भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 120

शिक्षासमुच्चयः ।
दानपारमिता नाम प्रथमः परिच्छेदः ॥
नमः सर्वबुद्धबोधिसत्वेभ्यः ॥
यस्य्âश्रवेण नरक्âदि महाप्रपातदाह्âदिदुष्खम्
अनुभूतम् अभूद् भवद्भिः ।
तीव्रं पुनः पुनर् अनन्तम् अशान्तचित्तैस् तच् छ्रोतुम् आदरम् उदारतरं भजध्वम् ॥
श्रुत्वा ... पापं अनुद्धत्âत्मा पूर्व्âर्जितं च विपुलं क्षपयत्य् अशेषम् ।
अप्राप्तपूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदाचिद् अपि प्रयान्ति ॥
सम्बोधिसत्वसुखम् उत्तमम् अक्षय ... अप्य् असमसंपदम् आप्नुवन्ति ।
तद् धर्मरत्नम् अतिदुर्लभम् अप्य् अलब्धं लब्धक्षणाः
शृण्वत स्âदरम् उच्यमानम् ॥
आयान्तु च त्रिभुवन्âइकहितस्य वाक्यं श्रोतुं प्रसन्नमनसः
सुरनागसत्वाः ।
गन्धर्वयक्षगरुड्âसुरकिन्नर्êन्द्राः प्रेत्âदयः
श्रवणजाततृषः सहर्षाः ॥
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्य्âदरतो ऽखिलांश् च वन्द्यान् ।
सुगत्âत्मजसम्वर्âवतारं कथयिष्यामि
समुच्चित्âर्थवाक्यैः ॥
न च किञ्चिद् अपूर्वम् अत्र वाच्यं न च संग्रन्थनकौशलं मम्âस्ति ।
अत्âइव न मे पर्âर्थयत्नः स्वमनो भावयितुं मम्êदम्
इष्टम् ॥
मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
यदि मत्समधातुर् एव पश्येद् अपरो ऽप्य् एनम् अतो ऽपि स्âर्थको ऽयम् ॥
[ बेन्दल्ल् एद् प्2 ---> ]
क्षणसम्पद् इयं सुदुर्लभा प्रतिलब्धा पुरुष्âर्थसाधनी ।
यदि न्âत्र विचि-
[ चम्ब्रिद्गे म्स् f2अ ---> ]
न्त्यते हितं पुनर् अप्य् एष समागमः कुतः ॥
यथ्ôक्तम् आर्यगण्डव्यूहसूत्रे ।
आर्यजय्ôष्म्âयतनविमोक्षे ॥
दुर्लभ्âष्टाक्षणनिर्वृत्तिर् दुर्लभो मनुष्यप्रतिलम्भो दुर्लभा क्षणसंपत्विशुद्धिर् दुर्लभो बुद्ध्ôत्पादो ।
दुर्लभ्âविकल्êन्द्रियता ।
दुर्लभो बुद्धधर्मश्रवो ।
दुर्लभं सत्पुरुषसमवधानं ।
दुर्लभानि भूतकल्याणमित्राणि ।
दुर्लभो भूतनय्âनुशासन्य्- उपसंहारः ।
दुर्लभं सम्यग्जीवितं ।
दुर्लभः सद्धर्मे तदनुकूलः प्रयत्नो मनुष्यलोकए इति ॥
तद् एवंविधं समागमम् आसाद्य संवृतिपरम्âर्थतः
सुविदितसंसारदुष्खस्य्ôपशमनसुख्âभिलाषिणो बुद्धगोत्र्âनुभावात् तु यस्य महासत्वस्य्âइवं प्रत्यवेक्ष्ôत्पद्यते ॥

यदा मम परेषां च भयं दुष्खं च न प्रियं ।
तद्âत्मनः को विशेषो यत् तं रक्षामि न्êतरम् ।
इति तेन्âत्मनः सत्वधातोश् च ॥
दुष्ख्âन्तं कर्त्तुकामेन सुख्âन्तं गन्तुम् इच्छता ।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर् दृढा ॥
उक्तं हि रत्न्ôल्काधारण्याम् ॥
श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्धसुतानाम् ।
बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महापुरुषाणाम् ॥
श्रद्ध पुरोगतमातृजनेत्री पालिकवर्द्धिक सर्वगुणानाम् ।
[ बेन्दल्ल् एद् प्3 ---> ]
कांक्षविनोदनि ओघप्रतारणि ।
श्रद्धनिदर्शनि
[ चम्ब्रिद्गे म्स् f2ब् ---> ]
क्षेमपुरस्य ॥
श्रद्ध्âनाविलचित्तप्रसादो मानविवर्जितगौरवमूला ।
श्रद्ध निधानधनं चरण्âग्रं पाणि यथा
शुभसंग्रहमूलम् ॥
श्रद्ध प्रमोदकरी परित्यागे ।
श्रद्ध प्रहर्षकरी जिनधर्म्मे ।
श्रद्ध विशेषकरी गुणज्ञाने ।
दैशिक प्रापणि बुद्धगती ये ॥
इन्द्रियतीक्ष्णप्रभास्वरतायै ।
श्रद्धबलं अविमर्दनतायै ।
निश्रयक्लेश्âधर्षिकतायै ।
ऐषिका श्रद्ध स्वयंभुगुणानाम् ॥
श्रद्ध्âसङ्गतसङ्गसुखेषु अक्षणवर्जित्âइकक्षण्âग्रम् ।
श्रद्ध्âतिक्रमु मारपथस्य ।
दर्शिक्ôत्तममोक्षपथस्य ॥
वीजम् अपूतिकु हेतुगुणानां ।
श्रद्ध विरोहणि बोधिद्रुमस्य ।
वर्द्धनि ज्ञानविशेषसुखानां ।
श्रद्ध निदर्शिक
सर्वजिनानां ॥
ये सद श्रद्ध सगौरवबुद्धे ।
ते तु न शील न शिक्ष त्यजन्ति ।
ये तु न शील न शिक्ष त्यजन्ती ।
ते गुणवां स्तुतये [[दोउब्त्]]
गुणवन्तः ॥
ये सद श्रद्ध सगौरवधर्म्मे ।
ते जिनधर्म्म्âतृप्तशृणोन्ती [[दोउब्त्]] ॥

ये जिनधर्म्म् अतृप्तशृणोन्ती ।
तेष्व् अधिमुक्ति अचिन्तियधर्म्मे ॥
ये सद श्रद्ध सगौरवसंघे ।
ते ऽविवर्त्तिक संघप्रसन्नाः ॥
ये ऽविवर्त्तिक संघप्रसन्नास् ते ऽविवर्त्तिक श्रद्धबलातः ।
[ बेन्दल्ल् एद् प्4 ---> ]
ये ऽविवर्त्तिक श्रद्धबलातो ।
इन्द्रियतीक्ष्णप्रभास्वर तेषाम् ॥
इन्द्रियतीक्ष्णप्रभास्वर येषाम् तेहि विवर्जित पापकमित्राः ।
[ चम्ब्रिद्गे म्स् f3अ ---> ]
येहि विवर्जित पापकमित्राः धार्म्मिकमित्रपरिग्रह तेषाम् ॥
धार्मिकमित्रपरिग्रह येषाम् ।
ते विपुलं कुशल्ôपचिन्वन्ति ।
ये विपुलं कुशल्ôपचिनोन्ती हेतुबल्ôपगताय मह्âत्मा ॥
हेतुबल्ôपगताय मह्âत्मा ।
तेष्ôदारधिमुक्तिविशेषाः ।
येष्ôदारधिमुक्तिविशेषास् ते सद्âधिष्ठित सर्वजिनेभिः ॥
ये सद्âधिष्ठित सर्वजिनेभिस् तेष्ûपपद्यति बोधयि चित्तम् ।
येष्ûपपद्यति बोधयि चित्तं ते ऽभियुक्त महर्षिगुणेषु ॥
ये ऽभियुक्त महर्षिगुणेषु जातयबुद्धकुले ऽनुजाताः ।
जातय बुद्धकुले ऽनुजातास् ते समयोग्âयोगविमुक्ताः ॥
ये समयोग्âयोगविमुक्ताः ।
आशय तेष प्रसादविशुद्धः ॥
आशयु येष प्रसादविशुद्धः तेष्âध्याशय्ûत्तमश्रेष्ठः ।
येष्âध्याशय्ûत्तमश्रेष्ठस् ते सद पारमितासु चरन्ति ॥
ये सद पारमितासु चरन्ती ते प्रतिपन्न्êहो महयाने ।
ये प्रतिपन्न्êहो महयाने ते प्रतिपत्तितु पूजयि बुद्धान् ॥
ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध्âभेद्या ।
येषु अनुस्मृति बुद्ध्âभेद्या ।
ते सद पश्यिय चिन्तिय बुद्धान् ॥
ये सद पश्यिय चिन्तिय बुद्धान् ।
तेष न जातु न तिष्ठति बुद्धः ॥
येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः ।
[ बेन्दल्ल् एद् प्5 ---> ]
येष न जातु रहायति धर्मः ते सद धिष्ठित सर्वजिनेभिर् ।
इत्या-
[ चम्ब्रिद्गे म्स् f3ब् ---> ]
दिश्रद्धामूलो गुणविस्तरो ऽनन्तस् तत्र्ôक्तः ।
तत् परिसमाप्य संक्षेपतः पुनर् आह ।
दुर्ल्लभसत्वपृथग्जनकाया ।

