शिक्षासमुच्चय (अन्य संस्करण) · भाग 201220
महत्याम् अपि प्रज्ञापारमितायाम् उक्तं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन्âल्पम् अपि दानं ददता सर्वसत्वेषु सर्व्âकारज्ञतायाम् उपायकौशल्यपरिणामनतायाम् अप्रमेयम् असंख्येयं कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् ।
तथा सर्वसत्वानां मनोरथान् परिपूरयितुकामेन ।
यावज् जातरूपरजत्ôद्यानराज्य्âदिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम् इति ॥
[ बेन्दल्ल् एद् प्276 ---> ]
विना च करुणया न बोधिसत्वानां किंचिच् चेष्टितम् इति वक्ष्यामः ।
इति संक्षेपाद् भोगवृद्धिः ॥
पुण्यवृद्धिः सर्ववृद्धीनां मूलम् इति तदर्थं परिकरबन्ध्ôच्यते ॥
कृत्व्âदाव् एव यत्नेन व्यवसाय्âशायौ दृढौ ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये ॥
चित्तशुद्धिकालभावितानां व्यवसाय्âदीनां प्रयोग्âरम्भे पुनर् आमुखीकरणेन दृढत्âपादन्âर्थः श्लोकः ।
कृत्व्êत्य् आदिपूर्वक्âइव ॥
आसन्नयुद्धकालानां अस्त्रकौशल्य्âदरवत् प्रयोगसमकालं दृढीकरिष्याम्îति शैथिल्यनिवारण्âर्थम् आदिग्रहणम् ।
तत्र कथं व्यवसायं दृढीकरोति ॥
यथ्âर्यसुधन्âर्यमैत्रेयम् उपसंप्रक्रान्तः सम्यक्चर्यानिःसमर्थः ।
पूर्व्âन्तकोटीगतकायप्रणामः कायसमन्वाहारेण कायबलं दृढीकुर्वाणः ।
पूर्व्âन्तकोटीगतकाय चित्तपरिशुद्धिनिष्कारणसांसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं निगृह्णन् ।
पूर्व्âन्तकोट्य्-अस-
[ बेन्दल्ल् एद् प्277 ---> ]
त्कर्मलौकिककार्यप्रयुक्तनिष्प्रयोजनपरिस्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन् ।
पूर्व्âन्त्âभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शित-
[ चम्ब्रिद्गे म्स् f120ब् ---> ]
मनसिकारसमन्वाहारेण सर्वबोधिसत्वचर्यासम्यक्संकल्प्âभिसंस्कारबलं समुत्थापयन् ।
अतीत्âत्मभाव्âर्थप्रयोग्âरम्भविषमतासमन्वाहारेण सर्वसत्व्âरम्भवैशेषिकतय्âध्याशयबलं दृढीकुर्वाणः ।
अतीतकायसमुदाचारनिरास्वादतासमन्वाहारेण ।
सर्वबुद्धधर्मप्रतिलाभप्रयोगमह्âश्वासप्रतिलाभ्êन्द्रियवेगान् विवर्धयमानो ऽतीत्âध्वविपर्यासप्रयुक्तमिथ्य्âशयप्रयोगसमन्वाह्-रेण ।
प्रत्युत्पन्न्âध्वसम्यग्दर्शन्âविपर्याससंप्रयुक्तेन बोधिसत्वप्रणिधानसमादानेन संततिं परिशोधयन् ।
पूर्व्âन्तगत्âयोगवीर्य्âरम्भकार्य्âपरिनिष्पन्न्âर्यसमादानसमन्वाहारेण [[दोउब्त्]] ।
प्रत्युत्पन्नबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्य्âरम्भविक्रमेण कायचित्तसंप्रग्रहं संजनयमानः ।
पूर्व्âन्तकोटीपञ्चगत्यपायनिक्षिप्त्âत्मपरनिरुपकरण्âख्यनिरुपजीव्यसमुच्छ्रयपरिग्रहसमन्वाहारेण ।
सर्वबुद्धधर्म्ôत्थापकसर्वजगदुपजीव्यसर्वकल्याणमित्र्âरागणसमर्थ्य्âत्मभावपरिग्रहणतया विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः प्रत्युत्पन्नजन्म्âभिनिर्वृत्तं जराव्याधिमरणशोक्âकरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयं ।
अपर्âन्तकल्पकोटीगतबोधिसत्वचर्य्âचरणप्रयुक्तस्य सत्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतसंदर्शनसर्व-
[ बेन्दल्ल् एद् प्278 ---> ]
बुद्धक्षेत्र्âनुचरणसर्वधर्मभाणक्ôपस्थानसर्वतथागतशासनसमन्वाहरणप्रयुक्तस्य सर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्वप्रणिधिज्ञानशरीरस्य हेतुप्रत्ययभूतम् अवलोक्य्âचिन्त्यकुशलमूल्êन्द्रियवेगान् विव
र्धयमान्êति ।
आर्य्âक्षयमतिनिर्देशे महायानसूत्रे ऽप्य् उक्तं ।
एको बोधिसत्वो ऽद्वितीयो ऽसहायो ऽनुत्तरायां सम्यक्संबोधौ
[ चम्ब्रिद्गे म्स् f121अ ---> ]
संनाहं संनह्यति ।
स वीर्यबलपरिगृहीतेन्âध्याशयेन्âपर्âवकाश्âस्वयंकारी ।
स्वबलबल्ôद्गतः ।
स्âइवं दृढसंनाहः संनद्धो ।
यत् किञ्चित् सर्वसत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि ।
यत् सर्व्âर्याः सर्वनवयानसंप्रस्थिता बोधिसत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि ।
न मम दानं सहायकं ।अहं पुनर् दानस्य सहायः ।
न मम शीलक्षान्तिवीर्यध्यानप्रज्ञाः सहायिकाः ।
अहं पुनः शीलक्षान्तिवीर्यध्यानप्रज्ञानां सहायो ।
न्âहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमित्ôपस्थातव्याः ।
एवं संग्रहवस्तुषु सर्वकुशलमूलेषु चलेयम् ।
यावद् एकाकिना मय्âद्वितीयेन्âसहायेन वज्रमये महीमण्डले स्थितेन सबलं सवाहनं मारं धर्षयित्व्âइकचित्तक्षणसम्âयुक्तया प्रज्ञय्âनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्य्êति ॥
आर्यवज्रध्वजसूत्रे ऽप्य् आह ।
तद् यथ्âपि नाम सूर्यो देवपुत्र्ôदयमानो न तिष्ठति ।
जा-
[ बेन्दल्ल् एद् प्279 ---> ]
त्यन्धदोषेण ।
न तिष्ठति गन्धर्वनगरदोषेण ।
न तिष्ठति चतुर्द्वीपलोकधातुभूमिरजोदोषेण ।
न तिष्ठति राह्वसुर्êन्द्रदोषेण ।
न तिष्ठति धूममण्डलदोषेण ।
न तिष्ठति जम्बूद्वीपक्लेशदोषेण ।
न तिष्ठति नानाछायादोषेण ।
न तिष्ठति विषमपर्वतदोषेण ।
एवम् एव बोधिसत्वो महासत्वः स्मृतिसंप्रजन्यविपुलगम्भीरचेत्âदीनसत्वो गुणचर्याज्ञानचर्य्âवसानं यावन् न विवर्तते सत्वद्रौहिल्यदोषैः ।
न विप्रवसति कुशलमूलपरिणामैः ।
सत्वदृष्टिकालुष्यदोषैर् न विवर्तते ।
सत्वक्षोभचेतोभिर् न दूरीभवति ।
सत्वविनष्टसंतत्या बोधिसंनाहं न विष्कम्भयति ।
सर्वजगत्परित्राणप्रणिधानस्य सत्वकलिकलुषैर् न स्रंसनां करोति यावद् बालज-
[ बेन्दल्ल् एद् प्280 ---> ]
नसमवधानेन ।
न निर्विद्यते परसत्वदोषैश् च ।
तत् कस्य हेतोः ।
अनावरण-
[ चम्ब्रिद्गे म्स् f121ब् ---> ]
मण्डलम् एतद् उदयति ।
यद् उत सर्वजगद्विशुद्धिविनयाय ।
पे ॥
यश् च तेषां सर्वसत्वानां दुष्खस्कन्धो विविधं च्âवरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति ।
धर्मं न शृण्वन्ति ।
संघं न जानन्ति ।
तद् अहं तेषां त्रिविधम् आवरणीयं कर्म्ôपचितं दुष्खस्कन्धेन स्वकेन शरीरेण्ôपाददामि तासु तासु नरक्ôपपत्तिष्व् अपायभूमिषु संवासेषु च ।
ते च सर्वसत्वास् ततश् च्यवन्तां ।
अहं च दुष्ख्ôपादानम् उपाददामि व्यवस्याम्य् उत्सहे ।
न निवर्ते न पलायामि न्ôत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि ।
तत् कस्य हेतोः ।
अवश्यं निर्वाहयितव्यो मया सर्वसत्वानां भारो ।
न्âइष मम कामकारः ।
सर्वसत्व्ôत्तारणप्रणिधानं मम ।
मया सर्वसत्वाः परिमोचयितव्या ।
मया सर्वजगत् समुत्तारयितव्यं ।
जातिकान्ताराज् जराकान्ताराद् व्याधिकान्ताराच् च्युत्युपपतिकान्तारात् सर्व्âपत्तिकान्तारात् सर्व्âपायकान्तारात् सर्वसंसारकान्तारात् सर्वदृष्टिगहनकान्तारात् कुशलधर्मप्रणाशकान्ताराद् अज्ञानसमुत्थितकान्तारात् तद् एते मया सर्वसत्वाः सर्वकान्तारेभ्यः परिमोचयितव्याः ।
