शिक्षासमुच्चय (अन्य संस्करण) · भाग 241242
पुण्यं प्रवर्तते तस्माद् अनन्तं सत्वधातुवत् ॥अयं स मार्गप्रवरः क्षेम्âनन्तसुख्ôत्सवः ।
बोधिसत्वमहास्âर्थ कलिलप्रीतिवर्धनः ॥
पाल्यमानश् च सततं वज्रपाण्यातियान्त्रिकैः ।
मारगुल्मिकसंत्रासजननैर् बुद्धकिंकरैः ॥संबुद्धराजतनया बोधिचित्तरथस्थिताः ।
वहन्ते तेन मार्गेण स्तूयमानाः सुर्âदिभिः ॥
तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यासयोगतः ।
पर्âत्मदुष्खशान्त्यर्थम् आत्म्âदीन् सर्वथ्ôत्सृजेत् ॥तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति ।
परिणामविनाशित्वात् स दुष्खजनको यतः ॥लोके दुष्ख्âग्नितप्ते च का रतिः सुसुखे भवेत् ।
समन्ताद् दह्यमानस्य नख्âदाहे ऽपि किं सुखम् ॥आत्मतृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं ।
तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्व्âर्थम् उत्सृजन् ॥
[ बेन्दल्ल् एद् प्362 ---> ]
तद् अग्रदूती ज्ञात्êच्छा जेतव्या सर्वयत्नतः ।
आत्मतत्वस्मृतिं कृत्वा प्रतीत्य्ôत्पादचिन्तया ॥यद् भयान् न्ôत्सृजाम्य् एतत् तद् एव्âददतो भयं ।
प्रतिक्षणं हि यात्य् एव कायश् चित्तं च मे यतः ॥यदि नि-
[ चम्ब्रिद्गे म्स् f165अ ---> ]
त्य्âप्य् अनित्येन निर्मला मलवाहिना ।
बोधिः कायेन लभ्येत ननु लब्धा मय्âइव सा ॥एवम् आत्मानम् उत्सृज्य सर्वसत्व्âर्थम् आचरेत् ।
भैषज्यप्रतिमाकल्पो लोकधर्मेष्व् अचिन्तकः ॥सर्वसत्व्âर्थमन्त्रित्वे स्वप्रज्ञां विनियोजयेत् ।
युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु व्ôपयोजयेत् ॥स्वकाये परकाये वा यद् दुष्खं न्êह दुष्खकृत् ।
सत्वानां भोगविघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः ।
लोक्ôपजीव्यात् सत्तीर्थाद् [[दोउब्त्]] भुजङ्गकुणप्êव ॥पुण्यक्षेत्रम् इदं शुद्धं संपत्सस्यमहाफलं ।
सुखदुर्भिक्षसंतप्तं जगत् संतर्पयिष्यति ॥लाभसत्कारकाय्âदि त्यक्तं ननुजने [[दोउब्त्]] मया ।
कोपः कस्य्âर्थम् अद्य्âपि मृषा वा तन् मय्ôदितम् ॥स्व्âर्थघ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति ।
निर्दयस्य्âपि कः कोपः पर्âर्थो यदि नश्यति ॥
[ बेन्दल्ल् एद् प्363 ---> ]
आक्रोश्âदिक्षमाः सत्यम् इक्षुकस् तूरिक्âदयः ।
स्वाम्य्-असनेन दुर्न्यस्ता न्ôपभोग्या भवन्ति ते ॥चिन्तयति प्रतीकारं न च स्वामिहित्êच्छया ।
न्âपि संचोदयत्य् एनं भोग्âर्थं न्ôपयाति च ॥अनुस्मृत्य्ôपस्मृत्य्âइतान् अकृष्ट्ôप्ता जिन्âत्मजाः ।
नानाविषयधातूनां सार्व्êन्द्रियमहागदान् ॥विज्ञप्य स्मारयित्व्âइतान् क्रुद्धान् अप्य् उपकारिणः
[ चम्ब्रिद्गे म्स् f165ब् ---> ]
स्वभावात्यक्तमाधुर्याः सुखयन्त्य् एव दुष्खितान् ॥
धातवः पञ्च भूवारितेजो ऽनिलखसंज्ञिताः ।
यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थकारिणः ॥सर्वदुश्चरितेन्âइषां सत्व्âर्थाद् विनिवर्तनं ।
एवम् एतान् करोम्य् एष धातून् षड् अपि निर्व्यथान् ॥यावद् आकाशनिष्टस्य निष्ठा लोकस्य संभवेत् ।
तावत् स्थास्यामि लोक्âर्थं कुर्वन् ज्ञानपुरःसरः ॥आत्म्âचार्यो ऽनुशियष्याद् धि सद्âत्मानं सुशिष्यवत् ।
अपृष्ट्वा च्âत्मन्âत्मानं बलेन्âरक्षितक्रियः ॥
[ बेन्दल्ल् एद् प्364 ---> ]
क्âइव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी ।
तद्दोष्âनुशयज्ञो वा यथ्âत्मगुरुर् आत्मनः ॥अविराग्य्- अपलायी च करुणाविषयो ऽपि वा ।
नित्यसंनिहितश् च्âपि शिष्य्âत्मसमः कुतः ॥क्लेश्ôन्मत्तो ऽथ मोह्âन्धः प्रपातबहुले पथि ।
स्खलन् पदे पदे शोच्यः पर्âत्मा च सर्वदा ॥स्खलित्âन्वेषणं तस्मात् समानव्यसनाज् जनात् ।
न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्व्âद्भुतं महत् ॥न्âइकेन शक्यम् आदातुं मया दोषमह्ôदधिः ।
कृत्यम् अन्यैर् मम्âइव्âत्र को ऽन्यदोषेषु म्êक्षणः ॥परचोदनदक्षाणाम् अनधीष्ट्ôपकारिणां ।
वाक्यं मूर्ध्ना प्रतीच्छामि सर्वशिष्यो भवाम्य् अहं ॥संग्रामो हि मम्âइकस्य बहुभिः क्लेशशत्रुभिः ।
तत्र्âइकेन रण्âसक्तम् अन्ये निघ्न-
[ चम्ब्रिद्गे म्स् f166अ ---> ]
न्ति मां सुखम् ॥
तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो ऽपि वा ।
प्रद्विष्टो वा प्रसन्नो वा समे प्राणप्रदः सुहृत् ॥
[ बेन्दल्ल् एद् प्365 ---> ]
अलिसंहातनीलेन चीरभारणभारिणा ।
विचित्रसुरभिस्फीतपुष्पशेखरहारिणा ॥युगपत् सर्वदिग्बुद्धक्षेत्रसागरचारिणा ।
बलिना प्रतिकार्येण सर्वमार्âपहारिणा ॥नरकप्रेतसंतापप्रशम्ôन्मुक्तवारिणा ।
संसारगहन्âन्तस्थभव्यसत्व्âर्थसारिणा ॥जगन्नेत्र्ôच्छव्ôत्पादिबल्âलङ्कारधारिणा ।
विदुषा बालवपुषा लोकविस्मयकारिणा ॥मञ्जुश्री संज्ञकं यत् तत् पिण्डीभूतं जगद्धितं ।
सर्वेण्âइव्âत्मभावेन नमस् तस्मै पुनः पुनः ॥
अनेकदुष्खसंतप्तप्रह्लादनमहाह्रदं ।
त्रैलोक्यतृष्णापातालप्रपूरणमह्âम्बुदम् ॥जगदिष्टफलस्फीतदशदिक्कल्पपादपं ।प्रार्थितप्राप्तिसंहृष्टजगन्नेत्र्ôत्पल्âर्चितं ॥विस्मय्ôद्गतरोमाञ्चैर् बोधिसत्वशतैः स्तुतम् ।
मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तर्ôत्तरैः ॥निःशेषदुष्खवैद्याय सुखसत्त्रप्रदायिने ।
सर्व्âकार्ôपजीव्याय मञ्जुघोषाय ते नमः ॥
[ बेन्दल्ल् एद् प्366 ---> ]
इति जिनतनयानां सर्वथ्âत्यद्भुतानां चरितम् उपनिब्ध्य्ôपार्जितं यच् छुभं मे ।
भवतु सुखम् अनन्तं देहिनां तेन यावत् सुगतपदम् अन-
[ चम्ब्रिद्गे म्स् f166अ ---> ]
न्तव्योमसीम्âधिपत्यं ॥पुण्यवृद्धिः समाप्ता ॥
समाप्तश् च्âयं बोधिसत्वविनयो ऽनेकसूत्र्âन्त्ôद्धृतः शिक्षासमुच्चय्êति ॥
मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0