भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 221240

पे ।
स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रस्य लोकधातोः पल्âग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं ।
न त्व् एव कौशिक बोधिसत्वस्य महासत्वस्य तेषाम् अनुमोदनासहगतानां चित्त्ôत्पादानां पुण्यप्रमाणं ग्रहीतुं ॥एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् ।
मार्âधिष्ठितास् ते भगवन् सत्वा वेदितव्या ।
ये बोधिसत्वानां महासत्वानां प्रथमचित्त्ôत्पादम् उपादाय यावद् अनुत्तरां सम्यक्सं-
[ चम्ब्रिद्गे म्स् f140अ ---> ]
बोधिम् अभिसंबुद्धानाम् एवम् अप्रमेयम् अनुमोदनासहगतं पुण्यम् इति न शृण्वन्ति न जानन्ति ।
ताम् अनुमोदनां न समन्वाहरन्ति ।
मारपक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥भगवान् आह ।
पे ।
यैः कौशिक कुलपुत्रैः कुलदुहितृभिश् च्êमे चित्त्ôत्पाद्âनुमोदिता बोधिसत्वयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा श्रावकयानिकैर् वा ।
ते क्षिप्रं तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति ॥ भगवान् आह ॥एवं तैर् अनुमोदनासहगतैश् चित्त्ôत्पादकुशलमूलैर् यत्र यत्र्ôपपत्स्यन्ते तत्र तत्र सत्कृताश् च भविष्यन्ति गुरुकृताश् च मानिताश् च पूजिताश् च्âर्चिताश् च्âपचायिताश् च भविष्यन्ति ।
न च ते ऽमन्âपानि रूपाणि द्रक्ष्यन्ति ।
न च ते ऽमन्âपान् शब्दान् श्रोष्यन्ति ।
एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेष्ûपपत्तिः प्रतिकाङ्क्षितव्या स्वर्ग्ôपपत्तिस् तेषां प्रतिकाङ्क्षितव्या ।
तत् कस्य हेतोः ।
तथा हि तैः सत्वैः सर्वसत्वसुख्âवहनानि असंख्येयानां सत्वानां कुशलमूलान्य् अनुमोदितानि यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य्âप्रमेय्âसंख्येयान् सत्वान् परिनिर्वापयिष्यन्त्îति ॥पुनर् अत्र्âइव्âह ।
ये सुभूते गङ्गान-
[ चम्ब्रिद्गे म्स् f140ब् ---> ]
दीवालिक्ôपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्वास् ते सर्वे ऽनुत्तरां सम्यक्संबोधिं प्रतितिष्ठेयुर् अनुत्तरां सम्यक्संबोधिं प्रति-
[ बेन्दल्ल् एद् प्315 ---> ]
ष्ठाय गङ्गानदीवालिकासमान् कल्पान् उपलम्भसंज्ञिनश् चत्वारि ध्यानानि समापद्येरन् ।
यश् च बोधिसत्वो महासत्वो ऽनया प्रज्ञापारमितय्ôपायकौशल्येन च परिगृहीत्âतीत्âनागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं ।
श्रावकानां प्रत्येकबुद्धानाम् अपि शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं सर्वम् एकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेषम् अनुमोदेत्âग्रय्âनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतय्ôत्तरया निरुत्तरय्ôत्तर्ôत्तरय्âसमय्âसमसमय्âप्रतिसमय्âनुमोदनय्âनुमोद्य्âनुमोदनासहगतं [[दोउब्त्]] पुण्यक्रियावस्त्व् अनुत्तरायै सम्यक्संबोधये परिणामयति ।
अस्य सुभूते ऽनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पूर्वक्âउपलम्भिकानां बोधिसत्वानां चतुर्ध्यानमयः पुण्य्âभिसंस्कारः शततमीम् अपि कलां न्ôपैति यावद् उपनिषद-
म् अपि न क्षमतए इति ॥अयम् एव नयः परिणामनायाम् उक्तः ।
अथव्âग्रपरिणामनया परिणामितत्वात् सर्वपुण्यानाम् अस्य बुद्धत्वाय सत्कृतप्रणिधिबुद्धत्वम् एव स्यात् ।
अतः का परा पुण्यवृद्धिः ।
तद् ध्य् अशेषसत्वमोक्षकृतपुण्यज्ञान्ôपेतं निर्विकल्पं च ॥
अध्येषणायास् त्व् अनुशंस्âर्य्ôग्रपरिपृच्छायाम् उक्ता धर्मग्राह्यताम् उपादाय्âप्रमेय्âसंख्येयेषु बुद्धक्षेत्रेष्व् आयुः परिरक्षणाय्êति ॥
आर्यशिक्षासमुच्चये वन्दन्âद्यनुशंसा सप्तदशपरिच्छेदः समाप्तः ॥
रत्नत्रय्âनुस्मृतिर् नाम्âष्टादशः परिच्छेदः ॥
उक्ता भद्रचर्याविधिना पुण्यवृद्धिः ।
अस्याश् च्âयम् अपरो हेतुः ।
यो ऽयं श्रद्ध्âदीनां सद्âभ्यासः ॥यथ्ôक्तम् आर्यतथागतगुह्यसूत्रे ।
चत्वार्êमे महाराज धर्मा महायानसंप्रस्थितानां विशेषगामितायै संवर्तन्ते ऽपरिहाणाय च ।
कतमे चत्वारः ।
श्रद्धा महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय ।
तत्र कतमा श्रद्धा ।
यया श्रद्धय्âर्यान् उपसंक्रामति ।

अकरणीयं च न करोति ॥गौरवं महाराज विशेषगामितायै संवर्तते ।
येन गौरवेण सुभाषितं शृणोति शुश्रूषते ऽविरहितश्रोत्रश् च धर्मं शृणोति ॥निर्मानता महाराज विशेषगामितायै संवर्तते ।
यया निर्मानतय्âर्याणाम् अभिनमति प्रणमति नमस्यति ॥वीर्यं महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय ।
येन वीर्येण कायलघुतां चित्तलघुतां-
[ चम्ब्रिद्गे म्स् f141ब् ---> ]
च प्रतिलभते सर्वकार्याणि च्ôत्तारयति ॥इमे महाराज चत्वार्êति ॥एषां श्रद्ध्âदीनां सद्âभ्यासः कार्यः ।
अथव्âन्येषां श्रद्ध्âदीनां ॥
यथ्âह्âर्य्âक्षयमतिसूत्रे पञ्च्êमान्îन्द्रियाणि ।
कतमानि पञ्च ।
श्रद्ध्êन्द्रियं वीर्य्êन्द्रियं स्मृत्îन्द्रियं समाध्îन्द्रियं प्रज्ञ्êन्द्रियम् इति ॥तत्र कतमा श्रद्धा ।
यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति ।
कतमांश् चतुरः ।
संसार्âवचरीं लौकिकीं सम्यग्दृष्टिं श्रद्दधाति ।
स कर्मविपाकप्रतिशरणो भवति ।
यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फलविपाकं प्रत्यनुभविष्याम्îति ।
स जीवितहेतोर् अपि पापं कर्म न करोति ।
बोधिसत्वचारिकाम् अभिश्रद्दधाति ।
तच्चर्याप्रतिपन्नश् च्âन्यत्र
[ बेन्दल्ल् एद् प्317 ---> ]
याने स्पृहां न्ôत्पादयति ।
परम्âर्थनीत्âर्थं गम्भीरप्रतीत्यसमुत्पादनैरात्म्यनिःसत्वनिर्जीवनिःपुद्गलव्यवहारशून्यतानिमित्त्âप्रणिहितलक्षणान् सर्वधर्मान् श्रुत्वा श्रद्दधाति ।
सर्वदृष्टिकृतानि च न्âनुशेते सर्वबुद्धधर्मान् बलवैशारद्यप्रभृतींश् च श्रद्दधाति ।
श्रद्धाय च विगतकथंकथस् तान् बुद्धधर्मान् समुदानयति ।
इदम् उच्यते श्रद्ध्êन्द्रियम् ॥तत्र कतमद् वीर्य्êन्द्रियं ।
यान् धर्मान् श्रद्ध्êन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्य्êन्द्रियेण समुदानयत्îदम् उच्यते वीर्य्êन्द्रियं ॥
तत्र कतमत् स्मृत्îन्द्रियं ।
यान् धर्मान् वीर्य्êन्द्रियेण समुदानयति तान् धर्मान्
[ चम्ब्रिद्गे म्स् f142अ ---> ]
स्मृत्îन्द्रियेण न विप्रणाशयति ।
इदम् उच्यते स्मृत्îन्द्रियम् ॥तत्र कतमत् समाध्îन्द्रियं ।
यान् धर्मान् स्मृत्îन्द्रियेण न विप्रणाशयति तान् समाध्îन्द्रियेण्âइक्âग्रीकरोत्îदम् उच्यते समाध्îन्द्रियं ॥तत्र कतमत् प्रज्ञ्êन्द्रियम् ।यान् धर्मान् समाध्îन्द्रियेण्âइक्âग्रीकरोति तान् प्रज्ञ्êन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति ।
यद् एतेषु धर्मेषु प्रत्यात्मज्ञानम् अपरप्रत्ययज्ञानम् इदम् उच्यते प्रज्ञ्êन्द्रियं ॥एवम् इमानि पञ्च्êन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्वबुद्धधर्मान् परिपूरयन्ति ।
व्याकरणभूमिं च्âप्ययन्त्îति ॥श्रद्ध्âदीनां बलानां सद्âभ्यासः कार्यः ।
यथ्ôक्तम् आर्यरत्नचूडसूत्रे ।
तत्र कतमत् कुलपुत्र बोधिसत्वस्य बलचर्यापरिशुद्धिः ।
यद् एभिर् एव्êन्द्रियैर् उपस्तब्धो ऽनवमर्द्यो भवति सर्वमारैः ।
असंहार्यो भवति श्रावकप्रत्येकबुद्धयानाभ्यां ।
अविनिवर्त्यो भवति महायानात् ।
दुर्धर्षो भवति सर्वक्लेशैः ।
दृढो भवति पूर्वप्रतिज्ञासु ।