तृष्णाजालसक्त्âविद्यानिवरण्âवृता भवतृष्णासंप्रयुक्ताः प्रणाशपर्यवसाना दुष्खपञ्जरप्रक्षिप्ताश् चारकसंनिश्रिता ।
अबुधाः प्रतिज्ञाविरुद्धाः संशयभूताः सदा विमतयो ऽक्षेमदर्शिनः ।
अनिःशरणकुशला भव्âर्णवे आवर्तमण्डल्âइकचरणाः ।
पे ॥
सर्वसत्वानाम् अनुत्तरज्ञानराज्यप्रतिष्ठापन्âर्थम् अहं चरामि ।
न्âहं केवलम् आत्मपरिमोचन्âभियुक्तः ।
सर्वसत्वा ह्य् एते मया सर्वज्ञताचित्तप्लवेन संसारदुर्गाद् धर्तव्या ।
महाप्रपाताद् अभ्युत्क्षेप्तव्याः ।
सर्व्ôपद्रवेभ्यः परिमोचयितव्याः ।
संसारस्रोतसः प्रतारयितव्य्âत्मना मया सर्वसत्वदु-
[ चम्ब्रिद्गे म्स् f122अ ---> ]
ष्खस्कन्धो ऽध्यवसितः ।
यावद् उत्सहे ऽहं सर्व्âपायेषु सर्वलोकधातुपर्यापन्नेषु सर्वदुष्खवासम् अनुभवितुम् ।
न च मया सर्वसत्वाः कुशल-
[ बेन्दल्ल् एद् प्281 ---> ]
मूलैर् वञ्चितव्याः ।
व्यवस्याम्य् अहम् एक्âइकस्मिन्न् अपाये ऽपर्âन्तकोटीगतान् कल्पान् संवसयितुं ।
यथा च्âइक्âपाये तथा सर्व्âपायनिरवशेषसर्वलोकधातुपर्यापन्नेषु सर्वसत्वपरिमोचननिदानं ।तत् कस्य हेतोः ।
वरं खलु पुनर् अहम् एको दुष्खितः स्यां न च्êमे सर्वसत्वाः अपायभूमिप्रपतिताः ।
मया तत्र्âत्मा बन्धको दातव्यः ।
सर्वजगच् च निःक्रेतव्यं नरकतिर्यग्योनियमलोककान्ताराद् अहं च सर्वसत्वानाम् अर्थाय सर्वदुष्खवेदनास्कन्धम् अनेन स्वकेन शरीरेण्âनुभवेयम् ।
सर्वसत्वनिदानम् अहं च सर्वसत्वानां प्रातिभाव्यम् उत्सहे सत्यवादी प्रत्ययितो ऽविसंवादकः ।
न च मया सर्वसत्वाः परित्यक्ताः ।
तत् कस्य हेतोः ।
सर्वसत्व्âरम्बणो मम सर्वज्ञताचित्त्ôत्पाद्ôत्पन्नो यद् उत सर्वजगत्परिमोचनाय ।
न च्âहं रतिकामतय्âनुत्तरायां सम्यक्संबोधौ संप्रस्थितो न्âपि पञ्चकामगुणरत्यनुभवनाय न्âपि कामविषयनिषेवणाय ।
न च्âहम् अन्योन्यकामधातुपर्यापन्नरतिव्यूहसमुदानयनाय चरामि बोधिसत्वचर्यां ।
तत् कस्य हेतोः ।
अरतयो ह्य् एषा सर्वलोकरतयः ।मारविषय्âइष यद् उत कामविषयनिषेवणं ।
दुर्बुद्धिसेवितो ह्य् एष मार्गः ।सर्वबुद्धिविवर्णितो ह्य् अयम् उपदेशः यद् उत कामनिषेवणं ।अतश् च्âइष सर्वदुष्खस्कन्धस्य्ôत्पाद्âइव निषेवणं अत्âइव च नरकतिर्यग्योनियमलोकानाम् उ-
[ चम्ब्रिद्गे म्स् f122ब् ---> ]
त्पादः ।
कलहभण्डनविवादक्षोभाश् च सत्वानाम् अत्âइव प्रादुर्भवन्ति ।
एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरीभवन्ति ।
स्वर्ग्ôपपत्तेर् अप्य् एते काम्âन्तरायाय संवर्तन्ते ।
किं पुनर् अनुत्तरस्य ज्ञानराजस्य सर्वसत्वयोगक्षेमस्य ।
सो ऽहम् एवम् अप्रमाणदोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अचरणतायां प्रतिपत्स्ये ॥
पे ॥तथा तथ्âइव मया कुशलमूलं परिणामयितव्यं यथा यथ्âइव सर्वसत्व्âत्यन्तसुखम् अवेदितसुखं यावत् सर्वज्ञतासुखं प्रतिलभेरन् ।
मया सारथिना मया परिणायकेन मय्ôल्काधारिणा मया क्षेमगतिदर्शकेन
[ बेन्दल्ल् एद् प्282 ---> ]
मया क्षणगतिप्रतिलब्धेन मय्ôपायज्ञेन मय्âर्थविदुषा मया संसारसागरे सर्वज्ञज्ञानयानपात्रमहादेशस्थितेन मया परिणामनकुशलेन मया पारदर्शकेन ॥
पे ॥
न खलु पुनर् अस्मिंश् चातुर्महाद्वीपके लोकधातौ यावन्तः सत्वास् तावन्त्âइव सूर्य्ôदागच्छन्ति चातुर्द्वीपकलोकधात्ववभासनाय ।
अथ च पुनर् एक्âइव्âइषां सूर्य्ôदागच्छति चतु-
[ चम्ब्रिद्गे म्स् f123अ ---> ]
र्द्वीप्âवभासनाय ।
न च तेषां सत्वानां चतुर्द्वीप्ôपपन्नानां स्वकस्वकैः शरीरैर् अवभासः प्रादुर्भवति ।
येन ते दिवससंख्यां जानीयुः ।
स्वकार्यं वा परिप्रापयेयुः ।
सस्यानि वा परिपाचयेयुः ।
अहर् अहर् व्ôद्याननगरेषु रतिक्रीडापरिभोगम् अनुभवेयुः ।
दिशो वा पश्येयुः ।
गमन्âगमनं वा ग्रामनगरनिगमराष्ट्रराजधानीषु कुर्युः ।
व्यवहारकार्येषु प्रयुज्येरन् ।पे ।
अथ च पुनः सूर्यस्य देवपुत्रस्य्ôदयत्âइकस्य सूर्यमण्डलस्य्âद्वितीयस्य चातुर्द्वीपके लोकधातौ सर्वसत्वानाम् अवभासः प्रादुर्भवति ।
एवम् एव बोधिसत्वस्य महासत्वस्य कुशलमूलान्य् उपार्पयमानस्य कुशलमूलं परिणामयमानस्य्âइवं चित्तम् उत्पद्यते ।
न्âइतेषां सत्वानां तत् कुशलमूलं विद्यते येन ते आत्मानं परित्रायेरन् ।
कः पुनर् वादः परम् ।
अहं पुनः सर्वसत्वानां कृतशः कुशलमूलानि समुदानयामि कुशलमूलं परिणामयामि ।
यद् उत सर्वसत्वमोचनाय ।
सर्वसत्वानाम् अवभासनाय सर्वसत्वानां ज्ञापनाय सरव्सत्वानाम् अवतारणाय सर्वसत्वानां परिग्रहणाय सर्वसत्वानां परिनिष्पादनाय सर्वसत्वानां प्रसादनाय सर्वसत्वानां प्रह्लादनाय सर्वसत्वानां संशयच्छेदनाय्âदित्यमण्डलकल्पैर् अस्माभिर् भवितव्यं ।
न परः प्रतिकाङ्क्षितव्यः ।
न परस्य्âवकाशम् उत्पाद्य सत्वेषु संनाह्ôत्स्रष्टव्यः ।
न च सर्वसत्वानाम् अन्तिकात् सर्वसत्वत्राणव्यवशायो-
[ बेन्दल्ल् एद् प्283 ---> ]
निवर्तयितव्यः ।
न परिणामनायाः सर्वदुष्खहत्या विनिवर्तितव्यं ।
न परीत्तानि कुशलमूलानि परिग्रहीतव्यानि ।
न परीत्तया परिणामनया तुष्टिर् मन्तव्य्êत्य् आदि ॥
आर्य्âक्षयमतिसूत्रे ऽप्य् आह ।
स न कल्पगणनया बोधिं पर्येषते ।
इयतः कल्पान् संनत्स्यामि ।
इयतः कल्पान् संनत्स्याम्îति ।
अपि तु खल्व् अचिन्त्यम् एव संनाहं संनह्यति ।
यावती पूर्वाकोटिः संसारस्य यद्य् एतावद् एकं रात्रिंदिवं भवेत् ।
एवंरूपै रात्रिंदिवैः पञ्चदशदैवसिकेन पक्षेण त्रिंशद्दैवसिकेन मासेन द्वादशमासिकेन संवत्सरेण्âनया वर्षगणनया यावद् वर्षशतसहस्रेण्âइकं बोधिचित्तम् उत्पादयेयम् एकं च तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येयं ।
अनेन प्रवेशेन्âनया गणनया गङ्गानदीवालुकासमैश् चित्त्ôत्पादैस् तथागतदर्शनैश् च्âइक्âइकस्य
[ चम्ब्रिद्गे म्स् f124अ ---> ]
अपि सत्वस्य चित्तचरितं जानीयां ।
अनेन्âइव प्रवेशेन्âनया गणनया सर्वसत्वानां तावद्भिश् चित्त्ôत्पादैस् तथागतदर्शनैः स्वचित्तचरितानि प्रजनीयाम् इत्य् अनवलीनः ।
संनाहो ऽयं बोधिसत्वस्य्âक्षयः संनाहः ।एवं दान्âदिषु बोधिपाक्षिकमहापुरुषलक्षणेषु च नयः ॥
आर्यरत्नमेघे ऽप्य् उक्तं ॥
न बोधिसत्वः सत्वखटुङ्कतां सत्वदुर्दान्ततां ज्ञात्वा ।
अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्दान्तैर् इति ।
ततो निदानं परिखिन्नः परापृष्ठीभूतः ।
परिशुद्धायां लोकधातौ प्रणिधानं करोति ।
यत्र्êदृशानां सत्वानां नाम्âपि न शृणुयात् ।
न च सत्व्âर्थवैमुख्यस्य बोधिसत्वपरिशुद्धायां लोकधाताव् उपपत्तिर् भवति ।
तत्र प्राज्ञो बोधिसत्व्âइवं चि-
[ बेन्दल्ल् एद् प्284 ---> ]
