शिक्षासमुच्चय (अन्य संस्करण) · भाग 2140
नानासुखैर् नानापर्यायैर् नान्âरम्बणैर् नान्ôपकरणैर् नानापरिभोगैः सत्वानां नान्ôपभोगं गच्छन्ति ।
एवम् एव्âहम् इमं कायं चतुर्महाभूतसमुच्छ्रयं नानासुखैर् नानापर्यायैर् नान्âरम्बणैर् नान्ôपकरणैर् नानापरिभोगैर् विस्तरेण सर्वसत्वानाम्
उपभोग्यं करिष्याम्îति ।
स्êमम् अर्थवशं संपश्यन् कायदुष्खतां च
प्रत्यवेक्षते
कायदुष्खतया च न परिखिद्यते सत्व्âवेक्षय्êति ॥
आर्यवज्रध्वजसूत्रे ऽप्य् आह ॥
इति हि बोधिसत्व्âत्मानं सर्वसत्वेषु निर्यातयन्
सर्वकुशलमूल्ôपकारित्वेन सर्वसत्वानां कुशलमूलैः समन्वा-
[ चम्ब्रिद्गे म्स् f15ब् ---> ]
हरन्
प्रदीपसमम् आत्मानं सर्वसत्वेष्ûपनयन् सुखसमम्
आत्मानं सर्वसत्वेष्व् अधितिष्ठन् ।
धर्मकुक्षिसमम् आत्मानं सर्वजगति संधारयन्
आलोकसमम्
आत्मानं सर्वसत्वेष्व् अनुगच्छन् जगत्प्रतिष्ठापनसमम्
आत्मानं संपश्यन् ।
कुशलमूलप्रत्ययभूतम् आत्मानं सर्वजगत्य् अनुगच्छन् ।
मित्रसमम् आत्मानं सर्वसत्वेषु नियोजयमानो ऽनुत्तरसुखमार्गसमम् आत्मानं सर्वसत्वेषु संदर्शयमानः अनुत्तरसुख्ôपधानसमम् आत्मानं सर्वसत्वेषु परिशोधमानः
सूर्यसमम् आत्मानं सर्वजगति समीकुर्वाणः ।
एवंधर्म्ôपेतम् आत्मानं सर्वसत्वेषु प्रयच्छन् ।
यथाकामकरणीयवश्यम् आत्मानं सर्वलोके संपश्यन्न् अग्रचैत्या भविष्यामः ... सर्वजगत्स्थित्यात्मानं संपश्यन् ।
समचित्ततां सर्वजगति निष्पादयन् ।
सर्व्ôपकरणतीर्थम् आत्मानं संपश्यन् ।
सर्वलोकसुखदातारम् आत्मानं प्रत्यवेक्षमाणः ।
सर्वजगतो दानपतिम् आत्मानम् अधिमुच्यमानः
सर्वलोकज्ञानसमम् आत्मानं कुर्वाणः बोधिसत्वचर्याप्रयुक्तम् आत्मानं संजनयमानः ।
यथावादितथाकारित्वेन्âत्मानं नियोजयमानः ।
सर्वज्ञतासन्नाहसन्नधम् आत्मानं प्रत्यवेक्षमाणः ।
पूर्वनिमन्त्रितं चित्तम् अनुपालयमानः ।
प्रतिपत्तौ च्âत्मानं स्थापयमानो बो-
[ बेन्दल्ल् एद् प्23 ---> ]
धिसत्वत्यागचित्ततां मनसि कुर्वाण्ôद्यानभूतम् आत्मानं सर्वसत्वेषु संपश्यन् ।
धर्मरतिभूतम् आत्मानं सर्वलोकेष्व् आदर्शयमानः
[ चम्ब्रिद्गे म्स् f16अ ---> ]
सौमनस्यदातारम् आत्मानं सर्वसत्वानाम् अधितिष्ठन् ।
अनन्तप्रीतिसंजननम् आत्मानं सर्वजगतो निर्यातयमानः
सर्वशुक्लधर्माय द्वारभूतम् आत्मानं सर्वलोके
संधारयमानः ।
बुद्धबोधिदातारम् आत्मानं सर्वसत्वानां प्रणिदधत् ।
पितृसमम् आत्मानं सर्वप्रजायां नियोजयमानः ।
सर्व्ôपकरण्âवैकल्य्âधिकरणम् आत्मानं सर्वसत्वधातौ
प्रतिष्ठापयमानः ॥
इति हि बोधिसत्व्âत्मानम् उपस्थायकत्वाय ददानः
याचनकेषु
नीचमनसिकारचित्तो भूम्य्âस्तरण्âधिष्ठानचेता धरणिसमसर्वदुष्खसहनमनसिकारप्रवृत्तः
सर्वसत्व्ôपस्थान्âक्लान्तमानसप्रयुक्तो बालजनदुष्कृतस्थिरः
स्थावर्âधिवासनजात्यः अस्थितः कुशलमूल्âभियुक्तः
अप्रयुक्तसर्वलोकधात्ûपस्थानः कर्णो नासा
संपरित्यजन्
याचनकेभ्य्ôपसंक्रान्तेभ्यो बोधिसत्वचर्य्ôपात्ततथागतकुलकुलीनसंभूतचित्तः सर्वबोधिसत्व्âनुस्मरणविहारप्रसृतो ऽसारात् सर्वत्रैलोक्यात् स ... त्यवेक्षमाणः
स्वशरीर्âनध्यवसितसन्तानः अनिकेतसर्वबुद्धधर्म्âनुस्मृतिविहार्य्- असाराच् छरीरात् सार्âदान्âभिप्राय्êति हि
बोधिसत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया
मैत्र्य्ôपचारविततया भद्रे सिंह्âसने राज्âर्हे निषाद्य
तं याचनकम् अभिभाषते दृष्टः ।
अरिष्टचित्तो भूत्व्âक्षतचित्तो ऽनुपहतचित्तो मह्âत्मन् सला ... चि-
[ चम्ब्रिद्गे म्स् f16ब् ---> ]
त्तो बुद्धवंशसंभूतचित्तो ऽलुलितसन्तानचित्तो महास्थामबल्âधानो ऽनध्यवसितशरीरचित्तो ऽनभिनिविष्टवचनचित्तो जानुमण्डलप्रष्ठितकायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्वशरीरम्
अधीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्य्ôपचारां ।
गृहाण त्वं मम जिह्वां यथा कामकरणीयां कुरु ।
तथा कुरु यथा त्वं प्रीतो भवसि
[ बेन्दल्ल् एद् प्24 ---> ]
प्रीतमानस्âत्मना
प्रमुदितो हृष्टः प्रीतिसौमनस्यजात्êति स शिरः
परित्यजन्
सर्वधर्म्âग्रशिरः परमज्ञानम् अवतरन्
सर्वसत्वपरित्राण शिरोबोधि ... गच्छन्
सर्वजगदग्र्यशिरः
अनुपमज्ञानम् अभिलषन् सर्वदिक्छिरः प्राप्तुं ज्ञानराजम्
अधिमुच्यमानो ऽनुत्तरसर्वधर्म्âइश्वर्यशीर्षतां परिपूरयितुकामो ऽनन्तयाचनकप्रीतिपरिस्फुटचेता ।
इति हि बोधिसत्वो हस्तपादान् परित्यजन् याचनकेभ्यः
श्रद्धाहस्तप्रयुक्तेन्âनुग्रह चारित्रेण
बोधिसत्वसिंहविक्रमत्यागप्रततपाणिना
व्यवसर्ग्âभिरतेन
हस्तपादपरित्यागेन महाप्रतिष्ठानक्रमतलव्यतिहारेण
बोधिसत्वचर्य्âध्यवसायेन वेदन्âनुपहततया
दानप्रसादशक्त्या विमलचित्त्ôत्पादसंवरो निष्पर्यवस्थानज्ञा-
[ चम्ब्रिद्गे म्स् f17अ ---> ]
नधर्मशरीर्âछिन्न्âभिन्न्âलुप्तकायसंज्ञः अनीचचित्तः सर्वमारकर्म्âकल्याणमित्र्ôपस्तब्धवृंहितचेताः
सर्वबोधिसत्वसंवर्णित्âइकत्यागनिर्याण्êति हि बोधिसत्वः स्वशरीरम् आक्षिप्य रुधिरम्
अनुप्रयच्छन् याचनकेभ्यः प्रहर्षितबोधिचित्तो ।
बोधिसत्वचर्य्âभिलषितचित्तो ऽपर्यात्तवेदितचित्तः
सर्वयाचनक्âभिलषितचित्तः सर्वप्रतिग्राहक्âविद्विष्टचित्तः
सर्वबोधिसत्वत्यागप्रतिपत्प्रतिपन्नो ऽनिवर्त्त्यया
प्रीतिप्रस्रब्ध्या स्वशरीर्âनपेक्षचित्तः स्वशरीराद् रुधिरम्
अनुप्रयच्छन् ज्ञान्âयतनमहायानप्रसृतचेता महायान्âविनष्टमन्êष्टमनास् तुष्टमनाः प्रीतमनाः
मुदितमना मैत्र्य्-मनाः सुखमनाः प्रसन्नमनाः
प्रमुदितप्रीतिसौमनस्यजातो मज्जामांसं स्वशरीरात् परित्यजन्
याचनकेभ्यः कल्याणत्यागया ।
याचक्âभिलषितया वाचा तान् याचकान् अभिलपन् ।
गृह्णन्तु भवन्तो मम शरीरान् मज्जामांसं यथा
कामकरुणाया तुल्यप्रीतिविवर्द्धनेन त्यागचित्तेन ।
बोधिसत्वविज्ञगणनिषेवितेन महाकुशलमूलेन लोक-
[ बेन्दल्ल् एद् प्25 ---> ]
मल्âपकर्षितेन प्रवरेण्âध्याशयेन ।
सर्वबोधिसत्वसमत्ôपात्तैर् महादान्âरम्भैर् मनस्âकाङ्क्षितैः सर्वयाचकैर् अननुताप्यचित्तैर् दानवस्तुभिः
अप्रत्यवेक्षितेन कर्मविपाकप्रत्ययेन
सर्वलोकधात्वविमुखया
सर्वबुद्धक्षेत्र्âलंकारव्यूहपूजया
सर्वजगदभिमुखया
करुणापरित्राणतया ।
सर्वबुद्धबोध्यभिमुखया ।
दशबल ...