तृप्तो भवति चित्तेन ।
बलवान् भवति कायेन ।
गुप्तो भवत्îन्द्रियैः ।
दुःपराजयो भवति तीर्थिकरैः ।
इत्य् आदि ॥
एवं तावच् छ्रद्ध्âदीनां सद्âभ्यासः पुण्यवृद्धये ॥
का मैत्री ॥
यथ्âह चन्द्रप्रदीपसूत्रे ।
[ बेन्दल्ल् एद् प्318 ---> ]
यावन्ति पूजा बहुविध्âप्रमेया या क्षेत्रकोटी-
[ चम्ब्रिद्गे म्स् f142ब् ---> ]
न् अयुतबिम्बरेषु ।
तां पूजकृत्वा पुरुषवरेषु नित्यं संख्याकलापो न भवति मैत्रचित्त ।
इति ॥का बुद्ध्âद्यनुस्मृतिः ॥
तत्र राष्ट्रपालसूत्रे संवर्णिता ।
वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा ।
वन्दामि ते ऽसमज्ञानपरा सदृशो न ते ऽस्ति त्रिभवे विरजा ॥
मृदु चारु स्निग्ध शुभ केश नखा गिरिराजतुल्य तव च्ôष्णिर् इह ।
न्ôष्नीषम् ईक्षितु तव्âस्ति समो विभ्राजते भ्रुवि तव्ôर्ण मुने ॥कुन्द्êन्दुशङ्खहिमशुभ्रनिभा नील्ôत्पल्âभशुभनेत्रवरा ।
कृपय्êक्षसे जगद् इदं हि यया वन्दामि ते विमलनेत्र जिन ॥जिह्वा प्रभूत तनु ताम्रनिभा वदनं च छादयसि येन स्वकं ।
धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुरस्निग्धगिरा ॥
दशनाः शुभाः सुदृढ वज्रनिभाः त्रिंशद्दश अप्य् अविरलाः सहिताः ।
कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुरसत्यकथा ॥
रूपेण च्âप्रतिसमो ऽसि जिनः प्रभया च भासयसि क्षेत्रशतान् ।
ब्रह्म्êन्द्रपालजगतो भगवन् जिह्मीभवन्ति तव ते प्रभया ॥
[ बेन्दल्ल् एद् प्319 ---> ]
एणेय जङ्घ भगवन्न् असमा गजराजबर्हिमृगराजगतो ।
ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणिशैलतटान् ॥
[ चम्ब्रिद्गे म्स् f143अ ---> ]
कायश् च लक्षणचितो भगवन् सूक्ष्म छवी कनकवर्णनिभा ।
न्êक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तव्âप्रतिमरूपधर ॥
त्वं पूर्वकल्पशतचीर्णतपाः त्वं सर्वत्यागदमदानरतः ।
त्वं सर्वसत्वकृपमैत्रमनाः वन्दामि ते परमकारुणिकम् ॥त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढः ।
त्वं ध्यानप्रज्ञप्रभतेजधरो वन्दामि ते ऽसमज्ञानधर ॥
त्वं वादिसूर कुगणप्रमथी त्वं सिंहवन् नदसि पर्षदि च ।
त्वं वैद्यराज त्रिमल्âन्तकरो वन्दामि ते परमप्रीतिकर ॥वाक्कायमानसविशुद्ध मुने त्रिभवेष्व् अलिप्तजलपद्मम् इव ।
त्वं ब्रह्मघोषकलविङ्करुतो वन्दामि ते त्रैभवपारगतम् ॥माय्ôपमं जगद् इमं भवता नटरङ्गस्वप्नसदृशं विदितं ।
न्âत्मा न सत्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥शून्याश् च शान्त्âनुत्पादनयं अविजानद् एव जगद् उद्भ्रमति ।
तेषाम् उपायनययुक्तिशतैः अवतारयस्य् अतिकृपालुतया ॥
[ बेन्दल्ल् एद् प्320 ---> ]

राग्âदिभिश् च बहुरागशतैः संभ्रामितं सतत वीक्ष्य जगत् ।
वैद्य्ôपमो विचरसे ऽप्रतिमो परिमोचयन् सुगत सत्वशतान् ॥
जातीजरामरणशोक-
[ चम्ब्रिद्गे म्स् f143ब् ---> ]
हतं प्रियविप्रयोगपरिदेवशतैः ।
सतत्âतुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥
रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरये सुगतौ ।
मूढ्âदेशिक्âनाथगताः तस्य प्रदर्शयसि मार्गवरं ॥
ये ते बभूवु पुरिमाश् च जिनाः धर्म्êश्वरा जगति च्âर्थकराः ।
अयम् एव तैः प्रकथित्âर्यपथो यद् देशयस्य् अपि विभो ऽप्रतिमः ॥
स्निग्धं ह्य् अकर्कश मनोज्ञ वरं ब्रह्म्âधिकं परमप्रीतिकरं ।
गन्धर्वकिन्नरवर्âप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥सत्य्âर्जव्âक्षयम् उपायनयैः परिशोधितां गिरम् अनन्तगुणां ।
श्रुत्वा हि यां नियुतसत्वशताः यानत्रयेण जनयन्ति शमम् ॥तव पूजया सुखम् अनेकविधम् दिव्यं लभन्ति मनुजेषु तथा ।
आढ्यो महाधन महाविभवो भवते जगद्धितकरो नृपतिः ॥बलचक्रवर्त्य्- अपि च द्वीपपतिः जगद् आवृणोति दशभिः कुशलैः ।
रत्नानि सप्त लभते सुशुभा त्वयि संप्रसादजनको ऽप्रतिमः ॥
[ बेन्दल्ल् एद् प्321 ---> ]
ब्रह्म्âपि शक्र्âपि लोकपतिः भवते च संतुषिट देवपतिः ।
परनिर्मितो ऽपि च स यामपतिः त्वत्पूजया भवति च्âपि जिनः ॥एवं ह्य् अमोघ तव पूजा कृता संदर्शनं-
[ चम्ब्रिद्गे म्स् f144अ ---> ]
श्रवणम् अप्य् असमं ।
भवते जगद् विविधदुःखहरं स्पृशते पदं च परमं विरजं ॥मार्गज्ञ मार्गकुशला भगवन् कुपथान् निवारयसि लोकम् इमं ।
क्षेमे शिवे विरजि आर्यपथे प्रतिष्ठापयसि जगद् भगवन् ॥पुण्य्âर्थिकस्य तव पुण्यनिधे सतत्âक्षया भवति पुण्यक्रिया ।
बहुकल्पकोटिषु न याति क्षयं यावद् धि न स्पृशति बोधि वरां ॥
परिशुद्धक्षेत्र लभते रुचिरं परिनिर्मित्âभ सद प्रीतिकरं ।
शुद्धाश् च कायवचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्रवरे ॥इत्य् एवम् आदिगुण न्âइकविधान् लभते जिन्âर्चनकृतान् मनुजः ।
स्वर्ग्âपवर्ग मनुजेषु सुखं लभते च पुण्यनिधि सर्वजगे ॥
कीर्तियशश् च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान् ।
संकीर्तयन्ति सुगताः सततं तव वर्णमाल परिषत्सु जिनाः ॥विगतज्वरा जगति मोक्षकराः प्रियदर्शन्âसमकारुणिकाः ।
शान्त्êन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवर ॥
[ बेन्दल्ल् एद् प्322 ---> ]
लब्ध्âभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् ।
भवित्âस्मि वीर सुगतप्रतिमो विभजिष्य धर्मम् अमलं जगतः ॥स्तुत्व्âद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतं ।
पुण्यं यद् अर्जितम् इदं-
[ चम्ब्रिद्गे म्स् f144ब् ---> ]
विपुलं जगद् आप्नुयाद् अपि च बुद्धपदम् ।इति ॥
अथवा यथ्âर्यधर्मसंगीतिसूत्रे कथितं ।
पुनर् अपरं बुद्धा भगवन्तो महापुण्यज्ञानसंभारा महामैत्रीमहाकरुणागोचरा महासत्वराशेः त्राणभूता महाभैषज्यशल्यहर्तारः सर्वसत्वसमचित्त्âनित्यसमाधिगोचराः संसारनिर्वाणविमुक्ता यावत् सत्वानां मातापितृकल्पाः समानमैत्रचित्ताः ।
पे ॥
सर्वलोक्âनभिभूताः सर्वलोकस्य्âलोकभूता महायोगयोगिनो मह्âत्मानो महाजनपरिवारा विशिष्टजनपरिवार्âनिवारितदर्शनश्रवणपर्युपासनाः स्वसुखनिरपेक्षाः परदुष्खप्रशमनप्रिया धर्मप्रिया धर्मधरा धर्म्âहारा धर्मभिषजो धर्म्êश्वरा धर्मस्वामिनो धर्मदानपतयो नित्यत्याग्âभिरता नित्य्âप्रमत्ता नित्यविवेक्âभिरताः सर्वत्र तीर्थसेतुभूता महाराजमार्गप्रख्या यावद् असेचनकदर्शना बुद्धा भगवन्त ।
एवं तान् अनुस्मरति ।

एवं च तान् अनुस्मृत्य तद्गुणपरिनिष्पत्त्यर्थं स्मृतिम् उपस्थापयत्îति ॥
तद् उच्यते बुद्ध्âनुस्मृतिर् इति ॥
अत्र्âइव धर्म्âनुस्मृतिम् आह ।
इह बोधिसत्वस्य्âइवं भवति ।
यए एते बुद्धा भगवन्तो ऽनन्त्âपर्यन्तगुण्âइते धर्मजा धर्मपदा धर्मनिर्मिता धर्म्âधिपतेया धर्मप्रभा धर्मगोचरा धर्मप्रतिशरणा धर्मनिष्पन्नाः ।
पेयालं ॥
यान्य् अपि लौकिकानि लोक्ôत्तराणि च सुखानि सन्ति ।
[ बेन्दल्ल् एद् प्323 ---> ]
तान्य् अपि धर्म-
[ चम्ब्रिद्गे म्स् f145अ ---> ]
जानि धर्मनिष्पन्नानि ।
तस्मान् मया बोध्यर्थिकेन धर्मगुरुकेण भवितव्यं ।
धर्मगौरवेण धर्मप्रतिशरणेन धर्मपरायणेन धर्मसारेण धर्म्âन्व ... धर्मप्रतिपन्नेन ।
इत्îयम् उच्यते बोधिसत्वस्य धर्म्âनुस्मृतिः ॥
पुनर् अपरं बोधिसत्वस्य्âइवं भवति ।
समो हि धर्मः समः सत्वेषु प्रवर्तते ।
धर्मो हीनमध्यविशिष्ट्âनपेक्ष्यः प्रवर्तते ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मो सुखप्रेक्षिकया प्रवर्तते ।
अपक्षपतितो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः कालम् अपेक्ष्य प्रवर्तते ।आकालिको हि धर्मः ।
ऐहिपश्यिकः ।
प्रत्यात्मवेदनीयः ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्म्ôदारे प्रवर्तते हीनेषु न प्रवर्तते ।
अनुन्नाम्âवनामो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते ।
उत्कर्ष्âपकर्ष्âपगतो हि धर्मस् तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्म्âर्येषु प्रवर्तते पृथग्जनेषु न प्रवर्तते ।
क्षेत्रदृष्टिविगतो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते ।
रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते ।
सद्âधिष्ठितो हि धर्मः ।
तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मो विनयवेलाम् अतिक्रामति ।
न धर्मस्य क्वचिद् विलम्बः ।
तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मस्य्ôनत्वं न पूर्णत्वम् अप्रमेय्âसंख्येयो हि धर्म्âकाशवन् न क्षीयते न वर्धते ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।
न धर्मः सत्वै रक्ष्यते ।
धर्मः सत्वान् रक्षति ।
तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मः शरणं पर्येषते ।धर्मः सर्वलोकस्य शरणं ।तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मस्य क्वचित् प्रतिघातो* ।अप्रतिहतलक्षणो हि धर्मः ।
[ बेन्दल्ल् एद् प्324 ---> ]