ये इमि श्रद्दध्îदृशि धर्म्मान् ।
ये तु शुभ्ôपचिताः कृतपुण्यास् ते इमि श्रद्दधि हेतुबलेन ॥
यो दशक्षेत्ररज्ôपमसत्वान् कल्पम् उपस्थिहि सर्वसुखेन ।
न्ôत तु तादृशु पुण्यविशेषो यादृश श्रद्दधतो इमि धर्म्मान् ॥
इति ।
तथ्âर्यदशधर्मसूत्रे ऽपि देशितं ॥
श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः ।
तस्माद् बुद्ध्âनुशारित्वं भजेत मतिमान् नरः ॥
अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति ।
वीजानाम् अग्निदग्धानाम् अङ्कुरो हरितो यथा ॥
इति ।
अत्âइव्âर्यललितविस्तरसूत्रे प्रतिवेदितं ।
श्रद्धायाम् आनन्द योगः करणीय्êदं तथागतो विज्ञपयत्îति ॥
तथा सिंहपरिपृच्छायां ।
श्रद्धया ।
क्षणम् अक्षणं वर्जयत्îत्य् उक्तम् ॥
तद् एवं ।
श्रद्धामूलं दृढीकृत्य बोधिचित्तं दृढं कर्तव्यं सर्वपुण्यसंग्रहत्वात् तद् यथ्âर्यसिंहपरिपृच्छायां ।
सिंहेन राजकुमारेण भगवान् पृष्तः ॥
संग्रहः सर्वधर्माणां ।
कर्मणा केन जायते ।
प्रियश् च भोति सत्वानां-
[ चम्ब्रिद्गे म्स् f4अ ---> ]
यत्र यत्र्ôपपद्यते ॥
भगवान् आह ।
सर्वसत्वप्रमोक्षाय चित्तं बोधाय नामयेत् ।
एष संग्रह धर्माणां भवते तेन च प्रियः ॥
इति ।
तथ्âर्यगण्डव्यूहसूत्रे ऽपि वर्णितं ।
बोधिचित्तं हि कुलपुत्र वीजभूतं सर्वबुद्धधर्मा-
[ बेन्दल्ल् एद् प्6 ---> ]
णां ।
क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया ।
धरणिभूतं सर्वलोकप्रतिशरणतया यावत् पितृभूतं सर्वबोधिसत्व्âरक्षणतया ॥
पेयालं ॥
वैश्रवणभूतं सर्वदारिद्र्यसंछेदनतया ।
चिन्तामणिराजभूतं सर्व्âर्थसंसाधनतया ।
भद्रघटभूतं सर्व्âभिप्रायपरिपूरणतया ।
शक्तिभूतं क्लेशशत्रुविजयाय ।
धर्मभूतं योनिशो मनस्कारसंछेदनतया ।

खड्गभूतं क्लेशशिरःप्रपातनतया ।
कुठारभूतं दुष्खवृक्षसंछेदनतया ।
प्रहरणभूतं सर्व्ôपद्रवपरित्राणतया ।
वडिसभूतं संसारजलचर्âभ्युद्धरणतया ।
वातमण्डलीभूतं सर्व्âवरणनिवरणतृनविकिरणतया ।
उद्दानभूतं सर्वबोधिसत्वचर्याप्रणिधानसंग्रहणतया ।
चैत्यभूतं सदेवमानुष्âसुरस्य लोकस्य ।
इति हि कुलपुत्र बोधिचित्तम् एभिश् च्âन्यैश् च्âप्रमाणैर् गुणविशेषैः समन्वागतम् इति ॥
कथं पुनर् ज्ञायते ।
पृथग्जनस्य्âपि बोधिचित्तम् उत्पद्यते ।
न वाङ्मा-
[ चम्ब्रिद्गे म्स् f4ब् ---> ]
त्रम् एतद् इति ।
अनेकसूत्र्âन्तदर्शनात् ॥
यथा तावद् आर्यविमलकीर्त्तिनिर्देशे निर्दिष्टं ।
सुमेरुसमां सत्कायदृष्टिम् उत्पाद्य बोधिचित्तम् उत्पद्यते ।
ततश् च बुद्धधर्मा विरोहन्त्îति ॥
रत्नकरण्डसूत्राच् च पृथग्जनो ऽपि बोधिसत्व्êति ज्ञायते ॥
यथ्ôक्तं ।
तद् यथ्âपि नाम मञ्जुश्रीः अण्डकोषप्रक्षिप्तो ऽपि
कलविङ्कपोतो ।
असंभिन्न्âण्ड्âनिश्क्रान्तः कोषात् कलविङ्करुतम् एव मुञ्चति ॥
एवम् एव मञ्जुश्रीः अविद्य्âण्डकोषप्रक्षिप्तो ऽपि बोधिसत्वो ।
असंभिन्न्âत्मदृष्टिर् अनिष्क्रान्तस् त्रैधातुकाद् बुद्धरुतम्
एव मुञ्चति ।
यद् इदं शून्यतानिमित्त्âप्रणिहितरुतम् एव ॥
सर्वधर्मप्रवृत्तिनिर्देशे ऽपि कथितं ।
जयमतेश् च बोधिसत्वस्य पृथिवी विदारम् अदात् ।
स कालगतो महानिरयं प्रापतद् इति ।
स हि शून्यतां न्âधिमुक्तवान् शून्यतावादिनि च प्रतिघं कृतवान् ॥
[ बेन्दल्ल् एद् प्7 ---> ]
नियत्âनियत्âवतारमुद्रासूत्रे ऽप्य् आख्यातं ॥
कतमः पशुरथगतिको बोधिसत्वः ।
तद् यथा ।
कश्चित् पुरुषः पञ्चबुद्धक्षेत्रपरम्âणुरजःसमान्
लोकधातून् अभिक्रमितुकामः स्यात् ।
स पशुरथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेण्âध्वना योजनशतं गच्छेत् ।
स तत्र महत्या वातमण्डल्या पश्चात् खलु पु-
[ चम्ब्रिद्गे म्स् f5अ ---> ]
नर् अशीतिं योजनसहस्राणि प्रत्याकृष्य प्रत्युदावर्त्य्êति ।