[ चम्ब्रिद्गे म्स् f17ब् ---> ]
चारणय्âतीत्âनागतप्रत्युत्पन्नसर्वबोधिसत्व्âभिमुखय्âइककुशलमूलपरिचर्यया सर्ववैशारद्य्âभिमुखेन्âर्षभसिंहनादनदनेन त्र्यध्व्âभिमुखेन ।
सर्व्âध्वसमताज्ञानेन ... लोक्âभिमुखेन्âपर्âन्तकोटीगतकल्पव्यवसायेन बोधिसत्वप्रणिधानेन्âपरित्रस्यन्âभिमुखेन्âखेदचित्त्ôत्पादेन बोधिसत्वः स्वहृदयं परित्यजन्
याचनकेभ्यो दानवशशिक्षितचित्तः
पारमितानिष्पादनचित्तः
सर्वबोधिसत्वदान्âनुद्धतसुप्रतिष्ठितचित्तः ।
अधिष्ठानसर्वयाचनकप्रतिमाननचित्तः ।
अध्याशयं परिशोधयमानः ।
सर्वजगत्परिपाचननिदानं महाप्रणिधानं प्रतिपद्यमानो बोधिसत्वचर्यायां संवसमानः सर्वज्ञतासंभारं संभरमाणः प्रणिधिम् अरिञ्चन् सो ऽत्र यकृत्बुक्काफुप्फुषं याचकेभ्यः परित्यजन् याचनक्âभिप्रसन्नया
दृष्ट्या
प्रसन्नप्रीत्याकारैर् नेत्रैर् बोधिसत्वनिर्यातेन प्रेम्ण्âव्युत्थितमनसिकारेण त्यागेन्âसारात् कायात्
सुप्रत्यवेक्षितेन सार्âदानचित्तेन श्मशानपर्यन्तेन
काय्âनुस्मृतिमनसिकारेण वृकशृगालश्वभक्ष्यं शरीरं प्रत्यवेक्षमाणः परभक्तिमनसिकृतया ।
शरीर्âनित्यतय्âपविद्धशरीरेण परभक्तचेतनेन
एवं धर्ममनसिकारप्रयुक्तो बोधिसत्वस् तान् याचनकान्
अनिमिषं प्रेक्षमाण्âइवं चित्तम् उत्पादयति ।
यदि च्âहम् एतद्याचनकस्य्âइतच्छरीराद् अन्त्रं यकृत्बुक्काफुष्फुषं दद्यां ।
यदि वा न दद्यां ।
आयुःक्षयपर्यन्ते न्âइषो-
[ चम्ब्रिद्गे म्स् f18अ ---> ]
नित्यः श्मशानपर्यवसान-
[ बेन्दल्ल् एद् प्26 ---> ]
इति ।
स्âइवं मनसिकारसंतोषितेन सन्तानेन्âइवं धर्मज्ञानेन्âशयेन कल्याणमित्रसंज्ञ्âधिष्ठितेन
याचनकदर्शनेन्âसारात् कायात् सारम् आदातुकामो धर्मकामतया
स्वमांसान् नखं परित्यजन्न् एव तत्कुशलमूलं परिणामयत्îत्य् आत्मभाव्ôत्सर्गं कृत्वा ॥
भोगपुण्य्ôत्सर्गो ऽप्य् अत्र्âइव्ôक्तेः ।
इति हि बोधिसत्वो नानादक्षिणीयप्रतिग्राहकेष्व् अन्य्âन्यपुद्गलदिगागतेष्व् अप्रमेयकृपणवनीपकेषु
बोधिसत्वश्रव्âगतेषु बोधिसत्वशब्दं श्रुत्व्âगतेषु
बोधिसत्वप्रत्यय्âवकाशगतेषु बोधिसत्वदानपूर्वं प्रणिधानश्रुतेषु ।
बोधिसत्वप्रणिधानचित्तनिमन्त्रितेषु ।
सर्वत्यागमनस्âभिलषितेषु
तृप्तयाचनकप्रतिमाननाचेतन्âगतयाचनकक्षमापणचेतनो ।
मय्âइव तत्र दिशं गत्वा यूयं प्रतिमानयितव्य्âभविष्यत येन युष्माकम् आगमनक्लमो न स्यात् ।
एवं समृद्धप्रणिपातेन क्षमयति सर्वयाचनकान्
क्षमयित्वा
स्नापयित्वा विश्रामितशरीरान् कृत्वा तेभ्यो यदृच्छय्ôपकरणं प्रतिपादयति ।
यद् इदं मणिरथान्
जम्बुद्वीपकल्याणकन्यारत्नपरिपूर्णान्
यद् इदं सुवर्णरथान्
जनपदविशुद्धकन्यारत्नपरिपूर्णान् ।
यद् इदं वैडूर्यरथान् व्âनुकुलगीतवाद्यसंप्रवादितपरिपूर्णान् ।
एवं स्फटिकरथान्
सुमुखसुवेशधारिस्वलंकृतरूपान्
अप्रतिकूलदर्शनचतुरकन्यारत्नपरिपूर्णान् इति ।
तथ्âत्र्âइव देशितं मणिरथान् वा ददानः
सर्वरत्नजालसंछन्नान् आजानेयहस्त्युपेतान् ।
[ चम्ब्रिद्गे म्स् f18ब् ---> ]
सवाहनान् ।
चन्दनरथान् ददानो रत्नचक्ररथ्यप्रयुक्तान्
रत्नसिंह्âसनप्रतिष्ठितान् यावन् नानारत्नछत्रसंछन्नव्यूहान्
रत्नवितानविततसंछन्नान् ध्वजपताक्âलंकृतचतुर्दि-
[ बेन्दल्ल् एद् प्27 ---> ]
क्कान्
नानागन्धविधूपित ... सारगन्ध्âनुलेप्âनुलिप्तान् ।
सर्वपुष्पव्यूह्âवकीर्णान् कन्याशतसहस्ररत्नसूत्रप्रकर्षितान् अभ्रान्तगमनान् अभ्र्âन्तसमवाहनप्रयुक्तान् ।
यावद् अप्रतिकूलमनोज्ञप्रवातगन्धान्
सुदुहितृपुत्रवचन्ôपचारप्रयुक्तान् ।
विविधगन्धचूर्णसम्भृतकृत्ôपचारान् इति ॥
पुनर् अत्र्âइव्âह ।
आत्मानं च सर्वसत्वानां निर्यातयन्न् उपस्थानं वा
सर्वबुद्धानाम् उपाददानो राज्यं वा परित्यजन्
पटभेदकं वा नगरराजधानीं सर्व्âलंकारभूषितां यथ्âर्हं वा याचनकेषु सर्वपरिवारं परित्यजन्
पुत्रदुहितृभार्यां वा ददानो याचनकेभ्यः सर्वगृहं व्âपसृजन् ।
यावत् सर्व्ôपभोगपरिभोगान् वा ददानः ।
एवं पानदानं रसदानम् अपि बोधिसत्वो ददानो विविधान्
कल्याणान् उदारान् विशुद्धान् अविकलांस् तिक्तांल् लवणान्
कटकान् कषायान् नानारस्âग्र्ôपेतान् सुस्निग्धान्
विविधरसविधिन्ôपेतान् धातुक्षोभणसमतास्थापनान्
चित्तशरीरबल्ôपस्तम्भनान् प्रीतिप्रसादप्रामोद्यकल्पताजननान् ।
यावत् सर्वपर्ôपक्रमप्रतिषेधकान्
सर्वव्याधिसमन्âरोग्यसंजननान् ।
एवं वस्त्रदानं पुष्पदानं गन्धदानं विलेपनदानं माल्यदानं ।
शयनदानम् आवासदानम् अपाश्रयदानं प्रदीपदानं च ।
ग्लानप्रत्ययभैषज्य-
[ चम्ब्रिद्गे म्स् f18ब् ---> ]
परिष्कारान् बोधिसत्वो ऽनुप्रयच्छन्
यावन् नानाभाजनानि विविधसंभाराण्य् अनेककांस्यपात्रीर् अप्रमेयसंभार्ôपचिता हिरण्यसुवर्णरूप्यचूर्णपरिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो ऽचिन्त्यदक्षिणीय्âधिमुक्तचेता बोधिसत्वरत्नेभ्यो वा ददानः ।
कल्याणमित्रसुदुर्लभचित्त्ôत्पादेन्âर्यसंघाय वा
ददानः ।
बुद्धशासन्ôपस्तम्भाय पुद्गलाय वा ददानः ।
श्रावकप्रत्येकबुद्धेभ्यो व्âर्यगुणसुप्रसन्नचित्ततया
मातापितृभ्यां ददानो ।
गुरुशुश्रूष्ôपस्थानचित्ततय्âचार्यगुरुदक्षिणीयेभ्यो वा
ददानस् तत्र तत्र गुरुसंभार्âववादशिक्षणप्रयुक्तः ।
अशनवसनं वा कृपणवनीपकयाचनकेभ्यो ददानः ।
सर्वसत्व्âप्रतिहतचक्षुर् मैत्रीपरिभावितचित्ततया ।
पेयालं ॥
इति हि बोधिसत्वो हस्त्याजानेयान् ददानः
सप्त्âङ्गसुप्रतिष्ठितान् ।
षष्टिहा-