तथा मया धर्मसदृशचित्तेन भवितव्यं ।न धर्मो ऽनुशयं वहति ।
निरनुशयो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यम् ।
न धर्मः संसारभयभीतो न निर्वाण्âनुनीतः ।
सदा निर्विकल्पो हि धर्मः ।तथा मया धर्मसदृशचित्तेन भवितव्यम् ।एवं बोधिसत्वो धर्मवद् धर्मे स्मृतिम् उपस्थापयति ।
तद् उच्यते धर्म्âनुस्मृतिर् इति ॥अत्र्âइव्âह ।
संघो हि धर्मवादी धर्मचरणो धर्मचिन्तको धर्मक्षेत्रं धर्मधरो धर्मप्रतिशरणो धर्मपूजको धर्मकृत्यकारी धर्मगोचरो धर्मचारित्रसंपन्नः ।
स्वभावऋजुकः स्वभावशु-
[ चम्ब्रिद्गे म्स् f146अ ---> ]
द्धः स्âनुक्रोशो धर्म्âनुकारुणिकः सदा विवेकगोचरः ।
सदा धर्मपरायणः सदा शुक्लकार्îत्य् आदि ॥
तत्र बोधिसत्वस्य संघम् अनुस्मरतः एवं भवति ।
यए एते संघस्य भूता गुण्âइते मय्âत्मनः सर्वसत्वानां च निष्पादयितव्य्êति ॥यथ्âर्यविमलकीर्तिनिर्देशे बोधिसत्वगुण्ôक्तास् तथा संघ्âनुस्मृतिर् भाव्या ।
सर्वसत्वान ये रूपा रुतघोषाश् च्êरिताः ।
एकक्षणेन दर्शेन्ति बोधिसत्वा विशारदाः ॥
ते जीर्णव्याधिता भोन्ति बोधिसत्वा मृतम् आत्मान दर्शयी ।सत्वानां परिपाकाय मायाधर्म विक्रीडिताः ॥कल्प्ôद्दाहं च दर्शेन्ति उद्दहित्वा वसुंधराम् ।
नित्यसंज्ञिन सत्वानाम् अनित्यम् इति दर्शयी ॥सत्वैः शतसहस्रेभिर् एकराष्ट्रे निमन्त्रिताः ।
सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥
ये केचिन् मन्त्रविद्या वा शिल्पस्थाना बहुविधाः ।
सर्वत्र पारमिप्राप्ताः सर्वसत्वसुख्âवहाः ॥
[ बेन्दल्ल् एद् प्325 ---> ]
यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते ।
नानादृष्टिगतं प्राप्तांस् ते सत्वान् परिपाचति ॥ चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रज्êश्वराः ।
भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥
रोग्âन्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः ।
येन ते सत्व मुच्यन्ते सुखी भोन्ति अ-
[ चम्ब्रिद्गे म्स् f146ब् ---> ]
नामयाः ॥दुर्भिक्ष्âन्तरकल्पेषु भवन्ती पानभोजनम् ।क्षुधापिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥
शस्त्र्âन्तरकल्पेषु मैत्रीध्यायी भवन्ति ते ।
अव्यापादे नियोजेन्ति सत्वकोटिशतान् बहून् ॥महासंग्राममध्ये च समपक्षा भवन्ति ते ।
सन्धिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः ॥
ये च्âपि निरयाः केचिद् बुद्धक्षेत्रेष्व् अचिन्तिषु ।
संचिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् ॥यावन्त्या गतयः काश्चित् तिर्यग्योनौ प्रकाशिताः ।
सर्वत्र धर्मं देशेन्ति तेन्ôच्यन्ति नायकाः ॥कामभोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा ।
विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥
अग्निमध्ये यथा पद्मम् अभूतं तं विनिर्दिशेत् ।
एवं कामांश् च ध्यानं च्âभूतं ते विदर्शयी ॥
[ बेन्दल्ल् एद् प्326 ---> ]
संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते ।
राग्âङ्कु संलोभ्य बुद्धज्ञाने स्थापयन्ति ते ॥ग्रामिकाश् च सदा भोन्ति स्âर्थवाहाः पुरोहिताः ।
अग्र्âमात्य्âथ च्âमात्यः [[दोउब्त्]] सत्वानां हितकारणात् ॥

दरिद्राणां च सत्वानां निधाना भोन्ति अक्षयाः ।
तेषां दानानि दत्वा च बोधिचित्तं जनेन्ति ते ॥
मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते ।
सर्वमानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥भय्âर्दितानां सत्वानां संतिष्ठन्ते ऽग्रतः सदा ।
अभयं तेषु दत्वा च परिपाचेन्ति बोधये ॥पञ्च्âभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्मचारिणः ।
शीले सत्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे ॥उपस्थानगुरून् सत्वान् पश्यन्त्îह विशारदाः ।
चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥येन येन्âइव च्âङ्गेन सत्वो धर्मरतो भवेत् ।
दर्शेन्ति हि क्रियाः सर्वा मह्ôपायसुशिक्षिताः ॥
[ बेन्दल्ल् एद् प्327 ---> ]
येषाम् अनन्ता शिक्षा हि अनन्तश् च्âपि गोचरः ।
अनन्तज्ञानसंपन्न्âनन्तप्राणिमोचकाः ॥
न तेषां कल्पकोटीभिः कल्पकोटिशतैर् अपि ।
बुद्धैर् अपि वदद्भिस् तु गुण्âन्तः सुवचो भवेद् ।
इति ॥यथ्âर्यरत्न्ôल्काधारण्यां बोधिसत्वगुण्ôक्तास् तथा भावयितव्याः ।
रश्मि प्रमुञ्चिय माल्यवियूहा माल्यवतंसक माल्य वितानाः ।
माल्यविचिन्नविकीर्णसमन्ताः ते जिनपूज करोन्ति मह्âत्मा ॥रश्मि प्रमुञ्चिय चूर्णवियूहा चूर्णवतंसक चूर्णवितानाः ।
चूर्णविचित्रविकीर्ण समन्तान् ते जिनपूज करोन्ति मह-आत्मा ॥रश्मि प्रमुञ्चिय पद्मवियूहा पद्मवतंसक पद्मविताना ।
पद्मविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति मह्âत्मा ॥रश्मि प्रमुञ्चिय हारवियूहा हारवतंसक हारविताना ।
[ चम्ब्रिद्गे म्स् f147ब् ---> ]
हारविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति मह्âत्मा ॥रश्मि प्रमुञ्चिय ध्वज्âग्रवियूहा ते ध्वज पाण्डुरलोहितपीताः ।
नीलम् अनेक पताक विचित्रा ॥ध्वज समलंकरिते जिनक्षेत्राः ते मणिजालविचित्रवियूहा ।
पट्ट पताक प्रलम्बित दामा किङ्किणिजाल जिनस्वरघोषान् ॥छत्र धरेन्ति तथागतमूर्ध्ने ते यथ्âइकजिनस्य करोन्ति ।
पाणितलात् तु अचिन्तियपूजां एवम् अशेषतसर्वजिनानां ॥
एष समाधि विकुर्व ऋषीणां ते जगसंग्रहज्ञानविकुर्वा ।
अग्रसमाध्यभिनिर्हरमाणाः सर्वक्रिय्ôपचार सुखेभिः ॥
[ बेन्दल्ल् एद् प्328 ---> ]
सत्व विनेन्ति उपायसहस्रैः केचि तथागतपूजमुखेन ।
दान्âचिन्ति अत्यागमुखेन सर्वधुतंगुणशीलमुखेन ॥अक्षयक्षान्ति अक्षोभ्यमुखेन केचि व्रतं तपवीर्यमुखेन ।
ध्यान प्रशान्ति विहारमुखेन स्वर्थविनिश्चयप्रज्ञमुखेन ॥सर्व्ôपाय सहस्रमुखेन ब्रह्मविहार्âभिज्ञमुखेन ।
संग्रहवस्तु हित्âइषिमुखेन पुण्यसमुच्चय ज्ञानमुखेन ॥सत्यप्रतीत्य विमोक्षमुखेन केचि बल्êन्द्रियमार्गमुखेन ।
श्रावकयानविमुक्तिमुखेन प्रत्यययानविशुद्धिमुखेन ॥उत्तमयानविकुर्वमु-
[ चम्ब्रिद्गे म्स् f148अ ---> ]
खेन केचिद् अनित्यतदुष्खमुखेन ।
केचि निरात्मनिजीवमुखेन्âशुभत संज्ञिविरागमुखेन ॥शान्तनिरोधसमाधिमुखेन यातुक चर्यमुखा जगती ये ।यातुक धर्ममुखाः प्रतियन्तः ते तु समन्तविमोक्षमुखेन ॥सत्व विनेन्ति यथ्âशय लोके ये तु समन्तविमोक्षमुखेन ।
सत्व विनेन्ति यथ्âशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥केनचिद् एष समाधिविकुर्वाः तेन तिव्यूहत [[दोउब्त्]] अग्रसमाधिः ।
सर्वजगत्परिपाचनुलोमा सर्वरती मुखप्रीतिप्रहर्षाः ॥चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्भिक्ष सुदुर्लभ सर्वं ।
ये परिष्कार सुख्âवह लोके तत्र च सर्वभिप्रायक्रियाभिः ॥दातु ददन्ति करोन्ति जग्âर्थं ते वरभोजनपानरस्âग्रैः ।वस्त्रनिबन्धनरत्नविचित्रैः राज्यधन्âत्मप्रियैः परित्यागैः ॥
[ बेन्दल्ल् एद् प्329 ---> ]
दानधिमुक्ति जगद् विनयन्ति ते वरलक्षणचित्रितगात्रा ।
उत्तम्âभरणा वरधीराः माल्यविभूषितगन्धनुलिप्ता ॥रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीतिप्रहर्षरतानां ।

