 1-20
ओम् नमो रत्नत्रयाय ॥
पूर्वावदानचरितेषु सुदुष्करेषु गीतेषु यस्य सुरकिंनरसुन्दरीभिः ।
अद्यापि चन्द्रकिरणैरिव संकुचन्ति माराङ्गनावदनपङ्कजकाननानि
सौभाग्यहृद्यवपुषः परमाद्भुतस्य यस्याल्पपुण्यजनदुर्लभदर्शनस्य ।
संपादिताभिमतलोकमनोरथस्य चिन्तामणेरिव परार्थरसैकवृत्तिः
यः सर्वदा परसुखैकरसो बभूव दुःखेन दुःखमगमत्परमं परेषाम् ।
अत्यर्थमाहितमहाकरुणागुणस्य यस्यात्मदुःखसुखमन्तरितं तदेव
विच्छि x मावयसि यस्य शिरः परार्थ x x x सन्नयनपङ्कजतामवाप ।
स्वार्थं पुन x x x x x सितातपत्रा पृथ्वी बभूव निशितेव कृपाणधारा
लोकोपकारनिरतप्रकटोदयेन शुल्क x x x x x x गुणोज्ज्वलेन ।
दोषान्धकारभिदुरेण मनोरमेण येनोदितेन शशिनेव जगत्प्रकाशम्
चूडाविभूषणमिवोत्तमरत्नकल्पमूढं शिरोभिरुरुभिः फणिनां x x x ।
यच्छासनं शुभमखण्डविशुद्धवृत्तं पातालमूर्धनि लयतिमिरं प्रमार्ष्टि
धर्माम्बुवाह इव यो ऽभ्युदितो हिताय धर्मामृतं जलमिवैकरसं ववर्ष ।
तापाप x x x x x x x x x x x x यदनेकरस x x x x x x x x x x x x x x
विस्तीर्णनिम्नविमलप्रकटाश्रयेषु पात्रेषु सर्वपरिमर्दसहेषु येषु ।
तत्संस्थितं भवति सर्वजनोपकारं x x x x x x x x x x x x x x
तज्जागरं मरणजन्मजरापहारि ये नाप्नुवन्ति न पिबन्ति न धारयन्ति ।
ते माहिता बहुलमोहमहामदेन x x x x x x x x x धमाद्रियन्ते
चक्षुर्यदेकममलं जगतो ऽखिलस्य साधारणं त्रिभुवनस्य यदेकदीपः ।
तच्छासनं समधिगम्य यदुत्सृजन्ति मोहस्य तद्विलसितं परमाद्भुतस्य
शिक्षा x x x विदितेष्विव बोधिसौधसोपानपद्धतिपदेषु पदं दधानाः ।
तुङ्गां प्रयान्ति पदवीमनिवर्तमाना भूमिं निजामवतरन्ति विवर्तमानाः
जन्मार्णवं परमदुस्तरमुत्तितीर्षुः शीलप्लवं क इह हस्तगतं जहाति ।
कान्तारमध्यपतितः कथमार्यसार्थाद्भ्रष्टो न शोचति चिरं सुपथानभिज्ञः
संसारभूधरदरीजठरप्रपातादुत्थातुमुद्यतपराः परमान्धकारात् ।
मुञ्चन्ति ये जिनगुणावलिमन्तराले वेगेन ते विषमपातमधः पतन्ति
एकाकिनो ऽपि मनसा नियमं प्रकल्प्य ये कर्मणा समुदितेन समुन्नयन्ति ।
ते साधवो भुवनमण्डलमौलिभूतास्तैरेव यान्ति गुरुतां गुरवः सुशिष्यैः
लब्ध्वा गुणौघजननीं जननीमिवार्यामत्यन्तशुद्दहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्
तिष्ठन्तु तावदिह सर्वजनापवादाः सर्वाश्च पापगतयो निरयाश्च घोराः ।
सद्यो जहाति सहजां प्रकृतिं यदेष दुःखं ततः किमपरं भुवि सज्जनस्य
यः प्रप्य नावमिव धर्ममयीं विशालां भूयो जहाति पदवीं मुनिभिः प्रक्लृप्ताम् ।
संसारसागरविवर्तननर्तनेषु चेतःस्पृहा तरलिता नियमेन तस्य
संसारचक्रमनिशं परिवर्तमानमारुह्य यः सुखमवैति विवर्तमानः ।
सो ऽवश्यमेव तरिवशं मसः क्रमेण सर्वाः समाश्च विसमाश्च गतीः प्रयाति
अत्युग्रगन्धमशुचिप्रकरोपरुद्धमत्यन्तसंकटमुपोढघनान्धकारम् ।
आविश्य गर्भनिलयं निरयं यथैव दुःखं महत्स सहते परिपिण्डताङ्गः
कालक्रमेन स ततो दृढतैलयन्त्रनिष्पीड्यमान इव याति भुवं कथंचित् ।
सद्यस्तथापि यदयं न जहाति जीवं दुःखोपभोगगतिदुर्लभि तत्तदेव
मूल पाठ: Śiṣyalekha · Edition: I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0