शिक्षासमुच्चय (अन्य संस्करण) · भाग 101120
यथा न परान् न नाशयेत् ।
अस्य तु ग्रन्थविस्तरस्य्âयं पिण्ड्âर्थो बोधिसत्वेन मनसा नित्यं धारयितव्यः ॥
सुनिश्चलं सुप्रसन्नं धीरं स्âदरगौरवं ।
सलज्जं सभयं शान्तं पर्âराधनतत्परम् ॥
आत्मसत्ववशं नित्यम् अनवद्येषु वस्तुषु ।
निर्माणम् इव निर्मानं धारयाम्य् एष मानसम् ।
इति ॥
किम् एतावती आत्मभावरक्षा ।
न हि ।
किं तर्हि भैषज्यवसन्âदिभिः सह ।
तत्र द्विविधं भैषज्यं ।
सततभैषज्यं ग्लानप्रत्ययभैषज्यं च ।
तत्र सततभैषज्यम् अधिकृत्य्âर्यरत्नमेघे ऽभिहितं ।
तस्मात् पिण्डपात्राद् एकं प्रत्यंशं सब्रह्मचारिणां स्थापयति ।
द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते ।
परिभुञ्जानो न रक्तः परिभुङ्क्ते ऽसक्तो ऽगृद्धो ऽनध्यवसितः ।
अन्यत्र यावद् एव कायस्य स्थितये ।
यापनायै ।
तथा परिभुङ्क्ते यथा न्âतिसंलिखितो भवति ।
न्âतिगुरुकायः ।
[ बेन्दल्ल् एद् प्128 ---> ]
तत् कस्य हेतोः ।
अतिसंलिखितो हि कुशलपक्षपराङ्मुखो भवति ।
अतिगुरुकायो मिद्ध्âवष्टब्धो भवति ।
तेन तं पिण्डपातं परिभुज्य कुशलपक्ष्âभिमुखेन भवितव्यम् इत्य् आदि ॥
आर्यरत्नराशाव् अप्य् उक्तं ।
तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्मसंनाहं संनह्य पिण्डाय चर्तव्यं ।
तत्र कतमो धर्मसंनाहः ।
अमन्âपानि [[दोउब्त्]] रूपाणि दृष्ट्वा न प्रतिहन्तव्यं ।
मन्âपानि [[दोउब्त्]] दृष्ट्वा न्âनुनेतव्यं ।
एवं मन्âप्âमन्âपेषु [[दोउब्त्]] शब्दगन्धरसस्प्रष्टव्येषु विज्ञप्तेषु न्âनु-
[ चम्ब्रिद्गे म्स् f65ब् ---> ]
नेतव्यं न प्रतिहन्तव्यं ।
इन्द्रियसुसंवृतेन्âनुत्क्षिप्तचक्षुषा युगमात्रप्रेक्षिणा ।
दान्त्âजानेयचित्तेन पूर्वधर्ममनसिकारम् अनुत्सृजता न्âमिषप्रक्षिप्तया सन्तत्या पिण्डाय चर्तव्यं स्âवदानचारिणा च भवितव्यं ।
यतश् च पिण्डपातो लभ्यते तत्र्âनुनयो न कर्तव्यः यतश् च न लभ्यते तत्र प्रतिघातो*न्ôत्पादयितव्यः ।
दशकुलप्रवेशे न च्âइकादशात् कुलाद् भिक्षा न लभ्यते ।
तथ्âपि न परितप्तव्यं एवं च चित्तम् उत्पादयितव्यम् ।
एवं बहुकृत्या ह्य् एते श्रमणब्राह्मणगृहपतयो न तैर् अवश्यं मम दातव्यं ।
इदं तावद् आश्चर्यं यन् माम् एते समन्वाहरन्ति ।
कः पुनर् वादो यद् भिक्षां दास्यन्ति ।
तेन्âइवम् अपरितपता पिण्डाय चर्तव्यं ॥
ये च्âस्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्रीपुरुषदारकदारिकाः ।
अन्तशस् तिर्यग्योनिगतास् तत्र मैत्रीकरुणाचित्तम् उत्पादयितव्यं ।
तथ्âहं करिष्यामि यथा ये मे सत्वाश् चक्षुष्âभासम् आगच्छन्ति पिण्डपातं वा दास्यन्ति तान् सुगतिगामिनः करिष्यामि ।
तादृशं योगम् आपत्स्ये ।
तेन लूहं वा प्रणीतं वा पिण्डपात संगृह्य समन्ताच् चतुर्दिशं व्यवलोकयितव्यं ।
क-
[ बेन्दल्ल् एद् प्129 ---> ]
इह ग्रामनगरनिगमे दरिद्रः सत्वः ।
यस्य्âस्मात् पिण्डपातात् संविभागं करिष्यामि ।
यदि दरिद्रं सत्वं पश्यति तेन तत्पिण्डपातात् संविभागः कर्तव्यः ।
अथ न कञ्चित् सत्वं दरिद्रं पश्यति ।
तेन्âइवं चित्तम् उत्पादयितव्यं ।
सन्त्य् अनाभासगताः सत्वा ये मम चक्षुषु आभासं न्âगच्छन्ति ।
तेषाम् इतः पिण्डपाताद् अग्रं*प्रत्यंशं निर्यातयामि ।
दत्त्âदानाः परिभुञ्जतां ।
तेन तत् पिण्डपातं गृहीत्वा तद् अरण्य्âयतनम् अभिरुह्य धौतपाणिना शोभनसमाचारेण श्रमणचारित्रकल्प-
[ चम्ब्रिद्गे म्स् f66अ ---> ]
समत्व्âगतेन्âधिष्ठान्âधिष्ठितेन पर्यङ्कं बद्ध्वा सपिण्डपातः परिभोक्तव्यः ॥पे ॥
परिभुञ्जता च्âइवं मनसिकार्ôत्पादयितव्यः ।
सन्त्य् अस्मिन् काये ऽशीतिः क्रिमिकुलसहस्राणि ।
तान्य् अनेन्âइव्âउजसा सुखं फासुं विहरन्तु ।
इदानीं च्âइषाम् आमिषेण संग्रहं करिष्यामि ।
बोधिप्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि ।
यदि पुनर् अस्य लूहं पिण्डपातं भवति तेन्âइवं चित्तम् उत्पादयितव्यं ।
लूह्âहारतया मे लघुः कायो भविष्यति प्रहाणक्षम्ôच्चारप्रस्रावनिष्यन्दनश् च मे परीत्तो भविष्यति ।
श्रद्धादेयं च परीत्तं भविष्यति ।
कायलघुता चित्तलघुता च मे भविष्यति ।
अल्पम्लानमिद्धश् च मे भविष्यति ।
यदा पुनर् अस्य प्रभूतः पिण्डपातो भवति तत्र्âपि मात्र्âभोजिना भवितव्यं उत्सर्जनधर्मिणा च ।
ततः पिण्डपाताद् अन्यतरायां शिलायाम् अवतीर्य्âइवं चित्तम् उत्पादयितव्यं ।
ये केचिन् मृगपक्षिसंग्âमिषभोजनेन्âर्थिकास् ते दत्त्âदानाः परिभुञ्जताम् इति ॥
पुनर् आह ।
तेन सर्वेण रससंज्ञा न्ôत्पादयितव्या ॥
पे ॥
चण्डालकुमारसदृशेन मया
[ बेन्दल्ल् एद् प्130 ---> ]
भवितव्यं ।
चित्तकायचौक्षेण ।
न भोजनचौक्षेण ।
तत् कस्माद् धेतोः ।
कियत्प्रणीतम् अपि भोजनं भुक्तं ।
सर्वं तत् पूतिनिष्यन्दपर्यवसानं दुर्गन्धपर्यवसानं प्रतिकूलपर्यवसानं ।
तस्मान् मया न प्रणीतभोजन्âकाङ्क्षिणा भवितव्यं ।
तेन न्âइवं चित्तम् उत्पादयितव्यं ।पुरुषो मे पिण्डपातं दद्-ति न स्त्रीः ।
स्त्री मे पिण्डपातं ददाति न पुरुषः ।
दारको मे पिण्डपातं ददाति न दारिका ।
दारिका मे पिण्डपातं ददाति न दारकः ।
प्रणीतं लभे ऽहं न लूहं ।
सत्कृत्य लभे ऽहं न्âसत्कृत्य ।
चपलं लभे ऽहं न कृच्छ्रेण प्रविष्टमात्रं च मां समन्वाहरेयुः ।
न मे कश्चिद् विक्षेपो भवेत् ।
सुनिहितांल् लभे ऽहं-
[ चम्ब्रिद्गे म्स् f66ब् ---> ]
प्रणीतान् नानारसांल् लभे ऽहम् ।
न हीनदरिद्रभोजनं लभे ऽहं प्रत्युद्गच्छेयुर् मां स्त्रीपुरुषदारकदारिकाः ।
इमे ते सर्वे ऽकुशला मनसिकारा न्ôत्पादयितव्यः ॥
पे ॥
प्रायेण हि सत्वा रसगृद्धा भोजनहेतोः पापानि कर्माणि कृत्वा नरकेष्ûपपद्यन्ते ।
ये ये पुनः संतुष्ट्âगृद्ध्âलुलोपा रसप्रतिप्रस्रब्धा जिह्व्êन्द्रियसंतुष्टाः कियल्लूहेन्âपि भोजनेन ज्ञापयन्ति ।
तेषां च्युतानां कालगतानां स्वर्ग्ôपपत्तिर् भवति ।
सुगतिगमनं भवति देवमनुष्येषु ।
ते देव्ôपपन्नाः सुधां परिभुञ्जते ।
एवं काश्यप पिण्डचारिकेण भिक्षुणा रसतृष्णां विनिवर्तयित्वा निध्यप्तचित्तेन सुपरिपक्वान् कुल्माषान् परिभुञ्जता न परितप्तव्यम् ।
तत् कस्माद् धेतोः ।
कायसंधारण्âर्थं मार्गसंधारण्âर्थं मया भोजनं परिभोक्तव्यं ॥
पे ॥
यदि पुनः काश्यप पिण्डचारिको भिक्षुर् मेघ्âकुलवृष्टिकालसमये वर्तमाने न शक्नुयात् पिण्डाय्âवतर्तुं ।
तेन मैत्र्य्âहारसंनद्धेन धर्मचिन्तामनसिकारप्रतिष्ठितेन द्विरात्रं त्रिरात्रं वा भक्तच्छदच्छिन्नेन्âइवं संज्ञ्ôत्पादयितव्या ।
सन्ति यामलौकिकाः प्रेता दुष्करकर्मकारिणो ये वर्षशतेन खेटपिण्डम् अप्य् आहारं न प्रतिलभन्ते ।
तन् मया धर्मयोनिशश् चिन्ताप्रतिष्ठितेन कायदौर्बल्यं वा चित्तदौर्बल्यं वा न्ôत्पादयितव्यं ।
अधिवासयिष्यामि क्षुत्पिपासां ।
न पुनर् आर्यमार्गभावनायां वीर्यं स्रंसयिष्यामि ॥
पे ॥
यत्र कुले पिण्डपातं शु-
[ बेन्दल्ल् एद् प्131 ---> ]
चिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या ।
यावन् न स पिण्डपातः शुचीक्र्टो भवेत् तेन पिण्डपातं गृहीत्वा उत्थाय्âसनात् प्रक्रमितव्यं ।
पिण्डचारिकेण काश्यप भिक्षुणा
[ चम्ब्रिद्गे म्स् f67अ ---> ]
न्âवभासकरेण भवितव्यं न लपना न कुहना कर्तव्या ॥
तत्र कतमो ऽवभासः ।
यत् परेषाम् एवं वाचं भाषते ।
लूहो मे पिण्डपातो रुक्षो मे पिण्डपात्âसीन् न च मे यावदर्थं भुक्तं ।
बहुजनसाधारणश् च मे पिण्डपातः कृतः ।
अल्पं मे भुक्तं जिघत्सितो ऽस्म्îति ।
यत् किञ्चिद् एवंरूपम् अवभासनिमित्तं ।
इयम् उच्यते चित्तकुहना ।
सर्वम् एतत् पिण्डचारिकेण भिक्षुणा न कर्तव्यं ।
उपेक्षकभूतेन ।
यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं व्âशुभं वा तत् परिभोक्तव्यम् अपरितप्यमानेन्âशयशुद्धेन धर्मनिध्यप्तिबहुलेन ।
कायजापन्âर्थम् आर्यमार्गस्य्ôपस्तम्भ्âर्थं स पिण्डपातः परिभोक्तव्य्êति ॥
तथ्âर्य्ôग्रपरिपृच्छायाम् अप्य् उक्तं ।
यस्याश् च्âन्तिके पिण्डपातं परिभुज्य न शक्नोत्य् आत्मनः परस्य च्âर्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्डचारिकस्य बोधिसत्वस्य निमन्त्रणम् इति ॥
एवं तावत् सततभैषज्येन्âत्मभावरक्षा कार्या ।
तत्र्âपि न मत्स्यमांसेन लङ्क्âवतारसूत्रे प्रतिषिद्धत्वात् ॥
[ बेन्दल्ल् एद् प्132 ---> ]
तथा ह्य् उक्तं ।
मांसं सर्वम् अभक्ष्यं कृप्âत्मानो बोधिसत्वस्य्êति वदामि ॥
पे ॥
स्वाजन्याद् व्यभिचाराच् च शुक्रशोणितसंभवात् ।
उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ॥
मांसानि च पलाण्डूंश् च मद्यानि विविधानि च ।
गृञ्जनं लशुनं च्âइव योगी नित्यं विवर्जयेत् ॥
म्रक्षणं वर्जयेत् तैलं शल्यविद्धेषु न स्वपेत् ।
छिद्र्âछिद्रेषु सत्वानां यच् च स्थानं महाभयम् ॥
पे ॥
लाभ्âर्थं हन्यते प्राणी मांस्âर्थं दीयते धनं ।
उभौ तौ पापकर्माणौ पच्येते रौरव्âदिषु ॥
यावत् ॥
यो ऽतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्मतिः ।
लोकद्वयविनाश्âर्थं दीक्षितः शाक्यशासने ॥
ते यान्ति परमं घोरं नरकं पापक-रिणः ।
रौरव्âदिषु रौद्रेषु पच्यन्ते मांसखादकाः ॥
त्रिकोटिक्षुद्धं मांसं वै अकल्पितम् अयाचितं ।
अचोदितं च न्âइव्âस्ति तस्मान् मांसं न भक्ष्ययेत् ॥
मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं ।
अन्योन्यभक्षणाः सत्वाः क्रव्य्âदकुलसंभवाः ॥
यावत् ॥
दुर्गन्धः कुत्सनीयश् च्ôत्मत्तश् च्âपि जायते ।
[ बेन्दल्ल् एद् प्133 ---> ]
चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः ॥
डाकिनीजातियोनौ च मांस्âदे जायते कुले ।
ऋक्ष-
[ चम्ब्रिद्गे म्स् f67ब् ---> ]
मार्जरयोनौ च जायते ऽसौ नर्âधमः ॥
हस्तिकक्ष्ये महामेघे निर्वाण्âङ्गुलिमालिके ।
लङ्क्âवतारसूत्रे च मया मांसं विगर्हितं ॥
बुद्धैश् च बोधिसत्वैश् च श्रावकैश् च विगर्हितं ।
खादते यदि निर्लज्ज्ôन्मत्तो जायते सदा ॥
ब्राह्मणेषु च जायन्ते ऽथ वा योगिनां कुले ।
प्रज्ञावान् धनवांश् च्âइव मांस्âद्यानां विवर्जनात् ॥
दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत् ।
तार्किका न्âवबुध्यन्ते क्रव्य्âदकुलसंभवाः ॥
यथ्âइष रागो मोक्षस्य्âन्तरायकरो भवेत् ।
तथ्âइव मांसमद्य्âदि अन्तरायकरं भवेत् ॥
वक्षन्त्य् अनागते काले मांस्âदा मोहवादिनः ।
कल्पिकं निरवद्यं च मांसं बुद्ध्âनुवर्णितं ॥
[ बेन्दल्ल् एद् प्134 ---> ]
भेषज्यम् इव्âहारं पुत्रमांस्ôपमं पुनः ।
मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ॥
मैत्रीविहारिणा नित्यं सर्वथा गर्हितं मया ।
सिंहव्याघ्रमृग्âद्यैश् च सह्âइकत्र संभवेत् ॥
तस्मान् न भक्षयेन् मांसम् उद्वेजजनकं नृणां ।
मोक्षधर्मनिरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ॥यत् तु ज्ञानवतीपरिवर्ते मांसभक्षणं पठ्यते तन् मह्âर्थसाधकत्वान् निर्दोषम् ॥
एवं हि तथ्ôक्तं ।
एषो आçöकरिष्यद् यदि भिक्षु कालं ।
समाधिशब्दो ऽपि हि जम्बुद्वीपे ।
निरुद्धु सत्वान सद्âभविष्यद् ।
चिकित्सिते ऽस्मि समाधि लब्धः ॥
न च महाकरुण्âभियुक्तम् ।
तेन्âस्मिन् न मैत्री शङ्क्âपि न्âस्त्îत्य् अदोषः ॥
[ बेन्दल्ल् एद् प्135 ---> ]
यद्य् अप्य् आर्यरत्नमेघे ऽभिहितं ।
श्माशानिकेन निरामिषेण भवितव्यम् इति ॥
तद् अन्यत्र्âइवं जातीयसत्व्âर्थसंदर्शन्âर्थं ।
विनये ऽपि यद् अनुज्ञातं तत् तु त्रिकोटिपरिशुद्धभक्षणे न प्रहाण्âन्तराय्êति ।
तत् परित्यागेन शुद्धदृष्टीनाम् अभिमाननिरास्âर्थं ।
तद् वृद्धतया च भव्यानां शासन्âनवतारपरिहार्âर्थं ॥
तथा ह्य् उक्तं लङ्क्âवतारसूत्रे ।
तत्र तत्र देशना पाठे शिक्षापदानाम् आनुपूर्वीं बन्धन् निश्रेणीपदविन्यासयोगेन ।
त्रिकोटिं बद्ध्वा ।
तत्र्ôद्दिष्य क्र्टानि प्रतिषिद्धानि ततो ऽन्तशः प्रकृतिमृतान्य् अपि प्रतिषिद्धान्îति ॥
उक्तं सततभैषज्यं ।
ग्लानप्रत्ययभैषज्यं तत् सेव्यम् एव ॥
श्रावकविनये ऽपि तावद् आत्म्âर्थं ब्रह्मचर्यवास्âर्थं पात्रचीवरम् अपि विक्रीय ।
कायसंधारणम् उक्तं ।
किं पुनर् अपरिमितजनपरित्राणहेतोर् बोधिसत्वशरीरस्य दुर्लभा च्êदृशी क्षणप्रतिलाभ्ôत्सवसम्पद् ।
इति तत्प्रदर्शन्âर्थं च भगवता तत्र स्वयं भैषज्य्ôपयोगः प्रदर्शितः ॥
उक्तं च्âर्यरत्नमेघसूत्रे ।
तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् असत्यां वा तेषाम् इमान्य् एवंरूपाणि काय्ôपस्तम्भनान्य् उपकरणानि न लभ्यन्ते ऽभ्यवहर्तुं ।
यद् उत सर्पिर् वा तैलं वा मूलरसो वा गण्डरसो वा फलरसो वा ।
न च्âन्यान् अभ्यवहरतो दृष्ट्वा प्रतिघचित्तम् उत्पादयति ।
यदि पुनः खलु पश्चाद्भक्तिको बोधिसत्वो वा
[ चम्ब्रिद्गे म्स् f68अ ---> ]
ग्लानो भवति ।
यथारूपेण्âस्य ग्लान्येन जीवित्âन्तरायो भवति कुशलपक्ष्âन्तरायो वा तेन निष्कौकृत्येन भूत्वा निर्विचिकित्सकेन भैषज्यचित्तम् उपस्थाप्य प्रतिनिसेव्यान्îति ॥
[ बेन्दल्ल् एद् प्136 ---> ]
वसन्ôपभोगप्रयोजनम् उग्रपरिपृच्छासूत्रे ऽभिहितं ।
ह्रीरपत्राप्यकापैर् निः ... [[दोउब्त्]] प्रच्छादन्âर्थं तु श्रमणलिङ्गसंदर्शन्âर्थम् इमानि च काषायाणि देवमानुष्âसुरस्य लोकस्य चैत्यम् इति ।
चैत्य्âर्थं सम्यग्धारितव्यानि ।
निर्वृतिविरागरक्तानि [[दोउब्त्]] एतानि ।
न रागरक्तानि ।
उपशम्âनुकूलान्य् एतानि ।
न संक्लेशसंधुक्षण्âनुकूलानि ।
एभिश् च काषायैर् विवृतपापा भविष्यामः ।
सुकृतकर्मकारिणो न चीवरमण्डन्âनुयोगम् अनुयुक्ताः ।
एतानि च काषायाण्य् आर्यमार्गसंभार्âनुकूलान्îति कृत्वा तथा करिष्यामो यथा न्âइकक्षणम् अपि सकषायाः काये काषायाणि धारयिष्याम्êति ॥
अत्र च कारणं रत्नराशिसूत्रे ऽभिहितं ।
ये पुनस् ते काश्यप वैदर्य्âसंयत्êतः श्रमणगुणधर्माद् उद्धुराः काये काषायाणि वस्त्राणि धारयन्ति ।
न च्âइतेषु गौरवम् उत्पादयन्ति ।
तत्र काश्यप श्रमणवर्णप्रतिरूपकं नाम प्रत्येकनरकं ।
तत्र काश्यप प्रत्येकनरके श्रमणरूपप्रतिरूपेण ताः कारणाः कार्यन्ते आदीप्तचैला*आदीप्तशीर्ष्âदीप्तपात्र्âदीप्त्âसन्âदीप्तशयनाः ।
यः कश्चित् तत्र तेषाम् उपभोगपरिभोगः स सर्व्âदीप्तः संप्रज्वलित्âइकज्वालीभूतः ।
तत्र तैः श्रमणवर्णरूपेण दुष्खां वेदनाम् अनुभवन्त्îति ॥
[ बेन्दल्ल् एद् प्137 ---> ]
आर्यरत्नमेघे ऽप्य् उक्तं ।
यदि भवेद् अभ्यवकाशिको बोधिसत्वो ग्लानकायो ऽप्रतिबलकायस् तेन विहारक्षितेन्âइवं चित्तम् उत्पादयितव्यं ।
क्लेशप्रतिपक्ष्âर्थं तथागतेन धुतगुणाः प्रज्ञप्ताः ।
[ चम्ब्रिद्गे म्स् f68ब् ---> ]
तथ्âहं करिष्यामि यथा विहारस्य्âइव क्लेशानां प्रहाणाय घटिष्यामि ।
तत्र च विहारे न गृद्धिम् उत्पादयामि न्âध्यवसानं ।
एवं च्âस्य भवति ।
कर्तव्यो दानपतीनाम् अनुग्रहो न्âस्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ॥
पुनर् अत्र्âइव्âह ।
ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति ।
पादस्य्ôपरि पादम् आधाय चीवरैः असंवृतकायाः स्मृताः ।
संप्रजानान्ôत्थानसंज्ञिन्âलोकसंज्ञिनः शय्यां कल्पयन्ति ।
न च निद्रासुखम् आस्वादयन्ति ।
न पार्श्वसुखम् अन्य्त्र यावद् एव्âइषां महाभूतानां स्थितये जापनायै ।
इत्य् अनया दिशा सर्वपरिभोगाः सत्व्âर्थम् अधिष्ठातव्याः ।
आत्मतृष्ण्ôपभोगात् तु क्लिष्ट्âपत्तिः प्रजायते ॥
यथ्ôक्तं चन्द्रप्रदीपसूत्रे ।
ते भोजनं स्वादुरसं प्रणीतं ।
लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः ।
तेषां स्âहारु बधाय भोती ।
यथ हस्तिपोतान विष्âधौता ॥
इति ॥
आर्यरत्नराशिसूत्रे ऽपि भगवता श्रद्धादेयपरिभोगे परिकीर्तिते ।
अथ तस्याम् एव पर्षदि योग्âचाराणां भिक्षूणां द्वे शते इमं धर्मपर्यायं श्रुत्वा प्ररुदिते ।
एवं च वाचम् अभाषन्त ।
कालं वयं भगवन् करिष्यामो ।
न पुनर् अप्राप्तफल्âइकपिण्डपातम् अपि श्रद्धादेयस्य परिभोक्ष्यामः ॥
[ बेन्दल्ल् एद् प्138 ---> ]
भगवान् आह ।
साधु साधु कुलपुत्र्âइवंरूपैर् लज्जाभिः कौकृत्यसंपन्नैः परलोक्âवद्यभयदर्शिभिर् इदं प्रवचनं शोभते ॥
अपि तु ॥
द्वयोर् अहं काश्यप श्रद्धादेयम् अनुजानामि ।
कतमयोर् द्वयोः ।
युक्तस्य मुक्तस्य च ।
यदि भिक्षवो भिक्षुर् युक्तो योग्âचारो मम शिक्षायां प्रतिपन्नः सर्वसंस्कारेष्व् अनित्यदर्शी ।
सर्वसंस्कारदुःखविदितः सर्वधर्मेष्व् अनात्म्âधिमुक्तिः शान्तनिर्वाण्âभिकाङ्क्षी सुमेरुमात्रैर् आलोपैः श्रद्धादेयं भुञ्जीत ।
अत्यन्तपरिशुद्ध्âइव तस्य सा दक्षिणा भवति ।
येषां च दायकानां दानपतीनां सकाशाच् छ्रद्धादेयं परिभुक्तं ततस् तेषां दायकदानपतीनां महर्द्धिकः
[ चम्ब्रिद्गे म्स् f69अ ---> ]
पुण्यविपाको भवति ।
महाद्युतिकः ।
तत् कस्माद् धेतोः ।
अग्रम् इदम् औपधिकानां पुण्यक्रियावस्तूनां य्êयं मैत्रचित्तसमापत्तिः ।
तत्र काश्यप यो भिक्षुर् दायकस्य दानपतेर् अन्तिकाच् चीवरपिण्डपातं परिभुज्य्âप्रमाणं चेतःसमाधिं समापद्यते ऽप्रमाणस् तस्य दायकस्य दानपतेः पुण्यक्रियाविपाकः प्रतिकाङ्क्षितव्यः ।
स्यात् काश्यप त्रिसाहस्रमहासाहस्रायां लोकधातौ महासमुद्राणां क्षयो न त्व् एव तस्य पुण्यनिष्यन्दनस्य कश्चित् क्षय्êति ॥
तद् एवं पिण्डपातगमनआरम्भे भोजन्âरम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायक्âनुग्रहे ।
कायक्रिमिसंग्रहे ।
सर्वसत्व्âर्थसाधके च सद्धर्मपरिग्रहे ॥
तथागत्âज्ञासंपादने तु सर्वकार्येषु स्मृतिः कार्या ।
आदिशब्दान् मन्त्रैर् अपि रक्षा कार्या ॥
तत्र्âपि तावद् इमां त्रिसमयराज्ôक्तां विद्यां मण्डलसमय्âर्थम् उच्चारयेत् ।
नमः सर्वबुद्ध-
[ बेन्दल्ल् एद् प्139 ---> ]
बोधिसत्वानां ओं विरजि महाचक्रविरजि ।
सत सारत त्रपि विधमनि ।
सभजनि ।
संभजनि ।
तरमति ।
सिद्ध्âग्रे त्वं स्वाहा ॥
अनेन सर्वमण्डलप्रविष्टो भवति ॥
अथवा तथागतहृदयम् अष्टसहस्त्रं जपेत् सलौकिकलोक्ôत्तरमण्डलप्रविष्टो भवति ।
कतमच् च तत् ॥
नमस् त्रैयब्धिकानां तथागतानां ।
सर्वत्र्âप्रतिहत्âवाप्तिधर्मताबलिनां ।
आं असमसम समन्ततो ऽनन्तन्âवाप्तिशासनि ।
हर स्मर स्मरण विगतरागबुद्धधर्मते ।
सर समबला ।
हस ।
त्रय ।
गगन मह्âचलरक्षण ।
ज्वल ज्वलन सागरे स्वाहा ॥
अयं सर्वतथागतानाम् आत्मभावः ।
अत्र्âनुत्तरं गौरवं भावयितव्यं ।
अनेन्âदिकर्मिक्âपि सत्वेष्व् अनन्तं बुद्धकृत्यं कुर्वन्ति ।
अयम् एव परमां रक्षां*मार्âदिभ्यः सर्वदुष्टेभ्यः करोति ।
हस्तताडेन भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमाबन्धं करोति ॥
व्याधि-
[ चम्ब्रिद्गे म्स् f69ब् ---> ]
षु भैषज्यम् उदकं च्âभिमन्त्र्य्ôपयोज्यं ॥वनकुसुमानि वा चैत्ये प्रतिमायां सद्धर्मपुस्तके वा समाहितो निवेदयेत् ॥
पक्षप्रयोगान् महा व्याधिभिर् अभिमुच्यते ।
बुद्धबोधिसत्व्âलम्बनेन सर्वसत्व्âर्थ्âभिलाषिणा च चित्तेन भद्रचरिविधिपूर्वकं च जप्तव्यः ।
अयं विधिर् अस्य कल्पस्य्âवसाने द्रष्टव्यः ।
त्रिसमयजापिनश् च्âम्नायतो न दोषः ।
उत्सिष्टस्य्âप्य् अशुचेर् न दोषः ।
मुद्र्âकारा न भक्षणीया न लङ्घनीया ।
न मञ्च्âरोहः कर्तव्यः ।
न मद्यं पातव्यं ।
अधिमुक्तिचर्या शिक्षापदेष्व् अचलस्य निर्विचिकित्सस्य दुःशीलपूर्वस्य्âपि सिध्यति ।
पण्डितस्य्âपण्डितस्य वा नियतं सिध्यति ॥
[ बेन्दल्ल् एद् प्140 ---> ]
तथा च्âत्र्âइव्ôक्तं ।
बोधिचित्तं दृढं यस्य निःसंगा च मतिर् भवेत् ।
विचिकित्सा न्âइव कर्तव्या तस्य्êदं सिध्यति ध्रुवम् ।
इति ॥
बोधिचित्तदृढता च्âत्र पृथग्जनचलचित्तताया नियम्âर्थम् उक्ता न तु भूमिप्रविष्टम् अधिकृत्य ॥
यस्माद् अत्र्ôक्तं ।
प्रत्युद्धारताम् अवभासतां च प्रतिलब्धुकामेन ।मह्âन्धकाराद् आलोकं प्रवेष्टुकामेन ।
यद् भूयसा विनिपतितेन साध्यं ।
तथा कुतो मम्âल्पपुण्यस्य सिद्धिर् इति नीचचित्तप्रतिषेधः ।
न च्âतिक्रान्तदुर्गतेर् उत्साह्ôर्मिबहुलस्य्ôपचित्âप्रमेयपुण्यस्कन्धस्य भूमिप्रविष्टस्य्âयं पूर्व्ôक्तो दोषः संभवति ।
अत्र च मन्त्राणाम् अज्ञानान् न्âधिक्âक्षरपाठे दोषो ऽस्ति ।
न्âपि न्यूनतादोषः ।
न्âपि विधिभ्रंसदोषः ।
किंतु श्रद्धावेगं बोधिचित्तवेगं सर्व्ôत्सर्गवेगं च प्रमाणीकृत्य्âविचारतः प्रवर्तितव्यम् अवश्यं बुद्धबोधिसत्वम् इह्âइव यथ्êष्टसिद्धिश् च भवति ॥
अथव्âनेन सर्ववज्रधरमन्त्रेण रक्षां कुर्यात् ।
नमस् त्रैयब्धिकानां तथागतानां सर्ववज्रधराणां चण्डाल ।
चल ।
वज्र ।
शान्तन ।
फलन ।
चर ।
मारण ।
वज्रडालफट ।
ललितशिखर समन्तवज्रिणि ।
ज्वल ।
नमो ऽस्तु ते ऽग्र्ôग्रशासानानां रण हं फुल स्फाट वज्र्ôत्तमे स्वाहा ॥
अनेन पठितमात्रेण सर्वविघ्नविनायका न्ôपसंक्रामन्ति ।
देवनाग्âदयो न प्रसहन्ते ।
भोजनपानशयन्âसनवसनपूज्ôपकरणानि च्âभिमन्त्रितेन
[ चम्ब्रिद्गे म्स् f70अ ---> ]
जलेन दृष्ट्या मनसा वा रक्षेत ।
अचलहृदयेन वा सर्वम् एतत् कुर्यात् ॥
इदं च तत् ॥
[ बेन्दल्ल् एद् प्141 ---> ]
नमः समन्तवज्राणां त्राट ।
अमोघ चण्डमहारोषण स्फाटय हूं ।
भ्रामय हूं ।
त्राट हूं ।
मां ।
ओं बलं ददे तेजोमालिनि स्वाहा ॥
अनेन प्रथमं पिण्डम् अष्ट्âभिमन्त्रितं भुञ्जीत भैषज्यराजतां बुद्धबोधिसत्वानाम् अनुस्मृत्य ॥
विषप्रतीकारस् तु ॥
तद् यथा ।
इलिमित्ते ।
तिलिमित्ते ।
इलितिलिमित्ते ।
दुम्बे ।
दुःसे ।
दुःसालीये ।
दुम्बालीये ।
तक्के ।
तर्क्करणे ।
मर्म्मे ।
मर्मरणे ।
कश्मीरे ।
कश्मीरमुक्ते ।
अघने ।
अघनघने ।
इलिमिलीये ।
अखाप्ये ।
अपाप्ये श्वेते ।
श्वेततुण्डे ।
अनानुरक्षे स्वाहा ॥
य्êमां विद्यां सकृच् छृणोति स सप्त वर्षाण्य् अहिना न दश्यते ।
न च्âस्य काये विषं क्रामति ।
यश् च्âइनं अहिर् दशति सप्तध्âस्य स्फुटेन् मूर्द्ध्âर्जकस्य्êव मञ्जरी ॥य्êमां विद्यां धारयति स यावज्जीवम् अहिना न दश्यते ।
न च्âस्य काये विषं क्रामति ।
इमानि च मन्त्रपदानि सर्पस्य पुरतो न वक्तव्यानि यत्कारणं सर्पो म्रियते ॥
तद् यथा ।
इल्ला ।
चिल्ला ।
चक्को ।
बक्को ।
कोडा कोडेति ।
निकुरुडा निकुरुडेति ।
पोडा पोडेति ।
मोडा ।
मोडेति ।
पुरुडा पुरुडेति ।
फट रहे ।
फुट्टण्ड रहे ।
नाग रहे ।
नागट्टण्डरहे ।
सर्प रहे ।
सर्पट्टण्डरहे ।
अच्छे ।
छल विषशाते ।
शीतवत्ताले ।
हलले ।
हलले ।
तण्डि ।
तड ।
ताडि ।
मल ।
स्फुट ।
फुटु ।
स्वाहा ॥
[ बेन्दल्ल् एद् प्142 ---> ]
इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्वभूतसमागते सर्वं तथ्âवितथ्âनन्यथाभूतं सत्यम् अविपरीतम् अविपर्यस्तं ।
इदं विषम् अविषं भवतु ।
दातारं गच्छतु ।
दंष्ट्रारं गच्छतु ।
अग्निं गच्छतु ।
जलं गच्छतु ।
स्थलं गच्छतु ।
स्तम्भं गच्छतु ।
कुड्यं गच्छतु ।
भूमिं संक्रामतु ।
शान्तिं गच्छतु स्वाहा ॥
चोर्âदिप्रतीकारे मारीचीं जपेत् ॥
तद् यथा ।
पराक्रमसि ।
उदयम् असि ।
वैरम् असि अर्कम् असि ।
मर्कम् असि ।
वनम् असि ।
अन्तर्द्धानम् असि ।
प-
[ चम्ब्रिद्गे म्स् f70ब् ---> ]
थे मे रक्ष ।
उत्पथे मे रक्ष ।
जनतो मे रक्ष ।
चौरतो मे रक्ष ।
राजतो मे रक्ष ।
सिंहतो मे रक्ष ।
व्याघ्रतो मे रक्ष ।
नागतो मे रक्ष ।
सर्पतो मे रक्ष ।
सर्वतो मे रक्ष ।
रक्ष मां सर्वसत्वांश् च सर्वभयेभ्यः सर्व्ôपाये स्ôपसर्गेभ्यः स्वाहा ॥
उंवडिलि सर्वदुष्टानां ग्रन्थिं वन्दामि स्वाहा ॥
नमो रत्नत्रयाय ।
नमो मारीच्यै देवतायै ।
मारीच्या देवताया हृदयम् आवर्तयिष्यामि ॥
त यथा ।
बत्तालि ।
बदालि ।
बदालि ।
बरालि ।
वराहमुखि ।
सर्वदुष्टानां निवारय ।
बन्ध मुखं स्वाहा ॥
इमाम् अपि विद्याम् अनन्तजातिस्मरहेतुं महाप्रभावां सप्तपञ्चाशदक्षरां विद्याधरपिटक्ôपनिबद्धां सर्वभयरक्ष्âर्थं प्रयुञ्जीत ॥
तद् यथा ।
अट्टे ।
बट्टे ।
नट्टे ।
कुनट्टे ।
टके ।
ठके ।
ठरके ।
उरुमति ।
रुरुमति ।
तुरु ।
हिलि मिलि ।
सर्वज्ञ्ôदुपदग्ग [[दोउब्त्]] ।
नमो सब्बसम्मसंबुद्धाणं सिज्झन्तु मे मन्तपदाः स्वाहा ॥
[ बेन्दल्ल् एद् प्143 ---> ]
एषा रक्ष्âत्मभावस्य भैषज्यवसन्âदिभिः ।
सत्व्âर्थस्मृतिपूर्वकम् एव वक्तव्या ॥
आत्मतृष्ण्ôपभोगात् तु क्लिष्ट्âपत्तिः प्रजायते ॥
सर्वं हि बोधिसत्वेन्ôत्सृष्टं सर्वसत्वेभ्यः ॥
तत्र यदि विस्मृत्य परद्रव्यम् आत्मभरणतृष्णया परिभुङ्क्ते क्लिष्ट्âपत्तिम् आपद्यते ।
अथ वितृष्णो अन्यासक्तो वा सत्वकार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते ।
परद्रव्यसंज्ञी स्व्âर्थेन भुङ्क्ते स्तेय्âपत्तिम् आपद्यते ।
पूर्âर्घेण प्रातिमोक्षे पाराजिको भवति ।
सत्वस्वामिकैस् तु भोगैः सत्वस्वामिक्âइव्âत्मभावः संरक्षत्êत्य् अदोषः ।
न हि दासस्य नित्यं स्वामिकर्मव्यापृतस्य स्वद्रव्यम् अस्ति येन वर्तेत ॥
उक्तं च धर्मसङ्गीतिसूत्रे ।
दास्ôपमेन बोधिसत्वेन भवितव्यं सर्वसत्वकिङ्करणीयप्रापणतय्êति ॥
न च्âइक्âन्तस्वाम्यर्थपरस्य दासस्य व्याध्यादिविक्लवमतेः स्वामिनम् अननुज्ञाप्य्âपि भुञ्जानस्य कश्चि-
[ चम्ब्रिद्गे म्स् f71अ ---> ]
द् दोषः ।
न्âप्य् एवं कुर्वाणस्य बोधिसत्वस्य्âन्तिके कस्यचिद् विदितवृत्त्âन्तस्य्âप्य् अप्रसादो युज्यते मात्सर्यत्यागचित्त्âपरिज्ञानात् ॥
न च्âत्र न्याये कश्चित् संदेहो युक्तः ।
सर्व्ôत्सर्गो हि पूर्वम् एव भगवत्कण्ठ्ôक्त्या प्रतिपादितः ।
तथा च्âत्मभावरक्षा सत्व्âर्थम् एव्ôक्ता ।
तस्य स्पष्ट्âवबोध्âर्थम् अयं न्यायो ऽभियुक्तो न तु स्व्âर्थ्âपेक्षय्êति ॥
इति शिक्षासमुच्चये आत्मभावरक्षा षष्ठः परिच्छेदः ॥
भोगपुण्यरक्षा सप्तमः परिच्छेदः
एवं तावद् आत्मभावरक्षा वेदितव्या ।
भोगरक्षा तु वक्तव्या ।
तत्र सुकृत्âरम्भिणा भाव्यं मात्रज्ञेन च सर्वत्êति शिक्षापदाद् अस्य भोगरक्षा न दुष्करा ॥
उग्रपरिपृच्छायां हि शिक्षापदम् उक्तं ।
सुसमीक्षितकर्मकारिता सुकृतकर्मकारिता च ।
तेन भोगानां दुर्न्यासा प्रेत्यवेक्षा ।
अवज्ञाप्रतिषेधः सिद्धो भवति ।
शमथप्रस्तावेन च मात्रज्ञता युक्तिज्ञता च्ôक्ता ॥
तेन्êदं सिद्धं भवति ।
यद् इदं ।
अल्प्âधमभोगेन्âपि कार्यसिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तमभोगनाशन्ôपेक्षा न कार्य्êति ॥
अत्âइव्ôग्रपरिपृच्छायाम् उक्तं ।
पुत्रभार्यादासीदासकर्मकरपौरुषेयाणां सम्यक्परिभोगेन्êति ।
तथा स्वपरबोधिपक्षश्रुत्âद्यन्तरायकरौ त्याग्âत्यागौ न कार्यौ ।
अधिकसत्व्âर्थशक्तेस् तुल्यशक्तेर् वा बोधिसत्वस्य्âधिकतुल्यकुशल्âन्तरायकरौ त्याग्âत्यागौ न कार्याव् इति सिद्धं भवत्îति ॥
इदं च संधाय बोधिसत्वप्रातिमोक्षे ऽभिहितं ।
यस् तु खलु पुनः शारिपुत्र्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वो बोध्यङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं ।
कतरं दानं दातव्यं ।
कियद्रूपं दानं दातव्यं ॥
पे ॥
धर्मदायकेन भवितव्यं धर्मदानपतिना ।
यश् च शारिपुत्र गृही बोधिसत्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नप्रतिपूर्णानि कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद् ।
यश् च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्व्âइकां चतुष्पदिकां-
[ चम्ब्रिद्गे म्स् f71ब् ---> ]
गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति ।
न शारिपुत्र तथागतेन प्रव्रजितस्य्âमिषदानम् अनुज्ञातं ॥
पे ॥
यस्य खलु पुनः शारिपुत्र पात्र्âगतः पात्रपर्यापन्नो लाभो भवेद् धार्मिको धर्मलब्धः ।
तेन साधारणभोजिना भवितव्यं सार्द्धं सब्रह्मचारिभिः ।
सचेत् पुनः कश्चिद् एव्âगत्य पात्रं वा चीवरं वा याचेत ।
तस्य्âतिरिक्तं भवेद् बुद्ध्âनुज्ञातात् त्रिचीवराद् ।
यथा परित्यक्तं दातव्यं ।
सचेत् पुनस् तस्य्ôनं चीवरं भवेद् यन् निश्रित्य ब्रह्मच-
[ बेन्दल्ल् एद् प्145 ---> ]
र्यवासः ।
तन् न परित्यक्तव्यं ।
तत् कस्य हेतोः ।
अविसर्जनीयं त्रिचीवरम् उक्तं तथागतेन ।
सचेत् पुनः शारिपुत्र बोधिसत्वः त्रिचीवरं परित्यज्य याचनकगुरुको भवेन् न तेन्âल्प्êच्छत्âसेविता भवेत् ।
यस् तु खलु पुनः शारिपुत्र्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वस् तेन धर्म्âसेवितव्यः ।
तन् न तेन्âभियुक्तेन भवितव्यम् इति ॥
अन्यथा ह्य् एकसंग्रह्âर्थं महतः सत्वराशेस् तस्य च सत्वस्य बोधिसत्व्âशयपरिकर्म्âन्तरायान् महतो ऽर्थस्य हानिः कृता स्याद् ।
अत्âइव्ôदारकुशलपक्षविवर्जनत्âपक्षाल्êत्य् उच्यते ।
एवं तावत् त्यागप्रतिषेधः ।
अत्यागप्रतिषेधो ऽपि ॥
यथ्âर्यसागरमतिसूत्रे महायान्âन्तरायेषु बहुलाभता पठ्यते ।
यो ऽयं विधिर् आत्मन्य् उक्तः सो ऽन्यस्मिन्न् अपि बोधिसत्वे प्रतिपाद्य्êति कुतो गम्यते ।
आर्य्ôग्रपरिपृच्छायां देशितत्वात् ।
परकृत्यकारितः स्वकार्यपरित्याग्êति ॥
तथ्âर्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं ।
संसारभयभीतेन किं प्रतिसर्तव्यम् ।
आह ।
संसारभयभीतेन मञ्जुश्रीर् बोधिसत्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यं ।
आह ।
बुद्धमाहात्म्यस्थातुकामेन कुत्र स्थातव्यं ।
आह ।
बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यं ।
आह ।
सर्व-
[ चम्ब्रिद्गे म्स् f72अ ---> ]
सत्वसमतायां स्थातुकामेन कुत्र स्थातव्यं ।
आह ।सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् इति ॥
तथा च धर्मसङ्गीतौ सार्थवाहो बोधिसत्व्âह ।
यो भगवन् बोधिसत्वः सर्वसत्वानां प्रथमतरं बोधिम् इच्छति न्âत्मनः ।
यावद् इयं भगवन् धर्मसङ्गीतिर् इति ॥
उत्सर्गाद् एव च्âस्य स्व्âर्थ्âभावः सिद्धः ।
किं तु सत्व्âर्थहानिभयाद् अयोग्ये सत्वे सुभरं न्âरोपयति ।
यत्र तु सत्व्âर्थहानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् धितम् आचरितम् इति
[ बेन्दल्ल् एद् प्146 ---> ]
को विशेषो ।
यद् अयम् अपरबोधिसत्वकुशलसिद्धये न स्वकुशलम् उत्सृजति ।
अथ स्वदुर्गतिदुष्ख-द् बिभेति ।
द्वितीयस्य्âपि तद् एव दुष्खं ।
अथ तद्दुष्खेन मे बाधा न्âस्त्îत्य् उपेक्षते ।
यथ्ôक्तैः सूत्रैः स्âपत्तिको भवति ॥
यथा च रत्नकूटसूत्रे ।
चत्वार्êमे काश्यप बोधिसत्वप्रतिरूपक्êत्य् आरभ्य्ôक्तं ।
आत्मसुख्âर्थिको भवति न सर्वसत्वदुष्ख अपनयन्âर्थिक्êति ॥
तस्माद् उग्रपरिपृच्छाविधिना पूर्ववद् आत्मा गर्हणीयः एषा तु बोधिसत्वशिक्षा यथ्âर्यनिरारम्भेण धर्मसङ्गीतिसूत्रे निर्दिष्टा ।
कथं कुलपुत्राः प्रतिपत्तिस्थीत वेदितव्याः ।
आह ।
यदा सत्वेषु न विप्रतिपद्यन्ते ।
आह ।
कथं सत्वेषु न विप्रतिपद्यन्ते ।
आह ।
यन् मैत्रीं च महाकरुणां च न त्यजन्ति ।
सुभूतिर् आह ।
कतमा बोधिसत्वानां महामैत्री ।
आह ।
यत् कायजीवितं च सर्वकुशलमूलं च सर्वसत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति ।
आह ।
कतमा बोधिसत्वानां महाकरुणा ।
यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति न्âत्मन्êति ॥
अत्र्âइव च्âह ।
महाकरुणामूलाः सर्वबोधिसत्वशिक्ष्êति ।
अवश्यं च भगवत्êदं न निवारणीयं ।
अन्यतरबोधिसत्व्âर्थे न
[ चम्ब्रिद्गे म्स् f72ब् ---> ]
अर्थित्वाद् अवश्यं त्ûपदिशत्îति निश्चीयते ।
येन दातुर् महादक्षिणीये मह्âर्थदानान् महापुण्यसागरविस्तरो दृश्यते ।
अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ॥
यत् तु प्रशान्तविनिश्चयप्रातिहार्यसूत्रे देशितम् ।
य्âइष ते महाराज वर्षशतसहस्रेण परिव्ययो ऽत्र प्रविष्टः स सर्वः पिण्डीकृत्य्âइकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्येकं सर्वभिक्षूणां ।
यश् च्ôद्देशस्व्âध्याय्âभियुक्तो बोधिसत्वः सगौरवो धर्मक-मः श्रद्धादेयम् आहारं परिगृह्य्âइवं चित्तम् उत्पादयेत् ।
अनेन्âहं धर्मपर्येष्टिम् आपत्स्यए इति ।
अस्य कुशलस्य्âइष देयधर्मपरित्यागः शततमीम् अपि कलां न्ôपैत्îति ॥
तद् गृहसुखपलिशुद्धम् अधिकृत्य्ôक्तं ।
न तु पूर्व्ôक्तविधिना कश्चिद् दोषः ॥
उक्तो समासता भोगरक्षा ।
पुण्यरक्षा वाच्या ।
तत्र स्व्âर्थविपाकवैतृष्ण्याच् छुभं संरक्षितं भवेत् ॥
[ बेन्दल्ल् एद् प्147 ---> ]
यथ्ôक्तं नारायणपरिपृच्छायां ।
स न्âत्महेतोः शीलं रक्षति ।
न स्वर्गहेतोः ।
न शक्रत्वहेतोः ।
न भोगहेतोः ।
न्âइश्वर्यहेतोः ।
न रूपहेतोर् न वर्णहेतोर् न यशोहेतोः ।
पे ॥
न निरयभयभि-तः शीलं रक्षति ।
पे ॥
एवं न तिर्यग्योनिभयभीतः शीलं रक्षति ।
अन्यत्र बुद्धनेत्रीप्रतिष्ठापनाय शीलं रक्षति ।
यावत् सर्वसत्वहितसुखयोगक्षेम्âर्थिकः शीलं रक्षति ॥
स्âइवंरूपेण शीलस्कन्धेन समन्वागतो बोधिसत्वो दशभिर् धर्मैर् न हीयते ।
कतमैर् दशभिः ।
यद् उत न चक्रवर्तिराज्यात् परिहीयते ।
तत्र च भवत्य् अप्रमत्तो बोधिप्रतिकाङ्क्षी बुद्धदर्शनम् अभिकाङ्क्षते ।
एवं ब्रह्मत्वाद् बुद्धदर्शन्âभेद्यप्रतिलम्भाद् धर्मश्रवणान् न परिहीयते ।
यावद् यथाश्रुतप्रतिपत्तिसंपादनाय बोधिसत्वसंवरसमादानान् न परिहीयते ।
अनाछेद्यप्रति-
[ चम्ब्रिद्गे म्स् f73अ ---> ]
भानात् सर्वकुशलधर्मप्रार्थनध्यानान् न परिहीयते ॥एवं शीलस्कन्धप्रतिष्ठितो बोधिसत्वो महासत्वः सदा नमस्कृतो भवति देवैः ।
सदा प्रशंसितो भवति नागैः ।
सदा नमस्कृतो भवति यक्षैः ।
सदा पूजितो भवति गन्धर्वैः सद्âपचायितश् च भवति नाग्êन्द्र्âसुर्êन्द्रैः ।
सदा सुमानितश् च भवति ब्राह्मणक्षत्रिय श्रेष्ठिगृहपतिभिः ।
सद्âभिगमनीयश् च भवति पण्डितैः ।
सदा समन्वाहृतश् च भवति बुद्धैः ।
शास्तृसंमतश् च भवति सदेवकस्य लोकस्य्âनुकम्पकश् च भवति सर्वसत्वानां ॥
पे ॥
चतस्रो गतीर् न गच्छति ।
कतमाश् चतस्रो ।
यद् उत्âक्षणगतिं न गच्छत्य् अन्यत्र सत्वपरिपाकात् ।
बुद्धशून्यबुद्धक्षेत्रं न गच्छति ।
मिथ्यादृष्टिकुल्ôपपत्तिं न गच्छति ।
सर्वदुर्गतिगतिं न गच्छति ॥
एवं पूर्व्ôत्सृष्टस्य्âपि पुण्यस्य क्लेशवशात् पुनर्*उपादीयमानस्य रक्षा कार्या ।
पुण्यदानाद् अपि यत् पुण्यं ततो ऽपि न विपाकः प्रार्थनीयो ऽन्यत्र पर्âर्थात् ।
किं च पुण्यं रक्षितुकामः ।
पश्चात् तापं न कुर्वीत ॥
यथ्ôक्तम् उग्रपरिपृच्छायां ।
दत्त्वा च न विप्रतिसारचित्तम् उत्पादयितव्यम् इति ॥
[ बेन्दल्ल् एद् प्148 ---> ]
पृष्ठदौर्बल्याद् दौर्बल्यं ।
विप्रतिसारात् पापवत् पुण्यस्य्âपि क्षयः स्याद् इत्य् अभिप्रायः ।
न च कृत्वा प्रकाशयेद् ।
अनेकपर्यायेण हि भगवता प्रछन्नकल्याणता ।
विवृतपापता वर्णिता ।
तत्र विवृतसय् क्षयो गम्यते ।
पापस्य दौर्मनस्येन्âइव पुण्यस्य सौमनस्येन्âपत्तिः सत्व्âर्थं निरामिषचित्तस्य प्रकाशयतः ॥
यथा रत्नमेघे वैद्यदृष्ट्âन्तेन्âत्म्ôत्कर्षो निर्दोष्ôक्तः ।
पुनः पुण्यरक्षा कामो लाभसत्कारभीतः स्याद् उन्नतिं वर्जयेत् सदा ।
बोधिसत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ॥
इदं च रत्नकूटे ऽभिहितं ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य्ôत्पन्न्ôत्पन्नाः
[ चम्ब्रिद्गे म्स् f73ब् ---> ]
कुशला धर्माः परिहीयन्ते ।
यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशलधर्मैः ।
कतमैश् चतुर्भिः ।
यद् उत्âभिमानिकस्य लोक्âयतमन्त्रपर्येष्ट्या ।
लाभसत्कार्âध्यवसितस्य कुलप्रत्यवलोकनेन ।
बोधिसत्वविद्वेष्âभ्याख्यानेन ।
अश्रुतानाम् अनिर्दिष्टानां च सूत्र्âन्तानां प्रतिक्षेपेण्êति ॥
आर्यसर्व्âस्तिवादानां च पठ्यते ।
पश्यध्वं भिक्षव्âइतं भिक्षुं केशनखस्तूपे सर्व्âङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् ।एवं भदन्त ।
अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्त्âधरशीतियोजनसहस्राणि यावत् काञ्चनचक्रं ।
अत्र्âन्तरे यावन्त्या वालिकास् तावन्त्य्- अनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि ।
यावद् अथ्âयुष्मान् उपालिर् येन भगवान् तेन्âञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ।
यद् उक्तं भगवत्âस्य भिक्षोर् एवं महान्ति कुशलमूलानि ।
कुत्र्êमानि भगवन् कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति ।
न्âहम् उपाले एवं
[ बेन्दल्ल् एद् प्149 ---> ]
क्षतिं च्ôपहतिं च समनुपश्यामि ।
यथा सब्रह्मचारी सब्रह्मचारिणो ऽन्तिके दुष्टचित्तम् उत्पादयति ।
अत्र्ôपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति ।
तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्धस्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः ।
प्राग् एव सविज्ञानके काय्êति ॥
आर्यमञ्जुश्रीविक्रीडितसूत्रे ऽप्य् आह ।
प्रतिघः प्रतिघ्êति कल्पशत्ôपचितं कुशलमूलं प्रतिहन्ति तेन्ôच्यते प्रतिघ्êति ॥
आर्यगण्डव्यूहसूत्रे च समन्तसत्वपरित्राण्य् ओजसः स्त्रिया रात्रिदेवतया पूर्व्âवदानं कथयन्त्य्âभिहितं ।
ते तेन्âन्योन्य्âवमन्यन्âसमुदितेन्âकुशलमूलेन्âयुःप्रमाणाद् अपि परिहीयन्ते स्म ।
वर्णाद् अपि बलाद् अपि परिहीयन्ते स्म्êति ।
अत्र च न कदाचिद् उन्नतिः कार्य्êति प्रदर्शन्âर्थं सद्êत्य् उ-
[ चम्ब्रिद्गे म्स् f74अ ---> ]
च्यते ॥
लाभसत्कारस् तु कदाचिद् अभ्युपगम्यते ऽपि ।
यथ्ôक्तं आर्यरत्नमेघे ।
इह कुलपुत्र बोधिसत्वः सुमेरुमात्रम् अपि रत्नराशिं लभमानः प्रतिगृह्णाति ।
प्रत्यवरम् अपि वस्तु प्रतिलभमानः ।
तत् कस्य हेतोः ।
तस्य्âइवं भवति ।
एते सत्वा मत्सरिणो लुब्धा लोभ्âभिभूताः ।
तद्धेतोः तत्प्रत्ययं तन्निदानं महावारिस्कन्ध्âवष्टब्द्êव संसारसागरे उन्मज्जनिमज्जनं कु-
[ बेन्दल्ल् एद् प्150 ---> ]
र्वन्ति ।
तद् एषां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय ।
सर्वं प्रतिगृह्य न स्वीकरोति ।
न लोभचित्तम् उत्पादयति ।
अन्यत्र सर्वसत्वसाधारणां बुद्धधर्मसंघेषु कारां करोति ।
यथा दुष्खितानां च सर्वसत्वानाम् उपजीव्यं करोति ।तं च दानपतिं समुत्तेजयति संप्रहर्षयत्îति ॥
तथ्âत्र्âइव्ôक्तं ।
तेन च दानेन न्ôन्नतो भवत्îति ॥
पुनर् अत्र्âइव्âह ।
यदि पुनर् अस्य तद्धेतोस् तत्प्रत्ययं तन्निदानं कीर्तिशब्दश्लोको भवति तत्र न्ôन्नामजातो भवति न मानजातो न मदजातः ।
एवं च्âस्य भवति ।
न चिरेण कालेन यस्य च्âयं कीर्तिश्लोकशब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्तिशब्दश्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति ।
तत्र कः पण्डितजातीयो ऽनित्येषु न च स्थितेषु धर्मेष्व् अध्रुवेष्व् अनाश्वासिकेष्व् अनुनयचित्तम् उत्पादयेद् उन्नतो भवेन् मानदर्पितो वा ।
एवं हि बोधिसत्वो लाभसत्कारकीर्तिशब्दश्लोकेषु स्ûपस्थितस्मृतिर् विहरत्îति ॥
पुनर् आह ।
चण्डालकुमार्ôपमाश् च लोके विहरन्ति नीचनीचेन मनसा ।
मानमददर्प्âधिगताश् च भवन्ति पैशुन्यसंज्ञायाः सततसमितं प्रत्युपस्थितत्वाद् इति ॥
पुनर् अप्य् उक्तं ।
इह कुलपुत्र्âभिनिष्क्रान्तगृहवासः प्रव्रजितो बोधिसत्वो मृतकसदृशो ऽहं मित्र्âमात्य-
[ चम्ब्रिद्गे म्स् f74ब् ---> ]
ज्ञातिसालोहितानाम् इति निहतमानो भवति ।
वैरूप्यं मे ऽभ्युद्गतं विवर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्त्êति निहतमानो भवति ।
मुण्डः पात्रपाणिः कुलात् कुलम् उपसंक्रमामि भिक्षाहेतोर् भिक्षानिदानम् इति निहतमानो भवति ।
नीचनीचेन चित्तेन चण्डालकुमारसदृशेन पिण्डाय चराम्îति निहतमानो भवति ।
पैण्डिलिको ऽस्मि संवृतः ।
परप्रतिबद्धा च मे जीविक्êति निहतमानो भवति ।
अवधूतम् अवज्ञातं प्रतिगृह्णाम्îति निहतमानो भवति ।
आराधनीया मे आचार्यगुरुदक्षिणीय्êति निहतमानो भवति ।
संतोषणीया मे सब्रह्मचारिणो ।
यद् उत तेन तेन्âचारगोचरसमुदाचारेण्êति नि-
[ बेन्दल्ल् एद् प्151 ---> ]
हतमानो भवति ।
अप्रतिलब्ध्âनुबद्धधर्मान् प्रतिपत्स्यए इति निहतमानो भवति ।
क्रुद्धानां व्यापन्नचित्तानां सत्वानां मध्ये क्षान्तिबहुलो विहरिष्याम्îति निहतमानो भवत्îति ॥
आर्यसागरमतिसूत्रे ऽप्य् उक्तं ।
सत्कायपरिशुद्धश् च भवति ।
लक्षणसमलंकृतगात्रमृदुतरुणहस्तपादः स्वविभक्तपुण्यनिष्यन्दगात्रो ऽहीन्êन्द्रियः सर्व्âङ्गप्रत्यङ्गपरिपूर्णः ।
न च रूपमदमत्तो भवति ।
न कायमण्डनयोग्âनुयुक्तः ।
स कियद् धीनानाम् अपि सत्वानां रूपविकलानाम् अप्य् अवनमति प्रणमति धर्मग्राह्यताम् उपादाय्êति ॥
पुनर् अत्र्âइव्ôक्तं ।
स्याद् यथ्âपि नाम भगवन् यदा महासागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवीप्रदेशे संतिष्ठते ।
तस्य निम्नत्वाद् अल्पकृच्छ्रेण सर्वनद्यश् च सर्वप्रश्रवणानि च प्रपतन्ति ।
एवम् एव भगवन् निर्मानस्य गुरुदक्षिणीयगौरवस्य बोधिसत्वस्य्âल्पकृच्छ्रेण तानि गम्भीराणि धर्मसुखानि श्रो-
[ चम्ब्रिद्गे म्स् f75अ ---> ]
त्êन्द्रियस्य्âभासम् आगच्छन्ति ।
स्मृतौ च्âवतिष्ठन्ते ।
तस्मात् तर्हि भगवन् यो बोधिसत्वो मान्ôन्नतो भवति मानस्तब्धः न च गुरुदक्षिणीयेभ्यो ऽवनमति न प्रणमति वेदितव्यं भगवन् मार्âङ्कुश्âविद्धो वत्âयं बोधिसत्व्êति ॥
आर्यलोक्ôत्तरपरिवर्ते च्ôक्तं ।
दश्êमानि भो जिनपुत्र बोधिसत्वानां मारकर्माणि ।
कतमानि दश ।
यद् इदं गुरुदक्षिणीय्âचार्यमातापितृश्रमणब्राह्मणसम्यग्गतसम्यक्प्रतिपन्नेष्व् अगौरवता मारकर्म ।
धर्मभाणकानां विशिष्टधर्म्âधिगतानाम् उदारधर्मदेशकानां महायानसमारूढानां निर्वाणपथविधिज्ञानां धारणीसूत्र्âन्तराजप्रतिलब्धानां न्âवनमति ।
गर्वितस्तब्धश् च भवति ।
धर्मभाणके न गौरवम् उत्पादयति ।
न शुश्रूषां न चित्रीकारं करोति ।
मारकर्म धर्मश्रवणसांकथ्ये च निषण्णए उदारधर्मवेगे समुत्पन्ने धर्मभाणकस्य साधुकारं न
[ बेन्दल्ल् एद् प्152 ---> ]
प्रयच्छति मा कश्चिद् अस्मिन् प्रशंसत्îति मारकर्म ॥
अभिमानं च्ôत्पाद्य्âत्मानं प्रतिगृह्णाति ।
परांश् च न गृह्णाति ।
आत्मज्ञतां च न्âवतरति ।
चित्तनिध्यप्तिं न्ôत्पादयति ।
मारकर्म ॥
अधिमानं च्ôत्पाद्य्âजानन्न् अबुध्यमानो वर्ण्âर्हाणां पुद्गलानां वर्णं प्रतिच्छादयति ।
अवर्णं भाषते ।
न च परस्य गुणवर्णेन्âत्तमना भवति ।
मारकर्म ॥जानाति च ।
अयं धर्मो ऽयं विनयो भूतम् इदं बुद्धवचनम् इति ।
पुद्गलविद्वेषेण धर्मविद्वेषं करोति ।
सद्धर्मं प्रतिक्षिपति ।
अन्यांश् च विग्राहयति ।
मारकर्म ॥
उच्चमानसं प्रार्थयते परिहारधर्मं न मार्गयति ।
पर्ôपस्थानं सो ऽभियाति ।
अभिनन्दति ।
वृद्धस्थविराणां चिरचरितब्रह्मचर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति ।
मारकर्म ॥
भृकुटीमुखः खलु पुनर् भवति ।
न स्मितमुखः ।
न खिल मधुरवचनः ।
सदा कठिनचित्तश् छिद्र्âन्वेषी ॥
अवतारप्रेक्षी ।
मा-
[ चम्ब्रिद्गे म्स् f75ब् ---> ]
रकर्म ॥
अभिमानं च पतित्वा पण्डितान् न्ôपसंक्रामति ।
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0