ते वररूपसुरूपसुमेधाः उत्तमरूप निदर्शयमानाः ॥रूपधिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्करुतेभी ।
कोकिलहंसकुणालरवेण दुन्दुभिकिन्नरब्रह्मरुतेन देशयि सर्वधिमुक्तिषु धर्मम् ॥ ये चतुर् एव्âशीति सहस्रा येभि जिना जगतो ऽर्थ करोन्ति ।
तेभित धर्मप्रभेदमुखेभिः सत्व विनेन्ति यथ्âशय लोके ॥ते सुखदुष्खसहाय करोन्ति अर्थ्âनर्थसहायक भोन्ती ।
सर्वक्रियासु सहाय भवित्वा सत्व विनेन्ति सहायमुखेन ॥दुष्ख्ôपद्रवसत्कृतदोषान् ते तु सहन्ति सहायनिदानास् ।
तेभि सहाय सहन्तिय पीडां सर्वजगस्य हिताय सुखाय ॥यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्यगतो न च मोक्षः ।
तत्र तु राज्यसमृद्धिसहाय निष्क्रमशान्तमन्âनिकेताः ॥
[ बेन्दल्ल् एद् प्330 ---> ]
ते गृहबन्धनतृष्णनिकेतात् सर्वजगत्परिमोचनहेतोः ।
सर्वत कामरती अनिकेता निष्क्रममोक्स्.अ प्रभावयमानाः ॥ते दश चर्य प्रभावयमान्âचरि धर्म महापुरुषाणां ।
सर्वम् अशेषत चर्य ऋषीणां भावयमान करोन्ति जग्âर्थं ॥यत्र् अमित्âयुष सत्व भवन्ती सौख्यसमर्पितमन्दकिलेशाः ।
तत्र जर्âर्दित व्याधिनपृष्टा दर्शयि मृत्युवशं अवश्âत्मा ॥रागप्रदीपितु दोषप्रदीप्तं मोहमह्âग्निप्रदीपितु लोकम् ।
प्रज्वलितं जरव्याधितमृत्यु लोक निदर्शयि सत्व विनेन्ति ॥दशबलैश् चतुर्वैशारद्यैर् अष्टदशैर् अपि धर्मविशेषैः ।
बुद्धमह्âत्म तु सूचयमानाः बुद्धगुणेभि करोन्ति जग्âर्थम् ॥
ते च्âदेश ऋद्ध्यनुशास्ती रूपधिष्ठानबलेन समन्तात् ।
दर्शयमान तथागत ऋद्धी ऋद्धिविकुर्वित सत्व विनेन्ति ॥ते विविधेहि उपायनयेहि लोक-
[ चम्ब्रिद्गे म्स् f149अ ---> ]
विचारि करोन्ति जग्âर्थं ।
लोकि अलिप्त जले यथ पद्मं प्रीतिप्रसादकरा विचरन्ति ॥
काव्यकराः कविराज भवन्ती ते नटनर्तक झल्लकमल्लाः ।
उत्कुटशोभिकहारकनृत्या मायकराः पृथु रूपनिदर्शी ॥
[ बेन्दल्ल् एद् प्331 ---> ]
ग्रामिक नायक सारथि भोन्ती स्âर्थिक श्रेष्ठिक गृहपति भोन्ति ।
राज्âमात्य पुरोहितदूता वैद्यविशारदशास्त्रविधिज्ञाः ॥ ते ऽटवीषु महाद्रुम भोन्ती औषध्âक्षयरत्ननिधानाः ।
चिन्तमणि द्रुम कामददाश् च देशिक्ôत्पथमार्गगतानां ॥अर्च्चिय सन्तु तु लोक विदित्वा कर्मविधीषु अजानक सत्वाः ।
ते कृषिकर्मप्रयोगवणिज्या शिल्पिविचित्र प्रभावयि लोके ॥ये ऽविहेठ्âहिंसप्रयोगः सर्वसुख्âवहविज्ञप्रशस्ताः ।
विद्यबल्âउषधि शास्त्रविचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥ये ऋषिणां चरणाः परम्âग्रा यत्र्âधिमुक्त सदेवकु लोकः ।
ये व्रतदुष्कर ये तपश्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥ते चरकाः परिव्राजक तीर्थ्याः तापसगोतममोनचराणाम् ।
नग्न्âचेलगुरुश्रमणानां तीर्थिक्âचर्या हि भवन्ति ॥
[ बेन्दल्ल् एद् प्332 ---> ]
ते तु अजीविक धर्मचराणां उत्तरिकाण्âनुत्तरिकाणां ।
दीर्घजटान कुमारव्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥सूर्यनुवर्तकपञ्चतपानां कुक्कुरगोव्रतिका मृगचर्या ।
चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥
देवतज्ञानप्रवेशरतानां तीर्थुपदर्शनदेशचराणां ।
[ चम्ब्रिद्गे म्स् f149अ ---> ]
मूलफल्âम्बुचर्âपि भूत्वा धर्म्âचिन्तिय ते परम्âग्राः ॥उत्कुटस्थायिन्âइकचराणां कण्टकभस्मतृणश्शयनानां ।
ये मुषलेशय [[दोउब्त्]] युक्तिविहारी तेष्व् अपि आचर्या हि भवन्ति ॥यावत बाहिरकाः पृथुतीर्थ्य्âशय तेष्व् अधिमुक्ति समीक्ष्य ।
तीक्ष्णदुरासद्ôग्रतपेभी तीर्थिक दुष्खप्रहाण विनेन्ति ॥
[ बेन्दल्ल् एद् प्333 ---> ]
दृष्टिसमाकुल लोके विदित्वा सर्वकुदृष्टिसमाश्रित तीर्थ्याः ।
सूक्ष्मपदेभिर् उपायन येभी सत्यप्रकाशन तेषु करोन्ति ॥केषुचि द्रामिडमन्त्रपदेभी देशयि सत्य सुगुप्तपदेभिः ।

केष्ûज .. व्यक्तपदेभिः केषुचिद् एव रहस्यपदेभिः ॥केषुचि अक्षरभेदपदेभिः अर्थविनिश्चयवज्रपदेभिः ।
वादिप्रमर्दनज्ञानपदेभिः शास्त्र्âधर्मकमोक्षपदेभिः ॥केषुचि मानुषमन्त्रपदेभिः सर्वप्रवेशनिरुक्तिपदेषु ।
केषुचि देवनिरुक्तिपदेभिः नागनिरुक्तित यक्षपदेभिः ॥
राक्षस्âथगन्धर्वपदेभिः भूतकुम्भाण्डमह्ôरगकेभिः ।
किंनर्âप्सरगरुडपदेभिः सत्यप्रकाशनमोक्षुपनेन्ति ॥ते यथसत्य निरुक्तिविधिज्ञ्âइवम् अशेषत ये जिनधर्मा ।
धर्मम् अचिन्तिय वाक्यपथज्ञा देश-
[ चम्ब्रिद्गे म्स् f150अ ---> ]
यि एष समाधिविकुर्वा ॥ते जगसौख्यत्âग्रसमाधी सर्वजगे ऽभिनिर्हरमाना ।
रश्मिम् अचिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥
रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि ।
तेषु सुदर्शन भोति अमोघम् हेतु अनुत्तरि ज्ञानवरस्य ॥
दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् ।
दर्शयि चेतिक ते जिनबिम्बा तेन सुदर्शनरश्मि निवृत्ता ॥
[ बेन्दल्ल् एद् प्334 ---> ]
रश्मि प्रमुञ्चि प्रभंकर नामा या प्रभ जिह्म करोति मरूणां ।
सर्वरजं च तमं च हनित्वा सो प्रभ भासति लोकहितानां ॥ताय प्रभासय चोदित सत्वास् ते जिनपूजप्रदीप धरेन्ती ।
ते जिनपूजप्रदीप धरित्वा लोकप्रदीपकरा जिन भोन्ति ॥
तैलप्रदीप घृतस्य प्रदीपा दारु तृणा नडवेणु प्रदीपान् ।
गन्धरसायनरत्नप्रदीपान् दत्व जिनेषु प्रभंकर लब्धाः ॥रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः ।
... नावप्रतारणिनद्यपथेषु ।
दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥
रश्मि पिपासविनोदनि नामा ताय प्रभासय चोदित सत्वाः ।
कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरस्âर्थिक भोन्ति ॥कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरस्âर्थिक भूत्वा ।
बुद्ध भवन्त्य् अमृतंजलवर्षी तृष्णपिपासविनोदन लोके ॥पुष्करिणी नदिकूपतडाग्ôत्सय कारित बोधिनिदानाः ।
काम विवर्णित वर्णित-
[ चम्ब्रिद्गे म्स् f150ब् ---> ]
ध्याना तृष्णविनोदनि तेन निवृत्ता ॥
प्रीतिकरी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।
प्रीतिफुटा वरबोधिनिदानं चिन्त जनेन्ति भविष्य स्वयंभू ॥लक्षणमण्डित पद्मनिषण्णा यत् कृतविग्रह कारुणिकानां ।
भाषित बुद्धगुणाः सद कालं प्रीतिकरी प्रभ तेन निवृत्ता ॥रश्मि प्रमुञ्चि रतिंकर नामा ताय प्रभासय बोधित सत्वा ।
बुद्धरतीरत धर्मरतीरत संघरतीरत ते सद भोन्ति ॥त्रितयरतीरत ते सद भूत्वा बुद्धसमागमधर्मगण्âर्ये ।
लब्धनुपत्तिकक्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥
बुद्ध्âनुस्मृतिधर्मगण्âर्ये बोधि य चित्तगुणान् विवरित्वा ।
तेन रतिंकर रश्मि निवृत्ता ॥पुण्यसमुच्चयरश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा ।
दानु ददन्ति विचित्रम् अनेकं प्रार्थयमानु अनुत्तरु बोधिं ॥आशय पूरितु याचनकानां यज्ञ निरर्गड तैर् यजमानैः ।
सर्वभिप्रायत दानु ददित्वा पुण्यसमुच्चय रश्मि निवृत्ता ॥ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।
एक तु धर्म मुखातु अनेका धर्ममुखान् अवबुद्धि क्षणेन ॥
[ बेन्दल्ल् एद् प्336 ---> ]
धर्मप्रभेद ... ग्राहित सत्वान् अर्थविनिश्चय ज्ञान विभक्ती ।
[ चम्ब्रिद्गे म्स् f151अ ---> ]

धर्मपद्âर्थविभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥ प्रज्ञप्रदीपय्âउसरि रश्मि ताय प्रभासय चोदित सत्वाः ।
शून्य निसत्व्âजातविपन्नान् ओतरि धर्म्âभावस्वभावान् ।
मायमरीचिसमा दकचन्द्रस्वप्नसमान् प्रतिबिम्बसमान् वा ।
धर्म्âस्वामिक शून्य निरीहान् भाषति प्रज्ञप्रदीप निवृत्ता ॥धर्मविकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा ।
धारणि अक्षयकोषु लभित्वा सर्वतथागतकोषु लभेन्ति ॥धर्मधराणु परिग्रहु कृत्वा धार्मिकरक्ष करित्व ऋषीणां ।
धर्म्âनुग्रह कृत्व जगस्य धर्मविकुर्वणि रश्मि निवृत्ता ॥
त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा ।
ज्ञात्व्âनित्य्âशाश्वतभोगान् त्यागरतीरत ते सद भोन्ति ॥
मत्सरदुर्दम सत्व्âदान्ता ज्ञात्व धनं सुपिन्âभ्रस्वभावं ।
बृंहित त्याग प्रसन्नम् अनेन त्यागवतीप्रभ तेन निवृत्ता ॥निष्परिदाह य्âउसरि रश्मिः ताय दुःशीलय चोदित सत्वा ।
शीलविशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयंभूः ॥
[ बेन्दल्ल् एद् प्337 ---> ]
कर्मपथे कुशले परिशुद्धे शील समादयि यद् बहुसत्वान् ।
बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्परिदाहः ॥
[ चम्ब्रिद्गे म्स् f151ब् ---> ]
क्षान्तिवियूह य्âउसरि रश्मि ताय य्âक्षम चोदित सत्वाः ।
क्रोधखिलं अधिमान जहित्वा क्षान्तिरतीरत ते सद भोन्ति ॥दुःकृत क्षान्ति अपायमतीनां चित्त्âक्षोभित बोधिनिदानं ।
वर्णित क्षान्तिगुणाः सदकालं तेन निवृत्त स क्षान्तिवियूहा ॥रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः ।
युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अखिन्नप्रयोगाः ॥
युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व्âखिन्नप्रयोगाः ।
ते चतु मारपथ्âतिक्रान्ताः क्षिप्र स्पृशन्ति अनुत्तर बोधिं ॥
वीर्य समादयि यद् बहुसत्वान् पूज करित्व त्रिषू रतनेषु ।
धर्म धरित्व क्षयंगत काले तेन्ôतप्तवती प्रभ लब्धा ॥शान्तिकरी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः ।
तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥पाप कुमित्र किलिष्ट चरीये संगणिकाविनिवर्तन कृत्वा ।वर्णित ध्यान प्रशान्त्âरण्ये शान्तिकरी प्रभ तेन निवृत्ता ॥प्रज्ञवियूह य्âउसरि रश्मी ताय दुःप्रज्ञ संचोदित सत्वाः ।
सत्यप्रतीत्य विमोक्षनये ऽस्मिन् निद्रिय ज्ञानगतिं गत भोन्ति ॥
[ बेन्दल्ल् एद् प्338 ---> ]
इन्द्रियज्ञानगतिं गत भूत्वा ... ।
सूर्यप्रदीपसमाधि लभित्वा प्रज्ञप्रभास-
[ चम्ब्रिद्गे म्स् f152अ ---> ]
करा जिन भोन्ति ॥राज्यधन्âत्मप्रियैः परित्यागैः धर्म य मार्गित बोधिनिदानं ।
तं च सत्कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञवियूहाः ॥बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः ।
बुद्ध सहस्र्âनेक्âचिन्त्यान् पश्यिषु पद्मवनेषु निषण्णान् ॥बुद्धमह्âत्मत बुद्धविमोक्षा भासित बुद्धविकुर्व्âनन्ता ।
बुद्धबल्âविप्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥ते ऽभयंदद रश्मि प्रमुञ्ची ताय्âभय्âर्दित सत्व सस्पृष्टाः ।
भूतग्रह्âवधताडनबन्धे मुच्यिषु सर्वुपसर्गभयेभ्यः ॥
ये ऽभयेन निमन्त्रित सत्वाः प्राणिबधात् तु निवारित भोन्ति ।
त्रायित यच्छरण्âगत भीतास् तेन भयंदद रश्मि निवृत्ता ॥सर्वसुख्âवह्âउसरि रश्मी ताय गिलानय्âतुर स्पृष्टाः ।
सर्वत व्याधिदुखात् प्रतिमुक्ता ध्यानसमाधिसुखानि लभन्ति ॥रोगविनोदनि मूल फलोषध रत्न रसायन गन्धनुलेपान् ।
फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥
[ बेन्दल्ल् एद् प्339 ---> ]
बुद्धनिदर्शनि रश्मि प्रमुञ्ची ताय सचोदित्âयु क्षयान्ते ।

बुद्ध्âनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि सबुद्धक्क्षेत्रं ॥काल करोन्ति च स्मारित बुद्धा दर्शितप्रीतकरा
[ चम्ब्रिद्गे म्स् f152ब् ---> ]
जिनबिम्बान् ।
बुद्धगताः शरणं मरण्âन्ते भासिय बुद्धनिदर्शनि लब्धा ॥धर्मप्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा ।
धर्म पठन्ति शृण्वन्ति लिखन्ती धर्मरती रत ते सद भोन्ति ॥।धर्मदुर्भिक्षय द्योतितु धर्मो धर्मगवेषिण पूरित्âशा ।
छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्मप्रभावनि लब्धा ॥घोषवती यद रश्मि प्रमुञ्ची बुद्धसुता परिचोदनतायां ।
यातुक शब्दप्रचारु त्रिलोके सर्व तथागतघोष शृण्वन्ति ॥उच्च स्वरेण स्तवन्ति महर्षीन् तूर्यमहत्तरघण्टप्रदानैः ।
सर्वजगे जिनघोषरुत्âर्थं निश्चरि घोषवती प्रभलब्धा ॥ते ऽमृतंदद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः ।
सर्व प्रमाद चिरं प्रजहित्वा सर्वगुणैः प्रतिपद्यति योगं ॥दुष्ख्âनेक्ôपद्रवपूर्णं भाषित संस्कृत नित्यम् अक्षेमं ।
शान्तिनिरोधसुखं सद क्षेमं भाषयत्âमृतंदद लब्धा ॥रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः ।
शीलविशेष समाधिविशेषं प्रज्ञविशेष शृणोन्ति जिनानां ॥
[ बेन्दल्ल् एद् प्340 ---> ]
शीलत्âग्र समाधित्âग्रो प्रज्ञत्âग्र महामुनिराजा ।
[ चम्ब्रिद्गे म्स् f153अ ---> ]
य स्तुत वर्णित बोधिनिदानं तेन विशेषवती प्रभ लब्धा ॥रत्नवियूह य्âउसरि रश्मि ताय प्रभासय चोदित सत्वाः ।
अक्षर रत्ननिधान लभित्वा पूजयि रत्नवरेभि महर्षीन् ॥
रत्नविसर्ग जिने जिनस्तूपे संग्रहि कृत्स्नजनं रतनेभिः ।
रत्नप्रदान करित्व जिनानां रश्मि निवृत्त य रत्नवियूहाः ॥गन्धप्रभास य्âउसरि रश्मी ताय प्रभासय चोदित सत्वाः ।
घ्रात्व्âमानुष गन्ध मनोज्ञान् बुद्धगुणे नियुतानि भवन्ति ॥गन्धनुलेपनुमानुषदिव्यैर् [[दोउब्त्]] यत् कृत पूज नर्âधिपतीनां ।
गन्धमयान् जिनविग्रहस्तूपान् कृत्व निवृत्त सुगन्धप्रभासः ॥मुञ्चति रश्मि विचित्रवियूहान् इन्द्रपताकध्वज्âग्र विचित्रान् ।
तूर्यनिनादितगन्धप्रधूपित शोभिसुर्ôत्तमपुष्पविकीर्णं ॥तूर्यप्रत्युद्गमि पूजजिनानां पुष्पविलेपनधूपनचूर्णैः ।
छत्त्रध्वज्âग्रपताकवितानैस् तेन विचित्रवियूह निवृत्ताः ॥रश्मि प्रसादकरी यद मुञ्ची पाणितल्ôपम संस्थिहि भूमिः ।
शोधयतो ऋषि आश्रमस्तूपान् तेन प्रसादकरी प्रभ लब्धा ॥मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं ।
स्तूप वर्âङ्गणगन्धजलेन्âसिञ्चिय
[ चम्ब्रिद्गे म्स् f153ब् ---> ]
मेघवती प्रभ लब्धा ॥
भूषणव्यूह प्रमुञ्चतु रश्मीन् नग्न्âचेल सुभूषण भोन्ती ।
वस्त्रनिबन्धनहारविचित्रं दत्व विभूषण रश्मि निवृत्ता ॥
[ बेन्दल्ल् एद् प्341 ---> ]
रश्मि रस्âग्रवती यद मुञ्ची भुक्षित भोज्य रस्âग्र लभन्ती ।
भोजन पान विचित्र रस्âग्रान् दत्व रस्âग्रवती प्रभ लब्धा ॥अर्थनिदर्शनि मुञ्चति रश्मीन् रत्ननिधान लभन्ति दरिद्राः ।
अक्षयरत्ननिधिं त्रिभि रत्नैर् दानत्âर्थनिदर्शनि लब्धा ॥चक्षुविशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् ।
दीपप्रदान जिने जिनस्तूपे चक्षुविशोधनि रश्मि निवृत्ता ॥श्रोत्रविशोधनि मुञ्चति रश्मीन् श्रोत्रविहीन श्रुणी पृथुशब्दान् ।
वाद्यप्रदानजिने जिनस्तूपे श्रोत्रविशोधनि रश्मि निवृत्ता ॥घ्राणविशोधनि मुञ्चति रश्मीन् घ्रायि अघ्रायितपूर्व सुगन्धान् ।
गन्धप्रदान जिने जिनस्तूपे घ्राणविशोधनि रश्मि निवृत्ता ॥जिह्वविशोधनि मुञ्चति रश्मीन् स्निग्धमनोज्ञरुतै स्तुति बुद्धान् ।
वाच दुरुक्त विवर्जित रुक्षा श्लक्ष्ण्ôदीरित रश्मि निवृत्ता ॥कायविशोधनि मुञ्चति रश्मीन् इन्द्रियहीन सुइन्द्रिय भोन्ति ।
कायप्रणाम जिने जिनस्तूपे कुर्वत कायविशोधनि लब्ध्वा ॥चित्त-
[ चम्ब्रिद्गे म्स् f154अ ---> ]
विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व सचित भवन्ति ।
चित्त समाधिवश्âनुग कृत्वा चित्तविशोधनि रश्मि निवृत्ता ॥रूपविशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूपनर्êन्द्रान् ।

रूपकशोधनि चित्रसमन्तात् स्तूप्âलंकरता प्रतिलब्धा ॥
शब्दविशोधनि मुञ्चति रश्मीन् शब्द्âशब्दत शून्य विजानी ।
प्रत्यय जात प्रतिश्रुततुल्यं शब्दप्रकाशन रश्मि निवृत्ता ॥गन्धविशोधनि मुञ्चति रश्मीन् सर्व दुगन्ध सुगन्ध भवन्ती ।
गन्धवर्âग्र जनैर् जिनस्तूपान् स्नापनबोधिद्रुम प्रभ्âइषा ॥
[ बेन्दल्ल् एद् प्342 ---> ]
ते रसशोधनि मुञ्चति रश्मीन् सद्विष निर्विष भोन्ति रस्âग्राः ।
बुद्ध सश्रावकमातृपित्-र्णां सर्वरस्âग्रप्रदान प्रभ्âइषां ॥स्पर्शविशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती ।
शक्तित्रिशूल्âसि [[दोउब्त्]] तोमरवर्षा माल्य मृदू पदुम्ôत्पल भोन्ती ॥दुष्य्âनेक मृदू सुखस्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां ।
[ चम्ब्रिद्गे म्स् f154ब् ---> ]
पुष्पविलेपनचीवरसूक्ष्मा माल्यवितान प्रदान प्रभ्êयम् ॥धर्मविशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् ।
निश्चरतः श्रुणि लोकहितानां तोषयि सर्वधिमुक्तिजिनानाम् ॥प्रत्यय जात्âजात स्वभावा धर्मशरीर्âजातशरीराः ।
धर्मत नित्यस्थिता गगनस्था सूचत धर्मविशोधनि लब्धा ॥रश्मि सुखाप्रमुख्êति कृत्व्âइकतु रोममुखात् तु ऋषीणां ।
निश्चरि गङ्गरज्ôपम रश्मी सर्वपृथग्विधकर्मप्रयोगाः ॥ते यथ्âइकत रोममुखातो ओसरि गङ्गरज्ôपम रश्मी ।
एवम् अशेषत सर्वतु रोमा देश समाधिविकुर्व ऋषीणां ॥येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे ।
तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञानविकुर्वण्âइष ऋषीणां ॥तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः ।
येभि च दृष्ट शुभ्ôपचितं वा ते इम रश्मि प्रजानति तेषां ॥ये च शुभ्ôपचिताः कृतपुण्याः पूजित येभि पुनः पुनः बुद्धाः ।
अर्थिक छन्दिक बुद्धगुणेभिः चोदन तेष करोतिय रश्मिः ॥
[ बेन्दल्ल् एद् प्343 ---> ]
सूर्य यथा जात्यन्ध न पश्यी न्ô च स न्âस्ति उदेति स लोके ।
चक्षुसमेत्ôदागमु ज्ञात्वा सर्व प्रयुज्य
[ चम्ब्रिद्गे म्स् f343 ---> ]
स्वक स्वक धर्मे ॥
एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी ।
मिथ्यहत्âधिमुक्तिविहीनाः दुर्लभ ते च्ôदारमतीनां ॥आभरणानि निपान विमानाः रत्न रसायन गन्धनुलेपाः ।
ते पि तु अस्ति मह्âत्मजनस्य ते च सुदुर्लभ कृच्छ्रगतानां ॥एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी ।
मिथ्यहत्âधिमुक्तिविहीनाः दुर्लभ ते च्ôदारमतीनां ॥यस्य् इमु [[दोउब्त्]] रश्मिप्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधिमुक्ति [[दोउब्त्]] प्रसादः ।
तेन न काङ्क्ष न संशय कार्यो न्âङ्ग न भेष्यि महागुणकेतुः ॥ते परिवारवियूहविकुर्व्âग्रसमाध्यभिनिर्हरमाणाः ।
सर्वदशद्दिशि अप्रतिमानाः दर्शयि बुद्धसुताः परिवारं ॥ते त्रिसहस्रप्रमाणुविचित्रं पद्मम् अधिष्ठिहि रश्मिवियूहाः ।
कायपर्यङ्क परिस्फुटपद्मं दर्शयि एष समाधिविकुर्वा ॥ते दशक्षेत्ररज्ôपम्âन्ये पद्मम् अधिष्ठिहि संपरिवारं ।
सर्व परीवृत बुद्धसुतेभी ये च समाध्यसमाधिविहारी ॥ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्धगुणेषु ।
ते परिवारि अतं महपद्मं सर्व्ôदिक्षिषु प्राञ्जलिभूताः ॥
[ बेन्दल्ल् एद् प्344 ---> ]
ते च समाहित बालशरीरे व्युत्थि-
[ चम्ब्रिद्गे म्स् f155ब् ---> ]
हि यौवनवेगस्थितेभ्यः ॥
यौवनवेगस्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः ।
जीर्णकवृद्धशरीरि समाहित व्युत्थिहि श्रद्ध्ôपासिककायात् ॥श्रद्ध्ôपासिककायसमाहित व्युत्थिहि भिक्षुणिकायशरीरा ।
भिक्षुणिकाय शरीरि समाहित व्युत्थिहि भिक्षुबहुश्रुतकायाः ॥भिक्षुबहुश्रुतकाय समाहित व्युत्थिहि शैक्ष्âशैक्षशरीराः ।
शैक्ष्âशैक्षशरीरि समाहित व्युत्थिहि प्रत्ययबुद्धशरीरा ॥प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्धवर्âग्रशरीरा ।
बुद्धवर्âग्रशरीरि समाहित व्युत्थिहि देवतकाय शरीरा ॥देवतकायशरीरि समाहित व्युत्थिहि नागमहर्द्धिककायाः ।