[ बेन्दल्ल् एद् प्28 ---> ]
यनान् षड्गन्त्र्ôपेतान् पद्मवर्णान् मुखविशुद्धान्
सुवर्ण्âलंकारान् हेमजालप्रतिच्छन्नशरीरान्
नानारत्नविचित्र्âलंकारजालशुण्डप्रक्षिप्तव्यूहान्
सुवर्णकल्याणान्
कल्याणचारुदर्शनान् ।
अक्लान्तयोजनसहस्रगमन्ôपचारान् अश्व्âजानेयान् वा
ददानः ।
सुखवाहनसुखशरीर्ôपेतान् अनुजवसंपन्नांश् चतुर्दिग्गमन्âहारजव्ôपेतान् आरोहसंपन्नान् दिव्यकल्याणचारुसदृशसर्वविभूषण्ôपेतान् ।
स तान् ददानः परित्यजन् गौरवेण गुरुजनेभ्यः
कल्याणमित्रमातापितृभ्यः कृपणवनीपकयाचनकेभ्यः
सर्वजगत्प्रतिग्राहकभ्यो मुक्तचित्तया ददानो ।
न्âगृहीतचित्ततय्âवसृजन् महाकरुणापरिस्फुटेन
सन्तानेन महात्यागपरिमाणबो-
[ चम्ब्रिद्गे म्स् f19ब् ---> ]
धिसत्वगुनेषु प्रतिपद्यमानो ऽभिजातबोधिसत्व्âध्याशयान् परिशोधयमानो यावद् इति हि
बोधिसत्व्âसनदानं ददानः परित्यजन्
राजभद्र्âसनानि
वैडूर्यपादकानि सिंहप्रतिष्ठितानि
सुवर्णसूत्ररत्नजालवितानान्य् अनेकचीवरस्पर्श्ôपेतप्रज्ञप्तानि
सर्वसारगन्धवासित्ôपचाराणि विचित्रमणिराजसमुच्छ्रितध्वजान्य् अनेकरत्नकोटीनियुतशतसहस्र्âलंकारव्यूहानि
हेमजालवितानविततानि
सुवर्णकिङ्किणीजालसंघटितमनोज्ञनादनिर्घोषशब्दानि महान्त्य्âसनान्य् अभ्युद्गतो द्विद्धचक्षुर्दशनान्य् एकछत्रमहापृथिव्य्-अनुशासननिषदन्âभिषिक्तानि ।
सर्वराज्य्âइश्वर्य्âधिपतेयनियतनिषद्य्âप्रतिहतचक्रशासन्âनुशासनसर्वराज्âधिपतेये प्रवर्त्तते ।
एवं यावद् इति हि बोधिसत्वश् छत्राणि ददानः परित्यजन्
महारत्नव्यूहप्रतिमण्डितानि रत्नदण्डानि
किङ्किणीजालसंछन्नानि ।
रत्नसूत्रकर्णकण्ठ्âव-
[ बेन्दल्ल् एद् प्29 ---> ]
लीविनामितवैडूर्यमणिहार्âभिप्रलम्बितानि नन्दीघोषमनोज्ञशब्द्ôपचाराणि
हेमजाल्âभ्यन्तरविशुद्धछदनानि
रत्नशलाक्âलंकारशतसहस्रविततानि रत्नकोषसन्धारितान्य् अगुरुचन्दनान्य् एकसारवरगन्धकोटीनियुतशतसहस्रविधूपितवासित्ôपचाराणि
जाम्बुनदप्रभास्वरशुद्धानि ।
तादृशानां छत्राणाम् अनेककोटीनियुतशतसहस्र्âलंकाराणां तदतिरिक्तानि च्âसंख्येयकोटीनियुतशतसहस्र्âलंकाराण्य् अनपेक्षचित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखीभूतेभ्यो वा सत्वसारेभ्यो निर्वृतानां वा तथागतानां चैत्य्âलंकाराय ।
धर्मपर्येष्टये बोधिसत्वकल्याणमित्रे-
[ चम्ब्रिद्गे म्स् f20अ ---> ]
भ्यो व्âभिजातबोधिसत्वधर्मभाणकेभ्यो वा मातापितृभ्यां वा संघरत्ने
वा
सर्वबुद्धशासने वा यावत् सर्वप्रतिग्राहकेभ्यः स्âइवं तत्कुशलमूलं परिणामयति ॥
यथा तावत् प्रथमायाम् एव परिणामनायां सर्वकुशलमूलप्रस्तावेष्ûपदिष्टं ।
एवं प्रणिधानम् उत्पादयति ।
कथम् एतानि कुशलमूलानि सर्वजगदुपजीव्यान्य् उपकारिभूतानि
भवेयुर् विशुद्धधर्मपर्यवसानानि येन सर्वसत्वानाम्
एतैः
कुशलमूलैर् नरक्âपायप्रतिप्रस्रब्धिर् भवति ।
तैर्यग्योनिकयामलौकिकाद् दुष्खस्कन्धान् निवर्त्तयेयुः ।
स तानि कुशलमूलानि परिणामयन्न् एवं तत्कुशलमूलं परिणामयति ।
अनेन्âहं कुशलमूलेन सर्वसत्वानां नयनं भवेयं सर्वदुष्खस्कन्धविनिवर्त्तनाय ।
सर्वसत्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया ।
सर्वसत्वानां शरणं भवेयं सर्वभय्âरक्षणतया ।
सर्वसत्वानां गतिर् भवेयं सर्वभूम्यनुगमनतया ।
सर्वसत्वानां परायणं भवेयम्
अत्यन्तयोगक्षेमप्रतिलम्भतया ।
सर्वसत्वानां आलोको भवेयं वितिमिरज्ञानसंदर्शनतया ।
सर्वसत्वानां उल्का भवेयम्
अविद्यातमोअन्धकारविनिवर्त्तनतया ।
सर्वसत्वानां प्रद्योतो भवेयम्
अत्यन्तविशुद्धिप्रतिष्ठापनतया ।
सर्वसत्वानां नायको भवेयम्
अचिन्त्यधर्मनय्âवतारणतया ।
सर्वसत्वानां परिणायको भवेयम्
अनावरणज्ञानस्कन्ध्ôपनयनतया ।
पेयालं ॥
तच् च्âध्याशयतः परिणामयति न वचनमात्रेण ।
तच् च्ôदग्रचित्तः परिणामयति ।
हृष्टचित्तः परिणामयति ।
प्रसन्नचित्तः परिणामयति ।
प्रमु-
[ बेन्दल्ल् एद् प्30 ---> ]
दितचित्तः स्निग्धचित्तः परिणामयति ।
मैत्रचित्तः प्रेम-
[ चम्ब्रिद्गे म्स् f20ब् ---> ]
चित्तः अनुग्रहचित्तो हितचित्तः सुखचित्तः
परिणामयति ।
तच् च्âइवं परिणामयति ।
इदं मम कुशलमूलं सर्वसत्वानां गतिविशुद्धये
संवर्तेत ।
उपपत्तिविशुद्धये संवर्त्तेत ।
पुण्यमाहात्म्यविशुद्धये संवर्त्तेत ।
अनभिभूततायां संवर्त्तेत ।
अपर्यादानतायां संवर्त्तेत ।
दुरासदचित्ततायां संवर्त्तेत ।
स्मृत्यप्रमोषतायां संवर्त्तेत ।
गतिमतिविनिश्चयतायां संवर्त्तेत ।
बुद्ध्यप्रमाणतायां संवर्त्तेत ।
कायकर्ममनस्कर्मसर्वगुण्âलंकारपरिपूर्यां संवर्त्तेत ॥
अनेन मे कुशलमूलेन ते सर्वसत्वाः सर्वबुद्धान्
आरागयेयुर् आरागयित्वा च मा विरागयेयुः ।
तेषु च बुद्धेषु भगवत्सु प्रसादम् अभेद्यं प्रतिलभेरन् ।
तेषां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके
धर्मदेशनां शृणुयुः ।
श्रुत्वा च सर्वा विमतीर् विनिवर्त्तयेयुः ।
यथाश्रुतं च संधारयेयुः ।
सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः ।
तांश् च तथागतान् आराधयेयुः ।
चित्तकर्मण्यतां च प्रतिलभेरन् ।
अनवद्यानि कर्माणि समुदानयेयुः ।
महत्सु च कुशलमूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च
दारिद्र्यं विनिवर्त्तयेयुः सप्त धनप्रतिलम्भांश् च
परिपूरयेयुः सर्वबुद्धानां च्âनुशिक्षयेयुः
कल्याण्êन्द्रियप्रतिलम्भं च्âधिगच्छेयुः ।
उदार्âधिमुक्तिसमतां च परिनिष्पादयेयुः ।
