शिक्षासमुच्चय (अन्य संस्करण) · भाग 4160
ये भिक्षवो भविष्यन्ति सद्धर्मप्रतिग्राहकाः ।
चेष्टिष्यन्ते तथा तेषां कश्चिद् धर्मम् इमं शृणोत् ॥
राजानो ग्राहयिष्यन्ति भेस्यन्ति च महाजनः ।
बुद्ध्âधिष्ठानतः सत्वा धर्मं श्रोष्यन्त्îमं [[दोउब्त्]]
तदा ॥
तस्मिन् काले वयं-
[ चम्ब्रिद्गे म्स् f29अ ---> ]
कष्टे त्यक्त्वा कायं सजीवितं ।
सद्धर्मं धारयिष्यामः सत्वानां हितकारणाद् ।
इति ॥
आर्यसद्धर्मपुण्डरीके ऽप्य् उक्तं ॥
आचारगोचररक्षी असंसृष्टः शुचिर् भवेत् ।
वर्जयेत् संस्तवं नित्यं राजपुत्रेभि राजभिः ॥
[ बेन्दल्ल् एद् प्48 ---> ]
ये च्âपि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं ।
चण्डालमुष्टिकैः शौण्डैस् तीर्थिकैश् च्âपि सर्वशः ॥
अधिमानीन् न सेवेत [[दोउब्त्]] विनयेच् च्âगमे स्थितान् ।
अर्हन्तसंमतान् भिक्षून् दुःशीलांश् च्âइव वर्जयेत् ॥
भिक्षुणीं वर्जयेन् नित्यं हास्यसंलापगोचरां ।
उपासिकाश् च वर्जेया प्रकटम् अनवस्थिताः ॥
स्त्रीपण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् ।
कुलेषु च्âपि वधुकाः कुमार्यश् च विवर्जयेत् ॥
न ताः संमोदयेज् जातु कौशल्यं साधु पृच्छितृं [[दोउब्त्]] ।
संस्तवं च विवर्जेया सौकर्âउरभ्रिकैः सह ॥
स्त्रीपोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं ।
नटैर् झल्लकमल्लेभिर् ये च्âन्ये तादृशा जनाः ॥
[ बेन्दल्ल् एद् प्49 ---> ]
वारमुख्यान् न सेवेत ये च्âन्ये भोगवृत्तिनः ।
प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥
यदा च धर्मं देशेया मातृग्रामस्य पण्डितो ।
न च्âइकः प्रविशेत् तत्र न्âपि हास्यस्थितो भवेद् इति ॥
अयं च्âपरो ऽनर्थो भवेद् यद् इदं मारकर्म्ôक्तं प्रज्ञापारमितायां ।
मारः पापीयांस् तस्य बोधिसत्वस्य्âचिरं यानसंप्रस्थितस्य्âन्तिके बलवत्तरम् उद्योगम् आपत्स्यते ।
अत्र्âइव्âह ।
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्वो महासत्वः
प्रज्ञापारमितायां योगम् आपद्यते तस्मिन् समये माराः
पापीयांसो बोधिसत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति ।
उल्कापातान् दिशि दिग्व-
[ चम्ब्रिद्गे म्स् f29ब् ---> ]
हान् उत्सृजन्ति संदर्शयन्ति ।
अप्य् एव नाम्âयं बोधिसत्वो महासत्वो ऽवनीयेत वा
रोमहर्षो- व्âस्य भवेद् इति ।
येन्âस्य्âइकचित्त्ôत्पादो ऽपि क्षीयेत्âनुत्तरायाः
सम्यक्संबोधेर् इति ।
पुनर् अपरम् अन्यविज्ञानसंज्ञिनो लिखिष्यन्ति यावत्
पर्यवाप्स्यन्ति ।
न वयम् अत्र्âस्वादं लभामहे इत्य् उत्थाय्âसनात्
प्रक्रमिष्यन्ति ।
एवं विजृम्भमाण्ôच्चग्घन्तो यावत् पर्यवाप्स्यन्त्îति
मारकर्म ।
एवम् उत्पत्स्यन्ते जनपदग्राम्âदिवितर्काः ।
एवम् आचार्य्ôपाध्यायमातापितृमित्र्âमात्यज्ञातिसालोहितमनसिकाराः ।
एवं चोरमनसिकाराः ।
एवं चीवर्âदिमनसिकाराः ।
पुनर् अपरं धर्मभाणकश् छन्दिको भविष्यत्îमां गम्भीरां प्रज्ञापारमितां लेखयितुं यावद् वाचयितु.ं धर्मश्रवणिकश् च किलासी भविष्यति ।
एवं विपर्ययात् ।
धर्मभाणकश् च देश्âन्तरं गन्तुकामो भविष्यति
धार्मश्रवणिकाश्*च न्êति नेयं ।
एवं धर्मभाणको मह्êच्छो भविष्यति धार्मश्रवणिको ऽल्प्êच्छ्êति नेयं ।
संक्षेपाद् धर्मभाणकधार्मश्रवणिकयोर् या काचिद् विधुरता सर्वं तन् मारकर्म्êत्य् उक्तं ॥
[ बेन्दल्ल् एद् प्50 ---> ]
आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं ।
इति हि यावद् अकुशलधर्म्âनुवर्त्तनता ।
कुशलधर्म्ôत्सर्गश् च सर्वं तन् मारकर्म्êति ॥
आर्यसागरमतिसूत्रे ऽप्य् आह ।
पुनर् अपरं भगवन् बोधिसत्व्âरण्यको भवति
प्रान्तशय्य्âसन्âभिरतो ऽल्प्êच्छुः संतुष्टः प्रविविक्तो ऽसंसृष्टो गृहस्थप्रव्रजितैः ।
सो ऽल्प्âर्थतय्âल्पकृत्यतया च सुखं विहरति न च
बाहश्रुत्यपर्येष्टाव् अभियुक्तो भवति न सत्वपरिपाकाय न च
धर्मश्रवणे वा धर्मसां-
[ चम्ब्रिद्गे म्स् f30अ ---> ]
कथ्ह्ये व्âर्थविनिश्चयकथायां वा वर्तमानायां संक्रमितव्यं मन्यते ।
न परिपृच्छनजातीयो भवति ।
न किंकुशल्âभियुक्तो भवति ।
तस्य्âरण्यवासेन च्âइक्âरामरतितया च क्लेशा न
समुदाचरन्ति ।
स पर्युत्थानविष्कम्भणमात्रेण तुष्टिं विन्दति ।
न च्âनुशयसमुद्याताय मार्गं भावयति ।
स तत्र न्âत्म्âर्थाय प्रतिपन्नो भवति न पर्âर्थाय ।
अयं भगवन् बोधिसत्वस्य्âरण्यवासप्रतिसंयुक्तः सप्तमो मार्âङ्कुश्êति ॥
पे ॥
पुनर् अपरं भगवन् बोधिसत्वः कल्याणमित्रप्रतिरूपकाणि
पापमित्राणि सेवते भजते पर्युपास्ते ।
ये ह्य् एनं संग्रहवस्तुभ्यो विच्छन्द्य पुण्यसंभारात्
सद्धर्मपरिग्रहाद् विच्छन्द्य प्रविवेके नियोजयन्ति ।
अल्प्âर्थाय्âल्पकृत्यतायां नियोजयन्ति ।
श्रावकप्रत्येकबुद्धप्रतिसंयुक्ताश् च्âस्मै कथा
अभीक्ष्णं देशयन्ति ॥
यस्मिंश् च समये बोधिसत्वो विवेकवासेन महायाने ऽभ्युद्गच्छेत्
तस्मिन् समये तं बोधिसत्वं वैयावृत्यपलिबोधे नियोजयन्ति
वैयावृत्यं बोधिसत्वेन्âवश्यं करणीयं ॥
यस्मिंश् च समये बोधिसत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन्
समये विवेके नियोजयन्ति ।
एवं च्âइनं वदन्ति ।
आरब्धवीर्यस्य बोधिसत्वस्य बोधिर् न कुसीदस्य ।
सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अनुत्तरां स-
[ बेन्दल्ल् एद् प्51 ---> ]
म्यक्संबोधिं न्âभिसंभोत्स्यसे ।
न भूयः शक्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् ।
तत्र भगवन् ।
बोधिसत्वो ऽत्यारब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते
यन् निर्वाणफलं-
[ चम्ब्रिद्गे म्स् f30ब् ---> ]
प्राप्नुयाद् ।
अयं भगवन् ।
बोधिसत्वस्य कल्याणमित्रप्रतिरूपकेण दशमो मार्âङ्कुशः ॥
ये ऽपि ततो ऽन्ये बोधिसत्वयानीयाः पुद्गला मार्âङ्कुश्âविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति ।
तथा हि तदनुवर्त्तका भवन्ति स हीनसेवी विशेषम् अनधिगतो हीनगतिं गच्छति यद् उत धन्वगतिं जड्âइडमूकगतिं यावद् एकादशो मार्âङ्कुश्êति ॥
येन च्âइवं संतत्यारब्धवीर्यस्य निर्वेदात् सर्वथा
बोधिसत्वभाव्âइव भवत्य् अत्âइव रत्नमेघे ऽभिहितं ।
इह बोधिसत्वः सर्व्êर्यापथेषु वीर्यम् आरभते ।
तथा च्âरभते यथा न कायखेदं संजनयति ।
न चित्तखेद्.अम् ।
इदम् उच्यते बोधिसत्वस्य सांतत्यवीर्यम् इति ।
कीदृशं तद् वीर्यं ।
येन खेदो भवति ।
यद् इदम् अल्पबलस्य गुरुकर्म्âरम्भो ऽतिवेलायां व्âपरिपक्व्âधिमुक्तेर् वा दुष्करकर्म्âरम्भस् तद् यथा
स्वमांसदान्âदिः ।
दत्तश् च्âनेन्âत्मभावः ।
किन्त्व् अकालपरिभोगाद् वारयति ।
अन्यथा हि तेषाम् एव सत्वानां बोधिसत्वखेदेन
बोधिचित्तवीजनाशान् महतः फलराशेर् नाशः स्यात् ॥
अतश् च गगनगञ्जसूत्रे ऽभिहितं ।
अकालप्रतिकाङ्क्षणता मारकर्म्êति ।
न्âप्य् अकाल्êत्य् आत्मभावत्यागचित्तम् एव न्ôत्पाद्य्âभ्यास्âनारम्भाद् धि न कदाचिद् दद्यात् ।
तस्माद् एवं स्मृतिम् उपास्थाप्य बोधिचित्तपरिपाचनविरोधिभ्यो मोहात् स्व्âर्थघातिभ्यः पिशित्âशनेभ्यः कर्मकारिभ्यश् च्âत्मभावो रक्षितव्यः ॥
भैषज्यवृक्षस्य सुदर्शनस्य मूल्âदिभोग्यस्य यथ्âइव
वीजं ।
दत्त्व्âपि संरक्ष्यम् अकालभोगात् संबुद्धभैषज्यतरोस् तथ्âइव ॥
अयं समासतो मारकर्म्âनर्थः ॥
अस्य विसर्जनं रत्नमेघसूत्रे कथितं ।
कथं च कुलपुत्र्âत्र बोधिसत्वो मारकर्मपरिहार्ôपायकुशलो भवति ।
इह बोधिसत्वो ऽकल्याणमित्रं सर्वेण सर्वं परिव-
[ बेन्दल्ल् एद् प्52 ---> ]
र्जयति ।
अप्रतिरूपदेशवासं लोकायतमन्त्रसेवनभावनां लाभसत्कारपूज्ôपस्थानबहुमानं सर्वेण सर्वं परिवर्जयति ।
ये च्âन्ये उपक्लेशा बोधिपक्ष्यमार्ग्âन्तरायिकास् तान् सर्वेण
सर्वं परिवर्जयति ।
तेषां च प्रतिपक्षं भजते ॥
अत्र्âइव च्âकल्याणमित्रलक्षणम् उक्तं ।
शीलविपन्नपुद्गलविवर्जनतया पापमित्रपरिवर्जना वेदितव्या ।
एवं दृष्टिविपन्न्âचारविपन्न्âजीवविपन्नपुद्गलविवर्जनतया ।
सङ्गणिक्âरामपुद्गलविवर्जनतया ।
कुशीदपुद्गलविवर्जनतया ।
संसार्âभिरतपुद्गलविवर्जनतया ।
बोधिपराङ्मुखपुद्गलपरिवर्जनतया ।
गृहिसंसर्गविवर्जनतया पापमित्रपरिवर्जना वेदितव्या ।
तेन च कुलपुत्र्âइतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्टचित्तम् उत्पादयितव्यं न प्रतिघचित्तं न्âवमन्यनाचित्तम् उत्पादयितव्यम् ।
एवं च्âनेन चित्तम् उपस्थापयितव्यम् ।
उक्तं हि भगवता धातुशः सत्वाः काम्âदिधातुं आस्रवन्ति
जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति ।
तस्माद् अहं संसर्गं वर्जयिष्याम्îति ॥
बोधिचित्तसंप्रमोषो ऽप्य् अनर्थः तस्य च हेतुर् उक्तो रत्नकूटे ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति ।
कतमैश् चतुर्भिः ।
आचार्यगुरुदक्षिणीयविसंवादनतया परेषाम् अकौकृत्ये
कौकृत्य्ôपसंहरणतया ।
महायानसंप्रस्थितानां-
[ चम्ब्रिद्गे म्स् f31ब् ---> ]
च सत्वानाम् अवर्ण्âयशो ऽकीर्त्यलोकनिश्चारणतया मायाशाठ्येन च परम् उपचरति न्âध्याय्âशयेन्êति अस्य विवर्जनम् अत्र्ôक्तं ।
चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य सर्वासु
जातिषु जातमात्रस्य बोधिचित्तम् आमुखीभवति ।
न च्âन्तरा मुह्यति यावद् बोधिमण्डनिषदनात् ।
कतमैश् चतुर्भिः ।
यद् उत जीवितहेतोर् अपि संप्रजानन् मृषावादं न प्रभाषते ।
अन्तशो हास्यप्रेक्षिकय्âपि ।
[ बेन्दल्ल् एद् प्53 ---> ]
अध्याशयेन च सर्वसत्वानाम् अन्तिके तिष्ठत्य् अपगतमायाशाठ्यतया सर्वबोधिसत्वेषु च शास्तृसंज्ञाम्
उत्पादयति ।
चतुर्दिशं च तेषां वर्णं निश्चारयति ।
यांश् च सत्वान् परिपाचयति तान् सर्वान् अनुत्तरायां सम्यक्संबोधौ समादापयति ।
प्रादेशिकयान्âस्पृहणतया ।
एभिः काश्यप चतुर्भिर् इति ॥
सिंहपरिपृच्छायाम् अप्य् आह ।
न जातु धर्मदानस्य्âन्तरायं करोति यः ।
तेन्âसौ लभते क्षिप्रं लोकनाथेहि सङ्गमम् ॥
तथा जातिस्मराद् धर्मदानाज् जानीष्व्âइवं कुमारक्êति ॥
तथ्âत्र्âइव ।
बोधिचित्तं न रिञ्चति तेन सर्वासु जातिषु ।
स्वप्न्âन्तरे ऽपि तच्चित्तं किं पुनर् यदि जाग्रतः ॥
आह ।
येषु विरतिस्थानेषु ग्रामेषु नगरेषु वा ।
समादाय्êति बोधाय तेन चित्तं न रिञ्चति ॥
आर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूह्âलंकारसूत्रे ऽप्य् आह ।
चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वः प्रणिधानान् न चलति ॥
पे ॥
निहतमानश् च भवत्îर्ष्यमात्सर्यपरिवर्जकश् च भवति
परसंपदं च दृष्ट्व्âत्तमना भवत्îति ।
इदम् एव पात्रबोधिचित्तस्य स्फुटतरम् असंप्रमो-
[ चम्ब्रिद्गे म्स् f32अ ---> ]
षकारणं यत्
तत्र्âइव रत्नकूटे ऽभिहितम् ।
सर्व्êर्यापथेषु बोधिचित्तपरिकर्मणतया ।
बोधिचित्तपूर्वङ्गमतया च्êति ॥
तथा हि चन्द्रप्रदीपसूत्रे पाठः ।
आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु
[ बेन्दल्ल् एद् प्54 ---> ]
वितर्कयेन् नरः
तथा तथा भवति तन्निम्नचित्तः तेही वितर्केहि तन्निश्रितेह्îति ॥
अवसादो ऽप्य् अनर्थ्âइतद्वर्जनं च रत्नमेघे दृष्टं ।
इह बोधिसत्वो न्âइवं चित्तम् उत्पादयति ।
दुष्प्रापा बोधिर् मनुष्यभूतेन सता ।
इदं च मे वीर्यं परीत्तं च कुसीदो ऽहं बोधिश् च्âदीप्तशिरश्चैल्ôपमेन बहून् कल्पान् ।
बहूनि कल्पशतानि बहूनि कल्पसहस्राणि समुदानेतव्या ।
तन् न्âहम् उत्सहए ईदृशं भारम् उद्वोढुं ॥
किं तर्हि बोधिसत्वेन्âइवं चित्तम् उत्पादयितव्यं ।
ये ऽपि ते ऽभिसंबुद्धास् तथागत्âर्हन्तः सम्यक्संबुद्धा ये
च्âभिसंबुद्ध्यन्ते ये व्âभिसंभोत्स्यन्ते ऽप्îदृशेन्âइव
नयेन्êदृश्या प्रतिपदा ।
ईदृशेन्âइव वीर्येण्âभिसंउद्ध्âभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च ।
यावन् न ते तथागतभूत्âइव्âभिसंबुद्धाः ।
अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये
सर्वसत्वसाधारणेन वीर्येण सर्वसत्व्âरम्बणेन वीर्येण यथ्âहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यए इति ॥
पुनर् अपरो ऽनर्थो रत्नकूटे दृष्टः ।
अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्वस्य स्खलितं अभाजनीभूतेषु सत्वेष्ûदारबुद्धधर्मसंप्रकाशनात्
बोधिसत्वस्य स्खलितं ॥
उदार्âधिमुक्तिकेषु सत्वेषु हीनयानसंप्रकाशनाद् बोधिसत्वस्य
स्खलितम् इति ।
सम्यक्स्मृत्युपस्थितेषु शीलवत्सु कल्याणधर्मेषु प्रतिविमानना दुःशीलपापधर्मसंग्रहा बोधिसत्वस्य स्खलितम् इति ॥
अनधिमुक्तिर् अप्य् अनर्थः ।
यथ्ôक्तं राष्ट्रपालसूत्रे ।
यस्य्âधिमुक्ति न विद्यति बुद्धधर्मगणे च न तस्य धिमुक्तिः ।
शिक्षव्रतेषु न तस्य धिमुक्तिः पापमतेस् तिरपायमुखस्य ॥
स्êतश् च्युतो मनुजेषु कर्मवशाद् अबुधो हि विमूढः ।
नरकेष्व् अथ तिर्यगतीषु प्रेतगतीषु च विन्दति दुष्खम् ॥
इति अस्य विसर्जनं रत्नकूटे ऽभिहितं दृष्टं ।
येषु च्âस्य गम्भीरेषु बुद्धिन्âवगाहते ।
तत्र तथागत्âइव साक्ष्îति कृत्वा न प्रतिक्षिपति ।
तथागत्âइव जनीते ।
न्âहं जाने ।
अनन्ता बुद्धबोधिर् नान्âधिमुक्तिकतया तथागतानां सत्वेषु
धर्मदेशना प्रवर्त्ततए इति ॥
वैयावृत्यवर्तमानेन्âनर्थविवर्जनकुशलेन भवितव्यं ।
बोधिसत्वप्रातिमोक्षे हि सहधार्मिके धर्मश्रवणे ।
तथागतपूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः
सा रत्नराशिसूत्राद् आगता ।
तत्र वैयावृत्यकरेण भिक्षुणा सर्वभिक्षुसंघस्य चित्तम्
अभिराधयितव्यं ।
तत्र ये भिक्षव्âरण्यकाः प्रान्तशय्य्âसनिकास् तेषां ।
वैयावृत्यकरेण भिक्षुणा सर्वेण सर्वं न कर्मसमुत्थानं दातव्यं ।
यदि पुनर् आरण्यकस्य भिक्षोः संघपर्यापन्नं शैक्षकं कर्म प्राप्नुयात् ।
एतेन वैयावृत्यकरेण भिक्षुण्âत्मन्âइव तत् कर्तव्यं ।
अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः स्âरण्यको भिक्षुर् उत्पीडयितव्यस् तत्र यो भिक्षुः पिण्डचारिको भवति तस्य तेन
वैयावृत्यकरेण भिक्षुणा प्रणीतभोजनेषु संविभागः
कर्तव्यः ।
तत्र काश्यप यो भिक्षुर् योग्â-
[ चम्ब्रिद्गे म्स् f33अ ---> ]
चारी भवति ।
तस्य तेन वैयावृत्यकरेण भिक्षुण्âनुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लानप्रत्ययभैषज्यपरिष्काराश् च ।
यस्मिंश् च प्रदेशे स योग्âचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे
न्ôच्चशब्दः कर्तव्यः ।
रक्षितव्यो वैयावृत्यकरेण भिक्षुणा योग्âचारी भिक्षुः ।
शय्य्âसन्ôपस्तम्भन्âस्य कर्तव्या ।
प्रणीतानि च संप्रियाणि योग्âचारभूम्यनुकूलानि
खादनीयभोजनीयान्य् उपनामयितव्यानि ॥
पे ॥
ये भिक्षवो बाहुश्रुत्ये ऽभियुक्ता भवन्ति तेषाम् उत्साहो दात-
[ बेन्दल्ल् एद् प्56 ---> ]
व्यः ।
यावत् ते ऽपि परिरक्षितव्याः ।
ये धार्मकथिका भिक्षवो भविष्यन्ति ।
तेषां प्रतीहारधर्मता कर्तव्या ।
यावद् धार्मश्रवणिकाश् च्ôद्योजयितव्याः पर्षन्मण्डलं परिसंस्थापयितव्यं ।
सांकथ्यमण्डलं विशोधयितव्यं यावत् साधुकारबहुलेन च्âस्य भवितव्यं ॥
पे ॥
न क्वचिद् वस्तुनि ऐश्चर्यसंज्ञ्ôत्पादयितव्या ।
कियत् परीत्तम् अपि कार्यं संघमतेन कर्तव्यं ।
न स्वमतेन यावन् न सांघिकश् चातुर्दिशसांघिकेन
संसृष्टः कर्तव्यः ।
एवं विपर्ययाद् एवं स्तौपिकेन सह्âन्योन्यसंसर्गप्रतिषेधः ।
यदि चातुर्दिशे संघे वैकल्यं भवेत् सांघिकश् च लाभ्ôत्सदो भवेत् तेन वैयावृत्यकरेण भिक्षुणा भिक्षुसंघम्
एकमानसं कृत्वा ।
सांघिकलाभाच् चातुर्दिशसांघिककार्यं कर्तव्यं ।
एवं स्तूपे ऽपि प्रलुग्ने ऽयम् एव विधिर् दायकान् दानपतीन् वा
समादाप्य प्रतिसंस्कर्तव्य्êत्य् आज्ञा ।
यदि पुनः काश्यप कियद् बहुर् अपि स्तौपिको लाभो भवेत् ।
स वैयाकृत्यकरेण न संघेन चातुर्दिशसंघे उपनामयितव्यः ।
तत् कस्माद् धेतोः ।
या स्तौपिक्âन्तश्âइकदश्âपि श्राद्धैः प्रसादबहुलैर् निर्यातिता भवति ।
सा स-
[ चम्ब्रिद्गे म्स् f33ब् ---> ]
देवकस्य लोकस्य चैत्यं ।
कः पुनर् वादो रत्नं वा रत्नसंमतं वा यच् च स्तूपे
चीवरं निर्यातितं भवति ।
तत् तत्र्âइव तथागतचैत्ये वात्âतपवृष्टिभिः परिक्षयं गच्छतु ।
न पुनः स्तौपिकं चीवरं हिरण्यमूल्येन परिवर्तयितव्यं ।
न हि स्तौपिकस्य कश्चिद् अर्घो न्âपि स्तूपस्य केनचिद् वैकल्यं यो हि कश्चित् काश्यप वैयावृत्यकरो भिक्षू रुष्टचित्तः
शीलवतां दक्षिणीयानाम् [[दोउब्त्]] ऐश्वर्याद् आज्ञप्तिं ददाति
स तेन्âकुशलेन कर्मणा नरकगामी भवत्îति ।
यदि मनुष्यलोकम् आगच्छति दासो भवति परकर्मकरो लाभी च
भवति खटचपेटप्रचण्डप्रहाराणां ।
पे ।
दण्डकर्मभयतर्जितं भिक्षुं-
[ बेन्दल्ल् एद् प्57 ---> ]
करोत्य् अकालप्रेषणम्
अकालज्ञप्तिं ददाति ।
स तेन्âकुशलेन कर्मणा बहुशङ्कुर् नाम प्रत्येकनरकस् तत्र्âस्य्ôपपत्तिर् भवति ।
यावत् सहस्रविद्धः कायो भवति ।
आदीप्तः ।
प्रदीप्तः संप्रज्वलितः ।
पे ।
योजनशतविस्तारप्रमाणा जिह्वा भवति ।
तस्य तत्र जिह्व्êन्द्रिये बहूनि शङ्कुशतसहस्राणि आदीप्तानि
अयस्मयानि निखातानि भवन्ति ।
यो हि कश्चित् काश्यप वैयवृत्यकरो भिक्षुर् आगत्âगतं सांघिकं लाभं सन्निधिं करोति न काल्âनुकालं ददाति ।
उद्वश्यापयितव्या विहेठयित्वा ददाति ।
केषाञ्चिन् न ददाति ।
स तेन्âकुशलमूलेन जङ्घा नाम गूथमृतिकाप्रेतयोनिस् तत्र्âस्य्ôपपत्तिर् भवति ।
तत्र्âस्य्âन्ये प्रेता भोजनं गृहीत्व्âपदर्शयन्ति ।
स्ôद्वश्यमानस् तद्भोजनम् अनिमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्पिपासापरिगतो दुष्खां ।
वेदनां वेत्ति न च वर्षसहस्रेण्âपि तस्य भोजनस्य लाभी
भवति ।
यद् अपि कदाचित् कर्हिचिद् भोजनं लब्धं-
[ चम्ब्रिद्गे म्स् f34अ ---> ]
भवति तद् उच्चारं भवति पूयशोणितं व्êति ॥
संघरक्षित्âवदाने ऽप्य् अनर्थ्ôक्तः ।
यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्य्âकारांस् ते
भिक्षव्âसन् ।
तैः सांघिकं कुड्यं श्लेष्मणा नाशितं ।
तस्य कर्मणो विपाकेन कुड्य्âकाराः संवृत्ताः ।
यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भ्âकारांस् ते
भिक्षव्âसन् ।
तैः सांघिकस्तंभः सिंहाणकेन नाशितः ।
तेन स्तम्भ्âकाराः संवृत्ताः ।
यांस् त्वं सत्वान् अद्राक्षीर् वृक्ष्âकारान् पत्र्âकारान्
फल्âकारान् ते ऽपि भिक्षव्âसन् ।
तैर् अपि सांघिकानि वृक्षपत्रपुस्.पफलानि पौद्गलिकपरिभोगेन
परिभुक्तानि तेन ते वृक्षपत्रपुष्पफल्âकाराः संवृत्ताः ।
यांस् त्वं सत्वान् अद्राक्षी रज्ज्वाकारान्
संमार्जन्य्-आकारांस् ते भिक्षव्âसन् ।
तैः सांघिका रज्जुसम्मार्जन्यः पौद्गलिकपरिभोगेन परिभुक्तास् तेन रज्ज्वाकाराः सम्मार्जन्य्-आका-
[ बेन्दल्ल् एद् प्58 ---> ]
राश् च संवृत्ताः ।
यं त्वं सत्वम् अद्राक्षीस् तट्ट्âकारं स श्रामणेरक्âसीत् ।
स तट्टुकं निर्मादयति ।
आगन्तुकाश् च भिक्षवो ऽभ्यागताः ।
तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य
पानकं भविष्यति ।
स मात्सर्य्ôपहतचित्तः कथयति ।
किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति ।
ते वृत्ता वेल्êति नैराश्यम् आपन्ना हीनदीनवदनाः
प्रक्रान्ताः ।
स तस्य कर्मणो विपाकेन तट्टुक्âकारः संवृत्ताः ॥
यं त्वम् सत्वम् अद्राक्षीर् उदूखल्âकारं सो ऽपि
भिक्षुर् आसीत् ।
तस्य पात्रकर्म प्रत्युपस्थितं ।
तत्र च्âइकः श्रामणेरको ऽर्हन् मुद्रावारे नियुक्तः ।
स तेन्ôक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्व्êति ।
स कथयति ।
स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो ऽस्मि पश्चात् कुट्टयित्वा
दास्याम्îति ।
स संजात्âमर्षः कथयति ।
[ चम्ब्रिद्गे म्स् f34ब् ---> ]
श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एव्âहम्
उदूखले प्रक्षिप्य कुट्टयेयं ।
प्राग् एव खलिस्तोकम् इति ।
स श्रामणेरः संलक्षयति ।
तीव्रपर्यवस्थानपर्यवस्थितो ऽयं ।
यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम्
आपत्स्यत्îति तूष्णीम् अवस्थितः ।
यद्âस्य पर्यवस्थानं विगतं तद्ôपसंक्रम्य कथयति ।
स्थविर जानीषे त्वं को ऽहम् इति ।
स कथयति ।
जाने त्वां काश्यपस्य सम्यक्संबुद्धस्य प्रव्रजितं श्रामणेरकं ।
अहम् अपि भिक्षुः स्थविरः ।
श्रामणेरकः कथयति ।
यद्य् अप्य् एवं तथ्âपि तु यन् मया प्रव्रजितेन करणीयं तत्
कृतं ।
किं कृतं क्लेशप्रहाणं छिन्नसकलबन्धनो ऽहं सर्वबन्धनविनिर्मुक्तः ।
खरं ते वाक्कर्म निश्चारितं ।
अत्ययम् अत्ययतो देशय ।
अप्य् एव नाम्âइतत् कर्मपरिक्षयं तनुत्वं पर्यादानं गच्छेद् इति ।
तेन्âत्ययम्-
[ बेन्दल्ल् एद् प्59 ---> ]
अत्ययतो न देशितं तेन कर्मण्ôदूखल्âकारः
संवृत्तः ॥
यांस् त्वं सत्वान् अद्राक्षीः स्थाल्य्âकारान् ।
ते कल्पिकारक्âसन् भिक्षूणाम् उपस्थायकाः ।
ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् अप्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्य्âकाराः
संवृत्ताः ।
यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो ऽपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्य्âभिभूतेन
लाभः संपरिवर्तितः ।
यो वार्षिकः स हैमन्तिकः परिणामितः ।
यस् तु हैमन्तिकः स वार्षिकः परिणामितः ।
तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ॥
शिक्षासमुच्चये धर्मभाणक्âदिरक्षापरिच्छेदस् तृतीयः ॥
शिक्षासमुच्चये चतुर्थः परिच्छेदः ॥
अपरे ऽपि महन्तो ऽनर्थाः सूत्र्âन्तेष्ûक्ताः ।
यथा तावद् आकाशगर्भसूत्रे ।
पञ्च्êमाः कुलपुत्र क्षत्रियस्य मूर्द्ध्âभिषिक्तस्य
मूल्âपत्तयः ।
याभि-
[ चम्ब्रिद्गे म्स् f35अ ---> ]
र् मूल्âपत्तिभिः क्षत्रियो मूर्द्ध्âभिषिक्तः सर्वाणि
पूर्व्âवरोपितानि कुशलमूलानि झाषयति ।
वस्तुपतितः पाराजिकः सर्वदेवमनुष्यमुखेभ्यो ऽपायगामी
भवति ।
कतमाः पञ्च ।
यः कुलपुत्र मूर्द्ध्âभिषिक्तं स्तौपिकं वस्त्व् अपहरति
सांघिकं वा चातुर्दिशसांघिकं वा निर्यातितं वा ।
स्वयं व्âपहरति हारयति वा ।
इयं प्रथमा मूल्âपत्तिः ॥
यः पुनर् धर्मं प्रतिक्षिपति श्रावकनिर्याणभाषितं वा
प्रत्येकबुद्धनिर्याणभाषितं वा
महायाननिर्याणभाषितं वा प्रतिक्षिपति प्रतिषेधयत्îयं द्वितीया मूल्âपत्तिः ॥
यः पुनर् माम् उद्दिश्य शिरस्तुण्डमुण्डकाषायवस्त्रप्रावृतः
शिक्षाधारी वा शि-
[ बेन्दल्ल् एद् प्60 ---> ]
क्ष्âधारी वा तस्य दुःशीलस्य वा
शीलवतो वा काषायाणि वस्त्राण्य् अपहरति अपहरायति ।
गृहस्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति
जीवितेन वा वियोजयत्îयं तृतीया मूल्âपत्तिः ॥
यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति
पितरम् अर्हन्तं भगवच्छ्रावकं वा जीविताद् व्यपरोपयति
समग्रं वा संघं भिनत्ति तथागतस्य्âर्हतः
सम्यक्संबुद्धस्य संचिन्त्य दुष्टचित्तो रुधिरम् उत्पादयति ॥
एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतर्âन्यतरं कर्म्ôत्पादयत्îयं चतुर्थी मूल्âपत्तिः ॥
यः पुनः क्षत्रियो ऽहेतुवादी भवति परलोक्ôपेक्षकः ।
दश्âकुशलान् कर्मपथान् समादाय वर्तते ऽन्यांश् च बहून्
सत्वान् दशस्व् अकुशलेषु कर्मपथेषु समादापयति विनयति
निवेशयति प्रतिष्ठापयत्îयं पञ्चमी मूल्âपत्तिः ॥
पे ॥
यः पुनर् ग्रामभेदं जनपदभेदं नगरभेदं राष्ट्रभेदं करोत्îयं मूल्âपत्तिः ॥
पे ॥
आदिकर्मिणां महायानसंप्रस्थितानां-
[ चम्ब्रिद्गे म्स् f35ब् ---> ]
कुलपुत्राणां कुलदुहित्-र्णां व्âष्टौ मूल्âपत्तयो ।
याभिर् मूल्âपत्तिभिः स्खलित्âदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्व्âवरोपितानि कुशलमूलानि
झाषयन्ति ।
वस्तुपतिताः पराजिता देवमनुष्यमहायानमुखाद् अपायगामिनो भवन्ति चिरं च संसारे सीदन्ति
कल्याणमित्रविरहिताः ।
कतम्âष्टौ ।
ये सत्वाः पूर्वदुश्चरितहेतुन्âस्मिन् क्लिष्टे पञ्चकषाये लोके
उपपन्नास् तए इत्वरकुशलमूलाः कल्याणमित्रं संनिःश्रित्य्êदं परमं गम्भीरं महायानं शृण्वन्ति ।
ते च परीत्तबुद्धयो ऽपि कुलपुत्र्âनुत्तरायां सम्यक्संबोधौ
चित्तम् उत्पादयन्ति ।
तेषां आदिकर्मिका ये च बोधिसत्व्êदं परमगम्भीरं शून्यताप्रतिसंयुक्तं सूत्र्âन्तं शृण्वन्ति उद्दिशन्ति पठन्ति ।
ते यथाश्रुतं यथापर्यवाप्तं परेषां पूर्वबुद्धिसदृशानां स्वर्थं सुव्यञ्जनं विस्तरेण्âग्रतः स्मारयन्ति प्रकाशयन्ति ।
ते ह्य् अकृतशमा बालाः पृथग्जनाः शृण्वन्त्ôत्त्रस्यन्ति
संत्रस्यन्ति संत्रासम् आपद्यन्ते ।
ते संत्रासेन विवर्त्तयन्त्य् अनुत्तरायाः
[ बेन्दल्ल् एद् प्61 ---> ]
सम्यक्संबोधेश् चित्तं श्रावकयाने चित्तं प्रणिदधति ।
एष्âदिकर्मिकबोधिसत्वस्य मूल्âपत्तिः प्रथमा ॥
यया मूल्âपत्त्या स कुलपुत्रः सर्वं पूर्व्âवरोपितं कुशलमूलं झाषयति ।
वस्तुपतितः पराजितः स्वर्ग्âपवर्गसुखात् ।
विसंवादितं च्âस्य बोधिचित्तम् अपायगामि भवति ।
तस्माद् बोधिसत्वेन महासत्वेन परपुद्गलानाम् आशय्âनुशयं प्रथमं ज्ञात्वा यथ्âशयानां सत्वानाम् अनुपूर्वेण
धर्मदेशना कर्तव्या ।
तद् यथा महासमुद्रे ऽनुपूर्वेण्âवतारयति ॥
पे ॥
पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एव
[ चम्ब्रिद्गे म्स् f36अ ---> ]
वक्ष्यति ॥
न त्वं शक्यसि षट्पारमितासु चर्यां चर्तुं ।
न त्वं शक्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं ।
शीघ्रं त्वं श्रावकयाने प्रत्येकबुद्धयाने वा चित्तम्
उत्पादय ।
तेन त्वं संसारान् निर्यास्यसि ।
यावद् यथापूर्व्ôक्तम् इयम् आदिकर्मिकस्य बोधिसत्वस्य द्वित्-या
मूल्âपत्तिः ॥
पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एवं वक्ष्यति ।
किं भोः प्रातिमोक्षविनयेन ।
शीलेन सुरक्षितेन शीघ्रं त्वम् अनुत्तरायां सम्यक्संबोधौ
चित्तम् उत्पादयस्व ।
महायानं पठ ।
यत् ते किञ्चित् कायवाङ्मनोभिः क्लेशप्रत्ययाद् अकुशलं कर्म
समुदानीतं तेन पाठेन शुद्धिर् भवत्य् अविपाकं ।
यावद् यथापूर्व्ôक्तम् अयम् आदिकर्मिकस्य बोधिसत्वस्य तृतीया
मूल्âपत्तिः ॥
पुनर् अपरं कुलपुत्र केषाञ्चिद् आदिकर्मिको बोधिसत्व्âइवं वक्ष्यति ।
वर्जयत यूयं कुलपुत्राः श्रावकयानकथां ।
मा शृणुत मा पठत मा परेषाम् उपदिशत ।
गोपयत श्रावकयानकथां ।
न यूयं तस्मात् महत् फलं प्राप्स्यथ ।
न यूयं ततो निदानाच् छक्ताः क्लेश्âन्तं कर्तुं ।
श्रद्दधत महायानकथां ।
शृणुत महायानं पठत महायानं परेषां च्ôपदिशत ।
ततो यूयं सर्वदुर्गत्यपायपथान् शमयिष्यथ ।
क्षिप्रं च्âनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यथ ॥
यदि ते तस्य वचनकारिणो भवन्त्îदृशं दृष्टिगतम्
उपगृह्णीयुः ।
उभयोर् अपि मूल्âपतिर् भवत्îयम् आदिकर्मिकस्य बोधिसत्वस्य
चतुर्थी मूल्âपत्तिः ॥
पुनर् अपरम् आदिकर्मिका बोधिसत्वा द्विजिह्विका भवन्ति अन्यथा
निदर्शयन्ति ।
इदं च महायानं कीर्तिशब्दश्लोक्âर्थं ल्ōüभसत्क्ōüरहेतोः पठन्ति स्व्âध्य्ōüयन्ति ध्ōüरयन्ति व्ōüचयन्ति
[ बेन्दल्ल् एद् प्62 ---> ]
देशयन्ति परेषां च श्रुतमा-
[ चम्ब्रिद्गे म्स् f36ब् ---> ]
त्रम् उपदिशन्ति ।
एवं च वक्ष्यन्ति ।
वयं महायानिका न्âन्ये ।
ते परेषाम् ईर्ष्यायन्ति लाभसत्कारहेतोर् यतस् ते लभन्ते
उपभोगपरिभोगान् परेभ्यस् तत्प्रत्ययात् ते प्रकुप्यन्ति तेषां च्âवर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति ।
आत्मानं च्ôत्कर्षयन्ति न तान् ।
अतस् ते ईर्ष्यहेतुना च्ôत्तरिमनुष्यधर्मैर् आत्मानं विज्ञपयन्ति ।
ततस् ते तेन वस्तुना पतिताः पराजिता महायानसुखाद् एतां महागुरुकाम् आपत्तिम् आपद्यन्ते यय्âपायगामिनो भवन्ति ।
यथा कश्चित् पुरुषो रत्नद्वीपं गच्छेद् गन्तुं नावा समुद्रम्
अवतरते स महासमुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्र्âइव
मरणं निगच्छेद् ।
एवम् एव ये आदिकर्मिका बोधिसत्वा महागुणसागरम्
अवतर्तुकाम्êर्ष्याहेतोस् तद् वदन्ति ।
तत्प्रत्ययात् ते श्रद्धानावं भित्त्वा प्रज्ञाजीवितेन वियोगं प्राप्नुवन्ति ।
एवं ते बाल्âदिकर्मिका बोधिसत्व्êर्ष्याहेतोर् अनृतप्रत्यया महागुरुकाम् आपत्तिम् आपद्यन्ते ।
इयं पञ्चमी मूल्âपत्तिर् आदिकर्मिकस्य बोधिसत्वस्य ॥
पुनर् अपरं कुलपुत्र भविष्यन्त्य् अनागते ऽध्वनि
गृहस्थप्रव्रजित्âदिकर्मिका बोधिसत्वा ये ते गम्भीराः
शून्यताप्रतिसंयुक्ताः सूत्र्âन्त्âधारणीक्षान्तिसमाधिभूमिस्वलंकृतमहाविद्वत्पुरुषाणां कृतश्रमाणां बोधिसत्वानां गोचरास् तान् महायानसूत्र्âन्तान् धारयन्ति
पठन्ति स्व्âध्यायन्ति परेषां च विस्तरेण वाचयित्वा
प्रकाशयन्ति ।
अहं च्êमान् धर्मान् स्वबुद्ध्या बुद्ध्व्âइवं च पुनर् अहं कारुण्यहेतोस् तव्ôपदिशामि ।
त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु
धर्मेषु
[ चम्ब्रिद्गे म्स् f37अ ---> ]
प्रत्यक्षो भविष्यसि ।
एवं ते ज्ञानदर्शनं भविष्यति यथा मम ।
एतर्हि न पुनर् एव ददाति पठितमात्रेण्âहम् इमान् एवंरूपान्
धर्मान् गम्भीरगम्भीरान् उपदिशामि न साक्षात्क्रियया ॥
ल-भसत्कारहेतोर् आत्मानं विक्रीणाति ।
तत्प्रत्ययात् सर्वत्र्यध्वगतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्वानाम् आर्यपुद्गलानां च पुरतः स्âपराधिको भवति ।
महागुरुकम् आपत्तिम् आपद्यते ।
विसंवादयति देवमनुष्यान् महायानेन ।
श्रावकयानम् एव्âस्य न भव-
[ बेन्दल्ल् एद् प्63 ---> ]
ति ।
प्राग् एव महायानस्य्âवतारविशेष्âधिगमः ।
प्राग् एव्âनुत्तरा सम्यक्संबोधिः ॥
तद् यथा कश्चित् पुरुषो मह्âटवीं प्रस्थितः
क्षुत्तर्षप्रपीडितः स तत्र महाफलवृक्षे प्रतिष्ठितः ।
आहार्âर्थं स्ôदारफलवृक्षम् अपहाय गन्धसंपन्नं रससंपन्नम् अनास्वाद्य विषवृक्षम् अभिरुह्य विषफलानि
भुञ्जीत भुक्त्वा च कालं कुर्यात् ।
तदुपमांस् तान् पुद्गलान् वदामि ।
ये दुर्लभं मनुष्यलाभं लब्ध्वा कल्याणमित्रं सन्निश्रित्य
महायानम् अवतर्तुकामा लाभसत्कारयशोहेतोर् आत्मानम्
उपदर्शयन्ति परान् पंसयन्ति एवंरूपां महागुरुकाम् आपत्तिम्
आपद्यन्ते यया गुरुकय्âपत्त्या सर्वविज्ञानां परमजुगुप्सिता भवन्ति ।
अपायगामिनस् तथारूपाश् च पुद्गला न सेवनीयाः
सर्वक्षत्रियब्राह्मणविट्शूद्राणां ।
यश् च तान् सेवते स स्âतिसारो भवति सर्वविज्ञानां ।
इयं कुलपुत्र बोधिसत्वस्य षष्ठी मूल्âपत्तिः ॥
पुनर् अपरं कुलपुत्र भविष्यन्त्य् अनागते ऽध्वनि
क्षत्रियाणां पुरोहितचण्डाल्âमात्यचण्डाला भटचण्डाला मूर्खाः पण्डितमानिनो महाधना महाभोगाः ।
बहुविधेषु दानमयपुण्यक्रियावस्तु-
[ चम्ब्रिद्गे म्स् f37ब् ---> ]
षु संदृश्यन्ते ते
त्यागमदमत्ता मानमददर्पेण क्षत्रियं विभेदयन्ति ।
श्रमणान् क्षत्रियैः ।
ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति ।
अर्थं दण्डेन मुषन्ति ।
तेन्ôपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा
चातुर्दिशसांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य
तेषां प्राहृतं प्रदाप्यन्ते ।
ते पुनश् चण्डालाः क्षत्रियस्य्ôपनामयिष्यन्ति ।
ते उभयतो ऽपि मूल्âपत्तिम् आपद्यन्ते ।
ये क्षत्रियचण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति
तथारूपं च ते धर्मं प्रज्ञपयिष्यन्ति ।
अधर्मं वा धर्मम् अपहाय ।
सूत्रविनयशिक्ष्âनपेक्ष्य काल्ôपदेशमहाप्रदेशान् अपहाय ।
महाकरुणानेत्रीप्रज्ञापारमितशिक्ष्ôपायकौशल्यशिक्षाः
याश् च्âपरेषु सूत्रेषु शिक्ष्ôपदिष्टास् त्âपहाय ।
तथारूपां धर्मयुक्तिं भिक्षूणां विहेठन-
[ बेन्दल्ल् एद् प्64 ---> ]
अर्थपूर्वकं क्रिय्âकारं प्रज्ञपयन्ति ।
यैः क्रिय्âकारैर् भिक्षूणां विहेठना भवति ।
रञ्चति शमथविपश्यन्âनुयोगमनस्कारं ।
ते ऽवध्यायन्तो व्यापादबहुला भवन्ति ।
तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा न्ôपशम्यन्ति
न तनूभवन्ति ।
तत्काले पुनस् ते भिक्षव्âशयविपन्ना भवन्ति शीलविपन्नाश् च भवन्ति ।
आचारविपन्ना भवन्ति दृष्टिविपन्ना भवन्ति तद्धेतोः
शैथिलिका भवन्ति ।
बाहुलिका भवन्ति ।
अश्रमणाः श्रमणप्रतिज्ञाः ।
अब्रह्मचारिणो ब्रह्मचारिप्रतिज्ञाः शङ्खस्वरसमाचाराः
प्रष्टव्यधर्मदेशकाः ।
ते भूयस्या मात्रया सपरिचारस्य क्षत्रियस्य सत्कृता भवन्ति
मानिताः पूजिता भवन्ति ।
ते च प्रहाण्âभियुक्तानां भिक्षूणां गृहस्थेष्व् अवर्णं निश्चारयन्ति ।
स च क्षत्रियः सपरिवारः प्रहाण्âभियुक्तानां भिक्षूणाम्
[ चम्ब्रिद्गे म्स् f38अ ---> ]
अन्तिके प्रदुष्यति अवध्यायति ।
यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोगपरिभोगस् तं स्व्âध्याय्âभिरतानां भिक्षूणां निर्यातयन्ति ।
ते उभयतो मूल्âपत्तिम् आपद्यन्ते ।
तत् कस्य हेतोः ॥
ध्यायी भिक्षुः सुक्षेत्रं ।
न्âध्ययनवैयावृत्य्âश्रिता न्âध्ययन्âभियुक्ताः ॥
सम्-धिधारणीक्षान्तिभूमिषु भाजनीभूता दक्षिणीयाः
पात्रभूताः ।
आलोककर्âलोकस्य मार्ग्ôपदेशकाः ।
कर्मक्षेत्रक्लेशक्षेत्रान् सत्वान् उत्तारयन्ति ।
निर्वाणगमने च मार्गे प्रतिष्ठापयन्ति ।
इमाः कुलपुत्र्âष्टौ मूल्âपत्तय्êति ॥
आसां निःसरणम् इह्âइव सूत्रे ऽभिहितं ।
यदि ते बोधिसत्व्âकाशगर्भस्य बोधिसत्वस्य नाम श्रुत्वा
दर्शनम् अस्य्âकाङ्क्षेरन् ।
अपायप्रपतनभयात् मूल्âपत्तीर् दशयितुकामा ।
यदि ते आकाशगर्भं बोधिसत्वं नमस्कुर्युः नाम च्âस्य
परिकीर्त्तयेयुस् तेषां स कुलपुत्रो यथा भाग्यतया स्वरूपेण्âग्रतस् तिष्ठति ब्राह्मणरूपेण यावद् दारिकारूपेण पुरतः
स्थास्यति ।
तस्य्âदिकर्मिकस्य बोधिसत्वस्य यथा समुत्थितास् त्âपत्तीः
प्रतिदेशयति ।
गम्भीरं च-
[ बेन्दल्ल् एद् प्65 ---> ]
अस्य्ôपायकौशल्यं महायाने चर्याम्
उपदर्शयति ।
यावद् अवैवर्त्तिकभूमौ च प्रतिष्ठापयति ॥
पे ॥
यदि तेषां संमुखं दर्शनं न ददाति ।
यस् तम् अभियाचति ।
तेन्âदिकर्मिकेण बोधिसत्वेन स्âपराधेन पश्चिमे यामे उत्थाय्âसनात् प्राङ्मुखेन स्थित्वा धूपं धूपयितव्यं ।
अरुणो देवपुत्र्âयाचितव्यः ।
एवं च वक्तव्यं ।
अरुण्âरुण महाकृप महाभाग मह्ôदितस् त्वं जम्बुद्वीपे
मां करुणय्âछादयस्व ।
शीघ्रम् आकाशगर्भं महाकारुणिकं मम वचनेन बोधय ।
[ चम्ब्रिद्गे म्स् f38ब् ---> ]
मम स्वप्न्âन्तरे तम् उपायम् उपदर्शय येन्âहम् उपायेन्âपत्तिं प्रतिदेशयामि ।
आर्ये महायाने उपायप्रज्ञां प्रतिलप्स्याम्îति ॥
तेन तत्कालं शय्यायां निद्रापयितव्यं सह्ôद्गते ऽरुणे इह
जम्बुद्वीपे आकाशगर्भस्य बोधिसत्वस्य्êह समागमो भवति
स्वरूपेण च ।
तस्य्âदिकर्मिकस्य बोधिसत्वस्य स्वप्न्âन्तरे पुरतः स्थित्वा तां मूल्âपत्तिं देशयति महायान्ôपायेन ।
तथारूपं च तस्य्ôपायज्ञानं संदर्शयति ।
येन्ôपायकौशल्येन स्âदिकर्मिको बोधिसत्वस् तत्र्âइव
बोधिचित्त्âसंप्रमोषं नाम समाधिं प्रतिलभते
सुदृढव्यवस्थितश् च भवति महायानए इत्य् आदि ॥
अथ वा यो ऽत्र सूत्रे ऽध्येषणमन्त्रः पूर्वम् उक्तः ।
तेन्âयं विधिः कार्यः ।
एवं स्यात् ।
अरण्ये उपवने ऽभ्यवकाशे वागरं वा तगरं वा काल्âनुसारि
वा धूपयितव्यं ।
प्राञ्जलिना च भूत्वा समन्ततो दिग्विदिक्षु च पञ्चमण्डलकेन
वन्दित्व्êमे मन्त्रपदाः प्रवर्तयितव्याः ।
तद् यथा ।
सुमृश [[दोउब्त्]] ।
कारुणिक ।
चरतु [[दोउब्त्]] ।
विचर ।
सञ्चर ।
कारुणिक ।
मुरर ।
मुरर वेगधारि नमुचमे भुजयत कारुणिक चिन्तामणि पूरय कारुणिक
सर्व्âशां मे स्थापय ।
आज्ञाधारी
[ बेन्दल्ल् एद् प्66 ---> ]
स्फुगु ।
रतिविवेक गु ।
दृष्टिविवेक गु ।
पूरय कारुणिक पूरयन्तु मम्âशां ।
सर्वथा च्âशोकगति स्वाहा ॥
विधिः पूर्ववत् ।
सर्वव्याधिदुःखसर्वभयसर्व्ôपकरणविघातप्रतिघाते
सर्व्âभीष्टसिद्धये च कार्यः ॥
यदि क्षत्रिय्âदयो ऽपि बोधिसत्वाः कथम् एषाम् आपत्तिनियमो ऽन्येषां च्âधिक्यं ।
अथ तेन साम्वरिकाः ।
कथम् एषाम् आपत्तिव्यवस्था ।
कथं वा तद्दोषात् साम्वरिक्âपि गृह्यन्ते ।
न्âइष दोषः ।
ये-
[ चम्ब्रिद्गे म्स् f39अ ---> ]
षां यत्र बहुलं संभवः ते तत्र्âकोटिताः
स्वनामग्रहणदर्शनाद् भय्ôत्पादन्âर्थं ।
परस्परतस् तु सर्वैः सर्व्âपत्तयः परिहर्तव्याः ॥
येन वा प्रकृतिमहास्âवद्यतय्âसमादानो ऽप्य् अभव्यो भवत्य् उच्छिन्नकुशलमूलश् च सुतरां तेन साम्वरिक्êत्य् अलम्
अनया चिन्तया ॥
उपायकौशल्यसूत्रे ऽपि मूल्âपत्तिर् उक्ता ।
किं व्âपि कुलपुत्र बोधिसत्वः प्रातिमोक्षशिक्षायां शिक्षमाणाः कल्पशतसहस्रम् अपि मूलफलभक्षः स्यात् ।
सर्वसत्वानां च स्ûक्तदुरुक्तानि क्षमेत् ।
श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैश् च मनसिकारैर् विहरेद् इयं बोधिसत्वस्य गुरुका मूल्âपत्तिः ।
तद् यथा कुलपुत्र श्रावकयानीयो मूल्âपत्तिम् आपन्नः सो ऽभव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् ।
एवम् एव कुलपुत्रो ऽप्रतिदेश्य्âइताम् आपत्तिम् अनिःसृज्य तान्
श्रावकप्रत्येकबुद्धमनसिकारान् अभव्यो बुद्धभूमौ
परिनिर्वातुम् इति ॥
आसां च मूल्âपत्तीनां सुखग्रहणधारण्âर्थम्
एकीयमतानां च संग्रहकारिक्ôच्यन्ते ॥
रत्नत्रयस्वहरणाद् आपत्पाराजिका मता ।
सद्धर्मस्य प्रतिक्षेपाद् दूतीया मुनिन्ôदिता ॥
दुःशीलस्य्âपि वा भिक्षोः काषायस्तैन्यताडनात् ।
चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ॥
[ बेन्दल्ल् एद् प्67 ---> ]
पञ्च्âनन्तर्यकरणान् मिथ्यादृष्टिग्रहेण वा ।
ग्राम्âदिभेदनाद् व्âपि मूल्âपत्तिर् जिन्ôदिता ॥
शून्यतायाश् च कथनात् सत्वेषु कृतबुद्धिषु ।
बुद्धत्वप्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ॥
प्रातिमोक्षं परित्याज्य महायाने नियोजनात् ।
शिष्ययानं न राग्âदिप्रहाणाय्êति वा ग्रहात् ॥
परेषां ग्रहणाद् व्âपि पुनः स्वगुणकाशनात् ।
परपंसनतो ला-
[ चम्ब्रिद्गे म्स् f39ब् ---> ]
भसत्कारश्लोकहेतुना ॥
गम्भीरक्षान्तिको ऽस्म्îति मिथ्य्âइव कथनात् पुनः ।
दण्डापयेद् वा श्रमणान् दद्याद् वा शरणत्रयात् ॥
गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः ।
प्रतिसंलीनभोगं च स्व्âध्यायिषु निवेदनात् ॥
मूल्âपत्तयो ह्य् एता महानरकहेतवः ।
आर्यस्य्âकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः ॥
बोधिचित्तपरित्यागाद् याचकाय्âप्रदानतः ।
तीव्रमात्सर्यलोभाभ्यां क्रोधाद् वा सत्वताडनात् ॥
प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते ।
श्लोकात् पर्âनुवृत्त्या वा सद्धर्म्âभासवर्णनाद् ।
इति ॥
आर्यक्षितिगर्भसूत्रे ऽप्य् उक्तं ।
यो महाब्रह्मन् मम्ôद्दिश्य प्रव्रजितो दुःशीलपापसमाचारो भिक्षु-
[ बेन्दल्ल् एद् प्68 ---> ]
र् अनुभूतः कशम्बकजातो ऽश्रमणः श्रमणप्रतिज्ञः
अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः ।
ध्वस्तः पतितः पराजितो विविधैः क्लेशैः ।
अथ च पुनः स दुःशीलपापसमाचारो भिक्षुर् अद्य्âपि
सर्वदेवानां यावत् सर्वमनुष्याणां यावत् पुण्यनिधीनां दर्शयिता भवति कल्याणमित्रं ।
किं च्âपि स्âपात्रीभूतः तेन च पुनः शिरस्तुण्डमुण्डेन
काषायवस्त्रप्रावरण्êर्यापथेन दर्शनहेतुन्âपि
बहूनां सत्वानां विविधकुशलमूल्ôपस्तम्भनकरः
सुगतिमार्गदर्शको भवति ।
तस्माद् यो मम्ôद्दिश्य प्रव्रजितः शीलवान् दुःशीलो वा तस्य
न्âनुजानामि चक्रवर्त्तिर् आज्ञाम् अपि यन् मम्ôद्दिश्य
प्रव्रजितस्य सहधर्मेण्âपि काये दण्डप्रहारं वा दातुं चारके वा प्रक्षेप्तुं ।
अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं-
[ चम्ब्रिद्गे म्स् f40अ ---> ]
किं पुनर् अधर्मेण ॥
किं च्âपि मृतः कथ्यते ऽस्मिन् धर्मविनये ।
अथ च पुनः स पुद्गलो गोरोचनकस्तूरिकासदृश्êति ।
अत्र्âइव्âह ।
ये मम्ôद्दिश्य प्रव्रजितान् यानभूतान् पात्रभूतान् वा
विहेठयिष्यन्ति ते सर्वेषां त्र्यध्वगतानां बुद्धानाम् अतीव
स्âपराधा भवन्ति ।
समुच्छिन्नकुशलमूला दग्धसन्तान्âवीचिपरायणा भवन्त्îति ।
अत्र्âइव्âह ।
सर्वबुद्धैर् अधिष्ठितो ऽयं मोक्षध्वजो यद् उत
रक्तकाषायवस्त्रम् इति ।
अस्मिन्न् एव च्ôक्तं ।
तेन खलु पुनः समयेन बहूनि श्रावकनियुतशतसहस्राणि बहूनि
च बोधिसत्वनियुतशतसहस्राणि भगवतो ऽन्तिके एवंरूपं पूर्वकृतं कर्म्âवरणं प्रतिदेशयन्ति ।
वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथागतानां प्रवचने पात्रभूतान् पात्रभूतांश् च बुद्धानां भगवतां श्रावकयानीयान् पुद्गलाञ् जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो ऽवर्ण्âयशःकथाश् च निश्चारितवन्तः ।
तेन वयं कर्म्âवरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ॥
पेयालं ॥
वयं तत्कर्म्âवरणशेषम् एतर्हि भगवतो ऽन्तिके
प्रतिदेशयिष्यामः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः परिभाषितवन्तः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकान् अपात्रभूतान् पत्र्âभूतांश् च
प्रहरितवन्तः ।
केचिद् वदन्ति ।
वयं चीवरान् हृतवन्तः ।
केचिद् वदन्ति ।
वयं भगवतः श्रावकाणाम् उपभोगपरिभोगान् आच्छिन्नवन्तः ।
केचिद् वदन्ति ।
वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृहस्थान् कारितवन्तः
[ चम्ब्रिद्गे म्स् f40ब् ---> ]
तत्âस्थानं सादिताः ।
केचिद् वदन्ति ।
अस्माभिर् भगवन् बुद्धानां भगवतां श्रावक्âपत्रभूताः
पात्रभूताश् च स्âपराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्म्âवरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां ती-
[ बेन्दल्ल् एद् प्69 ---> ]
व्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः ॥
पे ॥
तद् वयम् एतर्हि कर्म्âवरणशेषां भगवतो ऽन्तिके
प्रतिदेशयामः ।
आयत्यां संवरम् आपद्येम ।
प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय ।
उद्धरतु भगवान् अस्मान् अनन्तपापेभ्य्êति विस्तरः ॥
प्रव्रज्य्âन्तरायसूत्रे ऽप्य् अनर्थ्ôक्तः ।
चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही अक्षणप्राप्तो भवति ।
जात्यन्धश् च जडश् च्âजिह्वकश् च चण्डालश् च जातु
सुखितो भवत्य् अभ्याख्यानबहुलश् च षण्डकश् च पण्डकश् च
नित्यदासश् च ।
स्त्री च भवति श्वा च शूकरश् च गर्दभश् च्ôष्ट्रश् च
आशीविषश् च भवति तत्र तत्र जातौ ॥
कतमैश् चतुर्भिः ।
इह महानामन् गृही पूर्वजिनक्र्ट्âधिकाराणां सत्वानां नैष्क्रम्यचित्तस्य प्रव्रज्याचित्तस्य्âर्यमार्गचित्तस्य्âन्तरायं करोति ।
अनेन प्रथमेन ॥
पुनर् अपरं गृही धनलौल्येन पुत्रलौल्येन कर्मविपाकम्
अश्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञातिसंघस्य्âइश्वर्यस्थाने वर्तमाने प्रव्रज्य्âन्तरायं करोति ।
अनेन द्वितीयेन्êति ॥
अन्यद्वयं ।
सद्धर्मप्रतिक्षेपः श्रमणब्राह्मणेषु च प्रतिघः ॥
दश च्âकुशलाः कर्मपथाः अनर्थाः ।
सद्धर्मस्मृत्युपस्थानाद् विपाककटुका द्रष्टव्याः ।
ततः किञ्चिन्मात्रं सूत्रं सूच्यते ।
प्राण्âतिपातविपाकलवस् तावद् ।
यथ्âह ।
तद् यथ्âग्निशिखाचरा नाम पक्षिणो ये ऽग्निशिक्षामध्यगता-
[ चम्ब्रिद्गे म्स् f41अ ---> ]
न दह्यन्ते संहृष्टतराश् च
नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति ।
कपाल्âन्तरचरा नाम पक्षिणो ये मस्तकं भित्त्वा
ज्वलितमस्तकलुङ्गान् पिबन्ति ।
जिह्व्âमिषभुजो नाम पक्षिणो ये जिह्वां विदार्य्âभितो ऽभितः प्रभक्षयन्ति ।
स्âपि जिह्वा भुक्ता पुनर् अपि संजायते पद्मदलकोमलतरा ।
एवम् अर्थ्âनुरूपसंज्ञा दन्त्ôत्पाटका-
[ बेन्दल्ल् एद् प्70 ---> ]
नाम
कण्ठनाड्यपकर्षका नाम ।
क्लोमकाशिनः ।
आमाशय्âदाः ।
प्लीहसंवर्तका ।
अन्त्रविवरखादिनः ।
पृष्ठवंशचरा नाम ।
मर्मगुह्यका नाम पक्षिणो ये सर्वाणि मर्मविवराणि भित्त्वा
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0