नागमहर्द्धिककायसमाहित व्युत्थिहि यक्षमहर्द्धिककायाः ॥यक्षमहर्द्धिककायसमाहित व्युत्थिहि सर्वतभूतशरीराः ।
सर्वतभूतशरीरि समाहित व्युत्थिहि एकतुरोममुखातः ॥
एकतु रोममुखस्मि समाहित व्युत्थिहि सर्वत रोममुखेषु ।
सर्विषु रोममुखेषु समाहित व्युत्थिहि एकतु वालपथातः ॥एकतु वालपथस्मि समाहित व्युत्थिहि सर्वत वालपथेभ्यः ।
सर्विषु वालपथेषु समाहित व्युत्थिहि ते परम्âणुरजातः ॥एकरजस्मि समाहित भूत्वा व्युत्थिहि सर्वरजेभ्य्âशेषम् ।
सर्वरजेषु समाहित भूत्वा व्युत्थिहि सागरवज्रतलातः ॥
[ बेन्दल्ल् एद् प्345 ---> ]
सागरवज्रतलस्मि समाहित
[ चम्ब्रिद्गे म्स् f156अ ---> ]
व्युत्थिहि ते मणिवृक्षफलेभ्यः ।
वृक्षफलेषु समाहित भूत्वा व्युत्थिहि रश्मिमुखेभि जिनानां ॥रश्मिमुखेषु जिनान समाहित व्युत्थिहि सागरतोयनदीभ्यः ।
सागरतोयनदीषु समाहित व्युत्थिहि तेजपथातु मह्âत्मा ॥तेजपथस्मि समाहित भूत्वा व्युत्थिहि वायुपथ्âनुस्मृत्îमान् ।
वायुपथे तु समाहित भूत्वा व्युत्थिहि भूमितलानु मह्âत्मा ॥
भूमितले तु समाहित भूत्वा व्युत्थिहि सर्वतु देवविमानात् ।
सर्वि तु देवबलान समाहित व्युत्थिहि ते गगन्âनुस्मृत्îमान् ॥एति समाधि विमोक्ष्âचिन्त्यास् तेष्âचिन्त्यगुण्ôपचितानां ।
कल्प्âचिन्त्य प्रभाषियमाणाः सर्वजिनेभि न शक्य क्षयीतुम् ॥सर्वजिनेभि च भाषित्âइते कर्मविपाकु जगस्य्âचिन्त्यो ।
नागविकुर्वित बुद्धविकुर्वा ध्यायिन ध्यान्âचिन्त्य विकुर्वा ॥ते च वशे स्थित्âष्ट विमोक्षाः श्रावक्âइक भवीबहु भोन्ती ।
भूत्व बहुः पुन्âइक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥ते हि महाकरुणाय विहीना बोधि अनर्थिकु लोक्ôपेक्षी ।
दर्शयि कायविकुर्व्âचिन्त्या कस्य न दर्शयि लोक हित्âइषी ॥चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्वदिशि प्रतिभासं ।
उत्ससरोह्रदकूपतडा-
[ चम्ब्रिद्गे म्स् f156ब् ---> ]
गे भाजनरत्नसमुद्रनदीषु ॥
[ बेन्दल्ल् एद् प्346 ---> ]
एवम् अचिन्तिय दर्शियि रूपं सर्वदशद्दिशि ते नरवीराः ।
सर्वसमाधिविमोक्षविधिज्ञा यत्र तथागत साक्षि स्वयंभूः ॥सागरदेव रुतावतिनामा यावत् सत्व समुद्र्य् उत्पन्ना ।
तेषु स्वर्âङ्गरुतेषु विधिज्ञा तोषयि सर्वरुतान् स्वरुतेन ॥सा हि सराग सदोष रुतावति सर्वरुते प्रतिघोष विधिज्ञा ।
धारणिधर्मबलं वशिप्राप्ता कः स न तोषि सदेवकलोकम् ॥मायकरो यथ विद्यविधिज्ञो दर्शयि रूप विचित्र्âनन्तान् ।
रात्रिदिव्âइकमुहूर्तुकु मासान् वर्षशतं पुन स्फीतप्रदीप्तान् ॥मायकरो हि सरागु सदोषो तोषयि मायविकुर्वित लोकं ।
ध्यान्âभिज्ञ विमोक्षसुशिक्षित कस्य न तोषयि चर्यविधिज्ञः ॥राहु यथ्êष य निर्मणि कायं कुर्वति वज्र पदे तलबन्धं ।
दर्शन सागरु नाभिप्रमाणं भोति सुमेरुतले सम शीर्षः ॥सो ऽपि सरागु सदोष समोहो राहु निदर्शय्îदृश ऋद्धी ।
मारप्रमर्दन लोकप्रदीप कस्य न दर्शयि ऋद्धि अनन्ता ॥पश्य्âचिन्तिय शक्रविकुर्वा देवसुर्êन्द्ररणस्मि प्रवृत्ते ।
यातुक बिम्बरनेकसुराणां तातुक निर्मणि शक्रु स्वकायान् ॥
[ बेन्दल्ल् एद् प्347 ---> ]
सर्वसुर्êन्द्रसुराश् च विजानी शक्रम ... पुरतो गत स्व्âयुम् ।एष गृह्येत वज्रधराणां संभ्रमु गच्छिसु सर्वसुर्êन्द्राः ॥नेत्र सहस्र भयङ्कर दर्शी ज्वालप्रमुञ्चन वज्र गृहीतं ।
वर्मित काय दुरासद तेज शक्रम् उदीक्ष्य पलात्व् असुर्êन्द्राः ॥ सो हित्êत्वरपुण्यबलेना शक्र विकुर्वति देवजय्âर्थी ।
सर्वजगस्य्âशेषत त्राणां अक्षयपुण्य कुतो न विकुर्वी ॥ ...
वायुत संभुत मेघप्रवर्षी वायुत मेघ पुनः प्रसमेन्ती ।
वायुत सस्य विरोहति लोके वायु सुख्âवह सर्वजगस्य ॥
सो हि अशिक्षित पारमितासु बुद्धगुणेषु अशिक्षित वायुः ।
दर्शयि लोकविपाक्âचिन्त्या कस्य न दर्शयि ते वरलब्धा ॥

इति शिक्षासमुच्चये रत्नत्रय्âनुस्मृतिनाम्âष्टादशः परिच्छेदः समाप्तः ॥
नवदशः परिच्छेदः ॥
अन्यो ऽपि पुण्यवृद्धये हेतुः कार्यः ।
यो ऽयं सर्व्âवस्थासु सत्व्âर्थः ॥यथा कथितं च्âर्यरत्नमेघे ।
स तथागतचैत्ये वा तथागतविग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्वसत्वानां दौःशील्यदौर्गन्ध्यमल्âपनयनाय तथागतशीलप्रतिलम्भाय च परिणामयति ।
स सन्मार्जन्ôपलेपनं कुर्वन् सर्वसत्वानाम् अप्रासादिक्êर्यापथविगमाय ।
प्रासादिक्êर्यापथसंपदे च परिणामयति ।
स पुष्पच्छत्रम् आरोपयन् सर्वसत्वानां सर्वक्लेशपरिदाहविगमाय परिणामयति ।
स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति ।
[ चम्ब्रिद्गे म्स् f158अ ---> ]
सर्वसत्वान् निर्वाणपुरं प्रवेशयेयं ।
स निष्क्रमन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वान् संसारचारकान् निष्क्रामयेयं ।
स लभनद्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां लोक्ôत्तरेण ज्ञानेन निर्वाणसुगतिद्वारम् उद्घाटयेयं ।
स पिथद् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां सर्व्âपायद्वाराणि पिदध्यां ।
स निषीदन्न् एवं*चित्तम् उत्पादयति ।
सर्वसत्वान् बोधिमण्डे निषादयेयं ।
स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वान् एव परिनिर्वापयेयं ।
स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वान् व्युत्थापयेयं सर्वक्लेशपर्युत्थानेभ्यः ।
स शरीरगत्या गच्छन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वा महापुरुषगत्या गच्छन्तु ।
स तत्र्ôपविष्टए एवं चित्तम् उत्पादयति ।
सर्वसत्वा निःशल्यक्रिया यद् उत रागद्वेषमोहेभ्यः ।
स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां क्लेशमलात् प्रक्षालयेयं ।स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां सर्वक्लेश-
[ बेन्दल्ल् एद् प्349 ---> ]
वासनाम् अपनयेयं ।स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्वसत्वानाम् अनेकप्रकाराणि क्लेशरजांस्य् अपनयेयं ।मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां सर्वधर्ममुखानि परिशोधयेयं ।
स दन्तकाष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति ।
सर्वसत्वानां नानाविधान् क्लेशमलान् अपनयेयं ।
सर्वां काय्âवस्थां सर्वसत्वहितसुखाय परिणामयति ।
तथागतचैत्यं वन्दमान्âइवं चित्तम् उत्पादयति ।
सर्वसत्वा वन्दनीया भवन्तु सदेवकस्य लोकस्य्êति ॥अथवा यथ्âर्यप्रज्ञापारमितायां ।
पुनर् अपरं शारिपुत्र व्याडकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन न्ôत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् ।
तत् कस्माद् धेतोः ।