सर्वज्ञज्ञाने च्âवकाशं प्रतिलभेरन् ।
अप्रतिहतचक्षुष्मत्तां च सर्वजगत्य् उत्पादयेयुः ।
लक्षण्âलंकृततां च कायप्रतिपूरिं प्रतिलभेरन् ।
सर्वगुण्âलङ्कारं च वाक्यविशुद्धिं परि-
[ चम्ब्रिद्गे म्स् f21अ ---> ]
गृह्णीयुः ।
संवृत्êन्द्रियतां दशबलप्रयुक्तां चित्तकल्यतां समुदानयेयुः ।
अनि-
[ बेन्दल्ल् एद् प्31 ---> ]
श्चितविहारतां च परिपूरयेयुः ।
येन च सुख्ôपधानेन सर्वबुद्धाः समन्वागतास् तत्सुख्ôपधानप्रतिलब्धाः सर्वसत्वा भवेयुर् इति ॥
यथा षष्ठी परिणामन्ôक्तेन विधिना परिणामयति ।
सर्वसत्वा ।
ज्ञान्âहाराद् भवन्तु असङ्गप्रयुक्तचेतसः ।
आहारप्रज्ञ्âतापिनो ऽनध्यवसित्âहाराः
प्रीतिभक्षानिरामिष्âहारा यावत् कामतृष्णाविनिवर्त्तकाः ।
सर्वसत्वाः धर्मरसमेघप्रवर्षका भवन्तु ।
अनुत्तरधर्मरतिप्रीणितसन्तानाः ।
सर्वसत्वाः सर्वरस्âग्रजिह्वा भवन्तु रसनिमित्ता ग्रहीतारः सर्वबुद्धधर्मचित्तनप्रयुक्ताः
अविपन्नयान्âग्रयान्ôत्तमयानाः शीघ्रयाना महायानाः ।
सर्वसत्व्âतृप्तदर्शना भवन्तु
बुद्धप्रीतिप्रतिलब्धाः ।
सर्वसत्वाः सर्वकल्याणमित्रदर्शन्âनुपहतसन्ताना भवन्तु ।
सर्वसत्व्âगदभैषज्यराज्ôपदर्शना भवन्तु ।
सर्वसत्वाः क्लेशविषविनिवर्त्तकाः ।
सर्वसत्व्âदित्यमण्डल्ôद्गतदर्शना भवन्तु
सर्वसत्वतमस्तिमिरपटलविधमनत्वात् ॥
एवम् आत्मानम् उपनिधाय स्वभावन्âनुकूल्येन पठितव्यं ।
सर्वसत्वानाम् अभिरुचिरदर्शनतायां परिणामयामि ।
सौमनस्यदर्शनतायां कल्याणदर्शनतायां परिणामयामि ।
अभिलषितदर्शनतायां प्रहर्षितदर्शनतायां दौर्मनस्य्âदर्शनतायां बुद्धदर्शन्ôपेतायां परिणामयामि ॥
सर्वसत्वाः शीलगन्ध्ôपेता भवन्त्व् अनाच्छेद्यशीला बोधिसत्वपारमिताशीला-
[ चम्ब्रिद्गे म्स् f21ब् ---> ]
ः ॥
सर्वसत्वा दानवासिता भवन्तु सर्वत्यागपरित्यागिनः ।
सर्वसत्वाः क्शान्तिवासिता भवन्तु
अक्षोभ्यचेतनाप्रतिलब्धाः ।
सर्वसत्वा वीर्यवासिता भवन्तु
महावीर्ययानसन्नद्धाः ।
सर्वसत्वा ध्यानवासिता भवन्तु
प्रत्युत्पन्नबुद्धसंमुखीभावस्थिताः समाधिप्रतिलब्धाः ।
सर्वसत्वा बोधिसत्वपरिणामनावासिता भवन्तु
सर्वसत्वाः
सर्वशुक्लधर्मवासिता भवन्तु
सर्व्âकुशलधर्मप्रहीणाः ।
सर्वसत्वा दिव्यशयनप्रतिलब्धा भवन्तु
महाज्ञान्âधिगमाय ।
सर्वसत्व्âर्यशयन-
[ बेन्दल्ल् एद् प्32 ---> ]
प्रतिलब्धा भवन्तु ।
निःपृथग्जनबोधिचित्त्âवासनत्वात् सर्वसत्वाः
सुखशयनप्रतिलब्धा भवन्तु ।
सर्वसंसार्âवचरदुःखपरिवर्जनत्वात् सर्वसत्वाः
क्षेमशयनप्रतिलब्धा भवन्तु धर्मकामस्पर्श्ôपेताः ।
सर्वसत्वाः परिशुद्धबुद्धक्षेत्र्âवभासा भवन्तु
गुणवाससुप्रयुक्त्âर्य्âवासनिकेत्ôच्चलिताः ।
अनुत्तरसर्वबुद्ध्âवास्âविरहिताः ।
सर्वसत्वा बुद्ध्ôपनिश्चयविहारिणो भवन्तु ।
सर्वसत्व्âनन्त्âलोका भवन्तु सर्वबुद्धधर्मेषु
सर्वसत्व्âप्रतिहत्âवभासा भवन्तु सर्वधर्मधात्वेकस्फरणाः ।
सर्वसत्व्âरोग्यशरीरा भवन्तु
तथागतकायप्रतिलब्धाः ।
सर्वसत्वा भैषज्यराज्ôपमा भवन्तु
अत्यन्त्âकल्पनधर्माणः ।
सर्वसत्व्âप्रतिहतभैषज्यस्तम्भ्ôपमा भवन्तु
जगच्चिकित्साप्रतिपन्नाः ।
सर्वसत्वा रोगशल्यनिरुद्धा भवन्तु
सर्वज्ञ्âरोग्यप्रतिलब्धाः ।
सर्वसत्वाः सरव्जगद्भैषज्यकुशला भवन्तु
यथ्âशयभैषज्यप्रयोगसंप्रयोक्ता-
[ चम्ब्रिद्गे म्स् f22अ ---> ]
रः ॥
सर्वसत्त्वेषु सर्वरोगविनिवर्त्तनाय परिणामयामि ।
सर्वसत्त्वेष्व् अपर्यन्तस्थामबलशरीरतायां परिणामयामि ।
सर्वसत्वानां चक्रवाडपर्वत्âनवमर्द्यकायबल्ôपपत्तये
परिणामयामि ।
सर्वसत्वानां सर्वबल्ôपस्तम्भन्âतृप्तायां परिणामयामि ॥
सर्वसत्व्âप्रमाणभाजना भवन्त्व् आकाशधातुविपुलाः
स्मृत्îन्द्रिय्ôपेताः
सर्वलौकिकलोक्ôत्तरभाषसंग्रहणाद् ग्रहणस्मृत्यसंप्रमूढाः ।
सर्वसत्वाः कल्याणविशुद्धिभावना भवन्तु ।
अतीत्âनागतप्रत्युत्पन्नसर्वबुद्धबोध्यभेदप्रसादग्राहिणः ।
सर्वसत्वा कामङ्गमा भवन्तु
सर्वत्रगामिनीबुद्धभूमिप्रतिलब्धाः ।
सर्वसत्वाः सर्वसत्त्वेष्व् अप्रतिहतचित्ता भवन्तु ।
सर्वसत्व्âनाभोगसर्वबुद्धक्षेत्रपरिस्फुटगमना भवन्तु ।
एकचित्तक्षणसर्वधर्मविक्रमाः ।
सर्वसत्वाः श्रान्त्âक्लान्तसर्वलोकधातुगमना भवन्तु ।
अविश्राम्यमानमनोमयकायप्रतिलब्धाः ।
[ बेन्दल्ल् एद् प्33 ---> ]
सर्वसत्वाः सुखगमनमुक्ता भवन्तु
सर्वबोधिसत्वचर्य्âनुप्रवेशिनः ।
अनेन कुशलमूलेन सर्वसत्वाः कल्याणमित्र्âत्यागचित्त्âनुत्सृष्टा भवन्तु कृतज्ञाः कृत्âनुपालनतया ।
सर्वसत्वाः कल्याणमित्रैः सह्âइक्âर्था भवन्तु
सभागकुशलमूलसंग्रहणतया ।
सर्वसत्वाः कल्याण्âशया भवन्तु
कल्याणमित्रसंवसनसंपदविहार्âनुधन्वनतया ।
सर्वसत्वाः कल्याणमित्रकुशलमूलकर्मविपाकविशुद्धा भवन्त्व् एकप्रणिधानाः ।
सर्वसत्वा महायान्âभिरक्ताः सं-
[ चम्ब्रिद्गे म्स् f22ब् ---> ]
प्रस्थिता भवन्त्व् अविष्कम्भितयानसर्वज्ञतापर्यवसानाः ।
सर्वसत्वाः प्रच्छादितकुशलमूला भवन्तु
सर्वबुद्ध्âवस्थागोपनप्रतिलब्धाः ।
सर्वसत्वा गुणज्ञान्âभिच्छादिता भवन्तु
सर्वलोक्ôपक्लेशव्यपवृत्ताः ।
सर्वसत्व्âच्छिन्न्âविक्षिप्तशुक्लधर्माणो भवन्त्व् अविपन्नबुद्धधर्मप्रवाहाः ।
सर्वसत्वाश् छत्रभूता भवन्तु दशबलवितान्âन्विताः ।
सर्वसत्व्âत्यन्तबोध्यासनप्रतिलब्धा भवन्तु ।
सर्वसत्वा बुद्धविक्रान्तिसिंह्âसनप्रतिलब्धा भवन्तु
सर्वजगदवलोकनीय्êति ॥
आर्यगगनगञ्जसूत्रे ऽप्य् आह ।
मा भूत् तन् मम कुशलमूलं धर्मज्ञानकौशल्यं वा
यन् न
सर्वसत्त्व्ôपजीव्यं स्याद् इति ॥
अतीत्âनागतशुभ्ôत्सर्गस् त्व् आर्य्âक्षयमतिसूत्रे
अभिहितः ।
कुशलानां च चित्तचैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च
बोधिपरिणामना ।
इदम् अतीतकौशल्यं ।
यो ऽनागतानां कुशलमूलानां निध्यप्तिबोधेर् आमुखीकर्मसमन्वाहारः ।
ये मे उत्पत्स्यन्ते कुशलाश् चित्त्ôत्पादास् तान् अनुत्तरायां सम्यक्संबोधौ परिणामिष्याम्îत्îदम् अनागतकौशल्यं ॥
तद् एवं चैतसिके-
[ बेन्दल्ल् एद् प्34 ---> ]
न्âभ्यासेन सर्वत्याग्âधिमुक्तिं परिपूर्ये
त्यागचित्तवेग्âपन्नेन कायप्रयोगेण्ôत्सृष्टसर्वपरिग्रहः ।
सर्वपरिग्रहमूलाद् भवदुष्खाद् विमुक्तो मुक्त्êत्य् उच्यते ।
अनुत्तरांश् च्âप्रमेय्âसंख्येयान् कल्पान्
नान्âकार्âनन्तान् लौकिकलोक्ôत्तरान्
सुखसंपत्प्रवर्षान्
अनुभवति ।
तेन च्âत्मभाव्âदिना [[दोउब्त्]] वडिष्âमिषेन्êव
स्वयम्
अनभिगत्ôपभोगेन्âप्य् आकृष्य परान् अपि तारयति ॥
अत्âइव-
[ चम्ब्रिद्गे म्स् f23अ ---> ]
उक्तं रत्नमेघे ।
दानं हि बोधिसत्वस्य बोधिर् इति ॥
शिक्षासमुच्चये दानपारमिता प्रथमः परिच्छेदः ॥
शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥
एवम् एषाम् आत्मभाव्âदीनाम् उत्सृष्टानाम् अपि रक्षा कार्या ।
कुतो ।
यस्मात् ॥
परिभोगाय सत्वा नाम्âत्मभाव्âदि दीयते ।
अरक्षिते कुतो भोगः ।
किं दत्तं यन् न भुज्यते ॥
तस्मात् सत्व्ôपभोग्âर्थम् आत्मभाव्âदि पालयेत् ॥
उक्तं हि बोधिसत्वप्रातिमोक्षे ।
परं शारिपुत्र रक्षिष्याम्îत्य् आत्मा रक्षितव्यः ।
एवंरूपया शारिपुत्र हित्âइषिकतया समन्वागतो बोधिसत्वो जीवितहेतोर् अपि पापं कर्म न करोत्îति ॥
वीरदत्तपरिपृच्छायाम् अप्य् आह ।
शकटम् इव भार्ôद्वहन्âर्थं केवलं धर्मबुद्धिना वाढव्यम्
इति ।
तथ्âक्षयमतिसूत्रे ऽपि ।
कायदुष्खतया च न परिखिद्यते सत्व्âवेक्षतय्êति ॥
तच् च्âत्मभाव्âदिकं कथं पालयेत् ।
कल्याणमित्र्âनुत्सर्जनात् ।
यथ्ôक्तम् आर्यगण्डव्यूहे आर्यश्रीसंभवेन ॥
कल्याणमित्रसन्धारिताः कुलपुत्र बोधिसत्वा न पतन्ति
दुर्गति-
[ बेन्दल्ल् एद् प्35 ---> ]
षु ।
कल्याणमित्रसमन्वाहृता [[दोउब्त्]] न्âतिक्रामन्ति बोधिसत्वशिक्षां ।
कल्याणमित्रप्रतिच्छन्न्âभ्युद्गता भवन्ति लोकात्
कल्याणमित्रपर्युपासिता बोधिसत्व्âसंप्रमोषचारिणो भवन्ति सर्वबोधिसत्वचर्यासु ।
कल्याणमित्रपरिगृहीताः बोधिसत्वा दुर्द्धर्षा भवन्ति
कर्मक्लेशैः ।
सम्बोधकाः कल्याणमित्र्âकरणीयानां सन्निवारकाः
प्रमादस्थानात् ।
निष्कासयितारः संसारपुरात् ।
तस्मात् तर्हि कुलपुत्र्âइवं मनसिकारात् प्रतिप्रश्रब्धेन
कल्याणमित्राण्य् उपसं-
[ चम्ब्रिद्गे म्स् f23ब् ---> ]
क्रमितव्यानि ।
पृथिवीसमचित्तेन सर्वभारवहन्âपरिणमनतया
वज्रसमचित्तेन्âभेद्य्âशयतया ।
चक्रवाडसमचित्तेन सर्वदुष्ख्âसंप्रवेधनतया ।
लोकदाससमचित्तेन सर्वकर्मसमादान्âजुगुप्सनतया ।
रजोहरणसमचित्तेन मान्âतिमानविवर्जनतया ।
यानसमचित्तेन गुरुभारनिर्वहनतया ।
श्वसमचित्तेन्âक्रुध्यनतया ।
नौसमचित्तेन गमन्âगमन्âपरित्र-
[ बेन्दल्ल् एद् प्36 ---> ]
स्यनतया ।
सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया ।
आत्मनि च ते कुलपुत्र्âतुरसंज्ञ्ôत्पादयितव्या ।
कल्याणमित्रेषु च वैद्यसंज्ञा ।
अनुशासनीषु भैषज्यसंज्ञा ।
प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा ।
आत्मनि च ते कुलपुत्र भीरुसंज्ञ्ôत्पादयितव्या ।
कल्याणमित्रेषु शूरसंज्ञा ।
अनुशासनीषु प्रहरणसम्ज्ञा ।
प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा ॥
अत्र्âइव वाचन्ôपासिकाविमोक्षे वर्णितं ।
कल्याणमित्र्âनुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्वस्य बुद्धा भगवन्तो ऽभिराद्धचित्ता भवन्ति ।
कल्याणमित्रवचन्âविलोमस्थायिनो बोधिसत्वस्य सर्वज्ञत्âसन्नीभवति ।
कल्याणमित्रवचन्âविचिकित्सकस्य्âसन्नीभवन्ति
कल्याणमित्राणि ।
कल्याणमित्रमनसिकार्âविरहितस्य सर्व्âर्थ्âभिमुखा भवन्त्îति ।
अत्âइव्âर्यसुधनः सारध्वजस्य भिक्षोः पादौ शिरस्âभिवन्द्य्âनेकशतसहस्रकृत्वः प्रदक्षिणीक्र्ट्य
सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन्
नियतं प्रणिपतन्
[ चम्ब्रिद्गे म्स् f24अ ---> ]
नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन्
परिभावयन्न् उदानम् उदानयन् हाक्कारं कुर्वन् ।
गुणान् अभिमुखीकुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढीकुर्वन्न् अविजहन् मनस्âगमयन्न् उपनिबध्नन् प्रणिधिं समवसरन्
दर्शनम् अभिलषन् स्वरनिमित्तम् उद्गृह्णन् यावत् तस्य्âन्तिकात्
प्रक्रान्तः ।
तथा कल्याणमित्र्âगतं सर्वज्ञतां संपश्यन्न् अश्रुमुखो रुदन् यावन् मेघस्य द्रमितस्य्âन्तिकात् प्रक्रान्तः ॥
बोधिसत्वप्रतिमोक्षे ऽप्य् उक्तं ।
इह शारिपुत्र बोधिसत्वो धर्मकामतया न्âस्ति तल् लोके
[ बेन्दल्ल् एद् प्37 ---> ]
रत्नं यन् न परित्यजति ।
न्âस्ति तत् काय्ôपस्थानं यन् न करोति ।
न्âस्ति तज् जङ्घाप्रेषणं यन् न्ôत्सहते ।
न्âस्ति तद् वाक्कर्म यन् न्ôत्सहते
आचार्य्ôपाध्यायगौरवतया ॥
पेयालं ॥
तत् कस्य हेतोः ।
बन्धच्छेदाय्âइष धर्मः संवर्तते ।
जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्यच्छेदाय्âइष धर्मः संवर्ततए इति रत्नचित्तम् उत्पाद्य भैषज्यचित्तम्
उत्पाद्य ।
सर्वसत्वानां ग्लान्यव्युपशमाय्âइष धर्मः संवर्ततए इति ।
एष्टव्यश् च्âस्माभिः सर्वसत्वानां ग्लान्यव्युपशमाय्âइवंरूपो धर्म्êति ॥
उग्रदत्तपरिपृच्छायाम् अप्य् उक्तं ।
सचेत् पुनर् गृहपते पाठस्व्âध्याय्âर्थिको बोधिसत्वः
कस्यचिद् अन्तिकाच् चतुष्पादिकां गाथां शृणुयाद् उद्दिशेद् व्ôद्गृह्णीयाद् दानशीलक्षान्तिवीर्यध्यानप्रज्ञासंप्रयुक्तां बोधिसत्वसंभार्ôपचयं वा तेन तस्मिन्न् आचार्ये धर्मगौरवं करणीयं यावद्भिर् नामपदव्यञ्जन ...
[ चम्ब्रिद्गे म्स् f24ब् ---> ]
गाथ्ôद्दिष्टा ।
यदि तावत्âइवं कल्पांस् तस्य्âचार्यस्य्ôपस्थानपरिचर्यां कुर्याद् अशठतया
सर्वलाभसत्कारपूजया ।
अद्य्âपि गृहपते न प्रतिपूरितम् आचार्यस्य्âचार्यगौरवं भवति ।
कः पुनर् वादो धर्मगौरवं ॥
प्रज्ञापारमितायाम् अष्टसहस्रिकायाम् अप्य् उक्तं ।
कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवम् उत्पादयितव्यं ।
प्रेम च करणीयं ।
अथ खलु सदाप्ररुदितो बो-
[ बेन्दल्ल् एद् प्38 ---> ]
धिसत्वो महासत्व्âइवंरूपैर् गुणैर् गौरवमनसिकारैर् गच्छन्न् अनुपूर्वेण्âन्यतमनगरम्
अनुप्राप्तस् ।
तत्र तस्य्âन्तरायणमध्यगतस्य्âइतद् अभूत् ।
यन् न्व् अहम् इमम् आत्मभावं विक्रीय्âनेन मूल्येन धर्मोद्गतस्य
बोधिसत्वस्य महासत्वस्य सत्कारं कुर्यां ।
दीर्घरात्रं हि मम्âत्मभावसहस्राणि भग्नानि क्षीणानि
विक्रीतानि पुनर् अपरिमाणे संसारे ऽपरिमाणानि यानि मया
कामहेतोः कामनिदानम् अनुभूतानि न पुनर् एवंरूपाणां धर्माणां कृतश्âइवंरूपाणां वा सत्वानां सत्काराय ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो ऽन्तरायणमध्यगतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम्
आस ।
कः पुरुषेण्âर्थिकः कः पुरुषेण्âर्थिक्êति पेयालं ।
अथ खलु मारः पापीयान् ब्राह्मणगृहपतिकांस् तथा
समुपस्थापयाम् आस यथा तं घोषं न्âश्रौषुः ।
यद्âत्मनः क्रायकं न लभते तद्âइक्âन्तं गत्वा
प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं च्âवदद् ।
अहो वत्âस्माकं दुर्लभा लाभा ये वयम् आत्मभावस्य्âपि
क्रेतारं न लभामहे ।
अथ खलु शक्रो दे-
[ चम्ब्रिद्गे म्स् f25अ ---> ]
वानाम् इन्द्रो माणवकरूपेण यावत्
सदाप्ररुदितं बोधिसत्वं महासत्वम् एतद् अवोचत् ।
किं त्वं कुलपुत्र दीनमन्ôत्कण्ठितमानसो ऽश्रूणि
प्रवर्त्तयमानः स्थितः ॥
सदाप्ररुदित्âइवम् आह ।
अहं माणवक धर्मकामतय्êमम् आत्मभावं विक्रीय
धर्मपूजां कर्त्तुकामः सो ऽहम् अस्य क्रायकं न लभे ।
पेयालं ॥
अथ खलु स माणवकः सदाप्ररुदितं बोधिसत्वं महासत्वम्
एतद् अवोचत् ।
न मम कुलपुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः ।
तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन च्âस्थिमज्जया च ।
तद् दास्यसि त्वं क्रयेण ॥
अथ खलु सदाप्ररुदितस्य्âइतद् अभूत् ।
लाभा मे सुलब्धाः परिनिष्पन्नं च्âत्मानं जाने
प्रज्ञापारमित्ôपायकौशल्येषु ।
यन् मय्âत्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य च्âस्थिमज्जायाश् च ॥
स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस् तं माणवकम् एतद् अवोचत् ।
दास्यामि माणवक येन ते इत्âत्मभावाद् अर्थः ।
यावत् सदाप्ररुदितो बोधिसत्वो महासत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म
दक्षिणं च्ôरुं विद्ध्वा निर्मांसं च कृत्व्âस्थि भेत्तुं कुड्यमूलम् उपसंक्रामति ॥
[ बेन्दल्ल् एद् प्39 ---> ]
अथ खल्व् अन्यतरा श्रेष्ठिदारिक्ôपरिप्रासादतलगत्âद्राक्षीत् सदाप्ररुदितं बोधिसत्वं यावत् सा श्रेष्ठिदारिका
येन सदाप्ररुदितो बोधिसत्वस् तेन्ôपसंक्रम्य्âइतद् अवोचत् ।
किं नु खलु त्वं कुलपुत्र्âइवंरूपाम् आत्मनः कारणां कारयास्îति ।
यावत् सा दारिका पूजाप्रयोजनं श्रुत्वा पुनर् आह ।
का पुन-
[ चम्ब्रिद्गे म्स् f25ब् ---> ]
स् ते कुलपुत्र ततो गुणजातिर् निष्पत्स्यते ।
स ताम् एतद् अवोचत् ।
स दारिके कुलपुत्रो मम प्रज्ञापारमिताम् उपायकौशल्यं च्ôपदेक्षय्ति ।
तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्वसत्वानां प्रतिशरणं भविष्यामः ।
पेयालं ॥
अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्वम् एतद् अवोचत् ।
आश्चर्यं कुलपुत्र ।
यावद् उदाराः प्रणीताश् च्âमी त्वया धर्माः परिकीर्त्तिताः ।
एक्âइकस्य्âपि कुलपुत्र्âइवंरूपस्य धर्मस्य्âर्थाय
गङ्गानदीवालिक्ôपमान् अपि कल्पान् एवम् आत्मभावाः
परित्यक्तव्या भवेयुः ।
तथ्ôदाराः प्रणीताश् च्âमी त्वया धर्माः परिकीर्त्तिताः ।
अपि तु खलु कुलपुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा
मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधिसत्वं सत्करिष्यसि ।
यावद् विस्तरेण तया दारिकया पञ्चशतपरिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ॥
अथ खलु धर्मोद्गतो बोधिसत्वो महासत्वः उत्थाय्âसनात्
स्वकं गृहं प्राविक्षत् ।
यावत् सप्त वर्षाण्य् एकसमाधिसमापन्न्âइव्âभूत् ।
सदाप्ररुदितो बोधिसत्वो महासत्वः सप्त वर्षाणि न कामवितर्कम्
उत्पादयाम् आस ।
न व्यापादवितर्कं न विहिंसावितर्कम् उत्पादयाम् आस ।
न रसगृ-
[ बेन्दल्ल् एद् प्40 ---> ]
द्धिम् उत्पादयाम् आस्âन्यत्र ।
कदा नाम धर्मोद्गतो बोधिसत्वो महासत्वो व्युत्थास्यति ।
यद् वयं धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य धर्म्âसनं प्रज्ञापयिष्यामो यत्र्âसौ कुलपुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवीप्रदेशं सिक्तं संमृष्टं च
करिष्यामो नानापुष्प्âभिकीर्णं इति चिन्तयाम् आस ॥
तान्य् अपि श्रेष्ठिदारिका प्रमुखाणि पञ्चदारिकाशतानि
सदाप्ररुदितस्य बोधिसत्वस्य्âनुशिक्षमाणानि द्वाभ्याम् एव्êर्यापथाभ्यां कालम् अतिनामयाम् आसुः ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो दिव्यं निर्घोषम्
अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्वो महासत्वो ऽस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य
[ चम्ब्रिद्गे म्स् f26अ ---> ]
धर्मं देशयिष्यत्îति ।
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं निर्घोषं श्रुत्व्âत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस् तं पृथिवीप्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चभिर् दारिकाशतैर् धर्म्âसनं प्रज्ञपयाम् आस सप्तरत्नमयं ।
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं पृथिवीप्रदेशं सेक्तुकामश् च ।
न च्ôदकं समन्तात् पर्येषमाणो ऽपि लभते येन तं पृथिवीप्रदेशं सिञ्चेद् ।
यथ्âपि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्धापितं अप्य् एव नाम्âस्य्ôदकम् अलभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य व्âन्यथात्वं भवेद् येन्âस्य
कुशलमूल्âन्तर्धानं भवेन् न वा भ्राजेरन् कुशलमूलानि ।
अथ खलु सदाप्ररुदितस्य बोधिसत्वस्य महासत्वस्य्âइतद् अभूत् ।
यन् न्व् अहम् आत्मनः कायं विद्ध्व्êमं प्रदेशं रुधिरेण
सिञ्चेयं ।
तत् कस्य हेतोः ।
अयं हि पृथिवीप्रदेशए उद्धतरजस्को ।
मा रजोधातुर् इतो धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य काये
निपततु ।
किम् अहम् अनेन्âत्मभावेन्âवश्यंभेदनधर्मिणा कुर्यां ।
वरं खलु पुनर् मम्âयं काय्âइवंरूपया क्रियया विनश्यतु
न च निःसामर्थ्यक्रियया ।
कामहेतोः कामनिदानं बहूनि मे
[ बेन्दल्ल् एद् प्41 ---> ]
आत्मभावसहस्राणि पुनः
पुनर् अपरिमाणे संसारे संसरतो भिन्नानि ।
यदि पुनर् भिद्यन्ते कामम् एवंरूपेष्व् इव धर्मस्थानेषु
भिद्यन्तां ॥
अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्व्êति प्रतिसंख्याय
तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं सम-
[ चम्ब्रिद्गे म्स् f26ब् ---> ]
न्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वम् असिञ्चत् ।
एवं ताभिर् अपि दारिकाभिः कृतं ।
न च सदाप्ररुदितो बोधिसत्वस्य महासत्वस्य तासां वा
सर्वासां दारिकाणां चित्तस्य्âन्यथात्वम् अभूत् ।
यत्र मारः पापीयान् अवतारं लभेत्êति ॥
अत्âइवं चतुर्धर्मकसूत्रे ऽप्य् उक्तं ।
कल्याणमित्रं भिक्षवो बोधिसत्वेन महासत्वेन यावज्जीवं न
परित्यक्तव्यम् अपि जीवितहेतोर् इति ॥
तद् एवं कल्याणमित्र्âनुत्सर्गाद् आत्मभाव्âदीनां रक्ष्âदिकं कार्यं ॥
सूत्राणां च सद्êक्षणाद् बोधिसत्वशिक्षापदानि हि प्रायः
सूत्रेष्व् एव दृश्यन्ते ।
तेषु तेषु सूत्र्âन्तेषु बोधिसत्वसमुदाचारा बोधिसत्वशिक्षापदानि प्रज्ञप्तान्îति वचनात् ।
तस्मात् तदनीक्षणे मा भूद् आपत्तिम् आपन्नस्य्âप्य् अज्ञानाद् अविरतिर् इति सदा सूत्रदर्शनाय्âदरः कार्यः ।
तद् अनेन कल्याणमित्र्âनुत्सर्गेण सूत्र्âन्तदर्शनेन च सर्वः
सद्धर्मपरिग्रह्ôक्तो भवति ॥
यथ्ôक्तम् आर्यसागरमतिसूत्रे ।
याभिर् अक्षरनिरुक्तिभिः सो ऽनभिलाप्यो धर्मः सूच्यते तासाम्
अक्षरनिरुक्तीनां यदा धारणं देशना यावद् ।
अयम् उच्यते सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्र ये ते धर्मभाणक्âइषाम्
एवंरूपाणां सूत्र्âन्तानां देशयितारः प्रतिपत्तिसाराश् च
तेषाम् अपि धर्मभाणकानां यत् सेवनं भजनं पर्युपासनम्
उत्थानम् उपस्थानं गौरवं चित्रीकारः शुश्रूष्âरक्षा
परिग्रहश् चीवरपिण्डपात्रशयन्âसनग्लानप्रत्ययभैषज्यपरिष्कारदानं साधुकारदानं स्वाम्य्-आरक्षा
कुशलपक्षरक्षा वर्णभाषणम् अवर्णप्रतिच्छाद्-
[ चम्ब्रिद्गे म्स् f27अ ---> ]
अनता ।
अयम् अपि सद्धर्म-
[ बेन्दल्ल् एद् प्42 ---> ]
परिग्रहः ।
पेयालं ॥
पुनर् अपरं कुलपुत्र य्âविवादपरमता ।
अधर्मे धर्मवादिनां च पुद्गलानां सह धर्मेण निग्रहः ।
अयम् अपि सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्र्âप्रतिहतसन्तानस्य
सर्वसत्वप्रमोक्षबुद्धेर् निरामिषचित्तस्य परेभ्यो धर्मदानम्
अयम् अपि सद्धर्मपरिग्रहः ।
पुनर् अपरं कुलपुत्र यो धर्मश्रवणहेतुको वा
धर्मदेशनाहेतुको व्âन्तश्âइकक्रमव्यतिहारो ऽन्तश्âइक्ôच्छ्वासप्रश्वासो वा ।
अयम् अपि सद्धर्मपरिग्रहः ।
पेयालं ॥
प्रह्रुतं वत्êदं कुलपुत्र चित्तं विषयेषु ।
तस्य या निवारणा परिरक्ष्âइक्âग्रीभावो दमः शम्ôपशमो विनयो ऽयम् उच्यते सद्धर्मपरिग्रहः ।
पेयालं ॥
पुनर् अपरं कुलपुत्र येन धर्मेण यो ऽधर्मः प्रवर्तते तस्य
धर्मस्य्âपरिग्रहो ऽनुपादानम् अयम् अपि सद्धर्मपरिग्रह्êत्य् आदि ॥
तत्र् धर्मभाणकसेव्âदिना कल्याणमित्र्âनुत्सर्ग्ôक्तः ।
कल्याणमित्रलक्षणं च ।
तद् एतेन सद्धर्मपरिग्रहेण विना ।
न रक्षा ।
न शुद्धिर् न वृद्धिस् [[दोउब्त्]] ततश् च सो ऽपि न बोधिसत्व्êत्य् अवश्यकार्यः सद्धर्मपरिग्रहः ॥
उक्तं हि श्रीमालासिंहनादसूत्रे ।
यान्य् अप्îमानि भगवन् गङ्गानदीवालिकासमानि
बोधिसत्वप्रणिधानानि तान्य् एकस्मिन् महाप्रणिधाने
उपनिक्षिप्तान्य् अन्तर्गतान्य् अनुप्रतिष्ठानि यद् उत
सद्धर्मपरिग्रहे ।
एवं महाविषयो भगवन् सद्धर्मपरिग्रह्êति ॥
पुनर् अत्र्âइव्âह ।
स्याद् यथ्âपि नाम देवि महाबलवतो ऽपि पुरुषस्य्âल्पो ऽपि
मर्मणि प्रहारो ।
वेधनीयो भवति वाधाकरश् च ।
एवम् एव देवि मारस्य पापीयसः परीत्तो ऽपि सद्धर्मपरिग्रहो-
[ चम्ब्रिद्गे म्स् f27ब् ---> ]
वेधनीयो भवति शोक्âवहः परिदेवकरश् च भवति ।
न्âहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य
पापीयस्âइवं वेधनीयं शोक्âवहं परिदेवकरं च ।
यथ्âयम् अल्पो ऽपि
[ बेन्दल्ल् एद् प्43 ---> ]
सद्धर्मपरिग्रह्êति ॥
पुनर् आह ।
स्याद् यथ्âपि नाम देवि सुमेरुः पर्वतराजः सर्वान्
कुलपर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते च्ôच्चत्वेन
विपुलत्वेन च ।
एवम् एव देवि महायानिकस्य कायजीवितनिरपेक्षस्य न च
गृहीतचित्तस्य सद्धर्मपरिग्रहो नवयानसंप्रस्थितानाम् अपि
कायजीवितस्âपेक्षाणां महायानिकानां सर्वान् कुशलान्
धर्मान् अभिभवत्îत्य् आदि ॥
तथ्âर्यसागरमतिसूत्रे ऽप्य् आह ।
परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः ।
पुण्येन ज्ञानेन परिगृहीतः
सद्धर्मधारित्व तथागतानाम् ॥
पेयालं ॥
स शून्यक्षेत्रेषु न जातु जायते
सर्वत्र जातौ च जिनं स पश्यति ।
दृष्ट्वा च तस्मिंल् लभते प्रसादं सद्धर्मधारित्व तथागतानाम् ॥
जातिस्मरो भवति मह्âत्मधर्मा
प्रव्रज्यलाभी भवते पुनः पुनः ।
परिशुद्धचारी प्रतिपत्तिसारः
सद्धर्मधारित्व तथागतानाम् ॥
पेयालं ॥
लाभी च भोती विदुधारणीये
न नश्यते कल्पशतेभि यच्छुभम् ।
[ बेन्दल्ल् एद् प्44 ---> ]
प्रतिभानवन्तो भवते ऽसक्तः
सद्धर्मधारित्व तथागतानां ॥
शक्रो ऽथ ब्रह्मा तथ लोकपाल्-ओ मनुष्यराजा भुवि चक्रवर्त्ती ।
सुखेन सौख्येन स बोधि बुध्यते
सद्धर्मधारित्व तथागतानाम् ॥
द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः
[ चम्ब्रिद्गे म्स् f28अ ---> ]
अनिन्दित्âङ्गो भवते विचक्षणः ।
न तस्य तृप्तिं लभि प्रेक्षमाणाः
सद्धर्मधारित्व तथागतानाम् ॥
न तस्य संमुह्यति बोधि चित्तं न च्ôद्धुरः पारमिता चरीषु ।
असंगृहीतः कुशलः शतेभिः
सद्धर्मधारित्व तथागतानाम् इति ॥
शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥
धर्मभाणक्âदिरक्षा तृतीयः परिच्छेदः ॥
उक्तस् त्रयाणाम् अपि सामान्येन रक्ष्âद्युपायः ।
रक्ष्âदयस् तु वाच्याः ।
तत्र्âत्मभावे का रक्षा यद् अनर्थविवर्जनं ॥
तत्र्êति सद्धर्मपरिग्रहे वर्त्तमानस्य्âत्मभावरक्षा
चिन्त्यते यथा परान् न नाशयेत् ।
इदं च्âनर्थविवर्जनम् आर्यगगनगञ्जसूत्रे
सद्धर्मधारण्ôद्यतैर् बोधिसत्वैर् भाषितं ॥
[ बेन्दल्ल् एद् प्45 ---> ]
वयम् उत्सहामो भगवन् निर्वृते द्विपद्ôत्तमे ।
सद्धर्मं धारयिष्यामः त्यक्त्वा कायं स्वजीवितम् ॥
लाभसत्कारम् उत्सृष्ट्वा सर्वं च्ôत्सृज्य संस्तवं ।
अनुत्सृष्ट्व्êमं धर्मं बुद्धज्ञाननिदर्शकम् ॥
आक्रोशपरिभाषांश् च दुरुक्तवचनानि च ।
क्षान्त्या तान् मर्षयिष्यामः सद्धर्मप्रतिसंग्रहात् ॥
उच्चग्घनां तर्जनां च्âवर्णम् अयशांसि च ।
सर्वांस् तान् मर्षयिष्यामो धारयन्त्êमं नयम् ॥
पे ॥
एवंविधे महाघोरे भिक्षुराजानक्षोभणे ।
विलोपकाले सत्वानां सद्धर्मं धारयामहे ॥
गम्भीरा ये च सूत्र्âन्ता विमुक्तिफलसंहिताः ।
प्रतीच्छका न भेस्यन्ति ।
चित्रा मृक्ष्यन्ति ते कथास् ॥
पे ॥
मैत्रीं तेषु करिष्यामो ये धर्मेष्व् अप्रतिष्ठिताः ।
कारुण्यं च करिष्यामो धारयन्त्êमं नयम् ॥
दृष्ट्वा दुःशीलसत्वांश् च्êच्छालोभप्रतिष्ठितान् ।
अश्रुपातं करिष्यामो गतिः कान्धस्य भाविता ॥
[ बेन्दल्ल् एद् प्46 ---> ]
[ चम्ब्रिद्गे म्स् f28ब् ---> ]
सहस्âइव च तं दृष्ट्वा सद्धर्मप्रतिबाधकं ।
दूरतो मैत्रम् एष्यामो मा नो रुष्येत्âइव हि ॥
रक्षिष्यामो यथाशक्त्या वाचाकर्मसु संवृताः ।
सहस्âइनान् न वक्ष्यामः स्वपापे ऽस्मिन् प्रतिष्ठितान् ॥
दानैस् तथ्âपि सत्कारैः परिपाच्य्êह तान् नरान् ।
पश्च्âइनांश् चोदयिष्यामो भूतम् आपायगोचरान् ॥
गृहिसंभवसंत्यक्ताः प्रान्त्âरण्यसुगोचराः ।
मृगभूता भविष्यामो ऽल्प्âर्थ्âल्पकृत्यकाः ॥
पे ॥
दान्ताः शान्ताश् च मुक्ताश् च ग्रामे ऽस्मिन्न् अवतीर्य च ।
देशयिष्यामहे धर्मं सत्वा ये धर्मत्âर्थिका ॥
सुदूरम् अपि यास्यामो धर्मकामान् निशम्य च ।
धर्म्âरामरतिप्राप्त्âर्थं कर्त्त्âस्म देहिनाम् ॥
संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु ।
आत्मप्रेक्षा भविष्यामो धर्मसौरत्यसंस्थिताः ॥
असत्कृताः सत्कृता वा मेरुकल्पाः प्रभूय च ।
अनुपलिप्ता लोकेन भेस्यामो लोकनायकाः ॥
भिक्षूणां भिन्नवृत्तानां परिवादं निशम्य च ।
कर्मस्वका भविस्यामो म्âइषां कर्म विपच्यताम् ॥
[ बेन्दल्ल् एद् प्47 ---> ]
बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां ।
एते धर्मा न च्âस्माकं संविद्यन्ते कथञ्चन ॥
अस्माकं श्रमणानां हि न च श्रामणका गुणाः ।
भूतां चोदन संश्रुत्य्êदं सूत्रं प्रतिक्षिपन् ॥
संछिन्नकर्णनासानाम् आदर्श्âइषां कुतः प्रियः ।
चोदनां भूततः श्रुत्वा सद्धर्मं ते क्षिपन्ति तम् ॥
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0