त्तम् उत्पादयति ।
तस्मात् सत्वधातोर् ये सत्वाः स्युः प्रत्यवरा धजड्âइडमूकजातीयाः ।
अपरिनिर्वाणधर्मकाः कृत्स्ना सत्वधातौ न चिकित्सिताः सर्वबुद्धैः सर्वबोधिसत्वैश् च प्रत्याख्याताः ।
तेषां मदीये बुद्धक्षेत्रे संनिपातः स्यात् ।
तान् अहं सर्वान् बोधिमण्डे निषीद्य्âनुत्तरां सम्यक्संबोधिम् अभिसंबोधयेयं ॥
एवं हि बोधिसत्वस्य चिन्तय-
[ चम्ब्रिद्गे म्स् f124ब् ---> ]
तश् चित्त्ôत्पादे चित्त्ôत्पादे सर्वमारभवनानि प्रकम्पन्ते ।
सर्वबुद्धाश् च्âस्य वर्णवादिनो भवन्त्îति ॥
एवं तावत् पुण्यवृद्धिकामेन्âशयो दृढीकर्तव्यः ।
आशयदृढीकरण्âर्थम् अधुन्ôच्यते ।
किं पुनर् अनेन दृढीकृतेन्êति ।
विमर्षनिरासाय धर्मसंगीतिसूत्रे गदितं ।आशये सम्यग् भगवन् बुद्धधर्माणां मूलं ।
यस्य पुनर् आशयो न्âस्ति सर्वे बुद्धधर्मास् तस्य दूरे ॥
आशयसंपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगनतलाद् धर्मशब्दो निश्चरति कुड्मवृक्षेभ्यश् च ।
आशयशुद्धस्य बोधिसत्वस्य स्वमनोजल्पाद् एव सर्व्âववाद्âनुशासन्यो निश्चरन्ति ।
तस्मात् तर्हि भगवन् बोधिसत्वेन्âशयसंपन्नेन भवितव्यं ॥
तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्य्âशयस् तस्य बुद्धधर्माः ।तद् यथा भगवन् यस्य्ôत्तम्âङ्गं तस्य जीवितं एवम् एव भगवन् यस्य्âशयस् तस्य बुद्धबोधिः ।
तद् यथा भगवन् यस्य जीवितं तस्य लाभः ।
एवम् एव भगवन् यस्य्âशयस् तस्य बुद्धत्वलाभः ।
तद् यथा भगवन् सतीत्वेन्âग्निर् ज्वलति ।
असतीत्वेन न
[ बेन्दल्ल् एद् प्285 ---> ]
ज्वलति ।
एवम् एव भगवन्न् आशये सति बोधिसत्वस्य सर्वबुद्धधर्मा ज्वलन्ति ।
असत्य् आशये न ज्व-
[ चम्ब्रिद्गे म्स् f125अ ---> ]
लन्ति ।
तद् यथा भगवन् सत्स्व् अभ्रमेघेषु वर्षं वर्षत्य् असत्सु न वर्षति ।
एवम् एव भगवन्न् आशये सति बुद्धधर्माः प्रवर्तन्ते ।
तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्पफलानि न भूयः प्ररोहन्ति ।
एवम् एव भगवन् यस्य्âशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति ।
तस्मात् तर्हि भगवन् बोधिसत्वेन बुद्धबोध्यर्थिकेन स्व्âशयः स्ûद्गृहीतः स्वारक्षितः सुशोधितः स्वधिष्ठितः कर्तव्य्êति ॥
को ऽयम् आशयो नाम ।
आर्य्âक्षयमतिसूत्रे ऽभिहितः ।
स खलु पुनर् आशयो ऽकृत्रिमः अकृतकत्वात् ।
अकृतको निःसाध्यत्वात् ।
निःसाध्यः सुविदितत्वात् ।
सुविदितो निर्मायत्वात् ।
निर्मायः शुद्धत्वात् ।
शुद्धः ऋजुकत्वात् ।
ऋजुकः अकुटिलत्वात् ।
अकुटिलः स्पष्टत्वात् ।
स्पष्टो ऽविषमत्वात् ।
अविषमः सारत्वात् ।
सारो ऽभेद्यत्वात् ।
अभेद्यो दृढत्वात् ।
दृढो ऽचलितत्वात् ।
अचलित्âनिश्रितत्वाद् इत्य् आदि ।
अयम् एव च्âधिक्âधिकगुण्âधिगमप्रवृत्तो ऽध्याशय्êत्य् उच्यते ॥
यथ्âत्र्âइव्ôक्तं ।
उत्तरण्âध्याशयो विशेषगमनतय्êत्य् आदि ॥
अपि च्âध्याशय्ôच्यते ।
सौम्यता भूतेषु ।
मैत्रता सत्वेषु ।
हितचित्तत्âर्येषु ।
कारुण्यम् अनार्येषु ।
गौरवं गुरुषु ।
त्राणत्âत्राणेषु ।
शरणत्âशरणेषु ।
द्वीपत्âद्वीपेषु ।
परायणत्âपरायणेषु ।
सहायत्âसहायेषु ।
ऋजुता कुटिलेषु ।
स्पष्टता खटुङ्केषु ।
[ बेन्दल्ल् एद् प्286 ---> ]
अशठता शठेषु ।
अमाय्âगहनचरितेषु ।
कृतज्ञत्âकृतज्ञेषु ।
कृतवेदिता द्रोहिषु ।
उपकारित्âनुपकारिषु ।
सत्यत्âभूतगतेषु ।
निर्मानता श्रब्धेषु ।
अनिन्दिता सु अनिन्दना कृतेषु [[दोउब्त्]] ।
अनारोचनता परस्खलितेषु ।
आरक्षणता विप्रतिपन्नेषु ।
अदोषदर्शनता सर्व्ôपायकौशल्यचर्यासु ।
शुश्रूषणता सर्वदक्षिणीयेषु ।
प्रदक्षिणग्राहित्âनुशासनीष्व् इत्य् आदि ॥
तद् एवं व्यवसाय्âशयौ दृढीकृत्य कारुण्यं पुरस्कृत्य यते शुभवृद्धये ॥
यथ्ôक्तम् आर्यधर्मसंगीतिसूत्रे ।
अथ खल्व् अवलोकितेश्वरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् ।
न भगवन् बोधिसत्वेन्âतिबहुषु धर्मेषु शिक्षितव्यं ।
एको धर्मो भगवन् बोधिसत्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः ।
तस्य सर्वबुद्धधर्माः करतलगता भवन्ति ।
कतम्âइकधर्मो ।
यद् उत महाकरुणा ।
महाकरुणया भग-
[ चम्ब्रिद्गे म्स् f126अ ---> ]
वन् बोधिसत्वानां सर्वबुद्धधर्माः करतलगता भवन्ति ।
तद् यथा भगवन् येन राज्ञश् चक्रवर्तिनश् चक्ररत्नं गच्छति ।
तेन सर्वो बलकायो गच्छति ।
एवम् एव भगवन् येन बोधिसत्वस्य महाकरुणा गच्छति ।
तेन सर्वे बुद्धधर्मा गच्छन्ति ।
तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्मक्रियासु प्रचुरा भवन्ति ।
एवम् एव भगवन् महाकरुणा यत्र्ôदिता भवति तत्र्âन्यबोधिकरा धर्माः क्रियासु प्रचुरा भव-
[ बेन्दल्ल् एद् प्287 ---> ]
न्ति ।
तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनस्âधिष्ठितानां स्वस्वविषये ग्रहणप्राचुर्यं भवति ।
एवम् एव भगवन् महाकरुण्âधिष्ठितानाम् अन्येषां बोधिकराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति ।
तद् यथा भगवन् जीवित्êन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति ।
एवम् एव भगवन् महाकरुणायां सत्याम् अन्येषां बोधिकराणां धर्माणां प्रवृत्तिर् भवत्îति ॥
आर्य्âक्षयमतिसूत्रे ऽप्य् आह ॥
तद् यथ्âपि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवित्êन्द्रियस्य्âश्वासाः प्रश्वासाः पूर्वंगमाः ।
एवम् एव भदन्त सारद्वतीपुत्र बोधिसत्वस्य महायानसमुदागतस्य महाकरुणा पूर्वंगमाः ॥
पे ॥
स्याद् यथ्âपि नाम श्रेष्ठि-
[ चम्ब्रिद्गे म्स् f126ब् ---> ]
नो वा गृहपतेर् व्âइकपुत्रके गुणवति मज्जागतं प्रेम ।
एवम् एव महाकरुणाप्रतिलब्धस्य बोधिसत्वस्य सर्वसत्वेषु मज्जागतं प्रेम्êति ॥
कथम् एषा भावयितव्या ।
स्वकम् अनेकविधं पूर्व्âनुभूतम् अनुभूयमानं वा दुष्खं भयं च स्व्âत्मन्य् अत्यन्तम् अनिष्टं भावयित्वा ।
प्रिय्âदिषु मैत्री मैत्रीवता भावयितव्या प्रत्युत्पन्नदुष्खव्याधिषु महादुष्खसागर्âनवधिदीर्घसंसारव्यसन्âनुनीतेषु वा ॥
यथ्ôक्तम् आर्यदशभूमकसूत्रे ।
तस्य्âइवं भवत्य् आश्चर्यं यावद् अज्ञानसंमूढा वत्êमे बालपृथग्जनाः ।
येषाम् असंख्येय्âत्मभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च ।
एवं च क्षीयमाणा काये न निर्वेदम् उत्पादयन्ति ।
भूयस्या मात्रया दुष्खयन्त्रं विवर्धयन्ति ।
संसारश्रोतसश् च महाभयान् न
[ बेन्दल्ल् एद् प्288 ---> ]
निवर्तन्ते ।
स्कन्ध्âलयं च न्ôत्सृजन्ति ।
धात्ûरगेभ्यश् च न निर्विद्यन्ते ।
नन्दीराग्âन्धाश् च न्âवबुध्यन्ते ।
षडायतनशून्यग्रामं च न व्यवलोकयन्ति ।
अहंकारममकार्âभिनिवेश्âनुशयं च न प्रजहन्ति ।
मानदृष्टिशल्यं च न्ôद्धरन्ति ।
रागद्वेषमोहजालं च न प्रशमयन्ति ।
अविद्यामोह्âन्धकारं च न विधमयन्ति ।
तृष्ण्âर्ण-
[ चम्ब्रिद्गे म्स् f127अ ---> ]
वं च न्ôच्छोषयन्ति ।
दशबलस्âर्थवाहं च न पर्येषन्ते ।
मार्âशयगहन्âनुगताश् च संसारसागरे विविध्âकुशलवितर्कग्राह्âकुले परिप्लवन्ते ।
अप्रतिशरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः ।
यद् इदं जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्य्ôपायासान् ।
हन्त्âहम् एषां सत्वानां दुष्ख्âर्तानाम् अनाथानाम् अत्राणानाम् अशरणानाम् अलयनानाम् âपरायणानाम् अन्धानाम् अविद्य्âण्डकोषपटलपर्यवनद्धानां तमोअभिभूतानाम् अर्थाय्âइको ऽद्वितीयो भूत्वा तथारूपपुण्यज्ञानसंभार्ôपचयं बिभर्मि ।
यथारूपेण पुण्यज्ञानसंभार्ôपचयेन संभृतेन्êमे सर्वसत्व्âभ्यन्तविशुद्धिम् अनुप्राप्नुयुर् इति ॥
तथ्âत्र्âइव्âह ।
संसार्âटवीकान्तारमार्गप्रपन्ना वत्êमे सत्वा निरयतिर्यग्योनियमलोकप्र-
[ बेन्दल्ल् एद् प्289 ---> ]
पात्âभिमुखाः कुदृष्टिविषमजाल्âनुप्राप्ताः मोहगहनसंछन्ना मिथ्यामार्गवितथप्रयाता ।
अन्धीभूताः परिणायकविकलाः ॥
पे ॥
संसारश्रोत्âनुवाहिनः तृष्णानदीप्रपन्नाः ।
महावेगग्रस्ता ।
अवलोकन्âसमर्थाः [[दोउब्त्]] कामव्यापादविचिकित्साविहिंसावि-
[ चम्ब्रिद्गे म्स् f127ब् ---> ]
तर्कप्रपात्âनुचरिताः ।
स्वकायदृष्ट्युदकराक्षसगृहीताः ।
कामगहन्âवर्त्त्âनुप्रविष्टाः नन्दीरागमध्यसंसक्ताः ।
अस्मिमानस्थल्ôच्छन्नाः ।
अपरायणाः ।
आयतनग्राम्âनुच्छलिताः ।
कुशलसंभारकविरहिताः ।
ते ऽस्माभिर् महाकुशलमूलबलेन्ôद्धृत्य निरुपद्रवे ऽरजसि शिवसर्वज्ञतारत्नद्वीपे प्रतिष्ठापयितव्या ।
रुद्धा वत्êमे सत्वा बहुदुष्खदौर्मनस्य्ôपायासबहुल्âनुनयप्रतिघप्रिय्âप्रियविनिबन्धने सशोकपरिदेव्âनुचरिते तृष्णानिगडबन्धने मायाशाठ्य्âविद्यागहनसंछन्ने त्रैधातुकचारके ।
ते ऽस्माभिः सर्वत्रैधातुकविवेके ऽभयपुरे सर्वदुष्ख्ôपशमे [[दोउब्त्]] अनावरणनिर्वाणे प्रतिष्ठापयितव्य्êत्य् आदि ॥एवम् एभिः परस्परदृढीकृत्यैर् व्यवसाय्âशयकारुण्यैः पुण्यवृद्धिम् आरभेत् ।
तत्र तावद् भद्र्âचार्याविधिः कार्या वन्दन्âदिः सदादरात् ॥
[ बेन्दल्ल् एद् प्290 ---> ]
आर्य्ôग्रदत्तपरिपृच्छायां हि त्रिरात्रे त्रिर् दिवसस्य च शुचेः शुचिवस्त्रप्रावृतस्य च त्रिस्कन्धकप्रवर्तनम् उक्तं ॥
तत्र त्रयः स्कन्धाः पापदेशनापुण्य्âनुमोदनाबुद्ध्âध्येषण्â-
[ चम्ब्रिद्गे म्स् f128अ ---> ]
ख्याः पुण्यराशित्वात् ।
तत्र वन्दना पापदेशनायाम् अन्तर्भवति ।
बुद्धान् नमस्कृत्य्ôपालिपरिपृच्छायां देशन्êति कृत्वा ।
याचनम् अध्येषणायां एक्âर्थत्वात् ।
पूजा तु विभव्âभावाद् अनित्य्êति न्ôक्ता ।
मानसी वाचसी च सूत्र्âन्तरप्रसिद्धत्वान् न्ôक्ताः ।
त्रयाणां तु वचनात् प्राधान्यं गम्यते ।
तत्र वन्दना ।
सर्वबुद्धान् नमस्याम्îति ॥
आर्य्âक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते ॥
गाथाचतुष्टयेन च यथागीतैश् च स्तोत्रैः ।
आर्यभद्रचर्य्âदिगाथाभिर् वा पूजना च ॥
आर्यरत्नमेघे यथ्ôक्तं ।
इह बोधिसत्वो यान्îमानि भवन्ति पुष्पजातानि वा फलजातानि व्âममान्य् अपरिग्रहाणि ।
तानि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयति ॥
पे ॥
सयथ्îमे [[दोउब्त्]] धूपवृक्षा वा गन्धवृक्षा वा रत्नवृक्षा वा कल्पवृक्षा व्âमम्âपरिग्रहास् तान् अपि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयत्îति ॥आर्यत्रिसमयराजे ऽपि स्थलजा रत्नपर्वताः ।
जलजा रत्नपर्वता स्थलजलजानि रत्नानि दशदिगवस्थितानि ।
अममान्य् अपरिग्रहाणि देयान्îत्य् उक्तं ॥
अनया च दिशा सर्वभैषज्या-
[ बेन्दल्ल् एद् प्291 ---> ]
नि सर्वरसायनानि सर्वसलिलानि अ-
[ चम्ब्रिद्गे म्स् f128ब् ---> ]
नवद्यानि अप्मण्डलानि ।
सर्वकाञ्चनमण्डलानि ।
विवृत्तेषु वा लोकधातुषु ये परमरसस्पर्शसंपन्ना भूपर्पटकाः ।
अमृतलता ।
अकृष्ट्ôप्ता वा शालयः ।
सर्व्ôत्तरकुरुद्वीपेषु ।
परिशुद्धेषु च लोकधातुषु ये रमणीयतराः परिभोगाः ॥
यथा च्âर्यरत्नमेघे एव्âह ।
स यान्îमानि सूत्र्âन्तेष्ûदार्ôदाराणि तथागतपूज्ôपस्थानानि शृणोति ।
तान्य् आशयतस् तीव्रेण्âध्याशयेन बुद्धबोधिसत्वेभ्यः परिणामयत्îति ।
तथा ।
स विविधानि पूज्ôपस्थानानि अनुविचिन्तयत्îति ॥
देशना पूर्व्ôक्त्êव ।
आर्य्âक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते ।
अनुमोदना भद्रचर्यागाथया ।
चन्द्रप्रदीप्âनुमोदनापरिवर्तेन वा ।
अध्येषणा भद्रचर्यय्âइव ।
परिणामना तु सकलसमाप्त्âर्यभद्रचर्यय्âइव ।
वज्रध्वजपरिणामनां वा पश्येत् ॥अथवा दशभूमक्ôक्तानि महाप्रणिधानानि ।
यथ्âह ।
यद् उत्âशेषनिःशेष्âनवशेषसर्वबुद्धपूज्ôपस्थापनाय ।
सर्व्âकारवर्ôपेतम् उदार्âधिमुक्तिविशुद्धं धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्ध्ôत्पादसंख्याप्रतिप्रस्रब्धं ।
महापूज्ôपस्था-
[ बेन्दल्ल् एद् प्292 ---> ]
नाय
[ चम्ब्रिद्गे म्स् f129अ ---> ]
प्रथमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वतथागतभाषितधर्मनेत्रीसंधारणाय सर्वबुद्धबोधिसत्वपरिग्रहाय ।
सर्वसम्यक्संबुद्धशासनपरिरक्षणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं ।
सर्वसंकल्पसंख्याबुद्ध्ôत्पादसंख्याप्रतिप्रस्रब्धं ।
सद्धर्मपरिग्रहाय ।
द्वितीयं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वबुद्ध्ôत्पादनिरवशेषसर्वलोकधातुप्रसरेषु ।
तुषितभवनवासम् आदिं कृत्वा च्यवन्âचङ्क्रमणगर्भस्थितिजन्मकुमारक्रीड्âन्तःपुरवास्âभिनिष्क्रमणदुष्करचर्याबोधिमण्ड्ôपसंक्रमणमारधर्षण्âभिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाण्ôपसंक्रमणाय ।
पूजाधर्मसंग्रहप्रयोगपूर्वंगमं कृत्वा सर्वत्रैकालविवर्तनाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्ध्ôत्पादसंख्याप्रतिप्रस्रब्धं यावन् महापरिनिर्वाण्ôपसंक्रमणाय ।
तृतीयं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वबोधिसत्वचर्याविपुलमहद्गत्âप्रमाण्âसंभिन्नसर्वपारमितासुसंग्रहीतः ।
सर्वभूमिपरिशोधनं स्âङ्ग्ôपाङ्गनिर्हारं यावत् सल-
[ चम्ब्रिद्गे म्स् f129ब् ---> ]
क्षणविलक्षणसंवर्तविवर्तसर्वबोधि सत्वचर्याभूतयथावद् भूमिपथ्ôपदेशपारमितापरिकर्म्âववाद्âनुशासन्य्-अनुप्रदान्ôपस्त-
[ बेन्दल्ल् एद् प्293 ---> ]
म्भचित्त्ôत्पाद्âभिनिर्हाराय ।
धर्मध-तुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं चित्त्ôत्पाद्âभिनिर्हाराय ।
चतुर्थं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत निरवशेषसर्वसत्वधातुरूप्यरूपिसंज्ञासंज्ञि न्âइव संज्ञि न्âसंज्ञ्य् अण्डजजरायुजसंस्वेदज्âउपपादुकत्रैधातुकपर्यापन्नषड्गतिसमवसृतसर्व्ôपपत्तिपर्यापन्ननामरूपसंगृहीत्âशेषसर्वसत्वधातुपरिपाचनाय ।
सर्वबुद्धधर्म्âवतारणाय ।
सर्वगतिसंख्याव्यवच्छेदनाय ।
सर्वज्ञज्ञानप्रतिष्ठापनाय ।
धर्मधातु-
[ चम्ब्रिद्गे म्स् f130अ ---> ]
विपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं सर्वकल्पसंख्यासत्वधातुसंख्याप्रतिप्रस्रब्धं ।सर्वसत्वधातुपरिपाचनाय ।
पञ्चमं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत निरवशेषसर्वलोकधातुविपुलसंक्षिप्तमहद्गत्âप्रमाणसूक्ष्म्âउदारिकव्यत्यस्त्âवमूर्द्धसमतलप्रवेशसमवसरण्âनुगत्êन्द्रजालविभागदशदिगशेषवैमात्र्यप्रवेशविभागज्ञान्âनुगमप्रत्यक्षतायै ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं सर्वकल्पसंख्यालोकधातुसंख्याप्रतिप्रस्रब्धं लोकधातुवैमात्र्य्âवतारणाय ।
षष्ठं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वक्षेत्र्âइकक्षेत्र्âइकक्षेत्र सर्वक्षेत्रैसमवशरणपरिशोधनं [[दोउब्त्]] ।
अप्रमाणबुद्धक्षेत्र प्रभाव्यूह्âलंकारप्रतिमण्डितं ।
सर्वक्लेश्âपनयनपरिशुद्धिपथ्ôपेतं ।
अप्रमाणज्ञान्âकारसत्वपरिपूर्णम् उदारबुद्धविषयसमवसरणं ।
यथ्âशयसर्वसत्वसंदर्शनसंतोषणाय ।
धर्मधातुवि-
[ बेन्दल्ल् एद् प्294 ---> ]
पुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं ।सर्वकल्पसंख्याबुद्धक्षेत्रसंख्याप्रतिप्रस्रब्धं ।सर्वबुद्धक्षेत्रपरिशोधनाय ।सप्तमं महाप्रणिधानम् अभिनिर्हरति ॥यद् उत सर्वबोधिसत्व्âइक्âशयप्रयोगतायै ।
निःसपत्नकुशलमूल्ôपचयाय ।
एक्âरम्बणसर्वबोधिसत्वसमतायै ।
अविरहितसततसमितबुद्धबोधिसत्वसमवधानाय ।
यथ्êष्टबुद्ध्ôत्पादसंदर्शनाय ।
स्वचित्त्ôत्पादतथागतप्रभावज्ञान्âनुगमाय ।
अच्युत्âनुगामिन्य्-अभिज्ञाप्रतिलम्भाय ।
सर्वलोकधात्वनुविचरणाय सर्वपर्षन्मण्डलप्रतिभासप्राप्तये ।
सर्व्ôपपत्तिस्वशरीर्âनुगमाय ।
अचिन्त्यमहायान्ôपेततायै ।
[ चम्ब्रिद्गे म्स् f130ब् ---> ]
बोधिसत्वचर्याचरण्âव्यवच्छेदाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं ।
सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं ।
महायान्âवतारणाय ।
अष्टमं महाप्रणिधानम् अभिनिर्हरति ॥यद् उत्âविवर्त्यचक्रसमारूढबोधिसत्वचर्याचरणाय ।
अमोघकायवाङ्मनस्करेण ।
सहदर्शननियतसर्वबुद्धधर्मप्रतिलम्भाय ।
सहघोष्ôदाहारज्ञान्â-
[ बेन्दल्ल् एद् प्295 ---> ]
नुगमाय ।
सहप्रसादक्लेशविवर्तनाय ।
महाभैषज्यराज्ôपम्âश्रयप्रतिलम्भाय ।
चिन्तामणिवत् कायप्रतिलम्भाय ।
सर्वबोधिसत्वचर्याचरणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं ।
सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं ।अमोघघोषतायै ।
नवमं महाप्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्वलोकधातुष्व् अनुत्तरसम्यक्संबोध्यभिसंबोधनाय ।
एकवालपथ्âव्यतिवृत्तसर्वबालपृथग्जनजन्म्ôपपत्त्यभिनिष्क्रमणविकुर्वण बोधिमण्डधर्मचक्रप्रवर्तनमहापरिनिर्वाण्ôपदर्शनाय ।
महाबुद्धविषयप्रभावज्ञान्âनुगमाय ।
सर्वसत्वधातुयथ्âशयबुद्ध्ôत्पादक्षणक्षण्âवबोधप्रशमप्रापणसंदर्शनाय ।
ए-
[ चम्ब्रिद्गे म्स् f131अ ---> ]
क्âभिसंबोधिसर्वधर्मधातुनिर्माणस्फरणाय ।
एकघोष्ôदाहारसर्वसत्वचित्त्âशयसंतोषणाय ।
महापरिनिर्वाण्ôपदर्शनचर्याबल्âव्युपच्छेदाय ।
महाज्ञानभूमिसर्वधर्मव्युत्थापनसंदर्शनाय ।
धर्मज्ञानऋद्धिमाय्âभिज्ञासर्वलोकधातुस्फरणाय ।
धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपर्âन्तकोटीनिष्ठं ।
सर्वकल्पसंख्य्âभिसंबोधिसंख्याप्रतिप्रस्रब्धं ।
महायान्âभिनिर्हाराय ।
दशमं महाप्रणिधानम् अभिनिर्हरत्îति ॥
[ बेन्दल्ल् एद् प्296 ---> ]
एतच् च भावयन् सर्वत्र परिणामयाम्îति योज्यं ॥
आर्य्âवलोकितेश्वरविमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं ।
एतत् कुशलमूलं सर्वसत्वप्रपातभयविगमाय परिणामयामि ।
सर्वसत्वान् सान्तानिकभयप्रशमनाय ।
सर्वसत्वसंमोहभयविनिवर्तनाय परिणामयामि ।
सर्वसत्वबन्धनभयसमुच्छेदाय ।
सर्वसत्वजीवित्ôपरोध्ôपक्रमभयव्यावर्तनाय ।
सर्वसत्व्ôपकरणवैकल्यभय्âपनयनाय ।
सर्वसत्व्âजीविकाभयव्युपशमनाय ।
सर्वसत्व्âश्लोकभयसमतिक्रमणाय परिणामयामि ।
सर्वसत्वसांसारिकभय्ôपशमनाय ।
सर्वसत्वपर्षच्छारद्यभयविगमाय ।
सर्वसत्वमरण-
[ चम्ब्रिद्गे म्स् f131ब् ---> ]
भयव्यतिक्रमाय ।
सर्वसत्वदुर्गतिभयविनिवर्तनाय ।
सर्वसत्वतमोअन्धकारविषमगत्यप्रत्युदावर्तन्âवभासकरणाय परिणामयामि ।
सर्वसत्वानां विसभागसमवधानभय्âभ्यन्तविगमाय ।
सर्वसत्वप्रियविप्रयोगभयनिरोधाय ।
सर्वसत्व्âप्रियसंवासभय्âपनयनाय ।
सर्वसत्वकायपरिपीडाभयविसंयोगाय ।
सर्वसत्वचित्तपरिपीडनभयनिर्मोक्षणाय ।
सर्वसत्वदुष्खदौर्मनस्य्ôपायाससमतिक्रमणाय परिणामयाम्îति ॥
[ बेन्दल्ल् एद् प्297 ---> ]
संक्षेपतः पुनर् इयम् अनुत्तरा परिणामना य्êयम् आर्यभद्रचर्यागाथायां ।
मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथ्âइव ।
तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥
सर्वत्रियध्व गतेभि जिनेभिर् या परिणामन वर्णित्âग्रा ।
ताय्âहं कुशलं इमु सर्वं नामयमी वरभद्रचरीये ।
इति ॥
इति शिक्षासमुच्चये भद्रचर्याविधिः षोडशमः परिच्छेदः समाप्तः ॥
वन्दन्âनुशंसाः सप्तदशः परिच्छेदः ॥
उक्तो वन्दन्âदिविधिः ।
तेन पुण्यवृद्धिर् भवत्îति कुतो गम्यते ॥
आर्य्âवलोकनसूत्रात् ।
एवं हि तत्र्ôक्तं ।
[ बेन्दल्ल् एद् प्298 ---> ]
वर्जयत्य् अक्षणान्य् अष्टौ यए इमे देशिता मया ।
क्षणं च्âरागयत्य् एकं बुद्ध्ôत्पादं सुशोभनं ॥
[ चम्ब्रिद्गे म्स् f132अ ---> ]
वर्णवान् रूपसंपन्नो लक्षणैः समलंकृतः
स्थाम्ना बलेन च्ôपेतो न्âसौ कौसीद्यम् ऋच्छति [[दोउब्त्]] ॥
आढ्यो महाधनश् च्âसौ अधृष्यः पुण्यवान् अपि ।
आराग्य लोकप्रद्योतं सत्करोति पुनः पुनः ॥
श्रेष्ठीकुलेषु स्फीतेषु स्âढ्येष्ûपपद्यते ।
भवेद् दानपतिः शूरो मुक्तत्यागो ह्य् अमत्सरी ॥
राजा भवेद् धार्मिको ऽसौ चतुर्द्वीप्êश्वरः प्रभुः ।
प्रशासयेन् महीं कृत्स्नां समुद्रगिरिकुण्डलाम् ॥
महर्द्धिकश् चक्रवर्ती सप्तरत्नसमन्वितः ।
राज्ये प्रतिष्ठितो बुद्धान् सत्करोति पुनः पुनः ॥
श्च्युत। च्âस्माद् गतः स्वर्गं प्रसन्नो जिनशासने ।
शक्रो भवति देव्êन्द्रः ईश्वरो मरुमूर्द्धनि ॥
न शक्यं भाषता वर्णं क्षपयितुं कल्पकोटिभिः ।
य स्तूपं लोकनाथस्य नरः कुर्यात् प्रदक्षिणम् ॥
[ बेन्दल्ल् एद् प्299 ---> ]
न जातु सो ऽन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः ।
उत्पाद्य बोधिचित्तं यः शास्तु स्तूपं हि वन्दते ॥
दृढवीर्यो दृढस्थामो वीरश् च दृढविक्रमः ।
कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूपप्रदक्षिणम् ॥
यो बुद्धकोटिनियुतशतसहस्रान् कल्पान् कोटी च तुलिय सत्करया ।
यश् च्êह कल्पे चरमक घोरकाले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥
[ चम्ब्रिद्गे म्स् f132ब् ---> ]
अग्रो हि बुद्धो ऽतुलिय दक्षिणीयो ऽग्रां चरित्वा चरियविशेष प्राप्तः ।
तस्य्êह पूजां करिअ नररिषभस्य विपाक श्रेष्ठो भवति अतुल्यरूपः ॥
इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति ।
विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥
कूट्âगारं स्वयं दत्व्âप्सरोगणसेवितः ।
मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥
अष्ट्âङ्गजलसंपूर्णां सुवर्णसिकत्âस्त्रिताम् ।
वैडूर्यस्फटिकैश् च्âइव दिव्यां पुष्करिणीं लभेत् ॥
भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः ।
च्युत्वा च देवलोकात् स मनुष्यो भवति भोगवान् ॥
[ बेन्दल्ल् एद् प्300 ---> ]
जातिकोटिसहस्रणि शतानि नियुतानि च ।
सत्कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥
चक्रवर्ती च राज्âसौ शक्रश् च भवत्îश्वरः ।
ब्रह्मा च ब्रह्मलोकस्मिन् चैत्ये मालां प्रदाय च ॥
पट्टप्रदान दत्वा तु लोकनाथस्य तायिनः ।
सर्वे ऽस्य्âर्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥
त्यजेद् धीनान् अकुशलान् न स तत्र्ôपपद्यते ।
मालाविहारं कृत्वा च लोकनाथस्य धातुषु ।
अभेद्यपरिवारेण राजा भूयान् महर्द्धिकः ॥
प्रियः सदयितश् च्âसौ सत्कृतश् च प्रशंसितः ।
दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥
यत्र्âसौ जायते वीरः पुण्यतेजःसुदीपितः ।
ते कुलाः सत्कृता भोन्ति राष्ट्राणि नगराणि च ॥
[ बेन्दल्ल् एद् प्301 ---> ]
यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु ।
तस्य्âनुशंसान् शृणुत प्रभाषतो मे प्रसन्नचित्ता जहिय खिलां मलांश् च ॥
स पुण्यवांश् चरति दिशः समन्ताद् आरोग्यप्राप्तो दृढमतिर् अप्रमत्तः ।
विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महाजनस्य ॥
राज्यं च लब्ध्वा जिन वरु सत्करोती मह्âनुभावो विदु चक्रवर्ती ।
सुवर्णवर्णो विचित्रलक्षणैः स मनोज्ञगन्धान् लभि सर्वलोके ॥
जातमात्रो लभते श्रेष्ठवस्त्रान् दिव्यविशिष्टसुरुचिरकौशिकांश् च ।
भोती सुखसुकायः संवेष्ट्यस्तूपं नाथस्य चीवरैः ।
यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अतुलां नायकानां ।
तस्य्êह भोती असदृशु आत्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ।
[ बेन्दल्ल् एद् प्302 ---> ]
पाणीतलेषु सुरुचिरु मुक्तहाराः प्रादुर्भवन्ती विविध्âनन्तकल्पाः ।
सिंहलताः सुरुचिरवर्णसूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥
दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्धलोके ।
स पूजनीयो भवति महाजनस्य चरन्तु श्रेष्ठो जिनचारिकाये ॥सुवर्णवर्णो भवति सि आत्मभावो लाभी स भोती सुरुचिरचीवराणां ।
[ चम्ब्रिद्गे म्स् f133ब् ---> ]
कर्पासिकानां सुसहित कम्बलानां दुकूलकानां तथ वरकौशकानां ॥
ध्वजं ददित्वा हतरजि सत्वसारे धनं प्रभूतं प्रतिलभि न चिरेण ।
प्रभूतकोषो भवति अनन्तप्रज्ञो परिचारु तस्य भवत्य् अदीनचित्तः ।
न चित्तशूलं जनयति सो परस्य प्रसादचित्तः सद्âप्रमत्तः ।
न तस्य्âग्निः क्रमति विषन्नशस्त्रं उद्वीक्षणीयो भवति महाजनस्य ॥
[ बेन्दल्ल् एद् प्303 ---> ]
अधो उपादाय च विभव्âग्रु यावत् जाम्बूनदं तेन भवति बुद्धक्षेत्रं ।
शक्यं क्षयेतुं आयुश्रिय्âइवरूपा न बुद्धस्तूपे धरयत्âइक दीपम् ॥
न तस्य कायो भवति अवर्णित्âङ्गो दृढ्âसु भोती परिघभुजो ऽछम्भी ।
आलोकप्राप्तो [[दोउब्त्]] विचरति सर्वलोके ददित्व दीपं भगवत चेतिकेषु ॥
यदि बुद्धक्षेत्रा नियुतशता सहस्रा भवेयु पूर्णा शिखगतसर्षपेभिः ।
शक्यं गणेतुं तुलयितु भाषितुं वा न तथागतेषू धरयितु एकदीपम् ॥अलङ्करित्वा सुरुचिरदर्शनीयं यो देति छत्रं भगवत चेतिकेषु ।
तस्य्êह भोत्य् असदृश्âत्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥
येभिर् जिनस्य प्रतपत्âत्मभावो रूपं विशिष्टं यथरिव [[दोउब्त्]] काञ्चनस्य ।
जाम्बूनदो वा सुरुचिरदर्श-
[ चम्ब्रिद्गे म्स् f134अ --->]
नीय्âभिकीर्ण ... कुसुमित लक्षणेभिः ॥
अभिज्ञप्राप्तो भवति महायश्âख्यः चरति श्रेष्ठ्âवरचारिकायां ।
न भोगहानिर् भवति कदाचिद् अस्य देवान भोति गुरुकृत पूजितश् च ॥
[ बेन्दल्ल् एद् प्304 ---> ]
न कामभोगौ रमति कदाचि धीरो विशुद्धशीलः सकुशलब्रह्मचर्यः ।समादयित्वा वनुपवने उषित्व्âभियुक्तिध्यानो भवति विशेषप्राप्तः ॥
न ज्ञानहानिर् भवति कदाचिद् अस्य न बोधिचित्तं विजहति सो कथञ्चित् ।
मैत्रीविहारी भवति अदीनचित्तो दत्व्êह छत्त्रं भगवतचेतिकेषु ॥
वाद्येन पूजां नरवृषभस्य कृत्वा न शोक शल्यवश जातु भोति ।
मनोज्ञघोषो भवति मनुष्यलोके स्वर्âङ्गु तस्य्âविकल विशुद्ध भोति ॥विशुद्धचक्षुर् भवति स संप्रजन्यो विशुद्धश्रोत्रो भवति उदग्रचित्तः ।
घ्रण्êन्द्रियं परम्ôत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥जिह्व्âस्य भोति सुरुचिर दर्शनीया सुसूक्ष्म मृद्वी रुचिर मनोज्ञ घोषा ।
रक्ता प्रवाला यथरिव [[दोउब्त्]] देवतानां स्वर्âङ्ग कोटीवर सृजते ऽप्रमेयां ॥
न जातु भोती उरगु अजिह्वको वा न खञ्जकुब्जो न्âपि च नामित्âङ्गः ।
विशिष्ट भोती सुरुचिर्âत्मभावो
[ चम्ब्रिद्गे म्स् f134ब् ---> ]
वादित्व वाद्यं भगवत चेतिकेषु ॥
न जातु कश्चिज् जनये प्रसादं देवो च नागो मनुज मह्ôरगो वा ।
आश्वासप्राप्तो विचरति सर्वलोके वादित्व वाद्यं भगवत चेतिकेषु ॥
कल्पान कोटीनियुतशता सहस्रं विशिष्टकायो भवति अनिन्दित्âङ्गः ।
प्रासादिको ऽसौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥
[ बेन्दल्ल् एद् प्305 ---> ]
विमानश्रेष्ठं लभति मनोज्ञगन्धं दिव्यं विशिष्टं सुरुचिरचन्दनस्य ।
न जातु तृष्णां जनयति सो कदाचित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥प्रलोपकाले जिनवरशासनस्मिन् न जातु भोती उपगत जम्बुद्वीपे ।
स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्ध्âनुलेपं ददिय जिनस्य स्तूपे ॥दुर्गन्धिकामान् अशुचिजुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शीलस्कन्धे ।
चरी स नित्यम् इमु वर ब्रह्मचर्यं गन्ध्âनुलेपं करिय जिनस्य स्तूपे ॥
इतश् च्युतो ऽसौ मरुपति स्वर्गलोके ऽर्थं सहस्रा तुलयति न्ô चिरेण ।
करोति च्âर्थं सुविपुलदेवतानां गन्ध्âनुलेपं करिय जिनस्य स्तूपे ॥
विशिष्टवाक्यो भवति मनोज्ञघोषः प्रियो मनापो बहुजनसत्कृतश् च ।
[ चम्ब्रिद्गे म्स् f135अ ---> ]
सुखं च तस्य भवति सदा प्रसन्नं गन्ध्âनुलेपं करिय जिनस्य स्तूपे ॥
अपायभूमिं ... विजहात्य् अशेषां आसन्नको भवति तथागतानां ।
प्रसादलब्धः सद सुखि प्रेमणीयो गन्ध्âनुलेपं करिय जिनस्य स्तूपे ॥
[ बेन्दल्ल् एद् प्306 ---> ]
सो ऽक्षणं वै विजहाति सर्वं अष्ट क्षणाश् च्âस्य विशिष्ट भोन्ति ।
बुद्धान पूजाम् अतुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥ शूरश् च भोति दृढमतिर् अप्रमत्तो न कामभोगे ऽभिरतिं जनेति ।
नैष्क्रम्यप्राप्तौ च्âदीनचित्तः छोरित्व जालं भगवत चेतिकेषु ॥
न बोधिचित्तं प्रमुष्यति तस्य जातु अखण्डशीलो ऽस्ति सुसंवृतश् च ।
धर्मं विरागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥
दुर्वाचतां विजहति सर्वकालं प्रज्ञ्âभावं च जहात्य् अशेषम् ।विशालप्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥
लाभी च भोती शुचिभोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् ।
स्पर्श्âभ्युपेतान् रुचिदर्शनीयान् उपनीय जालं जिनचेतिकेभ्यः ॥
अभ्युत्क्षिपित्वा जिनचेतिकेभ्यः निर्माल्यशुष्कं प्रमुदितवेगजातः ।
व्रजेत कामान् दुःखदवैरघोरान् आरागयेद् दशबलस्âर्थवाहान् ॥
[ बेन्दल्ल् एद् प्307 ---> ]
प्रासादिको भोति विशुद्धकायः उद्वीक्षणी-
[ चम्ब्रिद्गे म्स् f135ब् ---> ]
यो बहुजनपूजनीयः ।
न तस्य राज्âपि प्रदुष्टचित्तः यो जीर्णपुष्पान् अपनेय चैत्ये ॥कुमार्ग सर्वं पिथित्âपायभूमिः स शीलस्कन्धे स्थित बोधिसत्वः ।
अवतारयित्वा जिनचेतिकेभ्यः पुष्पं च प्राग् अन्यनरैः प्रदत्तं ॥शोकांश् च दोषान् विजहात्य् अमत्तो रोगान् अशेषान् विजहात्य् अनेकान् ।
आश्वासप्राप्तश् च्âनन्तकल्पान् यो जीर्णपुष्पान् अपनेति चैत्ये ॥
बुद्धश् च भोत्य् असदृशदक्षिणीयो ऽतुल्यप्राप्तो नरमरुपूजनीयः ।
अलंकृतो भवति विशुद्धकायः यो जीर्णपुष्पान् अपनेति चैत्ये ॥
दद्याच् च यः सुरुचिरदिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा ।
निर्माल्यकं यो ऽपनयेत चैत्ये विपाक श्रेष्ठो ऽस्य भवेद् अतुल्यः ॥यः प्राञ्जलिः प्रणमति नाथस्तूपं छन्दं जनित्वा च सबुद्धलोके ।
सो भोति लोके गुरुकृतु सत्कृतश् च प्रासादिको भवति सुदर्शनीयः ॥
तस्य्êह राज्यं निपतति सर्वलोको देव्âसुरा नागमनुष्यकाश् च ।
सर्वाः सहस्राः कुसुमित लोकधातुः प्रशास्ति राज्ञो वश्êश्वरांश् च ॥
ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अकलुषबुद्धज्ञाने ।
अपायभूम्यस् त्यक्ता भवन्ति करोति च्âइषां परमसुश्रेष्ठम् अर्थम् ॥
[ बेन्दल्ल् एद् प्308 ---> ]
परिचारो-
[ चम्ब्रिद्गे म्स् f136अ ---> ]
अस्य भवति मनोज्ञघोषः पुण्यैर् उपेतः स्मृतिमतिपूजनीयः ।
आश्वासप्राप्तो विचरति जीवलोके सद्âभिप्रायं जनयति श्रेष्ठप्रीतिं ॥
परिचार भोत्य् अस्य स्वर्âङ्ग शुद्धः ज्ञायेत सत्वैर् मधुरप्रशान्तवाक्यो ।
न तस्य कश्चिज् जनयति च्êश्वरत्वं विलोकनीयो भवति महाजनस्य ।
दानप्रमोदं प्रियत्âर्थचर्यां समान्âर्थतां जनयति महाजनस्य ।
आक्रुष्टः सन् न्âजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्धस्तूपं ॥देव्êन्द्र भोत्य् उपगतस्वर्गलोके मनुष्यको भवति नरस्य राजा ।
न पारिहाणिर् भवति कदाचिद् अस्य यो ऽञ्जलीभिर् नमत्îह स्तूपं ॥
न्âसाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके ।
आढ्यो धनी भोति प्रभूतकोषो यो ऽञ्जलीभिर् नमति बुद्धस्तूपम् ॥
सूत्र्âन्तचर्या न कदाचिद् अस्य न्âस्थानकोपं कुरुते नृलोके ।
सत्वाश् च तृप्ता मुदित्âस्य भोन्ति यः संप्रमुञ्ची गुणवति एकवाचं ॥
[ बेन्दल्ल् एद् प्309 ---> ]
यः पुष्पमुष्टिं गृहीत्व्ôदग्रचित्तः प्रसादतो ऽवकिरति लोकनाथे ।
स पुण्यवान् भवति मनुष्यलोके राक्षे च स्थित्वा जिन सत्करोति ॥
शोका न दोषाः खिलमल न्âस्य भोन्ति अतुल्यत्âप्तश् च सुसंस्थित्âङ्गः ।
आलोकनीयश् च महाजनस्य व्रजेत कामान भयकरवैरघोरान् ।
इति ॥आर्यमहाकरुणापुण्डरीकसूत्रे ऽप्य् उक्तं ।तिष्ठतु तावद् आनन्द यो मां संमुखं सत्कुर्यात् ।
तिष्ठतु मे शरीरस्य पूजा सर्षपफलम-त्रेषु धातुषु ।
[ चम्ब्रिद्गे म्स् f136ब् ---> ]
तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्कारः ।
ये केचिद् आनन्द बुद्धम् आलम्ब्य्âन्तश्âइकपुष्पम् अप्य् आकाशे क्षेप्स्यन्ति ।
तस्य पुण्यस्कन्धस्य यो विपाकः सचेद् यावान् अनादिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते ।
तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्रवर्तित्वं ।
न शक्यस् तत्पर्यन्तो ऽधिगन्तुम् ।
तिष्ठतु बुद्ध्âलम्बत्âन्तश*आकाशे ऽप्य् एकपुष्पनिक्षेपः ।
सचेद् अन्तशः स्वप्न्âन्तरगत्âपि सत्वा बुद्धम् आलम्ब्य्âकाशे एकपुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशलमूलं निर्वाणपर्यवसानं वदाम्îति ॥उक्तं च्âर्यबृहत्सागरनागराजपरिपृच्छायां ।
अष्टाभिर् भुजग्âधिपते धर्मैः समन्वागता बोधिसत्वाः सततसमितं बुद्धसमवधानं प्रतिलभन्ते ।
कतमैर् अष्टाभिः ।
बुद्धबिम्बदर्शनसत्वसमादापनतया ।
तथागतस्य्ôपस्थानकरणतया ।
तथागतस्य्âभीक्ष्णं वर्णभाषणतया ।
तथागतप्रतिमाकरणतया ।
तथागतदर्शनसर्वसत्वसमादापनतया ।
यत्र च बुद्धक्षेत्रे तथागतश्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति ।
न च्âवलीनसंततयो भवन्ति ।
उदारसंततिकाश् च बुद्धज्ञानम् अभिलषन्तए इति ॥
[ चम्ब्रिद्गे म्स् f137अ ---> ]
किं पुनः पुण्यवृद्ध्यर्थिनो बुद्धसमवधानेन प्रयोजनभूतं ।
यस्य गुणपर्यन्तम् असर्वज्ञो न्âधिगच्छेत् ॥
[ बेन्दल्ल् एद् प्310 ---> ]
यथ्âर्यगण्डव्यूहे संवर्णितं ।
सुदुर्लभो बुद्धशब्दः कल्पकोटिशतैर् अपि ।
किं पुनर् दर्शनं सर्वकाङ्क्षाच्छेदनम् उत्तमम् ॥सुदृष्टो लोकप्रद्योतः सर्वधर्मगतिं गतः ।
पुण्यतीर्थं त्रैलोकस्य सर्वसत्वविशोधनम् ॥
महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञानमण्डलं ।
भासयत्य् अभितं लोकं पुण्यस्कन्धविवर्द्धनम् ॥
छेदनो दुष्खजालस्य ज्ञानस्कन्धविशोधनः ।
न दुर्गतिभयं तेषां यैर् इह्âरागितो जिनः ॥विपुलं जायते चित्तं पश्यतां द्विपद्ôत्तमं ।
प्रज्ञाबलम् असंख्येयं जायते च प्रभास्वरं ॥पुनर् अत्र्âइव्âह ।
अर्थाय सर्वसत्वानाम् उत्पद्यन्ते तथागताः ।
महाकारुणिका वीरा धर्मचक्रप्रवर्तकाः ॥
प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वेदेहिभिः ।
सत्व्âर्थेष्व् अभियुक्तानां कल्पकोटिशतैर् अपि ॥
कल्पकोटिं वरं पक्तुं त्र्यपाये भृशदारुणे ।
न त्व् एव्âदर्शनं शास्तुः सर्वसर्गनिवर्तिनः ॥
यावन्तः सर्वलोकस्मिन्न् अपायगतयः पृथक् ।
वरं तत्र चिरं वासो बुद्धानाम् अश्रुतिर् न च ॥किं कारणम् अपायेषु निवासश् चिरम् इष्यते ।
यत्कारणं जिन्êन्द्रस्य दर्शनं ज्ञानवर्धनम् ॥
[ बेन्दल्ल् एद् प्311 ---> ]
छिद्यन्ते सर्वदुष्खाणि दृष्ट्वा लोक्êश्वरं जिनं ।
संभवत्य् अवतारश् च ज्ञाने संबुद्धगोचरे ॥क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नर्ôत्तमम् ।
वर्धयत्य् अमितं पुण्यं येन बोधिर् अवाप्यतए ।
इति ॥
[ चम्ब्रिद्गे म्स् f137ब् ---> ]
तद् एवम् अस्ति पुण्यवृद्धौ बुद्धसमवधानेन प्रयोजनं ।अपि च प्रतिमामात्रदर्शनम् अपि तावद् अपरिमितफलं तथागतानां ।
किं पुनः स्वरूपेण ॥ उक्तं ह्य् आर्यश्रद्धाबल्âधान्âवतारमुद्रासूत्रे ।
यः कश्चिन् मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा सर्वलोकधातुरज्ôपमानां प्रत्येकबुद्धानां दिने दिने शतरसम् आहारं दद्यात् दिव्यानि च वस्त्राणि ।
एवं ददद् गङ्गानदीवालुक्ôपमान् कल्पान् दद्यात् ।
यश् च्âन्यो मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा चित्रकर्मलिखितं वा पुस्तककर्मकृतं वा बुद्धं पश्येद् ।
अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ।
कः पुनर् वादो यो ऽञ्जलिप्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् ।
अयम् एव ततो ऽसंख्येयतरं पुण्यं प्रसवत्îति ॥आर्यबोधिसत्वपिटके ऽपि पुण्यवृद्ध्युपाय्ôक्तः ।
यस् तथागतचैत्यं शोधयति स चतस्रो ऽग्राः प्रणिधानविशुद्धीर् अनुप्राप्नोति ।
कतमाश् चतस्रः ।
अग्रां रूपप्रणिधानविशुद्धिं ।
अग्रां दृढसमादानप्रणिधानविशुद्धिं ।
अग्रां तथागतदर्शनप्रणिधानविशुद्धिं ।अग्रां लक्षणसंपत्प्रणिधानविशुद्धिम् इति ॥पुनर् अत्र्âइव्âख्यातं ।
तथागतचैत्येषु पुष्प्âवरोपणं गन्ध्âनुलेपनं कृत्व्âष्टाव् अविकलत्âनुप्राप्नोति ।
कतम्âष्टौ ।
न रूपविकलो भवति ।
न भोगविकलः ।
न परिवा-
[ बेन्दल्ल् एद् प्312 ---> ]
रविकलः ।
न शीलविकलः ।
न समाधिविकलः ।
न श्रुतविकलो न प्रज्ञाविकलो न प्रणिधानविकल्êति ॥
उक्तं च्âर्यरत्नराशिसूत्रे ।
ये त्रिभवपर्यापन्नाः सत्वास् ते सर्वे प्रत्येकं तथागतस्तूपान् कारयेयुर् एवंरूपान् उच्चैस्त्वेन ।
तद् यथा सुमेरुः पर्वतराजः ।
तांश् च गङ्गानदीवालिकासमान् कल्पान् प्रत्येकं सर्वसत्कारैः सत्कुर्युः ।
यश् च बोधिसत्वो ऽविरहितसर्वज्ञताचित्तेन्âइकपुष्पम् अप्य् आरोपयेत् ।
अयं तस्मात् पूर्वकात् पुण्यस्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥अत्र्âइव्ôक्तं ।
ये खलु पुनस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे महायानसंप्रस्थिता भवेयुः ।
सर्वे च चक्रवर्तिराज्यसमन्वागता भवेयुर् एक्âइकश् च राजा चक्रवर्ती महासमुद्रप्रमाणदीपस्थालीं कृत्वा ।
सुमेरुमात्रां वर्तीम् आदीप्य प्रत्येकम् एवंरूपां दीपपूजां तथागतचैत्येषु प्रवर्तयेत् ।
यश् च्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वस् तैलप्रक्षिप्तां वर्तीं कृत्व्âदीप्य तथागतचैत्ये धारयेत् ।
अस्यास् तैलप्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीपदानं शततमीम् अपि कलां न्ôपैति ।
यावद् उपनिषदम् अपि न क्षमतए इति ।
पेयालं ॥
ये च खलु पुनस् ते राजानश् चक्रवर्तिनो बुद्धप्रमुखं भिक्षुसं-
[ चम्ब्रिद्गे म्स् f138ब् ---> ]
घं सर्वसुख्ôपधानैः सत्कुर्युः यश् च्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वः पिण्डपात्रं चरित्वा पात्रपर्यापन्नं परेषां संविभज्य परिभुञ्जीत ।
इदं ततो बहुतरं च मह्âर्घतरं च ।
यच् च ते राजानश् चक्रवर्तिनः सुमेरुमात्रं चीवरराशिं बुद्धप्रमुखाय भिक्षुसंघाय दद्युः ।
यच् च्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वस् त्रिचीवरं बहिर्धा महायानसंप्रस्थिताय बुद्धप्रमुखाय भिक्षुसंघाय वा तथागतचैत्ये वा दद्याद् ।
इदं भिक्षोश् चीवरदानम् एतत् पूर्वकचीवरराशिम् अभिभवति ।
यच् च ते राजानः प्रत्येकं सर्वं जम्बूद्वीपं पुष्पसंस्तृतं कृत्वा तथागतचैत्ये निर्यातयेत् ।
यच् च्âभिनिष्क्रान्तगृह्âवासो बोधिसत्वः अन्तश्âइकपुष्पम् अपि तथागतचैत्ये आरोपयेत् ।
अस्य दानस्य्âइतत् पूर्वकं दानं शततमीम् अपि कलां न्ôपैति ।
यावद् उपनिषदम् अपि न्ôपैत्îति ॥
[ बेन्दल्ल् एद् प्313 ---> ]
आर्य्âनुपूर्वसमुद्गतपरिवर्ते ऽपि देशितं ।
चतुर्êमान् भद्र्âनुशंसान् पश्यन् बोधिसत्वस् तथागतपूजायाम् उत्सुको भवति ।
कतमांश् चतुरः ।
अग्रश् च मे दक्षिणीयः पूजितो भविष्यति
[ चम्ब्रिद्गे म्स् f139अ ---> ]
मां च दृष्ट्व्âन्ये ऽपि तथा शिक्षिष्यन्ति ।
तथागतं च पूजयित्वा बोधिचित्तं दृढं भविष्यति ।
द्वात्रिंशतां च महापुरुषलक्षणानां संमुखदर्शनेन कुशलमूलम् उपचितं भविष्यति ।
इमाश् चत्वारः इति ॥इदं च निरुत्तरं तथागतपूज्ôपस्थानं ।यथ्ôदाहृतम् आर्यसागरमतिपरिपृच्छासूत्रे ।
त्रीण्îमानि सागरमते तथागतस्य निरुत्तराणि पूज्ôपस्थानानि ।
कतमानि त्रीणि ।
यच् च बोधिचित्तम् उत्पादयति ।
यच् च सद्धर्मं परिगृह्णाति ।
यच् च सत्वेषु महाकरुणाचित्तम् उत्पादयत्îति ॥निर्दिष्टम् अप्य् आर्यरत्नमेघे ।
दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्व्âननुलिप्ता गर्भमलेन जायन्ते ।
कतमैर् दशभिः ।
यद् उत ।
तथागतप्रतिमाकरणतया ।
जीर्णचैत्यसंस्करणतया ।
तथागतचैत्येषु गन्धविलेपन्âनुप्रदानेन ।
तथागतप्रतिमासु गन्ध्ôदकस्नान्âनुप्रदानेन ।
तथागतचैत्येषु संमार्जन्ôपलेपन्âनुप्रदानेन ।
मातापित्-र्णां कायपरिचर्य्âचरणेन्âचार्य्ôपाध्यायानां कायपरिचर्य्âचरणेन ।
सब्रह्मचारिणां कायपरिचर्य्âचरणेन ।
तच् च निरामिषेण चित्तेन न स्âमिषेण ।
तच् च कुशलम् एवं परिणामयन्ति ।
[ चम्ब्रिद्गे म्स् f139ब् ---> ]
अनेन कुशलमूलेन सर्वसत्वा निरुपलिप्ता गर्भमलेन जायन्ताम् इति ।
तच् च तीव्रेण्âशयेन चिन्तयन्ति ।
एभिः कुलपुत्र दशभिर् धर्मैर् इति ॥अनुमोदन्âनुशंसास् त्व् आर्यप्रज्ञापारमितायाम् उक्ताः ।
यः प्रथमयानसंप्रस्थितानां बोधिसत्वानां महासत्वानां तांश् चित्त्ôत्पादान् अनुमोदते ।चरताम् अपि बोधिसत्वचर्यां तांश् चित्त्ôत्पादान् अनुमोदते ।
अविनिवर्तनीयाम् अपि अविनिवर्तनीयधर्मताम् अनुमोदते बोधिसत्वानां महासत्वानां ।
[ बेन्दल्ल् एद् प्314 ---> ]
कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसवति ॥
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् ।
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0