तथा हि तेन सर्वं परित्यक्तं सर्वसत्वानाम् अर्थाय ।
तेन्âइवं चित्तम् उत्पादयितव्यम् ।सचेन् मां व्याडा भक्षयेयुस् तेभ्य्âइव तद् दानं दत्तं भवतु ।
मम च दानपारमितापरिपूरिर् भविष्यति ।
अभ्यासन्ना च भविष्यति ।
तथा च करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबो-
[ चम्ब्रिद्गे म्स् f158ब् ---> ]
धिम् अभिसम्बुद्धस्य सतस् तत्र बुद्धक्षेत्रे तिर्यग्योनिगताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥चोरकान्तारमध्यगतेन शारिपुत्र बोधिसत्वेन महासत्वेन न्ôत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् धेतोः ।
सर्वस्वपरित्यागकुशला हि ते बोधिसत्वा महासत्व्ôत्सृष्टकायेन्âपि च बोधिसत्वेन भवितव्यं परित्यक्तपरिष्कार्ôपकरणेन च ।
तेन्âइवं चित्तम् उत्पादयितव्यं ।ते चेन् मे सत्वाः परिष्कार्ôपकरणानि हरन्ति तेभ्य्âइव्âइतद् दानं दत्तं भवतु ।
सचेन् मां केचिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध्ôत्पादयितव्यः ।
तेषाम् अपि मया न कायेन न वचसा न मनस्âपराद्धव्यं ।
एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति ।
अनुत्तरा च मे सम्यक्संबोधिर् अभ्यासन्ना भविष्यति ।
तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे ।
एते च्âन्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥पानीयकान्तारमध्यगतेन शारिपुत्र बोधिसत्वे-
[ चम्ब्रिद्गे म्स् f159अ ---> ]
न महास-
[ बेन्दल्ल् एद् प्350 ---> ]
त्वेन न्ôत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् धेतोः ।
असंत्रस्तधर्माणो हि बोधिसत्वा महासत्वा भवन्ति ।
एवं च्âनेन चित्तम् उत्पादयितव्यं ।
सर्वसत्वानां मया सर्वतृष्णच्छेदाय शिक्षितव्यं ।
न बोधिसत्वेन महासत्वेन संत्रासम् आपत्तव्यं ।सचेद् अहं तृष्णया कालं करिष्यामि ।
अपि तु खलु पुनः सत्वानाम् अन्तिके महाकरुणाचित्तम् उत्पादयिष्यामि ।
अहो वत्âल्पपुण्य्âमी सत्वा यद् एतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते ।
तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न प्रज्ञास्यन्ते ।
तथा च सर्वसत्वान् पुण्यैः संयोजयिष्यामि यथ्âष्ट्âङ्ग्ôपेतपानीयलाभिनो भविष्यन्ति ।
तथा दृढं वीर्यम् आरप्स्ये सर्वसत्वानां कृतशो यथा वीर्यपारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥पुनर् अपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन न्ôत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।
एवं च्âनेन संनाहः संनद्धव्यः ।
तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बु-
[ चम्ब्रिद्गे म्स् f159ब् ---> ]
द्धक्षेत्रं परिशोधयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवंरूपाणि बुभुक्षाकान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते ।
सुखित्âइव ते सत्वा भविष्यन्ति सुखसमङ्गिनः ।
सर्वसुखसमर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो य्âइव्âभिप्रायो भविष्यति यद् यद् एव्âकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्भविष्यति ।
तद् यथ्âपि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्भवति मनसा सर्वम् उत्पद्यते ।
तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिक्âभिप्रायाः परिपूरिं गमिष्यन्ति ।
अवैकल्यं च जीवितपरिष्कारैः सर्वसत्वानां भविष्यति सर्वेषां सर्वतः सर्वद्êति ॥एवम् अयं ... सर्व्âवस्थासु सत्व्âर्थः ... पुण्यवृर्धिहेतुः ।
विस्तरतस् त्व् आर्यगोचरपरिशुद्धिसूत्रे द्रष्टव्यः ॥
किं च ।
... धर्मदानं निरामिषं ।

पुण्यवृद्धिनिमित्तं भवति ॥
[ बेन्दल्ल् एद् प्351 ---> ]
यथ्ôक्तम् आर्य्âध्याशयसंचोदनसूत्रे ।
विंशतिर् इमे मैत्रेय्âनुशंसा निरामिषदाने ।
यो लाभसत्कारम् अप्रतिकाङ्क्षन् धर्मदानं ददामि ।
कतमे विंशतिः ।
यद् उत ।
स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति ।
[ चम्ब्रिद्गे म्स् f160अ ---> ]
लोक्ôत्तरां च प्रज्ञाम् अनुविध्यति ।
अल्परागो भवति ।
अल्पद्वेषो ऽल्पमोहः ।
मारश् च्âस्य्âवतारं न लभते ।
बुद्धैर् भगवद्भिः समन्वाह्रियते ।
अमनुष्याश् च्âइनं रक्षन्ति ।
देवाश् च्âस्य्âउजः काये प्रक्स्.इपन्ति ।
अमित्राश् च्âस्य्âवतारं न लभन्ते ।
मित्राणि च्âस्य्âभेद्यानि भवन्ति ।
आदेयवचनश् च भवति ।
वैशारद्यांश् च प्रतिलभते ।
सौमनस्यबहुलश् च भवति विद्वत्प्रशस्तश् च ।
अनुस्मरणीयं च्âस्य तद् धर्मदानं भवति ।
इमे मैत्रेय विंशतिर् अनुशंस्êति ॥आर्यप्रज्ञापारमितायां त्व् आह ।
सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमौ धर्मं देशेयः ।
तस्यां च धर्मदेशनायां ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं साक्षात् कुर्युस् तद् अद्य्âपि त्वया मे श्रावकेण श्रावककृत्यं न कृतं स्यात् ।
सचेत् पुनः त्वम् आनन्द बोधिसत्वस्य महासत्वस्य्âइकम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेण्âराधितः स्यां ।
तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं प्राप्नुयुस् तेषां च्âर्हतां यद् दानमयं पुण्यक्रियावस्तु शीलम-
[ चम्ब्रिद्गे म्स् f160ब् ---> ]
यं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु ।
तत् किं मन्यसे आनन्द्âपि तु स बहु पुण्यस्कन्धः ।
आह ।
बहु भगवन् बहु सुगत ।
भगवान् आह ।
अतः स्âनन्द श्रावकयानिकपुद्गलो बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वानां महासत्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति ।
अतो ऽप्य् आनन्द बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वो महासत्वो ऽपरस्य बोधिसत्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति ।
अन्तश्âइक-
[ बेन्दल्ल् एद् प्352 ---> ]
दिवसम् अपि ।
तिष्ठत्व् आनन्द्âइकदिवसः ।
अन्तशः प्राग्भक्तम् अपि ।

तिष्ठत्व् आनन्द प्राग्भक्तं ।
अन्तश्âइकनालिकाम् अपि ।
यावद् अन्तश्âइकक्षणसंनिपातम् अपि ।
पेयालं ॥
इदम् आनन्द तस्य बोधिसत्वस्य महासत्वस्य धर्मदानं सर्वश्रावकयानिकानाम् अपि सर्वप्रत्येकबुद्धयानिकानां च पुद्गलानां कुशलमूलम् अभिभवति ।
एवं कुशलमूलसमन्वागतो बोधिसत्वो महासत्वः ।
एवं कुशलमूलं समन्वाहरन्न् अस्थानम् आनन्द्âनवकाशो यत् स बोधिसत्वो महासत्वो विवर्तेत्âनुत्तरायाः सम्यक्संबोधेः ।
न्âइतत् स्थानं विद्यतए इति ॥कथं धर्मदानं दातव्यं ।
यथ्âर्यसद्धर्मपुण्डरीके ऽभिहितं । कालेन च्ô चिन्तयमा-
[ चम्ब्रिद्गे म्स् f161अ ---> ]
नु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा ।
विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेत्âलीनचित्तः ॥सुखस्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते ।
उदारप्रज्ञप्त करित्व्âसनं चौक्षे मनोज्ञे पृथिवीप्रदेशे ॥चौक्षं च सो चीवर प्रावरित्वा सुरक्तरङ्गं च प्रसन्नरङ्गैः ।
आसेवकं कृष्ण तथा ददित्वा महाप्रमाणं च निवासयित्वा ॥
[ बेन्दल्ल् एद् प्353 ---> ]
सपादपीठस्मि निषद्य्âसने विचित्रदुष्येहि सुसंस्तृतस्मिन् ।
सुधौतपादश् च्ôपारुहित्वा स्निग्धेन शीर्षेण मुखेन च्âपि ॥धर्म्âसने तत्र निषीदियानः एक्âग्र सत्वेषु समं विपश्यन् ।
उपसंहरेच् चित्रकथा बहूश् च भिक्षूनश् च्ô भिक्षुनिकास् तथ्âइव ॥किलासिताश् च्âपि विवर्जयीत न च्âपि उत्पादयि खेदसंज्ञां ।
अरतिं च सर्वां विजहीत पण्डितः मैत्रीबलं पर्षदि भावयेच् च ॥भाषेच् च रात्रिंदिवम् अग्रधर्मान् दृष्ट्âन्तकोटीनियुतैः स पण्डितः ।
संहर्षयेत् तां च तथ्âइव तोषयेत् न च्âपि किञ्चित् तत्र जातु प्रार्थयेत् ॥ख्ōüद्यं च भोज्यं च तथ्âन्नप्ōüनं वस्त्र्ōüणि शय्य्âसनचीवर्ōüणि ।
गिलानभैषज्य न चिन्तयेत् सः न विज्ञपे-
[ चम्ब्रिद्गे म्स् f161ब् ---> ]
त् पर्षदि किञ्चिद् अन्यत् ॥
[ बेन्दल्ल् एद् प्354 ---> ]
अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो ऽहम् इमे च सत्वा ।
एतच् च मे सर्वसुख्ôपधानं यं धर्म श्रावेमि हिताय लोके ॥अत्र्âइव्âह ॥
न कस्यचिद् अन्तशो धर्मप्रेम्ण्âप्य् अधिकतरम् अनुग्रहं करोति ॥
आर्यचन्द्रप्रदीपसूत्रे ऽप्य् आह ।
अध्येषयेयुर् यदि त्वां ते धर्मदानस्य कारणात् ।
प्रथमं वाच भाषेया न्âहं वैतुल्यशिक्षितः ॥
एवं त्वं*वाच भाषेया युष्मे वा विज्ञपण्डिताः ।
कथं मह्âत्मनां शक्यं पुरतो भाषितुं मया ॥
सहस्âइषां न जल्पेत तुलयित्वा तु भाजनं ।
यदि भाजनं विजानीयाः अनधीष्टो ऽपि देशयेः ॥
यदि दुःशीलान् पश्येसि परिषायां बहून् स्थितान् ।
संलेखं मा प्रभाषे त्वं वर्णं दानस्य कीर्तयेः ॥
भवेयुर् यदि च्âल्प्êच्छाः शुद्धाः शीले प्रतिष्ठिताः ।
मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ॥
[ बेन्दल्ल् एद् प्355 ---> ]
परीत्ता यदि पाप्êच्छाः शीलवन्तो ऽत्र विस्तराः ।

लब्धपक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः ।
इति ॥उक्तं च्âर्यसागरमतिसूत्रे ।
तद् यथा ।
समे ।
समवति ।
शमितशत्रु ।
अङ्कुरे ।
मङ्कुरे ।
मारजिते ।
कराडे ।
केयूरे ।
ओघवति ।
ओहोकयति ।
विशठनिर्मले ।
मल्âपनये ।
ओखरे ।
खरोग्रसे ।
[ चम्ब्रिद्गे म्स् f162अ ---> ]
ग्रसने ।
हेमुखी ।
पराङ्मुखी ।
आमुखी ।
शमितानि सर्वग्रहबन्धनानि ।
निगृहीताः सर्वपरप्रवादिनः ।
विमुक्ता मारपाशाः ।
स्थापिता बुद्धमुद्राः समुद्घातिताः सर्वमाराः ।
अचलितपदपरिशुद्ध्या विगच्छन्ति सर्वमारकर्माणि ॥
इमानि सागरमते मन्त्रपदानि धर्मभाणकेन सुप्रवृत्तानि कृत्वा धर्म्âसनकेन सुप्रवृत्तानि कृत्वा धर्म्âसननिषण्णेन सर्वां पर्षदं बोध्याकार्âभिनिर्हृतया मैत्र्या स्फरित्वा ।
आत्मनि वैद्यसंज्ञाम् उत्पाद्य धर्मे भैषज्यसंज्ञां धर्मश्रवणिकेष्व् आतुरसंज्ञां तथागते सत्पुरुषसंज्ञां धर्मनेत्र्यां चिरस्थितिकसंज्ञाम् उत्पाद्य्êमानि मन्त्रपदान्य् आमुखीकृत्य धर्मसंकथा करणीया ।
तस्य समन्ताद् यो जनशते न मारो न मारकायिका वा देवत्ôपसंक्रमयिष्यन्ति विचक्षुःकरणे ।
ये ऽप्य् एनम् उपसंक्रमिष्यन्ति ते ऽप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ॥अत्र्âइव्âह ।
धर्मभाणकेन चौक्षेण शुचिसमुदाचारेण सुस्नातेन शुचिनिवासितेन भवितव्यम् इति ॥एवं धर्मदानं ॥
[ बेन्दल्ल् एद् प्356 ---> ]
बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः ॥यथ्ôक्तम् आर्यरत्नकरण्डकसूत्रे ।
तद् यथ्âपि नाम मञ्जुश्रीर् नानागन्धवृक्षाश् च चतुर्धातुसंगृहीता विवर्धन्ते ।
एवम् एव मञ्जुश्रीर् नानासंभार्ôपचितं बोधिसत्वस्य कुशलमूलं ।
बोधिचित्तसंगृहीतं सर्वज्ञतापरिणामितं विवर्धतए ।
इति ॥एष्âदिक्âदिक-
[ चम्ब्रिद्गे म्स् f162ब् ---> ]
र्मिकाणां सहसा बोधिसत्वशिक्षा स्मरण्âर्थम् उपदर्शिता ।

विस्तरतस् तु बुद्धविषय्âइव ॥अत्र च्âस्या यथ्ôक्तायाः शिक्षायाः ।
सिद्धिः सम्यक्प्रहाणानाम् अप्रमाद्âवियोजनात् ।
स्मृत्य्âथ संप्रजन्येन योनिशश् चिन्तनेन च ॥तत्र्âनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय्âइव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधात्îत्य् अनेन रक्षा ॥उत्पन्नानां च प्रहाणाय छन्दं जनयत्îत्य् अनेन शुद्धिः ।
अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति ।
यावद् उत्पन्नानां च स्थितये भूयोभावाय छन्दं जनयत्îत्य् आदि ।
अनेन वृद्धिः ।
एतानि च नित्यम् अप्रमाद्âधिष्ठितानि कार्याणि सर्वकुशलमूलानां तन्मूलत्वात् ॥यथ्ôक्तम् आर्यचन्द्रप्रदीपसूत्रे ।
यावन्त धर्माः कुशलाः प्रकीर्तिताः शीलश्रुतं त्यागु तथ्âइव क्षान्तिः ।
सर्वेषु मूलं ह्य् अयम् अप्रमादो निधानलम्भः सुगतेन देशित ।
इति ॥
को ऽयम् अप्रमादो नाम ।
इष्टविघात्âनिष्ट्âगमशङ्कापूर्वकं प्रतिकारतात्पर्यं ।
तद् यथा तीव्रकोपप्रसादस्य राज्ञो भैषज्यतैलपरिपूर्णभाजनं गृहीत्वा पिच्छिल-
[ चम्ब्रिद्गे म्स् f163अ ---> ]
संक्रमेण भृत्यस्य
[ बेन्दल्ल् एद् प्357 ---> ]
गच्छतः ॥उक्तं ह्य् आर्यतथागतगुह्यसूत्रे ।तत्र कतमो ऽप्रमादो ।यद् इन्द्रियसंवरः ।
स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति ।
न्âनुव्यञ्जनग्राही ।
एवं यावन् मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति ।
न्âनुव्यञ्जनग्राही ।
सर्वधर्मेष्व् आस्वादं च्âदीनवं च निःशरणं च यथाभूतं प्रजानाति ।
अयम् उच्यते ऽप्रमादः ॥पुनर् अपरम् अप्रमादो यत् स्वचित्तस्य दमनं परचित्तस्य्âरक्षा क्लेशरतेर् अपरिकर्मणा धर्मरतेर् अनुवर्तनं यावद् अयम् उच्यते ऽप्रमादः ।
यस्य गुह्यक्âधिपते श्रद्धा च्âप्रमादश् च तस्य्âनुलोमिकेन वीर्येण कार्यं ।
येन तान् अप्रमादकारणान् श्रद्धाकारणांश् च धर्मान् समुदानयति ।
यस्य गुह्यक्âधिपते श्रद्धा च्âप्रमादश् च वीर्यं च तेन स्मृतिसंप्रजन्ये योगः करणीयः ।
येन स्मृतिसंप्रजन्येन सर्वान् बोधिपक्षान् धर्मान् न विप्रणाशयति ।
यस्य गुह्यक्âधिपते श्रद्धा च्âप्रमादश् च वीर्यं च स्मृतिसंप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः ।
योनिशः प्रयुक्तो हि गुह्यक्âधिपते बोधिसत्वो यद् अस्ति तद् अस्त्îति प्रजानाति ।
यन् न्âस्ति तन् न्âस्त्îति प्रजानाति ।
यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ॥तथा अत्र्âइव्âह ।
सद्âप्रमादो ह्य् अमृतस्य मूलं सत्व्âर्थयु-
[ चम्ब्रिद्गे म्स् f163ब् ---> ]
क्तस्य च बोधिचित्तं ।
यद् योनिशश् च्âइव विवेकचित्तम् अपरिग्रहः सर्वसुखस्य मूलम् इति ॥आह च ।
पर्âत्मसमत्âभ्यासाद् बोधिचित्तं दृढीभवेत् ।
आपेक्षिकं पर्âत्मत्वं पार्âवारं यथामृषा ॥
[ बेन्दल्ल् एद् प्358 ---> ]
तत्कूलं न स्वतः पारं किम् अपेक्ष्य्âस्त्व् अपारता ।
आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ॥तद्दुष्खेन न मे बाध्êत्य् अतो यदि न रक्षसि ।

न्âगामिकायदुष्खात् ते बाधा तत् केन रक्षसि ॥अहम् एव तद्âप्îति मिथ्य्êयं परिकल्पना ।
अन्य्âइव मृतो यस्माद् अन्यस् तत्र प्रजायते ॥अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं ।
यूनः किं वृद्धकायस्य सुखाय धनसंचयैः ॥मृते गर्भगते तावद् अन्यो बालः प्रजायते ।
मृते बाल्ये कुमारत्वं तन्नाशाय्âगतो युवा ॥
तन्नाशाच् च्âगतो वृद्धः ।
एकः कायः कथं मतः ।
एवं प्रतिक्षणं च्âन्यः कायः केशनख्âदिवत् ॥
अथ बाल्यापरित्यागाद् बालो याति कुमारतां ।
कायस्वभावो वक्तव्यो यो ऽवस्थारहितः स्थितः ।
कायश् चेत् प्रतिम्âकारः पेसीभस्मसु न्âस्ति सः ॥सूक्ष्मभावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः ।
अनिर्देश्यः स्वतः प्राप्तः ।
काय्êत्य् उच्यते न सः ॥तत्र चिन्त्âइव मे न्âस्ति दृश्यकायस् तु नाशवान् ।
अवस्थाभिश् च संबन्धः संवृत्या च्âइव दृश्यते ॥
[ बेन्दल्ल् एद् प्359 ---> ]
आग-
[ चम्ब्रिद्गे म्स् f164अ ---> ]
माच् च तद् अस्तित्वं युक्त्यागमनिवारितम् ।
न गुणव्यतिरेकेण प्रधानं विद्यते यतः ॥न च त्रीणि प्रधानानि तथा सत्ता गुण्âपि ।
प्रत्येकं त्र्यात्मकास् ते ऽपि शेषं न्âइकविधं जगत् ॥अचेतनं च वस्त्र्âदि तत्सुख्âद्यात्मकं कथम् ।
सुख्âदेर् न पट्ट्ôत्पत्तिः पट्ट्âदेस् तु सुख्âदयः ।
पट्ट्âदीनाम् अहेतुत्वाद् अभावस् तत्सुखं कुतः ॥तस्माद् आगमयुक्तिभ्यां अनित्यं सर्वसंस्कृतं ।तद् धेतुफलसंबन्धः प्रत्यक्षत्वान् न साध्यते ॥स्वसंताने च दृष्टो ऽसौ नित्येषु च कथं यथा ।
परम् अणुस् [[दोउब्त्]] तु न्âइको ऽस्ति दिग्भेद्âनुपपत्तितः ॥दीपतैलं क्षयं याति क्षीयमानं न लक्ष्यते ।
एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रतिक्षणं ॥संतानः समुद्ōüयश् च पङ्क्तिसेन्âदिवन् मृष्ōü ।
तत्र्âभ्यासाद् अहंकारः परस्मिन् किं न जायते ॥
[ बेन्दल्ल् एद् प्360 ---> ]
तस्माद् एवं जगत् ज्ञेयं यथ्âयतनसंचयः ।
अप्राप्तम् एव तद् दुष्खं प्रतिकार्यं पर्âत्मनोः ॥अयुक्तम् अपि चेद् एतत् स्व्âत्मन्य् अस्त्îतरत्र न ।
यद् अयुक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथाबलं ॥कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् ।
जगद्दुष्खं निरूप्य्êदं कृपादुष्खं कथं बहु ॥एवं भावितसंतानाः परदुष्खसमप्रियाः ।
अवीचीम् अवगाहन्ते हंसाः पद्मवनं यथा ॥सत्वेषु मुच्यमानेषु ये ते प्रामोद्यसागराः ।
तैर् एव ननु पर्याप्तं मोक्षेण्âप्य् अरसेन किम् ॥
एवं पर्âर्थं कृत्व्âपि न मदो न च विस्मयः ।
न विपाकफल्âकाङ्क्षा पर्âर्थ्âइक्âन्ततृष्णया [[दोउब्त्]] ॥दशदिक्सत्वसंपत्तिर् आत्मी-
[ चम्ब्रिद्गे म्स् f164ब् ---> ]
य्âस्य न संशयः ।
न्âस्त्य् एर्ष्य्âवकाशो ऽपि परसौख्ये स्वसंज्ञया ॥
[ बेन्दल्ल् एद् प्361 ---> ]
परेषाम् आत्मनो व्âपि सामान्या पापदेशना ।
पुण्य्âनुमोदना च्âइवं बुद्ध्âध्येषणयाचनं ॥
परिणामनम् अप्य् एवं निर्विशेषं प्रवर्तते ।

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc