शिक्षासमुच्चय (अन्य संस्करण) · भाग 81100
तत् ते मोहपुरुष्êमं मम धर्मं नानाकरिष्यन्ति ।
इदं श्रावकाणां देशितम् इदं प्रत्येकबुद्धानाम् इदं बोधिसत्वानाम् इति ।
स नानात्वसंज्ञया सद्धर्मं प्रतिक्षिपति ।
इयं बोधिसत्वस्य शिक्षा ।
इयं बोधिसत्वस्य्âशिक्ष्êति सद्धर्मं प्रतिक्षिपति ।
धर्मभाणकस्य्âस्ति प्रतिभानं न्âस्ति प्रतिभानम् इति
सद्धर्मं प्रतिक्षिपति ।
धर्मं धर्मतया क-
[ बेन्दल्ल् एद् प्96 ---> ]
थयति सद्धर्मं प्रतिक्षिपति ।
अपगते बुद्ध्ôत्पादे न्âस्ति धारणीप्रतिलम्भ्êति धर्मं प्रतिक्षिपति ।
न्âस्ति धर्मभाणकस्य धारणीप्रतिलम्भ्êति धर्मं प्रतिक्षिपति ।
धर्मभाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति ।
धर्मभाणको न प्रतिपत्तिसंपन्न्êति धर्मं प्रतिक्षिपति ।
प्रमादेन्âइनं चोदयति सद्धर्मं प्रतिक्षिपति ।
ईर्यापथेन चोदयति सद्धर्मं प्रतिक्षिपति ।
अक्षरचर्यया शीलविपत्त्या चोदयति धर्मं प्रतिक्षिपति ।
प्रति-
[ चम्ब्रिद्गे म्स् f53अ ---> ]
भानेन संपादयत्îति धर्मं प्रतिक्षिपति ।
आलोको ऽस्य धर्माणां न सुविदित्êति धर्मं प्रतिक्षिपति ।
मन्त्रेण मन्त्रम् अबुध्यमानः प्रतिवदत्îति धर्मं प्रतिक्षिपति ।
अक्षरसंज्ञ्या तथागतशासनं न्âवगाहत्êति धर्मं प्रतिक्षिपति ।
सूत्रेण सूत्रं विरोधयत्îति धर्मं प्रतिक्षिपति ।
गाथया गाथां विरोधयत्îति धर्मं प्रतिक्षिपति ।
अक्षरसंज्ञया कञ्चिद् अधिमुक्तं करोति कञ्चिन् न करोत्îति
धर्मं प्रतिक्षिपति ।
धर्मभणकस्य्âर्थान्य् अकथाम् अभिनामयत्îति धर्मं प्रतिक्षिपति ।
विचक्षुः कर्म्âस्य करोति धर्मं प्रतिक्षिपति ।
संलापयन् वदत्îति धर्मं प्रतिक्षिपति ।
इह्âस्य्âस्ति चर्य्êह्âस्य न्âस्ति चर्य्êति धर्मं प्रतिक्षिपति ।
इदं स्ûक्तम् इदम् अस्ûक्तम् इति धर्मं प्रतिक्षिपति ।
अनेन न्âस्ति चर्य्êति धर्मं प्रतिक्षिपति ।
अनेन बुद्धवचनसमय्ôक्तो न्âनेन बुद्धवचनसमय्ôक्त्êति
धर्मं प्रतिक्षिपत्îति हि मञ्जुश्रीर् यावत् किञ्चिद् विलोपयति
तावद् धर्मं प्रतिक्षिपति ।
धर्मभाणकस्य्êदं रूपम् इति चिन्तयति वदति भिक्षुर् वा
भिक्षुणी व्ôपासको व्ôपासिका वा ।
सर्वः स सद्धर्मं प्रतिक्षिपत्îत्य् आदि ॥
अत्र्âइव च्ôक्तं ।
यस्य कस्यचित् कुलपुत्र तथागतस्य परिनिर्वृतस्य धर्मः प्रतिभाति
यथ्âधिमुक्तानां सत्वानां देशयितुं ।
तस्यां च पर्षदि यद्य् एकसत्वस्य्âपि एकरोमहर्षो भवेद् एक्âश्रुपातो वा सर्वः स तथागत्âनुभावेन ।
तत्र मोहपुरुष्âबोधिसत्वा बोधिसत्वप्रतिज्ञा बोधिसत्वदूषका धर्मस्तैन्यकुहक्âइवं वक्ष्यन्ति
धर्म्ôपदेशकेभ्यः ।
किम् एते ।
न बुध्यन्तए इति ॥
[ बेन्दल्ल् एद् प्97 ---> ]
पे ॥
ये बोधिसत्वेष्व् अवमन्यनां कुर्वन्ति ।
न्âहं तेषां पर्यन्तकृतं निरयं-
[ चम्ब्रिद्गे म्स् f53ब् ---> ]
संवदामि ।
तत् कस्य हेतोः ।
यो बोधिसत्वो धर्मभाणकम् अपवादति बुद्धं स विगर्हति
धर्मं स प्रतिक्षिपति संघं स जुगुप्सति ।
बुद्धे सो ऽगौरवो यो धर्मभाणके ऽगौरवः ।
बुद्धं स न द्रष्टुकामो यो धर्मभाणकम् अद्रष्टुकामः ।
बुद्धस्य सो ऽवर्णं भाषते यो धर्मभाणकस्य्âवर्णं भाषते ।
बुद्धस् तेन परित्यक्तो भवति यः प्रथमचित्त्ôत्पादिके ऽपि
बोधिसत्वे प्रतिघचित्तं करोत्îति ॥
पे ॥
यो ऽप्य् अयं मैत्रेय षट्पारमितासमुदागमो बोधिसत्वानां संबोधाय तं ते मोहपुरुष्âइवं वक्ष्यन्ति ।
प्रज्ञापारमितायाम् एव बोधिसत्वेन शिक्षितव्यं ।
किं शेषाभिः पारमिताभिः ।
ते ऽन्यां पारमितां दूषयितव्यां मन्यन्ते ।
तत् किं मन्यसे ऽजित दुष्प्रज्ञः स काशिराज्âभूद् येन
कपोत्âर्थं श्येनाय स्वमांसानि दत्तानि ।
मैत्रेय्âह ।
न्ô ह्îदं भगवन् ।
भगवान् आह ।
यानि मया मैत्रेय बोधिसत्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्य् उपचितानि अपकृतं नु तैः कुशलमूलैः ॥
मैत्रेय्âह ।
न्ô ह्îदं भगवन् ॥
भगवान् आह ।
त्वं तावद् अजित षष्टिं कल्पान् दानपारमितायां षष्टिं कल्पान् शीलपारमितायां षष्टिं कल्पान्
क्षान्तिपारमितायां षष्टिं कल्पान् वीर्यपारमितायां षष्टिं कल्पान् ध्यानपारमितायां षष्टिं कल्पान् प्रज्ञापारमितायां समुदागतः ।
तत् ते मोहपुरुष्âइवं वक्ष्यन्ति ।
एकनयेन्âइव बोधिर् यद् उत शून्यतानयेन्êति ।
ते चर्यासु परिशुद्धा भविष्यन्त्îत्य् आदि ॥
इति शिक्षासमुच्चये चतुर्थः परिच्छेदः ॥
शीलपारमितायाम् अनर्थवर्जनं पञ्चमः परिच्छेदः ॥
उक्तः संक्षेपतो ऽनर्थः ।
तस्य विवर्जनं यथ्âध्यशयसंचोदनसूत्रे ।
एवंविध्âनर्थश्रवणभयभीरुकैः
[ चम्ब्रिद्गे म्स् f54अ ---> ]
आदिकर्मिकबोधिसत्वैः समादानानि यथा गृहीतानि तथा कार्यं ।
एवं-
[ बेन्दल्ल् एद् प्98 ---> ]
हि तैर् उक्तं ।
एते वयं भगवन्न् अद्य्âग्रेण तथागतस्य पुरतः ।
एवं समादानं कुर्मः ।
सचेद् वयं भगवन्न् अद्य्âग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं व्âपत्त्या चोदयिष्यामो भूतेन व्âभूतेन वा विसंवादितो ऽस्माभिस् तथागतो ऽर्हन् सम्यक्संबुद्धो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण बोधिसत्वयानिकं पुद्गलम् अवमन्येम्âवर्णं च्âस्य भाषेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः ।
सचेद् वयं भगवन्न् अद्य्âग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः कामगुणैः क्रीडन्तं परिचारयन्तं दष्ट्व्âप्रसादं कुर्याम विलेखं वा चित्तस्य्ôत्पादयेम्âगौरवं व्ôत्पादयेम न च तत्र शास्तृसंज्ञाम् उत्पादयेम ।
विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण मित्रकुलभिक्षाद् अकुलनिदानं बोधिसत्वयानिकानां पुद्गलानां कायपीडां चित्तपीडां वा कुर्याम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण बोधिसत्वयानिकं पुद्गलं दृष्ट्व्âइकेन्âप्य् अमनोज्ञवचनेन्âभाषेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण त्रिस्कृत्वो रात्रेः त्रिस्कृत्वो दिवस्य बोधिसत्वयानिकं पुद्गलं न नमस्येम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण्âस्य व्रतसमादानस्य कृतशो राज्यप्रतिलम्भं वा धनप्रतिलम्भं वा कायजीवितं वा न परित्यजेम
[ चम्ब्रिद्गे म्स् f54ब् ---> ]
विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा पुद्गलम् अवमन्येम ।
वयं विशिष्टतरा न्âइते इति विसंवादितो ऽस्माभिस् तथागतो भवेत् ।सचेद् वयं भगवन् नीचचित्ताश् चण्डालसदृशचित्ता न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण्âत्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण व्यापादविग्रहभयाद् योजनं वा योजनशतं वा न पलायेम्êरिताः समाना विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहुश्रुतं वा धुतगुणिनं व्âन्यतर्âन्यतरेण वा गुणेन्âत्मानम् उद्भावयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् ।
सचेद् वयं भगवन्न् अद्य्âग्रेण प्रतिच्छन्नकल्याणा विवृतपापा न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः ॥
पे ॥
तत्र भगवान् मैत्रेयं बोधिसत्वं महासत्वम् आमन्त्रयते स्म ।
कर्म्âवरणं मैत्रेय
[ बेन्दल्ल् एद् प्99 ---> ]
क्षपयितुकामेन कुलपुत्रेण वा कुलदुहित्रा व्âइवं समादानं कर्तव्यं यथ्âइभिः कुलपुत्रैः कृतम् इति ॥
सर्वधर्म्âप्रवृत्तिनिर्देशे ऽप्य् आह ॥
तृष्कृत्व रात्रिं दिवसं तथ्âइव ।
स बोधिसत्वान् प्रणमेत मूर्ध्ना ।
तेषां न किञ्चित् स्खलितं गवेषेत् ।
चरेत चर्यां हि सदा यथ्êष्टम् ॥
पश्येद् यदा कामगुणै रमन्तं ।
न तस्य किञ्चित् स्खलितं गवेषेत् ।
गुणैर् अनन्तां वर बोधिचर्यां ।
एषो ऽपि कालेन हितां स्पृशेत ॥
युक्त्य्âनुपूर्व्या क्रियय्âनुपूर्व्या ।
भवेज् जिनो न्âइव हि एकवाचा ।
बहुकल्पकोट्यो नियुतानि च्âइष ।
सन्नाहसंप्रस्थितना-
[ चम्ब्रिद्गे म्स् f55अ ---> ]
न्य् अभावी ॥
अत्र्âइव्âह ।
ये कुलपुत्र्âइवंरूपेण कर्म्âवरणेन्âनर्थिकाः ।
तैर् न द्वितीयस्य बोधिसत्वस्य सर्वचर्यासु विप्रतिपत्तव्यं ।
सर्वाः क्रियास् तस्य विमोक्तव्याः ।
एवं चित्तम् उत्पादयितव्यं ।
न्âहं परचित्तं जाने दुर्विज्ञेया सत्वचर्या ।
इदं च खलु कुलपुत्र्âर्थवशं संपश्यंस् तथागत्âइवं-
[ बेन्दल्ल् एद् प्100 ---> ]
धर्मं देशयति ।
न पुद्गलेन पुद्गलः प्रमातव्यः ॥
अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ॥
यः कुलपुत्र्âत्मानं रक्षितुकामस् तेन न कस्यचिच् चर्या विवेचयितव्या ।
न परेषां विकुट्टना कर्तव्या ।
अयम् ईदृशो ऽयम् ईदृश्êति ।
बुद्धधर्म्âभियुक्तेन भवितव्यं रात्रिं दिवं धर्मपलिगुद्धमानसेन्êति ॥
तथा क्षितिगर्भसूत्रे ऽपि कथितं ।
अथ तावद् एव बहूनि शतसहस्राणि विद्वांसः सत्व्ôत्थाय्âसनाद् येन भगवांस् तेन्âञ्जलिं प्रणम्य्âइवम् आहुः ।
वयं भदन्त भगवतः पुरत्âइवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्धक्षान्तिकामा राजस्थानं प्रतिलभेम ।
म्âमात्यस्थानं ।
मा नगरज्येष्ठस्थानं ।
मा ग्रामज्येष्ठस्थानं ।
मा निगमज्येष्ठस्थानं ।
मा पुरोहितज्येष्ठस्थानं मा भट्टज्येष्ठस्थानं ।
यावन् मा स्âर्थवाहज्येष्ठस्थानं ।
म्ôपाध्यायज्येष्ठस्थानं ।
मा श्रमणज्येष्ठस्थानं ।
मा गृहपतिज्येष्ठस्थानं ।
मा कुटुम्बिज्येष्ठस्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपतिस्थानं प्रतिलभेम यावन् न क्षान्तिप्रतिलब्धाः स्याम ।
यतो निदानं वयम् एवंरूपम् अतिगाढं कर्म बुद्धानां शासनम् आक्षिपेम ।
इति विस्तरः ॥
चन्द्रप्रदीपसूत्रे ऽप्य् अनर्थविवर्जनम् उक्तम् ।
न्âस्ति पापम् अकर्तव्यं कुमारा तेषु भेष्यति ।
मा तेहि संस्त-
[ चम्ब्रिद्गे म्स् f55ब् ---> ]
वं सार्द्धं कुर्याः त्वं कालि पश्चिमे ॥
आलपे संलपेय्यासि कुर्यासी तेष्व् अगौरवं ।
आनालीनः सत्करेय्यास्य् अग्रबोधयि कारणात् ॥
[ बेन्दल्ल् एद् प्101 ---> ]
वर्ष्âग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् ।
कुर्यासि गौरवं तत्र शिरसा पादवन्दनैः ॥
न तेषां स्खलितं पश्येद् बोधिमण्डं विपश्यतां ।
प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत् ॥
यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् ।
यादृशं काहिति कर्म तादृशं लप्स्यते फलं ॥
स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च ।
पूर्व्âभाषी भवेन् नित्यं हतमानश् च सर्वतः ॥
चीवरैः पिण्डपातैश् च कुर्यात् तेषाम् अनुग्रहं ।
एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका ।
इति ॥
यस्य च बोधिचित्त्ôत्पादिके गौरवं प्रसादश् च न्ôत्पद्येते ।
तेन स्वदुर्गतिप्रपातभयरक्ष्âर्थं दृष्ट्âदृष्टप्रामोद्य्âनुभवन्âर्थं स्वचित्तकलुषप्रसादन्âर्थं चित्तकल्यताचित्तकर्मण्यताप्रतिलाभ्âर्थं च यथ्âर्यगण्डव्यूहे बोधिचित्त्ôत्पादिकगुणा भगवदार्यमैत्रेयेण्âचार्यसुधनम् अधिकृत्य्ôद्भावितास् तथा भावयितव्याः ॥
एष दृष्ट्व जरव्याधिपीडितान् प्राणिनो दुष्खशतैर् उपद्रुतान् ।
जन्ममृत्युभयशोकतापितान् तेष्âर्थि चरते क्र्प्âशयः ॥
दुष्खयन्त्रपरिपीडितं जगत् दृष्ट्व पञ्चगतिचक्रमण्डले ।
ज्ञानवज्रमयम् एष ते दृढं दुष्खयन्त्रगतिचक्रभेदनं ॥
[ बेन्दल्ल् एद् प्102 ---> ]
रागदोषतृणखाणुकण्टकं दृष्टिसंगबहु कक्षसंकुलम् ।
सत्वक्षेत्रपरिशोधन्âर्थिकः प्रज्ञलाङ्गलदृढं गवेषते ॥
मोहविद्यगहन्âशयं जगत् प्रज्ञचक्षुहत नष्टदैशिकं ।
तस्य क्षेम दिश-
[ चम्ब्रिद्गे म्स् f56अ ---> ]
दैशिकः प्रभुः स्âर्थवाह जगतो भविष्यति ॥
क्षान्तिधर्मत्रिविमोक्षवाहनो ज्ञानखड्ग रिपुक्लेशधर्षकः ।
शूरसूत्âभयस्य दायको दैशको हि जगतो भविष्यति ॥
धर्मनाव समुदानयत्य् अयं ज्ञानसागरपथे सुशिक्षितः ।
शान्तिरत्नवरद्वीपनायकः कर्णधार त्रिभव्âर्णवे ऽयम् ॥
ज्ञानरश्मिप्रणिधानमण्डलः सर्वसत्व भवन्âवभासकः ।
धर्मधातुगगने समुद्गतो बुद्धसूर्य समुदेश्यते ऽयम् ॥
मैत्रिचन्दनसमाधिशीतलः सर्वसत्वसम चित्तसुप्रभः ।
शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेश्यते ऽयम् ॥
आशये दृढतले प्रतिष्ठितो बोधिचर्य्âनुपूर्व्ôद्गतः ।
सर्वधर्मरतन्âकरो ह्य् अयं ज्ञानसारवरो भविष्यति ॥
बोधिचित्तभुजग्êन्द्रसंभवो धर्मधातुगगने समुद्गतः ।
[ बेन्दल्ल् एद् प्103 ---> ]
धर्ममेघयुगपत्प्रवर्षणः सर्वशुक्लफल शस्यवर्धनः ॥
शुद्धि वर्त्ति त्रिमलत्तमो ऽप्य् अहं मैत्रिस्नेह स्मृतिभाजनं दृढम् ।
बोधिचित्तविमल्âग्निसुप्रभम् धर्मदीप समुज्ज्वालयिष्यति ॥
बोधिचित्तकललः कृप्âर्बुदो मैत्रपेशिर् अचल्âशयो घनः ।
बोधि अङ्गम् अनुपूर्वसंभवो बुद्धगर्भ्âयु संप्रवर्धते ॥
पुण्यगर्भम् अभिवर्द्धयिष्यति प्रज्ञगर्भम् अभिशोधयिष्यति ।
ज्ञानगर्भ समुदेश्यते ऽयं यादृशः प्रणिधिगर्भसंभवः ॥
ईदृशाः करुणमैत्रधर्मिताः सत्वमोचन मती हित्âशयां ।
दुर्लभा जगि स्देवमानुषे यादृशो ऽयु विशुद्धमानसः ॥
ईदृश्âशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्द्धितः ।
ईदृशस् त्रिभवछादनप्रभो ज्ञानवृक्षफलदः सुदुर्लभः ॥
एष सर्वगुणसंभव्âर्थिकः सर्वधर्मपरिपृ-
[ चम्ब्रिद्गे म्स् f56ब् ---> ]
च्छन्âर्थिकः ।
सर्वसंशयविदारण्âर्थिकः सर्वमित्र भजते ऽतन्द्रितः ॥
[ बेन्दल्ल् एद् प्104 ---> ]
एष मारकलिक्लेशसूदनो एष दृष्टिमलक्लेशशोधनः ।
एष सर्वजगमोक्षण्ôद्यतो एष ते सद विशेष पण्डितः ॥
एष दुर्गति विशोधयिष्यति स्वर्गमार्गम् उपदर्शयिष्यति ।
मोक्षमार्गम् उपनेष्यते जगद् यादृशे गुणपथे प्रतिष्ठितः ॥
एष सर्वतदुष्खमोचको ।
एष सर्वगतिसौख्यदायकः ।
एष सर्वभयपाशछेदको ।
भेष्यते भगवतीनिसूदन ।
इति ॥
एवम् अनया भावनय्âनर्थविवर्जनं सुकरं भवति ।
तथ्âध्याशयसञ्चोदनसूत्रे ऽप्य् अनर्थविवर्जनम् उक्तं ।
चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वयानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने ऽक्षतो ऽनुपहतः स्वस्तिना परिमोक्ष्यते ॥
कतमैश् चतुर्भिः ।
आत्मस्खलितप्रत्यवेक्षणतया ।
परेषां बोधिसत्वयानिकानां पुद्गलानाम् आपत्त्यचोदनतया ।
मित्रकुलभिक्षाद् अकुल्âनवलोकनतया ।
अमनस्कवचनप्रतिविरमणतया ।
एभिर् मैत्रेय चतुर्भिर् इति पूर्ववत् ॥
अपरैश् चतुर्भिः ।
कतमैः ।
अल्पश्रुतसत्वपरिवर्जनतया ।
पर्षदनुपादानतया ।
प्रान्तशय्य्âसननिषेवणतया च ।
आत्मदमशमथयोगम् अनुयुक्ततया च ।
एभिश् चतुर्भिर् इति विस्तरः ॥
पुनर् अत्र्âइव्âह ।
आदिकर्मिकेण मैत्रेय बोधिसत्वेन प्रज्ञाबल्âधानप्राप्तेन लाभसत्कारपरिवर्जितेन लाभसत्कारदोषदर्शिना भवितव्यं ॥
पे ॥
संगणिक्âरामपरिवर्जितेन संग-
[ बेन्दल्ल् एद् प्105 ---> ]
णिक्âरामदोषदर्शिना भवितव्यं ।
भाष्य्âरामपरिवर्जितेन भाष्य्âरामदोषदर्शि-
[ चम्ब्रिद्गे म्स् f57अ ---> ]
ना भवितव्यं ।
निद्र्âरामवर्जितेन निद्र्âरामदोषदर्शिना भवितव्यं ।
कर्म्âरामवर्जितेन कर्म्âरामदोषदर्शिना भवितव्यं ।
प्रपञ्च्âरामवर्जितेन प्रपञ्च्âरामदोषदर्शिना भवितव्यं ॥
पे ॥
इह मैत्रेय बोधिसत्वेन महासत्वेन रागसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः ।
स्मृतिविध्वंसनकरो लाभसत्कारः प्रत्यवेक्षितव्यः ।
लाभ्âलाभतय्ôन्नाम्âवनामकरो लाभसत्कारः प्रत्यवेक्षितव्यः ।
मोह्ôत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
कुलमात्सर्य्âध्यवसानो लाभसत्कारः प्रत्यवेक्षितव्यः ।
आत्म्âर्थनिष्पादनतया शाठ्य्ôत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
चतुरार्यवंशपरिवर्जनतय्âह्रीक्य्âनपत्राप्यसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः ।
एवं सर्वबुद्ध्âननुज्ञानो लाभसत्कारः प्रत्यवेक्षितव्यः ।
मानमद्ôत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः ।
गुरूणाम् अवमाननो लाभसत्कारः ।
मारपक्षो लाभसत्कारः ।
एक्âन्तप्रमादमूलः कुशलमूल्âपहरणो लाभसत्कारः ।
विद्युच्चक्र्âशनिसदृशो लाभसत्कारः ।
बहुपलिगोधपलिगुद्धो मित्रकुलभिक्षाद् अकुल्âवलोकनो दौर्मनस्यसंजननः ।
बुद्धिविभ्रामणो लाभसत्कारः प्रियवस्तुपरिणामनतया शोकभाजनो लाभसत्कारः ।चतुःस्मृत्युपस्थानसंमोषणः शुक्लधर्मदुर्बलीकरणः चतुःसम्यक्प्रहाणपरिहाणकरणो लाभसत्कारः ।
ऋद्ध्यभिज्ञापरिहाणकरणः ।
पूर्वं सत्कारपश्चाद् असत्कारकरणः ।
अमित्रसत्करणमित्रप्रहाणो लाभसत्कारः ।
पर्âभिसंधानतया गणिकासदृशः ।
ध्यन-
[ चम्ब्रिद्गे म्स् f57ब् ---> ]
अप्रमाणपरिवर्जनः ।
नरकतिर्यग्योनियमलोकप्रपातनो लाभसत्कारः ।
देवदत्त्ôद्रकसमाचारो लाभसत्कारः प्रत्यवेक्षितव्यः ॥
[ बेन्दल्ल् एद् प्106 ---> ]
इमे एवंरूपा मैत्रेय लाभसत्कारे आदीनवा ये बोधिसत्वेन प्रत्यवेक्षितव्याः ।
प्रत्यवेक्ष्य च्âल्प्êच्छतायां रन्तव्यं न परितप्तव्यं ।
तत् कस्य हेतोः ।
अल्प्êच्छस्य हि मैत्रेय्êमए एवंरूपा दोषा न भवन्ति न च्âस्य्âन्तराया भवन्ति बुद्धधर्माणां ।
अनिर्विण्णश् च भवति गृहिप्रव्रजितेभ्यः ।
अनुरक्षणीयश् च भवति देवमनुष्याणां परिशुद्ध्âशयस्थितः ।
असंत्रस्तश् च भवति सर्वदुर्गतिनिपातेभ्यः ।
अनभिभूतश् च भवति तर्जनाविगतः ।
असंहार्यश् च भवति मारविषयविमुक्तः ।
अधर्षणीयश् च भवति सर्वव्यसनैः ।
अभिलषणीयश् च भवति देवमनुष्याणां ध्यान्âभ्यास्âवस्थितः [[दोउब्त्]] ।
स्पष्टश् च भवति मायाशाठ्यप्रहीणो ऽप्रमत्तश् च भवति पञ्चकामगुणदोषदर्शी यथावादी तथाकारी भवत्य् आर्यवंशे स्थितः ।
अभिलषितश् च भवति विद्वद्भिः सब्रह्मचारिभिः ।
इमां मैत्रेय्âइवंरूपाम् अनुशंसां विदित्वा पण्डितेन बोधिसत्वेन्âध्याशयेन्âल्प्êच्छतायां रन्तव्यं ।
अल्प्êच्छत्âसेवितव्या सर्वलाभसत्करप्रहाणाय्êति ॥
संगणिकाम् अधिकृत्य्âह ।
विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी ।
भवत्य् असौ तत्प्रवणस् तन्निम्नः ।
एतेन दोषेण रतिं न कुर्यात् ।
औद्धत्य हास्यं च तथा वितर्का ।
भवन्त्य् अमी संगणिकासु सर्वे ॥
संकीर्णचारी हि भवत्य् असंवृतः ।
करोति यः संगणिकाम् असाराम् ॥
लोकस्य मन्त्रेषु रमन्ति बाला ।
हीयन्ति च्êह्âग्रकथासु बालाः ।
[ बेन्दल्ल् एद् प्107 ---> ]
प्रदोष वर्धेन्ति वितर्क्ôत्सदा ।
एतेन दोषेण न तत्र राजते ॥
न वर्धते च्âपि श्रुतेन भिक्षुः ।
अयुक्तमन्त्रेषु रतिं जनित्वा ।
तस्मात्
[ चम्ब्रिद्गे म्स् f57ब् ---> ]
परित्यज्य्âयुक्तमन्त्रान् ।
धर्मे रतिं विन्दथ नित्यकालम् ॥
सहस्रशो ऽष्ठानि मया स्वकानि ।
त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि ।
न च्âस्मि तृप्तः शृणुमान धर्मं ।
ते खेदम् एष्यन्ति शृणोन्त धर्मम् ॥
सर्वेण सर्वं परिवर्जनीया ।
अयुक्तमन्त्राश् च्âशिष्टमन्त्राः ।
धर्मे वरे तत्र रतिं जनेथ ।
यो दुर्लभः कल्पशतैर् अनेकैः ॥
वने वसन्तेन गुण्âर्थिकेन ।
परस्य दोषा न हि वीक्षितव्याः ।
अहं विशिष्टो ऽहम् एव श्रेष्ठो ।
न्âइव चित्तं समुपादनीयम् ॥
[ बेन्दल्ल् एद् प्108 ---> ]
मदो ऽयं सर्वप्रमादमूलो ।
न हीनभिक्षू अवमन्यितव्याः ।
अनुपूर्व्âइषो इह शासनस्य ।
न्âइकेन जन्मेन लभते बोधिम् ॥
अत्र्êव भाष्य्âरामम् अधिकृत्य्âह ।
अगौरवो भोति श्रुतेन मत्तो ।
विवादमन्त्रेषु निविष्ट भोति ।
मुषितश्रुतिश् च्âपि असंप्रजन्यो ।
भाष्ये रमन्तस्य
[ चम्ब्रिद्गे म्स् f58ब् ---> ]
इमे हि दोषाः ॥
अध्यात्मचिन्त्âत्त [[दोउब्त्]] सुदूर भोती ।
चित्तं न कायश् च प्रसन्न भोति ।
उन्नामनामानि बहूनि गच्छती ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
सद्धर्मचित्तात् तु प्रणष्टु बालाः ।
सुकर्कशो भोति अस्निग्धचित्तः ।
विपश्यनायाः शमथाच् च दूरे ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
अगौरवो भोति सदा गुरूणां ।
[ बेन्दल्ल् एद् प्109 ---> ]
पलिगोधमन्त्रेषु रतिं जनित्वा ।
असारस्थायी परिहीणप्रज्ञो ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
अमानितो देवगुणैः स भोति ।
न्âप्य् अस्य तस्मिन् स्पृह संजनन्ति ।
प्रतिसंविदातो भवती विहीनो ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
परिभाष्यते च्âपि स पण्डितेभिः ।
ये कचिद् अस्ती पृथकायसाक्षी [[दोउब्त्]] ।
निरर्थकं जीवितु तस्य भोती ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
स शोचते कालु करोतु बालः ।
प्रतिपत्ति हीनो ऽस्मि किम् अद्य कुर्यां ।
सुदुष्खितो भोति अलब्धगाधो ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
चल्âचलो भोति तृणं यथ्êरितं ।
विचिकित्सते एवम् असौ न संशयः ।
न तस्य जातू दृढ बुद्धि भोती ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
[ बेन्दल्ल् एद् प्110 ---> ]
नटा यथा तिष्ठति रङ्गमध्ये ।
अन्यान शूराण गुणान् प्रभाषते ।
स्वयं च भोती प्रतिपत्तिहीनो ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
शठश् च सो भोति लघुनिराशः ।
पुनः पुनश् च्âरभते विवादम् ।
सो दूरतो आर्यधर्मस्य भोती ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
संहृष्यते सत्क्र्ट्âल्पस्थामः ।
प्रकम्पते विप्रकृतो ऽजानी ।
कपिर् यथा चञ्चलचित्त भोती ।
भाष्ये रमन्तस्य्êमे हि दोषाः ॥
पे ॥
रमित्व भाष्यस्मि चिरं पि कालं ।
न विन्दते प्रीतिम् इह्âत्मसौख्यं ।
वरं हि एकस्य पदस्य चिन्तना ।
प्रीतिं पदे यत्र लभेद् अनन्तम् ॥
न्êक्षुत्वचे सारम् इह्âस्ति किञ्चिन् ।
मध्ये ऽस्ति तत्सार सुप्रेमणीयः ।
भुक्त्वा त्वचं न्êह पुनः सशक्यं ।
लब्धुं नरेण्êक्षुरसं प्रधानम् ॥
[ बेन्दल्ल् एद् प्111 ---> ]
यथा त्वचं तद्वद् अवैहि भाष्यं ।
यथा रसस् तद्वद् इह्âर्थचिन्ता [[दोउब्त्]] ।
तस्माद् धि भाष्ये तु रतिं विहाय ।
चिन्तेथ्âर्थं सद्âप्रमत्ताः ॥
निद्र्âरामम् अधिकृत्य्âह ।
महच् च सो वर्धति मोहजालं ।
विचिकित्सको भोति स दृष्टिप्राप्तः ॥
दृष्टीकृतान्य् अस्य बहूनि भोन्ती ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
प्रज्ञा च तेषां भवती सुदुर्बला ।
परिहीयते बुद्धि न तस्य भोति ।
ज्ञानाच् च सो हीयति नित्यकालं ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
कुसीद्âज्ञो ऽलसो ऽप्रज्ञो ऽमनुष्य्âवतार लभेन्ति तस्य ।
विहेठयन्ते च वने वसन्तं यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
कुशलेन चित्तेन सद्âनर्थिको ।
धर्मे च छन्दो न हि भोति तस्य ।
अधर्मकायश् च स भोति भूयो यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
सद्धर्मछन्देन विहीनमूढः परिहोयते सर्वगुणेहि बा-
[ चम्ब्रिद्गे म्स् f59अ ---> ]
लः ।
शुक्लं च घातेति तमो ऽधिगच्छती ।
[ बेन्दल्ल् एद् प्112 ---> ]
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
अविशारदो भोति प्रलीनचित्तः ।
प्रामोद्य तस्य्ô भवती न नित्यं ।
निद्रय्âपग्रस्तः शिथिल्âङ्ग भोती ।
यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
आत्मा तु ज्ञात्वा च कुसीदप्राप्तः ईर्ष्यायते वीर्यबलैर् उपेतान् ।
वीर्य्âन्वितानां च्âवर्ण भाषते यस्मान मिद्धे ऽभिरतिं प्रयाति ॥
पे ॥
यत् सर्वदुष्खस्य तमस्य नाशनं ।
अपायपरिवर्जनतया मूलं ।
सर्वेहि बुद्धैर् हि सदा प्रशस्तं ।
तं वीर्यम् आर्यं सततं भजस्व ॥
कर्म्âरामम् अधिकृत्य्âह ॥
सुदुर्वचो भोति गुरूभि चोदितः ।
प्रदक्षिणं गृह्णति न्âनुशासनं ।
विपन्नशीलश् च स भोति क्षिप्रं ।
दोष्âमी कर्मरते भवन्ति ॥
उत्कण्ठितो भोति स नित्यकालं ।
गृहस्थकर्माणि सदा विचिन्तयन् ।
ध्यानप्रहाणैश् च न तस्य कृत्यं ।
दोष्âमी कर्मरते भवति ॥
तीव्रश् च संजायति तस्य रागो ।
रस्âरसेषु ग्रसितः स मूर्च्छितः ।
[ बेन्दल्ल् एद् प्113 ---> ]
न तुष्यते ऽसाव् इतर्êतरेण ।
दोष्âमी कर्मरते भवन्ति ॥
महत्या च भोती परिषाय तुष्ठो ।
स दुष्खितो भोति तया विहीनः ।
संकीर्ण भोती सयथ्êह गर्दभो ।
दोष्âमी कर्मरते भवन्ति ॥
पे ॥
दिवा च रात्रौ च्âनन्यचित्तो ।
भक्ते च चोडे च भवत्य् अभीक्ष्णं ।
स्वनर्थिको भोति गुणैः स सर्वदा ।
दोष्âमी कर्मरते भवन्ति ॥
कृत्यान्य् असौ पृच्छति लौकिकानि ।
अयुक्तमन्त्रैश् च रतिं प्रयाति ।
युक्तैश् च मन्त्रैः स न विन्दते रतिं ।
दोष्âमी कर्मरते भवन्ति ॥
पे ॥
अथ खलु मैत्रेयो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् ।
सुपरीत्तप्रज्ञास् ते भगवन् बोधिसत्वा भविष्यन्ति विहीनप्रज्ञा ये ऽग्रधर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ॥
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्वं महासत्वम् एतद् अवोचत् ।
एवम् एतन् मैत्रेय ।
एवम् एतद् यथा वदसि
[ चम्ब्रिद्गे म्स् f59ब् ---> ]
सुपरीत्तप्रज्ञास् ते बोधिसत्वा भविष्यन्ति ये ऽग्रधर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ।
अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते ।
न ते बोधिसत्वास् तथागत-
[ बेन्दल्ल् एद् प्114 ---> ]
शासने प्रव्रजिता येषां न्âस्ति योगो न्âस्ति ध्यानं न्âस्ति प्रहाणं न्âस्त्य् अध्ययनं न्âस्ति बाहुश्रुत्यपर्येष्टिः ।
अपि तु मैत्रेय ध्यानप्रहाणप्रभावितं तथागतशासनं ज्ञानसंस्कृतं ज्ञानसमाहितं अभियोगप्रभावितं ।
न गृहिकर्म्âन्तवैयापृत्यप्रभावितं ।
अयुक्तयोगानाम् एतत् कर्म संसार्âभिरतानां यद् उत वैयापृत्यं लौकिककृत्यपलिगोधः ।
न तत्र बोधिसत्वेन स्पृह्ôत्पादयितव्या ।
सचेन् मैत्रेय वैयापृत्य्âभिरतो बोधिसत्वः सप्तरत्नमयैः स्तूपैर् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पूरयेत् ।
न्âहं तेन्âराधितो भवेयं न मानितो न्âपि सत्कृतः ॥
पे ।
तत्र जम्बूद्वीपः पूरितः स्याद् वैयापृत्यकरैर् बोधिसत्वैः ।
सर्वैस् तैर् एकस्य्ôद्देशस्व्âध्याय्âभियुक्तस्य बोधिसत्वस्य्ôपस्थानपरिचर्या करणीया ।
जम्बूद्वीपप्रमाणैश् च्ôद्देशस्व्âध्याय्âभियुक्तैर् बोधिसत्वैर् एकस्य प्रतिसंलयन्âभियुक्तस्य बोधिसत्वस्य्ôपस्थानपरिचर्या कर्तव्या ॥
पे ॥
तत् कस्य हेतोः ।
दुष्करम् एतत् कर्म यद् उत प्रज्ञाकर्म ।
उत्तरं निरुत्तरं सर्वत्रैलोक्यप्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधिसत्वेन योग्âर्थिकेन वीर्यम् आरब्धुकामेन प्रज्ञायाम् अभियोक्तव्यम् इति ॥
प्रपञ्च्âरामम् अधिकृत्य्âह ।
अष्ट्âक्षणा तस्य न भोन्ति दूरे ।
क्षणसंपदा तस्य न भोति श्रेष्ठा ।
एते ऽनर्था स्य भवन्ति नित्यं ।
दोष्âमी तस्य प्रपञ्चचारिणः ॥
पे ॥
दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत ।
सुलभ्âनर्था हि प्रप-
[ चम्ब्रिद्गे म्स् f60अ ---> ]
ञ्चचारिणः ।
तस्मात् प्रपञ्चेन न संवसेत ॥
[ बेन्दल्ल् एद् प्115 ---> ]
यायाच् छतं योजनकं परं वरं ।
यत्र प्रपञ्चो स्तिय विग्रहो वा ।
न तत्र वासं न निकेतु कुर्यान् मुहूर्त्तमात्रं स्तिय यत्र क्लेशः ॥
न्âर्थ्âर्थिकाः प्रव्रजिता गुण्âर्थिका ।
मा विग्रह कुर्वथ दुस्तचित्ताः ।
न वो ऽस्ति क्षेत्रं न कृषिर् वणिज्या ।
स्युर् यस्य्âर्थाय प्रपञ्च्âइते ॥
न पुत्र धीता न च वो ऽस्ति भार्या ।
न च्âस्य मित्रं न च बन्धुवर्गः ।
दास्यो न दासा न च्êश्वरत्वं ।
मा विग्रहं कुर्वथ प्रव्रजित्वा ॥
काषायवस्त्राणि गृहीत्व श्रद्धया ।
शान्तप्रशान्तैर् हि निषेवितानि ।
शान्तप्रशान्त्ôपशान्त भोथ ।
प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ॥
आशीविषान् रक्षथ रौद्रचित्तान् ।
नरकाश् च तिर्यग् विषयो यमस्य ।
प्रपञ्चचारस्य न भोन्ति दूरे ।
तस्माद् धि क्षान्तौ जनयेत वीर्यम् ॥
पे ॥
इमेन योगेन लभेत शुद्धिं ।
क्षपयित्व कर्म्âवरणं अशेषं ।
धर्षेति मारं सचलं सवाहनं यो धीरु तस्य्âइव जनेति क्षान्तिम् ।
इति ॥
[ बेन्दल्ल् एद् प्116 ---> ]
संक्षेपतस् तत्र्âनर्थविवर्जनम् उक्तं ।
तस्मात् तर्हि मैत्रेय बोधिसत्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा पश्चिमायां पञ्चशत्यां सद्धर्मप्रलोपे वर्तमाने ऽक्षतन्âनुपहतेन स्वस्तिना परिमोक्तुकामेन सर्वकर्म्âवरणानि क्षपयितुकामेन्âसंसर्ग्âभिरतेन भवितव्यम् अरण्यवनप्रान्तवासिन्âनभियुक्तसत्व परिवर्जितेन्âत्मस्खलितगवेषिणा परस्खलित्âगवेषिणा तुष्णीभाव्âभिरतेन प्रज्ञापारमिताविहार्âभिरतेन्êति ॥
आर्यरत्नमेघे ऽप्य् अनर्थवर्जनम् उक्तं ।
तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति ।
अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुणवत्सा वा गावः प्रकृतिदुःशीला वा तिर्यग्योनिगता ।
विहेठन्âभिप्राया वा स्त्रीपुरुषदारकदारिका जुगुप्सि-
[ चम्ब्रिद्गे म्स् f60ब् ---> ]
तानि वा स्थानानि ।
तानि सर्वेण सर्वं वर्जयत्îति ॥
अनेन्âइतद् दर्शितं भवति यद् दृष्टे ऽपि बाधाकर्âइवंविधे ।
तद् अवर्जयत्âपत्तिर् भवत्îति ॥
अथ यद् एवमाद्य् अनर्थवर्जनम् उक्तं केन्âइतल् लभ्यते सर्वनिष्फलस्यन्दवर्जनात् ।
फलम् अत्र पर्âर्थं ।
तदर्थं यः स्यन्दो न संवर्तते ।
स निष्फलत्वाद् वर्जयितव्यः ॥यथा चन्द्रप्रदीपसूत्रे कायसंवरमध्ये पठ्यते ।
न हस्तलोलुपो भवति न पादलोलुपः हस्तपादसंयत्êति ॥
तथा दशधर्मकसूत्रे ऽपि देशितं हस्तविक्षेपः पादविक्षेपो ऽधावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते कायदौष्ठुल्यम् इति ॥
[ बेन्दल्ल् एद् प्117 ---> ]
आर्यधर्मसंगीतिसूत्रे तु यथा बोधिसत्वानां पर्âर्थाद् अन्यत् कर्म न कल्पते ।
तथा स्पष्टम् एव परिदीपितं यत् किञ्चिद् भगवन् बोधिसत्वानां कायकर्म यत् किञ्चिद् वाक्कर्म यत् किञ्चिन् मनस्कर्म तत् सर्वं सत्व्âवेक्षितं प्रवर्तते महाकरुण्âधिपतेयं सत्वहित्âधिष्ठाननिमित्तं सर्वसत्वहितसुख्âध्याशयप्रवृत्तं ।
स्âइवं हित्âशयः एवं संज्ञीभवति ।
स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्वसत्वानां हित्âवहा सुख्âवहा च ॥
पे ॥
आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणा प्रतिपत्तिः ।
न च्âयतनपरित्यागं स्पृहयत्îति ॥
आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं ।
तद् यथ्âपि नाम छिद्रान् मारुतः प्रविशति ।
एवम् एव यतो यत्âइव चित्तस्य छिद्रं भवति ततस् तत्âइव मारो ऽवतारं लभते ।
तस्मात् सद्âछिद्रचित्तेन बोधिसत्वेन भवितव्यं ।तत्र्êयम् अछिद्रचित्तता यद् इदं सर्व्âकारज्ञतायाः शून्यतायाः परिपूरिर् इति ॥
का पुनर् इयं सर्व्âकारवर्ôपेता शून्यता ।
य्êयं बोधिसत्वचर्याय्âपरित्यागेन्âभ्यस्यमाना ।
अभ्यस्ता वा ।
सर्वभावशून्यता ।
एषा च रत्नचूडसूत्रे विस्तरेण्âख्याता ॥
तथ्âक्षयमतिसूत्रे ऽपि दर्शितं ।
पापका-
[ चम्ब्रिद्गे म्स् f61अ ---> ]
नाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयत्îत्य् अत्र प्रस्तावे यानि च्âन्यानि पुनः कानिचिद् अन्यान्य् अपि चित्तविक्षेपकराणि यानि समाधिस्कन्धस्य विपक्षाय संवर्तन्ते ।
अयम् उच्यते समाधिविपक्षः ।
यावद् इमे उच्यन्ते पापक्âकुशला धर्म्êति ॥
शिक्षासमुच्चये शीलपारमितायाम् अनर्थविवर्जनं पञ्चमः परिच्छेदः ॥
आत्मभावरक्षा षष्ठः परिच्छेदः ।
उक्तं निष्फलस्यन्दवर्जनं ।
कथम् एतत् सिध्येद् इत्य् आह ।
एतत् सिध्येत् सदा स्मृत्य्êति ॥
द्वादश्êमाः स्मृतयो निष्फलस्यन्दवर्जनया संवर्तन्ते ।
यद् उत ।
तथागत्âज्ञ्âनतिक्रम्âनुपालनविपाकगौरवस्मृतिः ।
सर्वकायस्य निश्चलस्वभावताप्रतिष्ठितत्âनुस्मृतिः ।
सति सत्व्âर्थे यद् अङ्गम् अनुपयोगि तद् दृढतरस्मृत्यपेक्षानिश्चलमाध्यछन्दपर्âपत्तीकृतं सर्वधीरचेष्टास्मृतिः ।
न च्âस्य भय्ôत्सव्âदिसंबन्धसंभ्रमे ऽङ्गमुक्तस्मृतिः ।
ईर्यापथचतुष्क्âक्षेपनिरूपणस्मृतिः ।
अन्तर्âन्तरा च्êर्यापथविकोप्âरक्षण्âर्थम् ईर्यापथसंपदवलोकनस्मृतिः ।
भाषणकाले च्âतिप्रसाद्âउद्धत्यसंरम्भ पक्षपात्âदिवशाद् अतिमात्र्âप्रासादिकहस्तपादशिरोमुखविकारनियमनस्मृतिः ।
यः श्रोता वक्तव्यः स यावन्मात्रेण ध्वनिन्âर्थं जानाति ।
तदनतिरेकेण स्वरेण भाषणस्मृतिर् अन्यत्र पर्âशङ्कादोषसंभवात् ।
अशिक्षितजनसमागमसङ्कटे स्वचित्ततच्चित्तप्रसादन्âदितात्पर्यस्मृतिः ।
चित्तमत्तद्विपस्य शमथस्तम्भे नित्यबद्धस्मृतिः ।
मुहुर् मुहुश् च चित्त्âवस्थाप्रत्यवेक्षणास्मृतिः ।
महाजनसंपातं प्रायो ऽन्यकार्यत्यागेन्âपि यथ्ôक्तस्मृतिरक्षातात्पर्यस्मृतिर् इति ॥
[ बेन्दल्ल् एद् प्119 ---> ]
एवम् एताभिः स्मृतिभिर् निष्फलस्यन्दनवर्जनं सिध्यति ।
सा च स्मृतिस् तीव्र्âदराद् भवेत् ।
तत्र्âदरः कार्येषु
[ चम्ब्रिद्गे म्स् f61ब् ---> ]
सर्वभावेन्âभिमुख्यम् ।
अवज्ञाप्रतिपक्षः ।
अयं च्âदरः शमथमाहात्म्यं ज्ञात्वा तात्पर्येण जायते ।
कस् तावद् अयं शमो नाम ।
य्âर्य्âक्षयमतिसूत्रे शमथ्ôक्तः ॥
तत्र कतमा शमथ्âक्षयता ।
या चित्तस्य शान्तिर् उपशान्तिर् अविक्षेपकेन्द्रियसंयमः ।
अनुद्धतता ।
अनुन्नहनत्âचपलत्âचञ्चलता सौम्यता गुप्तता कर्मण्यत्âजानेयत्âइक्âग्रत्âइक्âरामता संगणिकावर्जनता विवेकरतिः कायविवेकश् चित्त्âविभ्रमो ऽरण्यमुखमनसिकारत्âल्प्êच्छता ।
यावद् ईर्यापथगुप्तिः कालज्ञता समयज्ञता मात्रज्ञता मुक्तिज्ञता ।
सुभरता सुपोषत्êत्यादि ॥
किं पुनर् अस्य शमस्य माहात्म्यं यथाभूतज्ञानजननशक्तिः ।
यस्मात् समाहितो यथाभूतं प्रजानात्îत्य् अवदन् मुनिः ॥
यथ्ôक्तं धर्मसंगीतौ ।
समाहितमनसो यथाभूतदर्शनं भवति ।
यथाभूतदर्शिनो बोधिसत्वस्य सत्वेषु महाकरुणा प्रवर्तते ।
एवं च्âस्य भवति ।
इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शनं च सर्वसत्वानां निष्पादयितव्यं ।
स तया महाकरुणया संचोद्यमानो ऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्संबोधिम् अभिसंबुध्यते ।
तस्मान् मया शीलसुस्थितन्âप्रकम्पेन्âशिथिलेन भवितव्यम् इति ।
इदं शमथमाहात्म्यम् आत्मनः परेषां च्âनन्त्âपाय्âदिदुःखसमतिक्रम्âनन्त लौकिकलोक्ôत्तरसुखसंपत्प्रकर्षपारप्राप्त्यात्मकम् अवगम्य तदभिलाषेण्âतापो भावयितव्यः ।
आदीप्तगृह्âन्तगतेन्êव शीतलजल्âभिलाषिणा ।
तेन तीव्र्âदरो भवति शिक्षासु ।
तेन्âपि स्मृतिर् उपतिष्ठति ।
उपस्थितस्मृतिर् निष्फलं वर्जयति ।
[ बेन्दल्ल् एद् प्120 ---> ]
यश् च निष्फलं वर्जयति तस्य्âनर्था न संभव-
[ चम्ब्रिद्गे म्स् f62अ ---> ]
न्ति ।
तस्माद् आत्मभावं रक्षितुकामेन स्मृतिमूलम् अन्विष्य नित्यम् उपस्थितस्मृतिना भवितव्यं ॥
अत्âइव्ôग्रपरिपृच्छायां गृहिणं बोधिसत्वम् अधिकृत्य्ôक्तं ।
सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यम् अमत्तेन्âनुन्मत्तेन्âचपलेन्âचञ्चलेन्âसंभ्रान्तेन्âमुखरेण्âनुन्नडेन्âनुद्धतेन्ôपस्थितिस्मृतिसंप्रजन्येन्êति ॥
अत्र्âइव च प्रव्रजितबोधिसत्वम् अधिकृत्य्ôक्तं स्मृतिसंप्रजन्यस्य्âविक्षेप्êति ॥
तत्र स्मृतिः आर्यरत्नचूडसूत्रे ऽभिहिता ।
यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति ।
यया स्मृत्या सर्वमारकर्मणाम् अवतारं न ददाति ।
यया स्मृत्य्ôत्पथे वा कुमार्गे वा न पतति ।
यया स्मृत्या दौवारिकभूतया सर्वेषाम् अकुशलानां चित्तचैतसिकानां धर्माणाम् अवकाशं ददात्îयम् उच्यते सम्यक्स्मृतिर् इति ॥
संप्रजन्यं तु प्रज्ञापारमितायाम् उक्तं ।
चरंश् चराम्îति प्रजान्-ति ।
स्थितः स्थितो ऽस्म्îति प्रजानाति ।
शयनः शयित्êति प्रजानाति ।
निषण्णो निषण्णो ऽस्म्îति प्रजानाति ।
यथा यथा च्âस्यः [[दोउब्त्]] कायः स्थितो भवति तथा तथ्âइव प्रजानाति ॥
पे॥
सो ऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति ।
आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपट्टपात्रचीवरधारणे ।
अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णीभावे प्रतिसंलयने संप्रजानंश् चारी भवत्îति ॥
[ बेन्दल्ल् एद् प्121 ---> ]
शीलं हि समाधिसंवर्तनीयं ॥
यथ्ôक्तं चन्द्रप्रदीपसूत्रे ।
क्षिप्रं समाधिं लभते निरङ्गणं ।
विशुद्धशीले ऽस्मिन्न् आनुशंस्êति ॥
अतो ऽवगम्यते ये केचित् समाधिहेतवः प्रयोगास् ते शील्âन्तर्गत्êति ।
तस्मात् समाध्यर्थि-
[ चम्ब्रिद्गे म्स् f62ब् ---> ]
ना स्मृतिसंप्रजन्यशीलेन भवितव्यं ।
तथा शील्âर्थिन्âपि समाधौ यत्नः कार्यः तत्र्âइव सूत्रे वचनात् ।
ध्यान्âनुशंसेषु हि पठ्यते ।
न्âसौ भोति अनाचारो आचारो सुप्रतिष्ठितः ।
गोचरे चरते योगी विवर्जेति अगोचरं ॥
निष्परिदाहविहारी गुप्त्êन्द्रियसंवृत ।
इति ॥
एताभ्यां च शीलसमाधिभ्याम् अन्योन्यसंवर्धनकराभ्यां चित्तकर्मपरिनिष्पत्तिः एतावती च्êयं बोधिसत्वशिक्षा यद् उत चित्तपरिकर्म ।
एतन्मूलत्वात् सर्वसत्व्âर्थानां ॥
उक्तं ह्य् आर्यरत्नमेघे ।
चित्तपूर्वङ्गमाश् च सर्वधर्माः ।
चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति ।
अपि तु
चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति ।
चित्तेन चीयते कर्म शुभं वा यदि व्âशुभम् ॥
चित्तं भ्रमते ऽलातवत् ।
चित्तं भ्रमते तुरङ्गवत् ।
चित्तं दहते देव्âग्निवत् ।
[ बेन्दल्ल् एद् प्122 ---> ]
चित्तं हरते मह्âम्बुवत् ॥
स्âइवं व्युपपरीक्षमाणश् चित्ते स्ûपस्थितस्मृतिर् विहरति न चित्तस्य वशं गच्छति ।
अप् तु चित्तम् एव्âस्य वशं गच्छति ।
चित्तेन्âस्य वशीभूतेन सर्वधर्मा वशीभवन्त्îति ॥
तथ्âर्यधर्मसङ्गीतिसूत्रे ऽप्य् उक्तं ।
मतिविक्रमो बोधिसत्व्âह ।
यो ऽयं धर्मो धर्म्êत्य् उच्यते न्âयं धर्मो देशस्थो*न प्रदेशस्थो ऽन्यत्र स्वचित्त्âधीनो धर्मः तस्मान् मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुसमारब्धं सुनिगृहीतं कर्तव्यं ।
तत् कस्य हेतोः ।
यत्र चित्तं तत्र गुणदोषाः ।
न्âस्ति निश्चित्ततायां गुणदोषः ।
तत्र बोधिसत्वो*दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ॥
तद् उच्यते ।
चित्त्âधीनो*धर्मो धर्म्âधीना बोधिर् इति ॥
अयं भगवन् धर्मं समादानः सुख्âभिसंबोधाय संवर्ततए इति ॥
आर्यगण्डव्यूहसूत्रे ऽपि वर्णितं ।
स्वचित्त्âधिष्ठानं सर्वबोधिसत्वचर्या
[ चम्ब्रिद्गे म्स् f63अ ---> ]
स्वचित्त्âधिष्ठानं सर्वसत्वपरिपाकविनयः ॥
पे ॥
तस्य मम कुलपुत्र्âइवं भवति ।
स्वचित्तम् एव्ôपस्तम्भयितव्यं सर्वकुशलमूलैः ।
स्वचित्तम् एव्âभिष्यन्दयितव्यं धर्ममेघैः ।
स्वचित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः ।
स्वचित्तम् एव दृढीकर्तव्यं वीर्येण्êत्य् आदि ॥
तथ्âत्र्âइव मायादेव्य्-अदर्शन्âकुलीभूते आर्यसुधने रत्ननेत्राया नगरदेवतायास् तद्दर्शन्âर्थम् इयम् अनुशासनी ।
चित्तनगरपरिपालनकुशलेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्य्-
[ बेन्दल्ल् एद् प्123 ---> ]
असंवसनतया ।
चित्तनगर्âलंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबल्âध्यालम्बनतया ।
चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यम् ईर्ष्यामात्सर्यशाठ्य्âपनयनतया ।
चित्तनगरविवर्धन्âभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया ।
चित्तनगरदुर्योधनदुरासदत्âभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्र्âनवमर्दनतया ।
चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्स्फुरणतया ।
चित्तनगरप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्व्âकुशल धर्मप्रतिपक्ष्âभिनिर्हरणतया ।
चित्तनगरविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यं आध्यात्मिकबाह्यवस्तु सर्वजगत्संप्रापणतया ।
चित्तनगरदृढस्थाम्âभिनिर्हरप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्व्âकुशलधर्मस्व सन्तत्यवसनतया ।
यावद् एवं चित्तनगरविशुद्ध्यभियुक्तेन कुलपुत्र बोधिसत्वेन शक्यं सर्वकुशलमूल समार्जनम् अनुप्राप्तुं ।
तत् कस्य हेतोः ।
तथा हि तस्य बोधिसत्वस्य्âइवं चित्तनगर-
[ चम्ब्रिद्गे म्स् f63ब् ---> ]
परिशुद्धय्स सर्व्âवरणानि पुरतो न संतिष्ठन्ते ।
बुद्धदर्शन्âवरणं वा धर्मश्रवण्âवरणं व्êत्य् आदि ।
तस्माद् व्यवस्थितम् एवं ।
चित्तपरिकर्म्âइव बोधिसत्वशिक्ष्êति ।
तच् च्âचपलचेतसः ॥
शमाच् च न चलेच् चित्तं बाह्यचेष्टानिवर्तनात् ॥
असंप्रजन्यपरतन्त्रस्य मुषितस्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् ।
यदा तु स्मृतिसंप्रजन्येन बाह्याश् चेष्टा*निवर्ति-
[ बेन्दल्ल् एद् प्124 ---> ]
ता भवन्ति तदा तद्वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति ।
ततश् च पूर्ववद् अनुशंसविस्तरः ।
अद्यत्वे ऽपि च सत्व्âर्थक्षमो भवत्य् एव प्रसादकरत्वात् ।
कथं ॥
सर्वत्र्âचपलमन्दमितस्निग्ध्âभिभाषणात् ।
आवर्जयेज् जनं भव्यम् आदेयश् च्âपि जायते ॥
एतद् एव च बोधिसत्वस्य कृत्यम् यद् उत सत्व्âवर्जनं ।
यथ्âर्यधर्मसंगीतिसूत्रे ।
आर्यप्रियदर्शेन बोधिसत्वेन परिदीपितं ।
तथा तथा भगवन् बोधिसत्वेन प्रतिपत्तव्यं यत् सहदर्शनेन्âइव सत्वाः प्रसीदेयुः ।
तत् कस्माद् धेतोः ।
न भगवन् बोधिसत्वस्य्âन्यत् करणीयम् अस्त्य् अन्यत्र सत्व्âवर्जनात् ।
सत्वपरिपाक्âइव्êयं भगवन् बोधिसत्वस्य धर्मसंगीतिर् इति ॥
एवं पुनर् अक्रियमाणे को दोष्êत्य् आह ।
अनादेयं तु तं लोकः परिभूय जिन्âङ्कुरं ।
भस्मछन्नो यथा वह्निः पच्येत नरक्âदिषु ॥
यथा प्राग् उपदर्शितं ॥
येन च्âस्य परिभव्âइवम् अनर्थो रत्नमेघे जिनेन्ôक्तस् तेन संक्षेपसंवरः ।येन्âप्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ॥
यथ्âह ।
कतमे च ते बोधिसत्वसमुदाचाराः ।
यावद् इह बोधिसत्वो न्âस्थाने विहरति न्âकाले ।
न्âकालभाणी भवति न्âकालज्ञो भवति न्âदेशज्ञो भवति ।
यतो निदानम् अस्य्âन्तिके सत्व्âप्रसादं प्रतिवेदयेयुः ।
स सर्वसत्व्âनुरक्षया ।
[ चम्ब्रिद्गे म्स् f64अ ---> ]
आत्मनश् च बोधिसंभारपरिपूरण्âर्थं*संपन्न्êर्यापथो भवति मृदुभाणी मन्दभाणी ।
असंसर्गबहुलः ।
प्रविवेक्âभिमुखः ।
सुप्रसन्नमुख्êति ॥
[ बेन्दल्ल् एद् प्125 ---> ]
अत्âइव धर्मसंगीतिसूत्रे देशितं ।
यः सत्वान् रक्षति स शीलं रक्षत्îति ।
अनया कनीयेन मातृग्रामेण सह रहोअवस्थ्âदिषु लोकरक्षा च कृता स्यात् ।
एवं भोग्येषु जलस्थलेषु मूत्रपुरीषश्लेष्मपूय्âदीनां कुत्सितानां रहस्य् अरहसि च्ôत्सर्गं न कुर्याद् देवमनुष्यचित्तरक्ष्âर्थं ॥
सद्धर्मस्मृत्युपस्थाने च रह्ôत्सिष्टं कृत्व्âनुत्सिष्ट्âहारेष्व् अददतः प्रेतगतिः पठ्यते ॥
तथा बोधिसत्वप्रातिमोक्षे ऽप्य् अप्रसादपरिहार्ôक्तः ।
न पुरतो दन्तकाष्ठं खादितव्यं न पुरतः खेटे निक्षिप्तव्य्êति ।
एष च गौरवलज्जाविधिः सर्वद्रष्टव्यो न ब्रह्मचारिष्व् एव ।
अत्र तु सूत्रे ब्रह्मचार्य्-अधिकारः तेषु गुरुतर्âपत्तिभयसंदर्शन्âर्थं ॥
यथ्âत्र्âइव्âह ।
न्ôच्चैर्भाषिणा भवितव्यम् इति ॥
न च्âयं विधिः प्रादेशिकः ।
तथा ब्रह्मपरिपृच्छायाम् अप्य् उक्तं न च वधसदृशेन बोधिसत्वेन भवितव्यम् इति ।
तथा प्रातिमोक्षाद् अपि लोक्âप्रसादकरम् अन्वेष्य वर्जनीयं ।
तन् न तावद् ॥
मुखपूरं न भुञ्जीत सशब्दं प्रसृत्âननः ।
प्रलम्बपादं न्âसीत न बाहुं मर्दयेत् समम् ॥
एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोक्âप्रसादं रक्षेत ।
अप्रसादकरवचनवर्जनं तु न सुकरम् इति स्मरणबोधन्âर्थम् उपदर्श्यते ।
[ बेन्दल्ल् एद् प्126 ---> ]
आर्यसागरमतिसूत्रे देशितं ।
न्âवलीनवचनो भवति ।
न व्यवकीर्णवचनः ।
न्âवस्यन्दनवचनः ।
न्ôज्ज्वालनवचनः ।
न राग्âनुनीतवचनः ।
न प्राकृतवचनः ।
न्âसंरक्षितवचनः ।
न व्यापादसंधुक्षणवचनः ।
न चञ्चलवचनः ।
न चपलवचनः ।
न रटरङ्ग-
[ चम्ब्रिद्गे म्स् f64ब् ---> ]
वचनः ।
न मुखसाक्ष्य्-अवरोपणवचनो भवत्îति ॥
आर्यतथागतगुह्यसूत्रे ऽप्य् आह ।
न खलु पुनः कुलपुत्र बोधिसत्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा ।
क्षुण्णव्याकरणा वा स्वपक्ष्ôत्कर्षणवचना वा ।
परपक्षनिग्रहवचना वा ।
आत्मवर्ण्âनुनयवचना वा ।
परवर्णप्रतिघवचना वा ।
प्रतिज्ञ्ôत्तारणवचना वा ।
आभिमानिकव्याकरणवचना व्êति ॥
आर्यदशभूमकसूत्रे ऽप्य् उक्तं ।
य्êयं वागमनोज्ञा स्वसन्तानपरसन्तानविनाशनी तथारूपां वाचं प्रहाय ।
य्êयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मन्âपकरणी [[दोउब्त्]] हितकरणी कर्णसुखा हृदयंगमा प्रेमणी वर्णविष्पष्टा विज्ञेया श्रवणीय्âनिश्रिता बहुजनकान्ता बहुजनप्रिया बहुजनमन्âपा [[दोउब्त्]] विज्ञप्रशस्ता सर्वसत्वहितसुख्âवहा मन्ôत्प्लावकरी मनःप्रह्लादनकरी स्वपरसन्तानप्रमोदनकरी रागद्वेषमोहसर्वक्लेश्âप्रशामनी तथारूपां वाचं निश्चारयति ।
यावद् इतिहासपूर्वकम् अपि वचनं परिहार्य परिहरत्îति ॥
आर्यगगनगञ्जसूत्रे त्ûक्तं ।
गुरुवचन्âनवमर्दनतया ।
परवचन्âनाच्छिन्दनतया च्âदेयग्राह्यवचनो भवत्îति ॥
[ बेन्दल्ल् एद् प्127 ---> ]
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ।
गगनगञ्जो बोधिसत्व्âह ।
न बोधिसत्वेन्âइषा वाग् भाषितव्या यय्âपरो व्यापद्येत ।
न सा वाग् भाषितव्या यय्âपरं तापयेत् ।
न बोधिसत्वेन सा वाग् भाषितव्या यत् परो जानीयात् ।
न सा वाग् भाषितव्या यय्âर्था निरर्था ।
न बोधिसत्वेन सा वाग् भाषितव्या यया न विद्याम् उत्पादयेत् ।
न सा वाग् भाषितव्या या सत्वानां न हृदयंगमा न पौरी न कर्णसुखा
[ चम्ब्रिद्गे म्स् f65अ ---> ]
न सा वाग् भाषितव्य्êति ॥
संक्षेपतस् तु पर्âप्रसादरक्ष्âर्यसागरमतिसूत्रे देशिता ।
अपर्âइक धर्मो*महायानसंग्रहाय संवर्तते स्वस्खलितप्रत्यवेक्षणतया सर्वसत्व्âनुरक्ष्êति ॥
एषा रक्ष्âत्मभावस्य ।
यथ्âपरैर् न नाश्येत ।
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0