तत् किं शक्नुयात् स पुरुषस् तान् लोकधातून् पशुरथेन्âतिक्रमितुम् ।
यावद् अनभिलाप्य्âनभिलाप्यैर् अपि कल्पैर् एकम् अपि लोकधातुम्
अतिक्रमितुम् ।
आह ।
न्ô ह्îदं भगवन् ।
भगवान् आह ।
एवम् एव मञ्जुश्रीः यः कश्चिद् बोधिचित्तम् उत्पाद्य महायानं ।
न धारयति ।
न पठति ।
श्रावकयानीयान् सेवते ।
तैश् च सार्द्धं संस्तवं करोति ।
श्रावकयानं च पठति स्व्âध्यायति मीमांसते परिबुध्यते ऽर्थांश् च पाठयति यावद् बोधयति ।
स तेन धन्वप्रज्ञो भवति सो ऽनुत्तरज्ञानमार्गात्
प्रत्याकृष्यते प्रत्युदावर्त्त्यते ।
यद् अपि तस्य बोधिसत्वस्य बोधिभावन्âतः प्रज्ञ्êन्द्रियं प्रज्ञाचक्षुः तद् अपि तस्य धन्वीक्रियते प्रतिहन्यते ।
श्रयं पशुरथगतिको बोधिसत्व्êति ॥
तद् एवम् एषा शून्यत्âनधिमुक्तिर् महायान्âनभिरतिश् च्âसंपूर्ण्âधिमुक्तिचित्तचर्यस्य्âपि प्रायो न संदृश्यते ।
प्राग् एव्âधिमात्र्âधिमुक्तिचर्यस्य बोधिसत्वस्य ।
स हि रत्नमेघे ।
सर्वबालचरितविपत्तिसमतिक्रान्तः पठ्यते ऽसंख्येयसमाधिधारणीविमोक्ष्âभिज्ञाविद्याविक्रीदितो । अनन्तधर्म्âरामरतिनिरामिष्âपर्âन्तकल्पकोट्यनाभोगनिर्विकल्पप्रीतिवेग्âलोकप्रतिलब्धश् च्âप्रमेयकल्पकोटीनियुतशतसहस्रपरममहायानप्रस्थानविचित्रभावनासंपूर्ण पर्âर्थप्रतिपत्तिनिर्याण पुण्यज्ञानसंभार्âभिनिहार्âभिनिर्वृत्तिः पूर्वयोगशतसहस्रसमृद्धश् च
पठ्यते ।
अथ्âइतन् नेय्âर्थं ।
कस्माद् अन्ये बोधिचित्त्ôत्पादक्âस्यां भूमौ न्êष्यन्ते ।
न च्âत्र्êच्छया किञ्चिद् विशेषचिह्नं नीत्âर्थं कर्त्तुं लभ्यते ।
अधिमात्र्âधिमुक्तिचर्य्âधर्मता वचनाच् च गम्यते ।
यथा मध्यमृदुप्रकार्âप्य् अधिमुक्तिचर्य्âस्त्य् एव्êति ॥
अस्य पुनस् तथागतगुह्यसूत्रस्य को ऽभिप्रायो ।
यद् उक्तं ।
[ बेन्दल्ल् एद् प्8 ---> ]
कस्य भगवन् बोधिचित्त्ôत्पादः ।
आह ।
यस्य महाराज्âध्याशयो ऽविकोपितः ।
आह ।
कस्य भगवन्न् अध्याशयो ऽविकोपितः ।
आह ।
यस्य महाराज महाकरुण्ôत्पादः ।
आह ।
कस्य भगवन् महाकरुण्ôत्पादः ।
आह ।
यस्य महाराज सर्वसत्व्âपरित्यागः ।

आह ।
कथं भगवन् सत्व्âपरित्यक्ता भवन्ति ।
आह ।
यदा महाराज्âत्मसौख्यं परित्यक्तं भवत्îति ।
बोधिचित्तमात्र्âसन्तुष्टानां करुण्âभिलाषसंजन्âर्थम्
इदम् उक्तं ।
यथा न ते तथागतशासने प्रव्रजिता येषां न्âस्ति त्याग्êति ।
एवम् इह्âन्यबोधिचित्तनिन्दा द्रष्टव्या न तु बोधिचित्तम् अन्यथा
न्ôत्पद्यतए एव ॥
यथा दशधर्मकसूत्रे देशितं ।
इह कुलपुत्र बोधिसत्वो गोत्रस्थः सन्न् अनुत्पादितबोधिचित्तः
तथागतेन वा तथागतश्रावकेण वा संचोद्यमानः
संवेद्यमानः समादाप्यमानो ऽनुत्तरायां सम्यक्सम्बोधौ
[ चम्ब्रिद्गे म्स् f6अ ---> ]
बोधिचित्तम् उत्पादयत्îदं प्रथमं कारणं बोधिचित्त्ôत्पादाय ।
संबोधेर् वा बोधिचित्तस्य वा वर्णं भाष्यमाणं श्रुत्व्âनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयत्îदं द्वितीयं कारणं ।
स सत्वा ... नशरणान् अद्वीपान् दृष्ट्वा कारुण्यचित्तम् उपस्थाप्य
यावद् अनुत्तरायां सम्यक्सम्बोधौ चित्तम् उत्पादयत्îदं तृतीयं कारणं बोधिचित्त्ôत्पादाय ।
स तथागतस्य सर्व्âकारपरिपूर्णतां दृष्ट्वा प्रीतिम्
उत्पाद्य्âनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयत्îदं चतुर्थं कारणम् इति ।
तच् च बोधिचित्तं द्विविधं बोधिप्रणिधिचित्तं च
बोधिप्रस्थान चित्तं च ।
यथ्âर्यगण्डव्यूहसूत्रे भाषितं ।
दुर्लभाः कुलपुत्र ते सत्वाः सर्वलोके ये ऽनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति ।
ततो ऽपि दुर्लभतमास् ते सत्वा ये ऽनुत्तरां सम्यक्संबोधिम्
अभिसंप्रस्थित्êति ।
तत्र बोधिप्रणिधिचित्तं ।
मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति ।
शूरङ्गमसूत्रे ऽपि ।
शाठ्य्ôत्पादितस्य्âपि बोधिचित्तस्य बुद्धत्वहेतुत्व्âभिधानात् ।
कः पुनर् वादः किञ्चिद् एव कुशलं कृत्वा ।
यथ्ôक्तं भद्रकल्पिकसूत्रे ।
घोषदत्तो नाम
[ बेन्दल्ल् एद् प्9 ---> ]
तथागतो यत्र नक्षत्रराजेन तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं ताम्बूलपत्रं दत्त्वा
गोपालकभूतेन ।
एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं दशिकां दत्त्वा
तन्त्रवायभूतेन ।

एवम् अनन्तप्रभो नाम तथागतो यत्र्âर्चिष्मता तथागतेन
प्रथमं बोधिचित्तम् उत्पादितं तृणप्रदीपं दत्त्वा
नगर्âवलम्बकभूतेन ।
एवं दृढविक्रमो नाम तथागतो यत्र दुष्प्रधर्षेण
तथागतेन प्रथमं बोधिचित्तम् उत्पादितं दत्तकाष्ठं दत्त्वा काष्ठहारकभूतेन्êत्य् आदि ॥
चर्य्âविकले ऽपि च बोधिचित्ते न्âवमन्यता कर्त्तव्या ।
तस्य्âप्य् अनन्तसंसारसुखप्रसवनत्वात् ।
यथ्âर्यमैत्रेयविमोक्षे वर्णितं ।
तद् यथ्âपि नाम कुलपुत्र चित्तम् अपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्ण्âलंकारम् अभिभवति ।
वज्ररत्ननाम च न विजहाति ।
सर्वदारिद्र्यं विनिवर्त्तयति ।
एवम् एव कुलपुत्र्âशयप्रतिपत्तिभिन्नम् अपि सर्वज्ञताचित्त्ôत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्ण्âलंकारम् अभिभवति बोधिसत्त्वनाम च न विजहाति ।
सर्वसंसारदारिद्र्यं विनिवर्त्तयत्îति ।
इतश् च विन्âपि चर्यया बोधिचित्तम् उपकारकम् इति ज्ञातव्यं ।
येन्âपरराज्âववादकसूत्रे कथितं ।
यस्माच् च त्वं महाराज बहुकृत्यो बहुकरणीयः ।
[ चम्ब्रिद्गे म्स् f7अ ---> ]
असहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दानपारमितायां शिक्षितुं ।
एवं यावत् प्रज्ञापारमितायां शिक्षितुं ।
तस्मात् तर्हि त्वं महाराज्âइवम् एव सम्यक्सम्बोधिछन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि
निषण्णो ऽपि शयानो ऽपि जाग्रद् अपि भुञ्जानो ऽपि ।
पिवन्न् अपि ।
सततसमितम् अनुस्मर ।
मनसिकुरु भावय ।
सर्वबुद्धबोधिसत्वप्रत्येकबुद्ध्âर्यश्रावकपृथग्जनानाम्
आत्मनश् च्âतीत्âनागतप्रत्युत्पन्नानि सर्वकुशलमूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्व्âनुमोदस्व्âग्रय्âनुमोदनया
यावद् आकाशसमतया निर्वाणसमतय्âनुमोदस्व्âनुमोद्य च
सर्वबुद्धबोधिसत्वप्रत्येक-
[ बेन्दल्ल् एद् प्10 ---> ]
बुद्ध्âर्यश्रावकाणां पूजाकर्मणे निर्यातय ।
निर्यात्य च सर्वसत्वसाधारणानि कुरु ।
ततः सर्वसत्वानां यावत् सर्वज्ञातप्रतिलम्भाय
सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यम् अनुत्तरायां सम्यक्संबोधौ परिणामय्âइवं खलु त्वं महाराज प्रतिपन्नः
सन् राज्यं कारयिष्यसि राज्यकृत्यानि च न हाययिष्यसि
बोधिसंभारांश् च परिपूरयिष्यस्îति ॥
अत्र्âइव च्âस्य विपाक्ôक्तः ।
स खलु पुनस् त्वं महाराज तस्य सम्यक्संबोधिचित्तकुशलमूलकर्मणो-
[ चम्ब्रिद्गे म्स् f7ब् ---> ]
विपाकेन्âनेकशतकृत्वो देवेष्ûपपन्नो ऽभूः ।
अनेकशतकृत्वो मनुष्येष्ûपपन्नो ऽभूः ।

सर्वासु च देवमनुष्य्ôपपत्तिष्व् आधिपत्यम् एव कारयसि ।
न च तावत् तव महाराज तस्य सम्यक्संबोधिचित्तस्य
कुशलकर्मण्ôनत्वं व्âपूर्णत्वं वा प्रज्ञायते ।
अपि च महाराज्âइकम् अपि सम्यक्संबोधिचित्तं सर्वसत्त्व्ôत्तारण्âरम्बणत्वात् सर्वसत्व्âमोचन्âरम्बणत्वात्
सर्वसत्वसमाश्वासन्âरम्बणत्वात् सर्वसत्वपरिनिर्वाण्âरम्बणत्वाद् अप्रमेय्âसंख्येयकुशल्ôपचयम् ।
कः पुनर् वादो य्âइवं बहुलीकरोत्îति ॥
एतच् च बोधिचित्तं रूपकायदर्शन्ôत्पन्नं ।
तत्र पूर्व्âवदाने पठ्यते ।
एवं तावत् प्रणिधिबोधिचित्तं वेदितव्यं ।
इदं तु वक्तव्यं किम् अभूमिप्रविष्ठस्य्âपि
बोधिसत्वसम्वर्âधिकारो ऽस्ति न व्êति ।
अस्त्îति वेदितव्यं आकाशगर्भसूत्रे लाभसत्कार्âर्थं मूल्âपत्तिश्रवणात् ।
दशभूमिकसूत्रे तु प्रथमायां भूमौ दर्शितं ।
न च कञ्चित् सत्कारां कस्यचित् सकाशात् प्रतिकांक्षत्य् अन्यत्र
मय्âइव्âइषां सर्वसत्वानां सर्व्ôपकरणबाहुल्यम्
उपनामयितव्यम् इति ।
तथा च्âह ।
प्रमुदितायां बोधिसत्वभूमौ सुव्यवस्थितो भवत्य् अचलनयो-
[ चम्ब्रिद्गे म्स् f8अ ---> ]
गे
... ति ।
पुनश् च्ôक्तं ।
तथाग-
[ बेन्दल्ल् एद् प्11 ---> ]
तवंशनियतो भवति संबोधिपरायण्êति ।
आकाशगर्भसूत्रे त्व् आह ।
श्रावकयानम् एव्âस्य न भवति प्राग् एव महायानम् इति ।
तथ्âर्य्ôग्रपरिपृच्छायां मात्सर्यपर्यवनद्धस्य्âपि
शिक्षापदानि प्रज्ञप्तानि ।
प्रमुदितायां तु पठ्यते ।
आत्मसंज्ञ्âपगमाच् च्âस्य्âत्मस्नेहो न भवति ।
कुतः ।
पुनः सर्व्ôपकरणस्नेह्êति ।
तथा मस्तक्âदिदानम् अप्य् अत्र्âस्य्ôक्तं ॥
एवम् आदि सूत्रेषु भूमिप्रविष्टस्य्âपि शिक्षाप्रज्ञप्तिर् दृश्यते ।
यत्र व्âसामान्येन बोधिसत्वम् अधिकृत्य्ôपदेशस् तत्र्âभ्यासयोग्यतया प्रतिषेधवाक्येन व्âदिकर्मिकबोधिसत्वेन न
शिक्षितव्यं भवेद् एतत् ।
उभय्âसंभवे तु सर्वत्र शिक्षितव्यं ।
तत्र्âप्य् एकस्यां शिक्षायां शिक्षणायाम् अशक्तस्य्êतरशिक्ष्âनभ्यासादन्âपत्तिः ॥
आर्य्âक्षयमतिसूत्रे ऽप्य् एवम् अवोचत् ।

दानकाले शील्ôपसंहारस्य्âपेक्ष्êति विस्तरः ।
न च्âत्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति ।
यथाबलं यथाभजमानम् इति दशभूमिकसूत्रे वचनात् ।
अयं च संवरः स्त्रीणाम् अपि मृदुक्लेशानां बोध्यभिलाषचित्तानां लभ्यते ।
उक्तं हि बोधिसत्वप्रातिमोक्षे ।
चतुर्भिः शारिपुत्र धर्मैः
[ चम्ब्रिद्गे म्स् f8ब् ---> ]
समन्वागताः बोधिसत्वाः
सत्यवादिनो भवन्त्îत्य् आरभ्य्âह ।
इह शारिपुत्र कुलपुत्रो वा कुलदुहिता व्âनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य्âरब्धवीर्यो विहरति
कुशलधर्मपर्येषणाय्êत्य् आरभ्य सर्व्ôपदेशः ॥
संवरग्रहणं च बोधिसत्वशिक्षापद्âभ्यासपरमस्य
सांवरिकस्य्âन्तिकात् कर्तव्यं ।
एवं-
[ बेन्दल्ल् एद् प्12 ---> ]
ह्य् अस्य शिक्ष्âतिक्रमे तीव्रम् अपत्राप्यं गुरुविसंवादनभयं च्ôत्पद्यते ।
तत्र च्âनाभोगतः प्रेमगौरवसिद्धिर् इत्य् एष
सामान्यसंवरधर्मः ।
अत्âइव बोधिसत्वाः तथागतानां पुरतः शिक्षाणाम् अन्यतमशिक्षानिष्पत्तिकामाः समादानं कुर्वन्ति ।
तस्य च कल्याणमित्रस्य्âभावे दशदिगवस्थितबुद्धबोधिसत्व्âभिमुखीभावभावनया संवरो ग्राह्यः संवरम्
आत्मबलं च तुलयित्वा ।
अन्यथा तु सर्वबुद्धबोधिसत्वाः सदेवकश् च लोको विसंवादितः स्यात् ।
सद्धर्मस्मृत्युपस्थानसूत्रे हि किञ्चिन् मात्रं चिन्तयित्व्âप्य् अददतः प्रेतगतिर् उक्ता प्रतिज्ञातं च्âददतो नरकगतिः ।
किं पुनर् अनुत्तरम् अर्थम् अखिलस्य जगतः प्रतिज्ञाय्âसंपादयतः ।
अत्âइव्ôक्तं धर्मसंगीतिसूत्रे ।
सत्यगुरुकेण कुलपुत्र बोधिसत्वेन भवितव्यं ।
सत्यसंगीतिः कुलपुत्र धर्मसंगी-
[ चम्ब्रिद्गे म्स् f9अ ---> ]
तिः ।
तत्र कुलपुत्र कतमत् सत्यं यद् बोधिसत्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवितहेतोर् अपि न
परित्यजति न सत्वेषु विप्रतिपद्यते ।
इदं बोधिसत्वस्य सत्यं ॥
यत् पुनर् बोधिसत्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य
पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते ऽयं बोधिसत्वस्य प्रतिकृष्टो मृषावाद्êति ।
आर्यसागरमतिसूत्रे ऽपि देशितं ।
स्याद् यथ्âपि नाम सागरमते राजा वा राजमात्रो वा सर्वं नागरकं जनं श्वो भक्तेन्ôपनिमन्त्र्य्ôपेक्षको भवेन् न्âन्नपानं समुदानयेत् सत्यं सर्वजनकायं विसंवादयेत् ।
तत्र ते ऽन्नपानभोजनम् अलभमान्ôच्चग्घन्तः प्रक्रामेयुः ।
एवम् एव सागरमते यो बोधिसत्वः सर्वसत्वान् आश्वास्य्âतीर्णतारणाय्âमुक्तमोचनाय्âनाश्वस्त्âश्वासनाय यावन् न
बाहुश्रुत्ये ऽभियोगं करोति न्âपि ततो ऽन्येषु बोधिपक्ष्यकुशलमूलेषु धर्मेषु ।
अयं बोधिसत्वो विसंवादयति

[ बेन्दल्ल् एद् प्13 ---> ]
सदेवकं लोकं ।
एवं च तं पूर्वबुद्धदर्शिन्यो देवत्ôच्चग्घन्ति
विवादयन्ति ।
दुर्लभास् ते यज्ञस्वामिनो ये महायज्ञं प्रतिज्ञाय्ôत्तारयन्ति ।
तस्मात् तर्हि सागरमते न सा बोधिसत्वेन वाग् भाषितव्या यया
सदेवमानु-
[ चम्ब्रिद्गे म्स् f9अ ---> ]
ष्âसुरं लोकं विसंवादयेत् ॥
पुनर् अपरं सागरमते बोधिसत्वः केनचिद् एव्âधीष्टो भवति धर्मेष्व् अर्थकरणीयेषु ।
तत्र बोधिसत्वेन वाग् भाषिता भवति यावद् आत्मपरित्यागो ऽपि
बोधिसत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्य्êति ।
तस्मात् स्वबल्âनुरूपेण्âइकम् अपि कुशलमूलं समादाय
रक्षितव्यं ।
यथ्ôक्तम् आर्यक्षितिगर्भसूत्रे ।
एभिर् दशभिः कुशलैः कर्मपथैर् बुद्धत्वं ।
न पुनर् यो ऽन्तश्âइकम् अपि यावज्जीवं कुशलं कर्मपथं न
रक्षति अथ च पुनर् एवं वदति ।
अहं महायानिको ऽहं च्âनुत्तरां सम्यक्संबोधिं पर्येषाम्îति ।
स पुद्गलः परमकुहको महामृषावादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्य्ôच्छेदवादी
स मूढः कालं कुरुते विनिपातगामी भवत्îति ।
यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय
वर्तितव्यं ॥
एतच् च भैषज्यगुरुवैडूर्यप्रभसूत्रे द्रष्टव्यं ।
यस् तु महासत्व्âइवं श्रुत्व्âपि बोधिसत्वचर्यादुष्करताम्
अपि प्रज्ञय्âवगाह्य्ôत्सहतए एव सकलदुष्खितजनपरित्राणधुरम् अववोढुं तेन वन्दनपूजनपापदेशनपुण्य्âनुमोदनबुद्ध्âध्येषणयाचनबोधिपरिणामनं कृत्वा
कल्याणमित्रम् अभ्येत्य त-
[ चम्ब्रिद्गे म्स् f10अ ---> ]
दुक्त्âनुवादेन स्वयं वा वक्तव्यं ।
समन्वाहर्âचार्य्âहम् एवं नाम्êत्य् उक्त्वा ।
यथ्âर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूह्âलङ्कारसूत्रे
भगवता मञ्जुश्रिया पूर्वजन्म्âवदाने चर्य्ôपेतं बोधिचित्तम्
उत्पादितं तथ्ôत्पादयितव्यं ।
एवं हि तेन्ôक्तं ॥
यावती प्रथमा कोटिः संसारस्य्âन्तवर्जिता ।
तावत् सत्वहित्âर्थाय चरिष्याम्य् अमितां चरिम् ॥
[ बेन्दल्ल् एद् प्14 ---> ]
उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् ।
निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचित्âस्मि तत् ॥
व्यापादखिलचित्तं व्êर्ष्यामात्सर्यम् एव वा ।

अद्य्âग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता ।
ब्रह्मचर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ॥
बुद्धानाम् अनुशिक्षिष्ये शीलसंवरसंयमे ।
न्âहं त्वरितरूपेण बोधिं प्राप्तुम् इह्ôत्सहे ॥
पर्âन्तकोटिं स्थास्यामि सत्वस्य्âइकस्य कारणात् ।
क्षेत्रं विशोधयिष्यामि अप्रमेयम् अचिन्तियम् ॥
नामधेयं करिष्यामि दश दिक्षु च विश्रुतं ।
कायवाक्कर्मणी च्âहं शोधयिष्यामि सर्वशः ॥
शोधयिष्ये मनस्कर्म कर्म कर्त्त्âस्मि न्âशुभम् ।
इति ॥
न च्âत्र सार्वकालिकात् संवरग्रहणाज् जन्म्âन्तर्âपत्तिशङ्का कर्तव्य्âत्र्âइव सूत्रे ऽक्षोभ्यप्रणिधान्âनुज्ञानाद् एवं ह्य् उक्तं ।
यथा तेन्âक्षोभ्येण तथागतेन पूर्वं बोधिसत्वभू-
[ चम्ब्रिद्गे म्स् f10ब् ---> ]
तेन्âइवं वाग् भाषिता ।
विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न
प्रव्रजेयम् इति ।
एका जातिः प्रयत्नेन संशोध्या विबुध्âत्मना ।
अन्यास् तु जातीर् आबोधेः स्âइव संशोधयिष्यत्îत्य् उक्तेः ॥
एवं शारिपुत्र बोधिसत्वेन्âक्षोभ्यस्य तथागतस्य
अनुशिक्षितव्यं ।
एवं शिक्षमाणः शारिपुत्र बोधिसत्वो महासत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् व्âवश्यं गृह्âवासान् निष्क्रामति ।
तत् कस्य हेतोः ।
परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृह्âवासान् निष्क्रमणम् इति ।
यावत् ।
भार्यापुत्रदुहितृतृष्णा च्âस्य न भवत्îति ।
यथा जन्म्âन्तरेष्व् अयं दोषो न भवति तथ्âत्र्âइव
वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ॥
[ बेन्दल्ल् एद् प्15 ---> ]
तद् एवं समात्तसंवरस्य सामान्यम् आपत्तिलक्षणम् उच्यते ।
येन्âपत्तिलक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य
परिहरेन् न च्âपत्तिप्रतिरूपकेष्व् अनापत्तिप्रतिरूपकेषु च
संमुह्येत ।
बोधिसत्वः सर्वसत्वानां वर्त्तमान्âनागतसर्वदुष्खदौर्मनस्य्ôपशमाय वर्त्तमान्âनागतसुखसौमनस्य्ôत्पादाय
च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं करोति ।
यदि तु तत्प्रत्ययसामग्रीं न्âन्वेषते तदनन्तराय
प्रतिकाराय न घटते ऽल्पदुष्खदौर्मनस्यं बहुदुष्खदौर्मनस्यप्रतिकारभूतं न्ôत्पादयति ।
मह्âर्थसिद्ध्यर्थं च्âल्प्âर्थहानिं न करोति
क्षणम् अप्य् उपेक्षते ।
स्âपत्तिको भवति ।
संक्षेपतो ऽनापत्तिः स्वशक्त्यविशयेषु कार्येषु तत्र

निष्फलतया शिक्ष्याप्रज्ञप्त्यभावात् ।
प्रकृतिस्âवद्यतया त्व् अन्यद् गृह्यतए एव ।
यत्र स्वशक्त्यगोचरे ऽपि त्यागसामर्थ्याद् आपत्तिः स्यात्
तन् न
चिन्त्यं ।
सामान्यपापदेशना न ... वात् तु ततो मुक्तिः ॥
एतत् समासतो बोधिसत्वशिक्षाशरीरं ।
विस्तरतस् त्व् अप्रमाणकल्प्âपर्यवसाननिर्देशं ।
अथवा संक्षेपतो द्वे बोधिसत्वस्य्âपत्ती ।
यथा शक्तियुक्त्âयुक्तम् असमीक्ष्य्âरभते ।
निवृत्तः समीक्ष-
[ चम्ब्रिद्गे म्स् f11अ ---> ]
ते स्âपत्तिको भवति ।
निरूप्य यथ्âर्हम् अतिक्रामत्य् अन्तशश् चण्डालदासेन्âपि
चोदितः स्âपत्तिको भवति ।
कुतः ॥
एतद् अध्याशयसंचोदनसूत्रे वचनात् ।
अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषि ... भिः ।
इह मैत्रेय प्रतिभानं सत्य्ôपसंहितं भवति ।
न्âसत्य्ôपसंहितं धर्म्ôपसंहितं भवति न
अधर्म्ôपसंहितं ।
क्लेशहायकं भवति न क्लेशविवर्द्धकं ।
निर्वाणगुण्âनुशंससन्दर्शकं भवति न संसारगुण्âनुशंससन्दर्शकं ।
एभिश् चतुर्भिः पेयालं ।
यस्य कस्यचिन् मैत्रेय्âइभिश् चतुर्भिः कारणैः
प्रतिभानं प्रतिभाति प्रतिभास्यति वा ।
तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर् वा
बुद्धसंज्ञ्ôत्पादयितव्या शास्तृसंज्ञां कृत्वा ।
स धर्मः श्रोतव्यः ।
तत् कस्य हेतोः ।
यत् किञ्चिन् मैत्रेय सुभाषितं सर्वं तद् बुद्धभाषितं ।
तत्र मैत्रेय य्êमानि प्रतिभानानि प्रतिक्षिपेन् न्âइतानि
बुद्धभाषितान्îति ।
तेषु च्âगौरवम् उत्पादयेत् पुद्गलविद्वेषेण तेन
सर्वबुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति ।
धर्मं प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मण्âपायगामी भवति ॥
[ बेन्दल्ल् एद् प्16 ---> ]
यः पुनर् एतद् अभ्यास्âर्थं व्युत्पादितम् इच्छति ।
तेन्âत्र शिक्षासमुच्चये तावच् चर्यामुखमात्रशिक्षण्âर्थम्
अभियोगः करणीयः शिक्ष्âरम्भस्य्âइव महाफलत्वात् ।

यथ्ôक्तं प्रशान्तविनिश्चयप्रतिहार्यसूत्रे ।
यश् च मञ्जुश्रीर् बोधिसत्वो गङ्गानदीवालिकासमेभ्यो बुद्धेभ्यः प्रत्येकं सर्वेभ्यो गंगानदीवालिकासमानि
बुद्धक्षेत्राणि वशिराजमहामणिरत्नप्रतिपूर्णानि
कृत्वा
दह्याद् एवं ददङ् गङ्गानदीवालिकासमान् कल्पान् दानं दद्याद् ।
यो व्âन्यो मञ्जुश्रीर् बोधिसत्व्êमान् एवंरूपान् धर्मान्
श्रुत्व्âइक्âन्तेन ग-
[ चम्ब्रिद्गे म्स् f11ब् ---> ]
त्वा चित्तेन्âभिनिरूपयेद् इमेष्व् एवंरूपेषु
धर्मेषु शिक्षिष्याम्îति ।
सो ऽशिक्षितो ऽपि मञ्जुश्रीर् बोधिसत्वो ऽस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति ।
न त्व् एव तद् दानम् अयं पुण्यक्रियावस्त्व् इति ।
तस्माद् एवम् अनुशंसदर्शिना बोधिसत्वेन न कथंचिन् निवर्त्तितव्यं ।
यथ्âत्र्âइव्âह ।
तत्र मञ्जुश्रीर् ये त्रिसाहस्रमहासाहस्रलोकधातुपरम्âणुरजःसमाः सत्व-स् तेषाम् एक्âइकः सत्वो राजा भवेज् जम्बूद्वीप्âधिपतिस् ते सर्वए एवं घोषयेयुः ।
यो महायानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति
पर्यवाप्स्यति
प्रवर्त्तयिष्यति तस्य नखछेदेन मासं पञ्चपलिकेन
दिवसेन्âवतारयिष्यामः तं च्âइतेन्âपक्रमेण जीविताद् व्यपरोपयिष्याम्êति ।
सचेन् मञ्जुश्रीर् बोधिसत्व्âइवम् उच्यमानो न्ô त्रस्यति न
संत्रासम्
आप्स्यते ऽन्तश्âइकचित्त्ôत्पादेन्âपि न बिभेति न विषीदति
न
विचिकित्सते ।
उत्तरि च सद्धर्म्मपरिग्रह्âर्थम् अभियुज्यते
पाठस्व्âध्याय्âभिमुक्तो विहरति ।
अयं मञ्जुश्रीर् बोधिसत्वश् चित्तशूरो दानशूरः
शीलशूरः क्षान्तिशूरः वीर्यशूरः ध्यानशूरः
प्रज्ञाशूरः समाधिशूरः इति वक्तव्यः ॥
सचेन् मञ्जुश्रीर् बोधिसत्वः तेषां वधकपुरुषाणां न
कुप्यति न रुष्यति न खिल दोषचित्तम् उत्पादयति ।
स मञ्जुश्रीर् बोधिसत्वो ब्रह्मसम्êन्द्रसमो ऽकम्प्य्êति ॥
इतश् च्âग्र्यकाले शिक्ष्âदरो महाफलविपाकः ।
तथा हि चन्द्रप्रदीपसूत्रे ।
[ बेन्दल्ल् एद् प्17 ---> ]
बुद्धान कोटीन् अयुतान् उपस्थिहे ।
दत्तेन पानेन प्रसन्नचित्तः ।
छत्रैः पताकाभि च दीपमालैः ।
कल्पान कोट्यो यथ गङ्ग-
[ चम्ब्रिद्गे म्स् f12अ ---> ]

वालिकाः ॥
यश् च्âइव सद्धर्मे प्रलुज्यमाने ।
निरुध्यमाने सुगतस्य शासने ।
रात्रिं दिवं एक चरेय शिक्षाम् ।
इदन् ततः पुण्यविशिष्ट भोति ॥
तस्मात् कर्तव्यो ऽत्र्âदरः ॥
उक्तानि च सूत्र्âन्तेषु बोधिसत्वशिक्षापदानि ।
यथ्ôक्तम् आर्यरत्नमेघे ।
कथं च कुलपुत्र बोधिसत्वा बोधिसत्वशिक्षासंवरसंवृता भवन्ति ।
इह बोधिसत्वः एवं विचारयति ।
न प्रातिमोक्षसंवरमात्रकेण मया शक्यम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं ।
किं तर्हि यान्îमानि तथागतेन तेषु तेषु सूत्र्âन्तेषु
बोधिसत्वसमुदाचारा ।
बोधिसत्वशिक्षापदानि प्रज्ञप्तानि तेषु तेषु मया
शिक्षितव्यम्
इति विस्तरः ।
तस्माद् अस्मद्विधेन मन्दबुद्धिना दुर्विज्ञेयो विस्तर्ôक्तत्वाद् बोधिसत्वस्य संवरः ।
ततः किं युक्तं ॥
मर्मस्थानान्य् अतो विद्याद् येन्âनापत्तिको भवेत् ॥
कतमानि च तानि मर्मस्थानानि यानि हि सूत्र्âन्तेषु
महायान्âभिरतानाम् अर्थाय्ôक्तानि ।
यद् उत ।
आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।
उत्सर्गः सर्वसत्वेभ्यस् तद्रक्षा शुद्धिवर्धनम् ॥
एष बोधिसत्वसंवरसंग्रहः ।
यत्र बोधिसत्वानाम् अभ्यासविश्रामे ऽप्य् आपत्तयो व्यवस्थाप्यन्ते ॥
यथ्ôक्तं बोधिसत्वप्रातिमोक्षे ।
यो बोधिसत्वेन मार्गः परिगृहीतः सर्वसत्वानां कृतेन
दुष्खम् उपगामी ।
सचेद् बोधिसत्वस्य तं मार्गं परिगृह्य्âवस्थितस्य्âपि
कल्पकोटेर् अत्ययेन्âइकं सुखचित्तम् उत्पद्येत्âन्तशो निषद्य
चित्तम् अपि ।
तत्र बोधिसत्वेन्âइवं चित्तम् उत्पादयितव्यं सर्वसत्वानाम्
आत्ययिकं परिगृह्य्âइतद् अपि मे वर्जयन् निषीदाम्îति ।
परिगृह्येत् तम् [[दोउब्त्]] ।
[ चम्ब्रिद्गे म्स् f12ब् ---> ]
अपि मञ्जुश्रीर् आह ॥
पञ्च्êमानि देवपुत्र्âनन्तर्याणि यैर् आनन्तर्यैः
समन्वागता बोधिसत्वाः क्षिप्रम् अनुत्तरासम्यक्संबोधिम्
अभिसंबुध्यते ।

कतमानि पञ्च ।
यदा देवपुत्र बोधिसत्वो ऽध्याशयत्य् अनुत्तरायां सम्य-
[ बेन्दल्ल् एद् प्18 ---> ]
क्संबोधौ चित्तम् उत्पाद्य न्âन्तरा श्रवकप्रत्येकबुद्धभूमौ चित्तम् उत्पादयत्îदं देवपुत्र प्रथमम्
आनन्तर्यं ।
सर्वस्वपरित्यागितायां चित्तम् उत्पाद्य न्âन्तरा
मात्सर्यचित्तेन सार्द्धं स न्यसत्îदं देवपुत्र द्वितीयम्
आनन्तर्यम् ।
सर्वसत्वा मया त्रातव्य्êत्य् एवं चित्तम् उत्पाद्य न्âन्तरा
सीदत्îदं देवपुत्र तृतीयम् आनन्तर्यम् ।
अनुत्पन्न्âनिरुद्धान् सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम्
उत्पाद्य न्âन्तरा दृष्टिगतेषु प्रपतत्îदं देवपुत्र
चतुर्थम् आनन्तर्यम् ।
एकक्षणसमायुक्तया प्रज्ञया सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न्âन्तरा तिष्ठति न विष्ठीवति
अप्राप्तायां सर्वज्ञतायाम् इदं देवपुत्र पञ्चमम् आनन्तर्यम् इति ॥
तस्माद् एवम् आत्मभावभोगपुण्यानाम् अविरतम्
उत्सर्गरक्षाशुद्धिवृद्धयो यथायोगं भावनीयाः ॥
तत्र तावद् उत्सर्ग्âर्थं परिग्रहदोषभावनाद्वारेण
वैराग्यम् उत्पादयेत् त्याग्âनुशंसांश् च भावयेत् ।
यथा तावच् चन्द्रप्रदीपसूत्रे ।
अध्यवसिता ये बालाः काये ऽस्मिन् पूतिके सम्यग् ।
जीविते चञ्चले ऽवश्ये मायास्वप्ननिभ्ôपमे ॥
अतिरौद्राणि कर्माणि कृत्वा मोहवश्âनुगाः ।
ते यान्ति नरकान् घोरान् मृत्युयानगत्âबुधा ।
इति ॥
तथ्âनन्तमुखनिर्हारधारण्याम् उक्तं ॥
ये केचित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र
निदानमूलम् ।
तस्मात् त्यजेद् यत्र भवेत् तृष्णा ।
उत्सृष्टतृष्णस्य हि धारणी भवेत् ॥
बोधिसत्वप्रातिमोक्षे कथितं ।
पुनर् अपरं शारिपुत्र बोधिसत्वः सर्वधर्मेषु
परकीयसंज्ञाम् उत्पादयति ।
न कञ्चिद् भावम् उपादत्ते ।
तत् कस्य हेतोः ।
उपादानं हि भयम् इति ॥
आर्य्ôग्रदत्तपरिपृ-
[ बेन्दल्ल् एद् प्19 ---> ]
च्छायाम् अप्य् आह ।
यद् दत्तं तन् न भूयो रक्षितव्यं ।

यद् गृहे तद् रक्षितव्यं ।
यद् दत्तं तत् तृष्नाक्षयाय ।
यद् गृहे तत् तृष्णावर्द्धनं ।
यद् दत्तं तद् अपरिग्रहं यद् गृहे तत् सपरिग्रहं ।
यद् दत्तं तद् अभयं यद् गृहे तत् सभयम् ।
यद् दत्तं तद् बोधिमार्ग्ôपस्तम्भाय ।
यद् गृहे तन् मार्ôपस्तम्भाय ।
यद् दत्तं तद् अक्षयम् ।
यद् गृहे तत् क्षयि ।
यद् दत्तं ततः सुखम् यद् गृहे तदारभ्य दुष्खं ।
यद् दत्तं तत् क्लेश्ôत्सर्गाय ।
यद् गृहे तत् क्लेशवर्द्धनम् ।
यद् दत्तं तन् महाभोगतायै ।
यद् गृहे न तन् महाभोगतायै ।
यद् दत्तं तत् सत्पुरुषकर्म ।
यद् गृहे तत् कापुरुषकर्म ।
यद् दत्तं तत् सत्पुरुषचित्तग्रहणाय ।
यद् गृहे तत् कापुरुषचित्तग्रहणाय ।
यद् दत्तं तत् सर्वबुद्धप्रशस्तं ।
यद् गृहे तद् बालजनप्रशस्तम् ॥
यावत् सचेत् पुनर् अस्य पुत्रे ऽतिरिक्ततरं प्रेम्ôत्पद्यते
तथ्âन्येषु सत्वेषु तेन तिसृभिः परिभाषणाभिः स्वचित्तं परिभाषितव्यं ।
कतमाभिस् तिसृभिः ।
सम्यक्प्रयुक्तस्य समचित्तस्य बोधिसत्वस्य बोधिर् न
विषमचित्तस्य
बोधिर् न मिथ्याप्रयुक्तस्य ।
अनानात्वचारिणो बोधिसत्वस्य बोधिर् न नानात्वचारिणः ।
आभिस् तिसृभिः परिभाषणाभिः स्वचित्तं परिभाष्य
अन्यत्रे ऽमित्रसंज्ञ्ôत्पादयितव्य्âमित्रं ह्य् एतन् मम ।
न मैत्रं ।
यो ऽहम् अस्य्âर्थाय बुद्धप्रज्ञप्ताशिक्षाय्ôद्धुरताद् गत्व्âस्मिन् पुत्रे ऽतिरिक्ततरं प्रेम्ôत्पादयामि ।
न तथ्âन्येषु सत्वेषु ।
तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथ्âस्य
सर्वसत्वेषु पुत्रप्रेम्âनुगता मैत्र्य्- उत्पद्यते ।
आत्मक्षेम्âनु ... मैत्र्य्- उत्पद्यते ।
एवं च्âनेन योनिशः प्रत्यवेक्षितव्यं ।
अन्यत्âइष्âगत ।
अन्यतो ऽहं ।
सर्वसत्व्âपि मम पुत्र्âभूवन् ।
अहं च सर्वसत्वानां पुत्रो ऽभूवम् ।

न्êह संविद्यते कश्चित् कस्यचित् ... परो वा ।
यावद् एवं हि गृहपते ।
गृहिणा बोधिसत्वेन न कस्मिंश्चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः ।
न्âध्यवसानं ।
न नियतिः न तृष्ण्âनुशयः कर्तव्यः ।
सचेत् पुनर् गृहपते गृहिणं बोधिसत्वं याचनक्ôपसंक्रम्य
किञ्चिद् एव वस्तु याचेत ।
सचेद् अस्य वस्त्व् अपरित्यक्तं भवेत् ।
न्âइवं चित्तं निध्यापयितव्यं ।
यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम्
अवश्यं मम्âइतेन वस्तुना विनाभावो भविष्यति ।
अकामकेन मरणम् उप-
[ बेन्दल्ल् एद् प्20 ---> ]
गन्तव्यं भविष्यति ।
एतच् च वस्तु मां त्यक्ष्यति अहं च्âइनं त्यक्ष्यामि ।
एतच् च वस्तु परित्यज्य्âहं आत्तसारः कालं करिष्यामि
एतच् च परित्यक्तं न मे मरणकाले चित्तं पर्यादाय स्थास्यति ।
एतच् च मे मरणकाले प्रीतिं प्रामोद्यम् अविप्रतिसारितां च
जनयिष्यति ।
सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् ।
तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः ।
कतमाभिश् चतसृभिः ।
दुर्बलस् तावद् अस्म्य् अपरिपक्वकुशलमूलः ।
आदिकर्मिको महायाने ।
न चित्तस्य वशी परित्यागाय ।
स्ôपादानदृष्टिको ऽस्मि ।
अहंकारममकार-
[ चम्ब्रिद्गे म्स् f14अ ---> ]
स्थितः ।
क्षमस्व सत्पुरुष ।
मा परिताप्सीस् तथ्âहं करिष्यामि तथा प्रतिपत्स्ये ।
तथा वीर्यम् आरप्स्ये ।
यथ्âइनं च तव्âभिप्रायं परिपूरयिष्यामि
सर्वसत्वानां च्êति ।
एवं खलु गृहपते ।
तेन याचनकः संज्ञपयितव्यः ।
एतच् च संज्ञपनम् उपरि दोषपरिहाराय्ôक्तं ।
मा भूद् बोधिसत्वस्य तत्र्âप्रसादो बोधिसत्वे वा
याचनकस्य्êति ।
न तु मात्सर्यम् एवं अनवद्यं भवति कुत्सितं च्êदं भगवता बोधिसत्वानां ॥

यथ्âह बोधिसत्वप्रातिमोक्षे ।
चत्वार्êमे शारिपुत्र धर्मा बोधिसत्वानां न संविद्यन्ते ।
कतमे चत्वारः ।
शाठ्यं बोधिसत्वानां न संविद्यते ।
मात्सर्यं बोधिसत्वानां न संविद्यते ।
ईर्ष्यापैशुन्यं बोधिसत्वानां न संविद्यते ।
न्âहं शक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्
इति ।
लीनं चित्तं बोधिसत्वानां न संविद्यते ।
यस्य्êमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स
पण्डित.इर् ज्ञातव्यः ।
कुहको वत्âयं ।
लपको वत्âयं ।
नष्टधर्मो वत्âयं ।
संक्लेशधर्मो वत्âयं लोक्âमिषगुरुको वत्âयं भक्तचोडकपरमो वत्âयम् इति ।
तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्वा भवन्ति ।
यावत् स्वहस्तपरित्यागी भवति पादपरित्यागी ।
नासापरित्यागी ।
शीर्षपरित्यागी ।
अङ्गप्रत्यङ्गपरित्यागी ।
पुत्रपरित्यागी ।
दुहितृपरित्यागी ।
भार्यापरित्यागी ।
रतिपरित्यागी ।
परिवारपरित्यागी ।
चित्तपरित्यागी ।
सुखपरित्यागी ।
गृहपरित्यागी ।
वस्तुपरित्यागी ।
देशपरित्यागी रत्नपरित्यागी ।
सर्वस्वपरित्याग्îति ॥
[ बेन्दल्ल् एद् प्21 ---> ]
एवं नारायणपरिपृच्छायाम् अप्य् उक्तं ।
न तद् वस्त्ûपादातव्यं यस्मिन्
[ चम्ब्रिद्गे म्स् f14ब् ---> ]
वस्तुनि न्âस्य त्यागचित्तम्
उत्पद्यते ।
न त्यागबुद्धिः क्रमेत ।
न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे न्ôत्सर्जनचित्तम्
उत्पादयेन् न स परिवार्ôपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रहबुद्धिर् उत्पद्यते ।

न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम्
उपादातव्यं यावन् न तत् किञ्चिद् वस्त्ûपादातव्यं ।
यस्मिन् वस्तुनि बोधिसत्वस्य्âपरित्यागबुद्धिर् उत्पद्यते ॥
अपि तु खलु पुनः कुलपुत्र बोधिसत्वेन महासत्वेन्âइवं चित्तम्
उत्पादयितव्यं ।
अयं मम्âत्मभावः सर्वसत्वेभ्यः परित्यक्तः
उत्सृष्टः ।
प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत्
कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि
सत्संविद्यमानं हस्तं हस्त्âर्थिकेभ्यो दास्यामि पादं पाद्âर्थिकेभ्यो नेत्रं नेत्र्âर्थिकेभ्यो दास्यामि ।
मांसं मांस्âर्थिकेभ्यः शोणितं शोणित्âर्थिकेभ्यो मज्जानं मज्ज्âर्थिकेभ्यो ऽङ्गप्रत्यङ्गान्य् अङ्गप्रत्यङ्ग्âर्थिकेभ्यः शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि ।
कः पुनर् वादो बाह्येषु वस्तुषु यद् उत
धनधान्यजातरूपरजतरत्न्âभरणहयगजरथवाहनग्रामनगरनिगमजनपदराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु ।
अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति
तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि ।
अशोचन्न् अविप्रतिसारी अविपाकप्रतिकाङ्क्षी परित्यक्ष्यामि ।
अनपेक्षो दास्यामि सत्व्âनुग्रहाय सत्वकारुण्येन
सत्व्âनुकम्पया तेषाम् एव सत्वानां संग्रहाय ।
यथा मे ऽमी सत्वाः सं-
[ चम्ब्रिद्गे म्स् f15अ ---> ]
गृहीता बोधिप्राप्तस्य
धर्मजानकाः स्युर् इति ।
पेयालं ॥
तद् यथ्âपि नाम कुल-पुत्र भैषज्यवृक्षस्य मूलतो वा
ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा
ह्रियमाणस्य
पुष्पतः फलतः सारतो वा ह्रियमाणस्य न्âइवं भवति
विकल्पो ।
मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ॥
अपि तु खलु पुनर् अविकल्प्âइव हीनमध्य्ôत्कृष्टानां सत्वानां व्याधीन् अपनयति ।
एवम् एव कुलपुत्र बोधिसत्वेन महासत्वेन्âस्मिंश् चातुर्महाभौतिके आत्मभावे भैषज्यसंज्ञ्ôत्पादयितव्या
येषां येषां सत्वानां येन येन्âर्थः तत् तद् एव मे
हरन्तु हस्तं हस्त्âर्थिनः पादं पाद्âर्थिन्êति
पूर्ववत् ॥
आर्य्âक्षयमतिसूत्रे ऽपि देशितं ।
अयम् एव मया कायः सर्वसत्वानां किंकरणीयेषु
क्षपयितव्यः ।
तद् यथ्âपि नाम्êमानि बाह्यानि चत्वारि महाभूतानि
पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुश् च
[ बेन्दल्ल् एद् प्22 ---> ]

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc