भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 181200

पे ॥
भवति महाराज स समयो यन् महासमुद्रे ऽङ्गुलिस्नेहमात्रम् अप्य् उदकं न्âवशिष्टं भवति ।
स महाराज तावान् अब्धातुर् निरुध्यमानो न क्वचिद् गच्छति ।
पे ।
तस्य खलु पुनर् महाराज्âब्धातोर् उत्पादो ऽपि शून्यः ।
व्ययो ऽपि शून्यः तिष्ठन्न् अपि सो ऽब्धातुः
[ बेन्दल्ल् एद् प्248 ---> ]
स्वभावशून्य्êति हि महाराज्âब्धातुर् अब्धातुत्वेन्ôपलभ्यते ऽन्यत्र व्यवहारमात्रात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः पूर्ववत् ॥
आध्यात्मिकस् तेजोधातुः कतमः ॥
यत् किञ्चिद् अस्मिन् काये तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं ।
तत् पुनः कतमत् ।
येन्âयं काय्âतप्यते संतप्यते ।
येन व्âस्य्âसितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति ।
यस्य च्ôत्सदत्वाज् ज्वरितो ज्वरित्êति संख्यां गच्छति ॥
पे ॥
बाह्यस् तेजोधातुः कतमः ।
यद् बाह्यं तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं ।
तत् पुनः कतमत् ।
यन् मनुष्य्âरणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कार्पासपिचुन्âवासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्रामप्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैत्îत्य् आदि ।तत्र महाराज्âध्यात्मिकस् तेजोधातुर् उत्पद्यते न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचित् संनिचयं गच्छति ।
इति ह्य् अभूत्वा भवति भूत्वा च प्रतिविगच्छति स्वभावरहितत्वात् ॥
एवं यत् किञ्चिद् अस्मिन् काये वायुर् वायुगतं लघुत्वं समुदीरणत्वं ।
तत् पुनः कतमत् ।
तद् यथ्ôर्ध्वगमा वायवो ऽधोगमाः पार्श्व्âश्रयाः पृष्ठ्âश्रयाः कुक्षिगमाः शस्त्रकाः
[ चम्ब्रिद्गे म्स् f110अ ---> ]
क्षुरकाः सूचकाः पिप्पलका वात्âष्ठीला वातगुल्म्âश्वासप्रश्वास्âङ्ग्âनुसारिणो वायव्êत्य् आदि ।
सन्ति बहिर्धा पूर्वे वायवो दक्षिणाः पश्चिम्ôत्तरा वायवः सरजसः अरजसः परीत्ता महद्गता वायव्êति ।
भवति महाराज स समयो यन् महावायुस्कन्धः समुदागतः ।
[ बेन्दल्ल् एद् प्249 ---> ]
वृक्ष्âग्रान् अपि पातयति ।
कुड्यान् अपि पर्वत्âग्रान् अपि पातयति ।
पातयित्वा निरुपादानो विगच्छति ।
यं सत्वाश् चीवरकर्णिकेन वा विधमनकेन वात्âनुवृत्तेन वा पर्येष्यन्ते ।
यावद् अयम् उच्यते बाह्यो वायुधातुः ।
तस्य्âप्य् उत्पत्तिः पूर्ववत् ॥आध्यात्मिक्âकाशधातुः कतमः ।
यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् उपगतम् उपात्तम् आकाशगतम् इह्âभ्यन्तरसंख्याभूतं ।
अस्फुटम् अस्फरणीयं त्वङ्मान्सशोणितेन ।
तत् पुनः कतमत् ।
यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुखद्वारं वा कण्ठं वा कण्ठनाड्या वा येन च्âभ्यवहरति यत्र च्âवतिष्ठते ।
येन च्âस्य्âशितपीतखादित्âस्वादितम् अधस्तात् प्रघरति ।

अयम् उच्यतए आध्यात्मिक्âकाशधातुः ।
एवं बाह्ये ऽपि यद् अस्फुटम् अस्फरणीयं रूपगतेन्âपलिगुद्धं सुषिरभावश् छिद्रं ।
अयम् उच्यते बाह्यः आकाशधातुः ॥
भवति महाराज स समयो यत् कर्मप्रत्ययाद् आयतनानि प्रादुर्भवन्ति तान्य् आकाशधातुं परिचारयन्ति ।
तत्र संख्या भवत्य् आध्यात्मिक्âकाशधातुर् इति ।
स न कुतश्चिद् आगच्छति ।
भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशीभवति ।
तत् कस्य हेतोः ।
अक्षयो ह्य् आकाशधातुः स्थिरो ऽचलः ।
तद् यथा महाराज्âसंस्कृतो निर्वाणधातुः ।
एवम् एव्âकाशधातुः सर्वत्र्âनुगतो द्रष्टव्यः ।
तद् यथ्âपि नाम महाराज पुरुष्ôत्थले देशे उदपानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् ।
तत् किं मन्यसे महाराज यत् तत्र्âकाशः कुतस् तद् आगतम् इति ।
आह ।
न कुतश्चिद् भगवन् ।
भगवान् आह ।
तद् यथ्âपि नाम महाराज स पुरुषः पुनर् एव तद् उदपानं वा यावत् पुष्करिणीं वा पूरयेत् ।
तत् किं मन्यसे महाराज यत् तद् आकाशं क्वचिद् गतम् इति ।
आह ।
न क्वचिद् गतं भगवन् ।
तत् कस्य हेतोः ।
न ह्य् आका
[ बेन्दल्ल् एद् प्250 ---> ]
श-
[ चम्ब्रिद्गे म्स् f110ब् ---> ]
धातुर् गमने व्âगमने वा प्रत्युपस्थितः ।
न स्त्रीभावेन न पुरुषभावेन प्रत्युपस्थितः ।
भगवान् आह ।
इति हि महाराज बाह्य्âकाशधातुर् अचलः ।अविकारः ।तत् कस्य हेतोः ।
शून्यो ह्य् आकाशधातुर् आकाशधातुत्वेन ।
विरहित्âकाशधातुर् आकाशधातुत्वेन ।
न पुरुषभावेन न स्त्रीभावेन प्रत्युपस्थितः ।
एवम् एव यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥
तत्र कतमो विज्ञानधातुर् या चक्षुरिन्द्रिय्âधिपतेया ।
रूप्âरम्बणप्रतिविज्ञप्तिः ।
यावद् इति हि महाराज या काचिद् वर्णसंस्थानप्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्विज्ञानधातुः ।
पे ।
इति हि या षडिन्द्रिय्âधिपतेया षड्विषय्âरम्बणा विषयविज्ञप्तिर् अयम् उच्यते विज्ञानधातुः ।
स खलु पुनर् अयं महाराज विज्ञानधातुर् न्êन्द्रियनिश्रितो न विषयेभ्य्âगतो न मध्ये ऽन्तरस्थायी स न्âध्यात्म बहिर्धा न्ôभयम् अन्तरेण ।
स खलु पुनर् अयं महाराज विज्ञानधातुर् वस्तु प्रतिविज्ञप्य निरुद्धः ।

स्ôत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचिद् गच्छति ।
तस्य खलु पुनर् विज्ञानधातोर् उत्पादो ऽपि शून्यः ।
व्ययो ऽपि शून्यः ।
उत्पन्नो ऽपि विज्ञानधातुः स्वभावशून्यः ।
इति महाराज विज्ञानधातुर् विज्ञानधातुत्वेन शून्यो न्ôपलभ्यते ऽन्यत्र व्यवहारात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः ।
एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥
तत्र महाराज कतमच् चक्षुरायतनं ।
यच् चतुर्णां महाभूतानां प्रसादः ।
तद् यथा पृथिवीधातोर् अब्धातोस् तेजोधातोर् वायुधातोर् यावत् ।
तत्र पृथिवीधातुप्रसादश् चक्षुरायतनं न्âब्धातुप्रसादो न तेजोधातुप्रसादो न वायुधातुप्रसादश् चक्षुरायतनं ।
तत् कस्य हेतोः ।
न हि पृथिवीधातुप्रसादः कस्यचिद् धर्म्âयतनं व्âयतनप्रतिलम्भेन वा प्रत्युपस्थितः ।
एवं यावन् न वायुधातुप्रसादः कस्यचिद् धर्मस्य्âयतनं व्âयतनप्रतिलम्भेन वा प्रत्युपस्थितः ।
तत् कस्य
[ बेन्दल्ल् एद् प्251 ---> ]
हेतोः ।
निश्चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाणसमा ।
इति हि महाराज्âइक्âइकतो धर्मान् मृग्यमाणान् चक्षुरायतनं न्ôपलभते ऽन्यत्र व्यवहारात् ।
तत् कस्य हेतोः ।
शून्यो हि पृथिवीधातुप्रसादः पृथिवीधातुप्रसादेन ।
यावच् छून्यो वायुधातुप्रसादो वायुधातुप्रसादेन ।
ये च धर्माः स्वभावेन शून्याः
[ चम्ब्रिद्गे म्स् f111अ ---> ]
कस् तेषां प्रसादो वा क्षोभो वा ।
येषां न प्रसादो न क्षोभ्ôपलभ्यते ।
कथं ते रूपं द्रक्ष्यन्ति ।
इति ह्य् अत्यन्ततया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन तत् पूर्व्âन्ततो न्ôपलभ्यते ॥
अपर्âन्ततो ऽपि न्ôपलभ्यते ।
अनागमनतां गमनतां च्ôपादाय स्थानम् अप्य् अस्य न्ôपलभ्यते स्वभावविरहितत्वात् ।
यच् च स्वभावेन न संविद्यते ।
न तत् स्त्री न पुरुषः ।
तेन का मन्यना ।
मन्यना च नाम महाराज मारगोचरः ।
अमन्यना बुद्धगोचरः ।
तत् कस्य हेतोः ।
मन्यन्âपगता हि सर्वधर्माः ।
पे ।
तत्र महाराज कतमच् छ्रोत्र्âयतनं ।
यच् चतुर्णां महाभूतानां प्रसादो ।

यावद् इति हि महाराज सर्वधर्मा विमोक्ष्âभिमुखा धर्मधातुनियत्âकाशधातुपर्यवसान्âप्राप्तिका अव्यवहार्âनभिलाप्य्âनभिलपनीयाः ।
यत्र महाराज्êन्द्रियाणि प्रतिहन्यन्ते ते विषय्êत्य् उच्यन्ते ।
चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्विषय्êत्य् उच्यन्ते ।
एवं श्रोत्रं शब्देष्व् इत्य् आदि ।
तत्र चक्षू रूपे प्रतिहन्यत्êति निपातः ।
प्रतिहन्यना तेषां निर्दिष्टा ।
तथा हि चक्षू रूपेषु त्रिविधं निपतत्îति ।
अनुकूलेषु शुभसंज्ञया ।
प्रतिकूलेषु प्रतिघसंज्ञया ।
न्âइव्âनुकूलेषु न प्रतिकूलेष्ûपेक्षया ।
एवं मनो धर्मेष्व् इत्य् आदि ।
तए इमे विषया मनोगोचर्êत्य् उच्यन्ते ।
अत्र हि मनश् चरति ।
उपविचरति ।
तस्मान् मनोगोचर्êत्य् उच्यन्ते ।
यद् एतन् महाराज मनो ऽप्रतिकूलेषु रूपेष्व् अनुनीतं चरति ।
तेन्âस्य राग्ôत्पद्यते ।
प्रतिकूलेषु रूपेषु प्रतिहतं चरति तेन्âस्य
[ बेन्दल्ल् एद् प्252 ---> ]
द्वेष्ôत्पद्यते ।
न्âइव्âनुकूलेषु न प्रतिकूलेषु संमूढं चरति ।
तेन्âस्य मोह्ôत्पद्यते ।
एवं शब्द्âदिष्व् अपि त्रिविधम् आरम्बणम् अनुभवति पूर्ववत् ॥
तत्र महाराज माय्ôपमान्îन्द्रियाणि ।
स्वप्न्ôपमा विषयाः ।
तद् यथ्âपि नाम महाराज पुरुषः सुप्तः स्वप्न्âन्तरे जनपदकल्या-
[ चम्ब्रिद्गे म्स् f111ब् ---> ]
ण्या स्त्रिया सार्धं परिचरेत् ।
स शयितविबुद्धो जनपदकल्याणीं स्त्रियम् अनुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यते स्वप्न्âन्तरे जनपदकल्याणी स्त्री ।
आह ।
न्ô ह्îदं भगवन् ।
भगवान् आह ।
तत् किं मन्यसे महाराज्âपि नु स पुरुषः पण्डितजातीयो भवेत् ।
यः स्वप्न्âन्तरे जनपदकल्याणीं स्त्रियम् अनुस्मरेत् ।
तया वा सार्धं क्रीडितम् अभिनिवेशेत् ।
आह ।
न्ô ह्îदं भगवन् ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्न्âन्तरे जनपदकल्याणी न संविद्यते न्ôपलभ्यते ।

कुतः पुनर् अनया सार्धं परिचरणा ।
अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् ।
यस् ताम् अभिनिविशेत् ॥
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्य् अभिनिविशेत् ।
सो ऽभिनिविष्टः सन्न् अनुनीयते ऽनुनीतः संरज्यते ।
संरक्तो रागजं कर्म्âभिसंस्करोति ।
त्रिविधं कायेन चतुर्विधं वाचा त्रिविधं मनसा ।
तच् च कर्म्âभिसंस्कृतम् आदित्âइव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति ।
न दक्षिणां न पश्चिमां न्ôत्तरां न्ôर्ध्वं न्âधो न्âनुविदिशं ।
न्êह न तिर्यक् ।
न्ôभयम् अन्तरा ।
तत् पुनः काल्âन्तरेण मरणकालसमये प्रत्युपस्थिते ।
जीवित्êन्द्रियनिरोधे आयुषः परिक्षयात् तत्सभागस्य कर्मणः क्षीणत्वाच् चरम-
[ बेन्दल्ल् एद् प्253 ---> ]
विज्ञानस्य निरुध्यमानस्य मनस्âरम्बणीभवति ।
तद् यथ्âपि नाम शयितविबुद्धस्य जनपदकल्याण्îति मनस्âरम्बणं भवति ।
इति हि महाराज चरमविज्ञानेन्âधिपतिना तेन च कर्मण्âरम्बणेन्âउपपत्त्यंशिकद्वयप्रत्ययं प्रथमविज्ञानम् उत्पद्यते ।
यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि व्âसुरे काये यदि वा मनुष्येषु यदि वा देवेषु ।
तस्य च प्रथमविज्ञानस्य्âउपपत्त्यंशिकस्य समनन्तरनिरुद्धस्य्âनन्तरसभागा चित्तसंततिः प्रवर्तते ।
यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते ।
तत्र यश् चरमविज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति ।
यः
[ चम्ब्रिद्गे म्स् f112अ ---> ]
प्रथमविज्ञानस्य प्रादुर्भावस् तत्र्ôपपत्तिः ।
इति हि महाराज न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं गच्छति ।
च्युत्युपपत्ती च प्रजायेते ।
तत्र महाराज चरमविज्ञानम् उत्पद्यमानं न कुतश्चिद् आगच्छति ॥निरुध्यमानं न क्वचिद् गच्छति ।
कर्म्âप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं न क्वचिद् गच्छति ।
प्रथमविज्ञानम् अप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं च न क्वचिद् गच्छति ।
तत् कस्य हेतोः ।
स्वभावविरहितत्वात् ।
चरमविज्ञानं चरमविज्ञानेन शून्यं ।
कर्म कर्मणा शून्यं ।
प्रथमविज्ञानं प्रथमविज्ञानेन शून्यं ।
च्युतिश् च्युत्या शून्या ।
उपपत्तिर् उपपत्त्या शून्या ।
कर्मणां च्âबन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न च्âत्र कश्चित् कर्ता न भोक्त्âन्यत्र नामसंकेतात् ।

[ बेन्दल्ल् एद् प्254 ---> ]
तद् यथ्âपि नाम महाराज पुरुषः सुप्तः स्वप्न्âन्तरे शत्रुणा सार्धं संग्रामयेत् ।
स शयितविबुद्धः ।
तम् एव्âनुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यते स्वप्न्âन्तरे शत्रुः ।
शत्रुणा वा सार्धं संग्राम्êति ।
आह ।
न्ô ह्îदं भगवन् ।
भगवान् आह ।
तत् किं मन्यसे महाराज्âपि नु स पुरुषः पण्डितजातीयो भवेत् ।
यो ऽसौ स्वप्न्âन्तरे शत्रुम् अभिनिविशेत् ।
शत्रुणा वा सार्धं संग्रामं ।
आह ।
न्ô ह्îदं भगवन् ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः ।
अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् ।
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् प्रतिहन्यते ।
प्रतिहतः संतुष्यति ।
दुष्टो दोषजं कर्म्âभिसंस्करोत्îति पूर्ववत् ।
तद् यथ्âपि नाम महाराज पुरुषह्
[ चम्ब्रिद्गे म्स् f112ब् ---> ]
सुप्तः स्वप्न्âन्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते ।
स शयितविबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् ।
तत् किं मन्यसे महाराज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा ।
यावद् एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्व्ôपेक्षास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् मुह्यति मूढो मोहजं कर्म्âभिसंस्करोत्îति पूर्ववत् ।
तद् यथ्âपि नाम महाराज पुरुषः सुप्तः स्वप्न्âन्तरे जनपदकल्याण्या गायन्त्या मधुरं गीतस्वरं मधुरं च तन्त्रीस्वरं च शृणुयात् ।
सा तेन गीतवादितेन परिचारयेत् ।
स शयितविबुद्धस् तद् एव गीतवादितम् अनुस्मरेत् ।
तत् किं मन्यसे महाराज्âपि नु स पुरुषः पण्डितजातीयः स्वप्न्âन्तरे जनपदकल्याण्या गीतवादितम् अभिनिविशेत् ।
आह ।
न्ô ह्îदं भगवन् ।
भगवान् आह ।
तत् कस्य हेतोः ।
अत्यन्ततया हि भगवन् स्वप्न्âन्तरे जनपदकल्याणी स्त्री न संविद्यते न्ôपलभ्यते ।
कुतः पुनर् अस्या गीतवादितं ।
अन्यत्र यावद् एव स पुरुषो
[ बेन्दल्ल् एद् प्255 ---> ]
विघातस्य क्लमथस्य च भागी स्यात् ।

यस् तद् अभिनिविशेत् ।
भगवान् आह ।
एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान्य् अभिनिविशते ।
इति पूर्ववत् ।
एवं गन्ध्âदिषु त्रिधा त्रिधा वेदितव्यम् ॥
पे ॥अत्र महाराज मानसं निवेशयितव्यं ।
किम् इत्य् अहं सदेवकस्य लोकस्य चक्षुर् भवेयं ।
उल्का प्रदीप्âलोकभूतः ।
कूलं नौस् तीर्थं ।
नायकः परिणायकः दैशिकः स्âर्थवाहः ।
पुरो जवेयं ।
मुक्तो मोचयेयम् आश्वस्त्âश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति ।
पूर्वा हि कोटिर् महाराज न प्रज्ञायते ऽइश्वर्य्âधिपत्यानाम् अनुभूय मानानां ।
इति हि महाराज माय्ôपमान्îन्द्रियाण्य् अ-
[ चम्ब्रिद्गे म्स् f113अ ---> ]
तृप्तान्य् अतर्षणीयानि ।
स्वप्न्ôपमा विषय्âतर्षक्âतृप्तिकराः ॥अत्र्âनन्तयशश्चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् सराजकैः पौरैः परिवृत्âइवं पठ्यते ।
तद् यथ्âपि नाम महाराज सर्पिर्मण्डो वा नवनीतमण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो ऽवसीदति ।
न संतिष्ठते ।
एवम् एव महाराज्âनन्तयश्âवसीदति न संतिष्ठते ।
अथ राजा प्रियंकरो राजानम् अनन्तयशसं तथ्âवसीदन्तं ।
उपसंक्रम्य्âइतद् अवोचत् ।
किं वयं महाराज लोकस्य व्याकुर्यामः ।
किं राज्ञो ऽनन्तयशसः सुभाषितम् इति ।
स्âह ।
वक्तव्यं ।
महाराज्âनन्तयशाश् चतुर्द्वीपेषु राज्य्âइश्वर्यं कारयित्व्âबन्ध्यमनोरथताम् अनुभूय सर्वद्रुम्âकालफलतां सर्व्ôपद्रवप्रस्रब्धिसर्वसत्व्âबन्ध्यमनोरथतां गन्ध्ôदकवर्षं हिरण्यवर्षं सुवर्णवर्षं सर्व्ôपकरणवर्षं च्âनुभूय चतुरो महाद्वीपान् अध्यावसित्वा शक्रस्य्âर्ध्âसनम् आक्रम्यात्îच्छया न मुक्तो ऽतृप्त्âइव कामैः कालगत्êति ।
एवं त्वं महाराज व्याकुर्य्êत्य् एवम् उक्त्वा च राज्âनन्तयशाः कालम् अकार्षीत् ।
पे ॥
त-
[ बेन्दल्ल् एद् प्256 ---> ]
स्मात् तर्हि ते महाराज मरीचिकायाम् उदकस्वभावो न्âभून् न भविष्यति न च्âइतर्हि विद्यते ।
एवम् एव महाराज रूपवेदनासंज्ञा संस्कारविज्ञनां स्वभावो न्âभून् न भविष्यति न च्âइतर्हि विद्यतए इत्य् आदि ॥
पुनर् अप्य् उक्तं ।
एतावच् च्âइतत् ज्ञेयम् ।
यद् उत संवृतिः परम्âर्थश् च ।
तच् च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतं ।
तेन स सर्वज्ञ्êत्य् उच्यते ।
तत्र संवृतिर् लोकप्रचारतस् तथागतेन दृष्टा ।
यः पुनः परम्âर्थः सो ऽनभिलाप्यः ।

[ चम्ब्रिद्गे म्स् f113ब् ---> ]
अनाज्ञेयो ऽविज्ञेयो ऽदेशितो ऽप्रकाशितो यावद् अक्रियो यावन् न लाभो न्âलाभो न सुखं न दुष्खं न यशो न्âयशः ।
न रूपं न्âरूपम् इत्य् आदि ॥
तत्र जिनेन जगस्य कृतेन
संवृति देशित लोकहिताय ।
येन जगत् सुगतस्य सकाशे
संजनयीह प्रसादसुख्âर्थे ॥
संवृति प्रज्ञमयी नरसिंहः
षड्गतयो भणि सत्वगणानां ।
नरकतिरश् च तथ्âइव च प्रेतान्
आसुरकाय नरांश् च मरूंश् च ॥
नीचकुलांस् तथ्ôच्चकुलांश् च
आढ्यकुलांश् च दरिद्रकुलांश् च्êत्य् आदि ॥
[ बेन्दल्ल् एद् प्257 ---> ]
पुनश् च्ôक्तं ।
कतम्âइष धर्मो यो भगवता व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ ।
किं रूपम् उत वेदन्âहो श्वित् संज्ञ्ôत्âहो संस्कार्âथ विज्ञानं भगवता व्याकृतम् अनुत्तरायां सम्यक्संबोधाव् इति ।
तेषाम् एतद् अभूत् ।
न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अनुत्तरायां सम्यक्संबोधौ ।
तत् कस्य हेतोः ।
अनुत्पादो हि रूपम् अनुत्पादो बोधिः ।
तत् कथम् अनुत्पादो ऽनुत्पादम् अभिसंबुध्यते ।
एवं यावद् विज्ञानम् ॥
पे ॥
तद् एवम् अनुपलभ्यमानेषु सर्वधर्मेषु कतमो ऽत्र बुद्धः ।
कतमा बोधिः ।
कतमो बोधिसत्वः ।
कतमद् व्याकरणम् ।
शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥
पे ॥यावद् एव व्यवहारमात्रम् एतत् ।
नामधेय्मात्रं संकेतमात्रं संवृतिमात्रं प्रज्ञप्तिमात्रं ।
न्âलम् अत्र पण्डितैर् अभिनिवेश्ôत्पादयितव्य्êति ॥
तथ्âत्र्âइव्âहुः ।
निर्माणरतयो देवा यथा वयं भगवन् ।
भगवतो भाषितस्य्âर्थम् आजानीमः ।
सर्वधर्मा भूतकोटिर् अनन्तकोटिर् अनावरणकोटिर् अप्रतिष्ठितकोटिर् इत्य् आदि ॥
सर्वधर्मा भगवन् बोधिः ।
स्वभावविरहिता बोद्धव्याः ।
अन्तश्âनन्तर्याण्य् अपि बोधिः ।
तत् कस्य हेतोः ।

अप्रकृतिका हि भगवन् बोधिर् अप्रकृतिकानि च पञ्च्âनन्तर्याणि ।
तेन्ôच्यते आनन्तर्याणि बोधिर् इति ।
तथा विहस्यन्ते भगवन् ये केचित् परिनिर्वातुकामाः ।
तत् कस्य हेतोः ।
यदि कश्चित् संसारप्रतिप-
[ चम्ब्रिद्गे म्स् f114अ ---> ]
न्नो भवेत् ।
स निर्वाणं पर्येषतए इति ॥
पुनर् उक्तं ।
भूतकोटिर् इति भगवन् यद् उक्तं निर्माणरतिभिर् देवैस् तत्र वयं भूतम् अपि न्ôपलभामहे ।
किं पुनर् अस्य कोटिम् ।
तत् कस्य हेतोः ।
यो हि कश्चिद् भगवन् भूतम् उपलभते ।
कोटिम् अपि स तस्य्ôपलभते द्वये च्âसौ चरत्îति ॥
तथ्âत्र्âइव सहांपतिब्रह्मणा शास्ता स्तुतः ॥
सुपिति यथ नरः क्षुध्âभिभूतः शतरसभोजनभुञ्जिनो च तृप्तः ।
न पि च क्षुध न भोजनं न सत्वः सुपिन यथ्âइव निदृष्ट सर्वधर्माः ॥
[ बेन्दल्ल् एद् प्258 ---> ]
भणि नरु पठने मनोज्ञवाचं प्रियु भवती न च संक्रमो ऽस्ति वाचं ।
न च वचन च्âस्य रक्त वाचाम् उपलभसे न च तत्र संशयो ऽस्ति ॥
श्रुणति यथ मनोज्ञ वीणशब्दं मधुर न च्âस्ति स्वभावतः स शब्दः ।
तथ्êमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्वभावतः सुमेधाः ॥
पे ॥
यथ नरु इह शङ्खशब्द श्रुत्वा विमृशति विद्व कुतो य प्रादुभूतः ।
न च लभति स्वभाव शून्यभावं तथ त्व् अय दृष्ट नर्êन्द्र सर्वधर्माः ॥यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अस्वभावम् ।
यथ रसु तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
यथ नरु इह्êन्द्रयष्टि दृष्ट्वा विमृशति अङ्गशु निःस्वभाव शून्यम् ।
विमृशतु यथ यष्टि ते ऽङ्ग शून्यास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥पुरवर यथ्âङ्गशो विभज्य नगरु स्वभावतु नामतो न लब्धम् ।
यथ नगर तथ्âङ्ग सर्वशून्यास् तथ त्व् अय दृष्ट नर्êन्द्र सर्वधर्माः ॥
मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्वभावशून्यशब्दा ।
स्वरु यथ तथ ते ऽङ्ग तत्स्वभावं तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
[ बेन्दल्ल् एद् प्259 ---> ]
...
...
हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति न्âपि स्नेहधातुः ।
विमृशतु भेर्îव ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट नर्êन्द्र सर्वधर्माः ॥हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् ।
स्वरु यथ तथ ते ऽङ्ग तत्स्वभावाः
[ चम्ब्रिद्गे म्स् f114ब् ---> ]
तथ त्व् अय दृष्ट नर्êन्द्र सर्वधर्माः ॥
हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु न्âपि स स्वतन्त्रः ।

स्वरु यथ तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥
पुनश् च्ôक्तं ।
सत्व्âरम्बणनायकेन कथिता मैत्री शुभाभावना ।
सत्वश् च्âस्य विभावितः सुविदितं निःसत्व सर्वं जगत् ।
तत्र्âइवं द्विपद्ôत्तमो ऽकलुषो निःसंशया मानसः ।
तेन त्वा सुगतं विभावितमतिं पूजेम पूज्âरिहम् ॥
दुष्खं चा सुगता [[दोउब्त्]] दशद्दिशिगतं न्âइवं परीदृश्यते ।
[ बेन्दल्ल् एद् प्260 ---> ]
सत्वेषू करुणा च नाम भणिता देव्âतिदेव त्वया ।
एवं भो जिनपुङ्गवा जिनमतं अज्ञात यथावतः ।
तेन त्वां द्विपद्ôत्तमा नरवराः पूजेम पूज्âरिहम् ॥
सत्वान्âइव न दुष्खं शाक्यमुनिना यस्य्âपनीतं दुखं ।
जातास् ते मुदिताश् च हृष्टमनसो ऽरतीश् च तैर् न्ôदिताः ॥
एवं बुद्धनयं अचिन्तियनयं याथावतो जानतो ।
तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥
कायः कायविवर्जितेन मुनिना न्âसादितो मार्गतां ।
न्âइवं ते स्मृतिनायका न भणिता न्âइव प्रमुष्टा स्मृतिः ॥
उक्तं च्ô सुगतेन भावपथिमाः कायं गता भावनाः ।
एवं बुद्धनयं विदित्व सुगता पूजा कृता तायिनः ॥
भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये ।
[ बेन्दल्ल् एद् प्261 ---> ]
शान्तास् ते भगवन् सवासनमला येही जगत् क्लिष्यते ॥
शमथश् च्âथ विपश्यना न च मला सर्वे ऽति शून्या मुने ।
अस्मिन् देवगणा न काङ्क्ष क्वचना पूजेन्तु त्वां नायकं ।
इत्य् आदि ॥
पुनर् उक्तं ।
शून्यं हि चक्षुश् चक्षुःस्वभावेन ।
यस्य च धर्मस्य स्वभावो न विद्यते सो ऽवस्तुकः ।
यो ऽवस्तुकः सो ऽपरिनिष्पन्नः यो ऽपरिनिष्पन्नः स न्ôत्पद्यते न निरुध्यते ।
पे ॥
यत् त्रिष्व् अप्य् अध्वसु न्ôपलभ्यते न तच् चक्षुर् न्êन्द्रियं कथं तस्य व्यवहारो ज्ञेयः ।
तद् यथ्âपि नाम रिक्तमुष्टिर् अलीकः ।
यावद् एव नाममात्रं न्ô तु खलु परम्â-
[ चम्ब्रिद्गे म्स् f115अ ---> ]
र्थतो रिक्तम् उपलभ्यते न मुष्टिः ।
एवं चक्षुश् च्êन्द्रियं च रिक्ते मुष्टिसदृशम् अलीकम् असद्भूतं तुच्छं मृषामोषधर्मे बाल्ôपलापनं मूर्खसंमोहनम् यावद् एव नाममात्रम् ॥
पुनर् अत्र्âइव्âह ।
स्वप्न्âन्तरे महावृष्टिर् आस्रवाणां प्रवर्तना ।
दर्शिता ते महावीर्âस्रव्ôत्पत्तिपण्डिताः ॥
स्वप्ने यथा शिरश्छेदो दृष्टस् ते आस्रवक्षयः ।

दर्शितः सर्वविज्ञानां सर्वदर्शिन् नमो ऽस्तु ते ॥
अत्र्âइव च द्रुमेण किन्नरराजेन भगवान् पृष्टः प्रत्याह ।
यद् वदसि शून्यतां च व्याकरणं ।
च्âप्य् अहं न जानामि ।
स्याद् यदि किंचिद् अशून्यं न भवेज् जिनेन्âस्य व्याकरणम् ॥
किंकारणं ।
तथा हि ।
स्थितं भवेत् तत् स्वके भवे ।
कूटस्थनिर्विकारं ।
न तस्य वृद्धिर् न परिहाणिः ।
न क्रिया न च कारणं ।
यत् स्वभावशून्यम् आदर्शमण्डले सुपरिशुद्धे संदृश्यते प्रतिबि-
[ बेन्दल्ल् एद् प्262 ---> ]
म्बम् ।
तथ्âइव द्रुम जानीह्îमान् धर्मान् ।
अविकारं धर्मधातुम् इमां च पूजां द्रुम्âङ्गशो विचारयसि ।
अङ्गशो निरीक्ष्य पूजां ।
कतमे ऽविकारिणो ऽङ्गाः ॥
यद् अपि च निरीहकत्वं क्रियां च न जानसे मया प्रोक्तं ।
शकट्âङ्ग संनिपातं निरीक्ष्व शकटस्य च्âइव क्रियां ॥
कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु ।
वात्êरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥
न च मारुतो न च तरुश् चेतयति हुत्âशनं च यजने ।
न निवर्तते वह्निस् तथ्âइव कर्मस्य कर्तारः ॥
यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते ।
सुचरितस्य समुदागमश् च ।
बोधिस् तस्य्âपि शृणु क्रमन्त त्वं ।
यथा भणसि मनुष्याणाम् आयुःपरिमाणं वर्षशतं जीविन् ।
न च्âस्ति वर्षपुञ्जी ।
अयम् अपि समुदागमस् तद्वद् इति ॥
भगवत्याम् अप्य् उक्तं ।
किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म्ôत्पद्यते उत्âनुत्पन्नः ।
सुभूतिर् आह ।
न्âहम् आयुष्मन् शारिपुत्र्ôत्पन्नस्य धर्मस्य्ôत्पत्तिम् इच्छा-
[ चम्ब्रिद्गे म्स् f115ब् ---> ]
मि न च्âनुत्पन्नस्य्êति ॥
[ बेन्दल्ल् एद् प्263 ---> ]
धर्मसंगीत्याम् अप्य् उक्तं ।
तथता तथत्êति कुलपुत्र शून्यताय्âइतद् अधिवचनं ।
सा च शून्यता न्ôत्पद्यते न निरुध्यते ।

आह ।
यद्य् एवं धर्माः शून्य्ôक्ता भगवता तस्मात् सर्वधर्मा न्ôत्पत्स्यन्ते न निरोत्स्यन्ते ।
निरारम्भो बोधिसत्वः ।
आह ।
एवम् एव कुलपुत्र तथा यथ्âभिसंबुध्यसे सर्वधर्मा न्ôत्पद्यन्ते न निरुध्यन्ते ।
आह ।
यद् एतद् उक्तं भगवता ।
संस्कृता धर्म्ôत्पद्यन्ते निरुध्यन्ते च्êत्य् अस्य तथागतभाषितस्य को ऽभिप्रायः ।
आह ।
उत्पादनिरोध्âभिनिविष्टः कुलपुत्र लोकसंनिवेशः ।
तत्र तथागतो महाकारुणिको लोकस्य्ôत्त्रासपदपरिहार्âर्थं व्यवहारवशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते च्êति ।
न च्âत्र कस्यचिद् धर्मस्य्ôत्पादो न निरोध्êति ॥
पुनर् अत्र एव्ôक्तं ।
तत्र भगवंश् चक्षूरूपेषु न रणति श्रोत्रं ।
शब्देषु ।
यावन् मनोधर्मेषु न रणति ।
स धर्मः ।
तत्र कथं चक्षूरूपेषु न रणति ।
संसर्ग्âभावात् ।
न हि चक्षूरूपेण संसृज्यते ।
यावन् न मनोधर्मेण संसृज्यते ।
यन् न संसृज्यते तन् न रणति ।
अद्वितीयस्य भगवन् धर्मस्य रणं न्âस्ति ।
अद्वितीयाश् च भगवन् सर्वधर्माः परस्परं न जानन्ति न विजानन्ति ।
न कल्पयन्ति न विकल्पयन्ति ।
न संभवन्ति न विसंभवन्ति ।
न हीयन्ते न वर्द्धन्ते ।
न रज्यन्ति ।
न विरज्यन्ति ।
न संसरन्ति न परिनिर्वान्ति न्âइते कस्यचित् ।
न्âइषां कश्चित् ।
न्âइते भगवन् धर्म्ôद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते ।
एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये ।
यद् अप्य् अहं ।
भगवन्न् एवं वदामि ।
एवम् अहं जानाम्य् एवम् अहं बुध्याम्îति ।
आयतनानाम् एष विकारः ।
न च भगवन्न् आयतनानाम् एवं भवति ।
अस्माकम् एष विकार्êति ।
यो ह्य् एवं जानाति स न केनचित् सार्द्धं विवदति ।

यन् न विवदति तच् छ्रमणधर्मम् अनुसरत्îति ।
तथा धर्मदर्शनं-
[ चम्ब्रिद्गे म्स् f116अ ---> ]
बुद्धदर्शनं सर्वसत्वदर्शनं सर्वसत्व-
[ बेन्दल्ल् एद् प्264 ---> ]
हेतुप्रत्ययदर्शनं शून्यतादर्शनं शून्यतादर्शनम् अदर्शनं ।
अदर्शनं भगवन् सर्वधर्माणां दर्शनं सम्यग्दर्शनम् इति ॥
कथम् अनधिष्ठाना संवृतिर् युक्ता ।
कथं पुनर् अयुक्ता ।
यथ्âसति स्थाणौ पुरुषभ्रान्तिः ।
कस्य पुनः शून्यतावादिनः परम्âर्थतः स्थाणुः सिद्धो यदाश्रयात् पुरुषभ्रान्तिः स्याद् ।
अमूल्âइव च सर्वधर्मास् तत्वतो मूल्âनुपपत्तेः ॥
तथा च्ôक्तम् आर्यविमलकीर्तिनिर्देशे ।
अभूतपरिकल्पस्य किं मूलं ।
आह ।
विपर्यस्ता संज्ञा मूलं ।
आह ।
विपर्यस्तायाः संज्ञायाः किं मूलं ।
अप्रतिष्ठानं मूलं ।
आह ।
अप्रतिष्ठायाः किं मूलं ।
आह ।
यन् मञ्जुश्रीर् अप्रतिष्ठानं न तस्य किञ्चिन् मूलम् इति ह्य् अप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्म्êति ॥
इयं समासतः प्रज्ञापारमिता चित्तशुद्ध्यर्थिना भावयितव्या ।
भावयित्वा च क्लेशरिपुरणकुशलेन भवितव्यं ।
न स्वगृहशूरेण ॥
यथ्ôक्तम् आर्यधर्मसंगीतिसूत्रे ।
न शून्यतावादी लोकधर्मैः संह्रियते ऽनिश्रितत्वात् ।
न स लाभेन संहृष्याति ।
अलाभेन न विमना भवति ।
यशसा न विस्मयते ऽयशसा न संकुचति ।
निन्दया न्âवलीयते ।
प्रशंसया न्âनुनीयते ।
सुखेन न रज्यते दुष्खेन न विरज्यते ।
यो ह्य् एवं लोकधर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥
तथा शून्यतावादिनो न क्वचिद् अनुरागो न विरागः ।
यस्मिन् रज्येत तच् छून्यम् एव जानीते ।
शून्यम् एव पश्यति ।
न्âसौ शून्यतां जानीते यः क्वचिद् धर्मे रज्यते वा विरज्यते वा तथा न्âसौ शून्यतां जानीते यः केनचित् सार्द्धं विग्रहं विवादं वा कुर्याच् छून्यम् एव जानीते तच् छून्यम् एव पश्यत्îत्य् आदि ॥
एतत् संक्षेपाच् चित्तशोधनम् ॥

[ बेन्दल्ल् एद् प्265 ---> ]
अथ्âइवम् अपि परमविशुद्धिर् धर्मदर्शने सति ।
इह पञ्चकषायसंक्लिष्टस्य कल्याणमित्र्âवसादितस्य वा संक्षेपेण तावत् कुत्र
[ चम्ब्रिद्गे म्स् f116ब् ---> ]
यत्नं कृत्वा शीघ्रं चित्तशुद्धिर् भवति ।
आत्मबहुमानपर्âवज्ञात्यागे ऽनयोर् मूलम् आत्मसत्वदृष्टिः ।
सा च्âइतदभ्यासात् सुकरं प्रहीयतए इति परगौरवम् आत्म्âवज्ञा च्âइवं भावनीया ॥
यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता ।
एकस्य हि पर्âत्मत्वं विरुद्धं संभवेत् कथं ॥
विन्âलम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः ।
अनादिकल्यान्âभ्यासात् किम् अभ्यासस्य दुष्करम् ॥
एवम् अभ्यासवश्यत्वे तुल्ये कस्मात् सुख्ôदयम् ।
परगौरवम् उत्सृज्य स्वसुखायान् यद् इष्यते ॥
चिन्तामणिर् यथ्ôक्ताश् च सन्ति गौरवहेतवः ।
न तु मे गौरवात् सौख्यम् इह्âपि जनदुर्भगात् ॥
तस्मात् सत्व्âन्तरे यद्वद् रूक्षमत्सरमानिनः ।
आत्मस्नेहवतो वृत्तिर् भावयेत् तद्विपर्ययम् ॥
आत्मनो बहुमानो ऽयं स्तुतिनिन्द्âदिसेकतः ।
वर्धते नारकवशात् सेकान् नरकवह्निवत् ॥
[ बेन्दल्ल् एद् प्266 ---> ]
शब्दस् तावद् अचित्तत्वान् मां स्तौत्îति न संभवः ।
परः किल मयि प्रीत्êत्य् अयं मे मतिभ्रमः ॥
तत्तुष्ट्य्âइव मम प्रीतिः सामान्ये न सदा अस्तु सा ।
तत्सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया ।
न मे परेण तुष्टेन काये सौख्यम् इह्âण्व् अपि ॥
एवं ज्ञात्वा प्रहातव्या कल्पना निर्विबन्धना ।
अकीर्तिनिन्दा सत्कार्âइवं ज्ञेयाश् च निष्फलाः ॥
न धर्मो न्âयुर् आरोग्यं न बलं वन्दन्âदिभिः ।
यद्वद् उत्प्रास्यमानस्य विकारैर् अन्यकायिकैः ॥
हृष्टस्य्âथ विषण्णस्य लाभ्âलाभौ सम्ôदयौ ।
विवर्ज्य निष्फलं तस्माद् भवेयं शैलमानसः ॥
संस्तवत्यागाच् च शीघ्रं चित्तविशुद्धिर् भवति ।
इति ॥
तत्र्âपि चिन्त्यते ।
निमित्त्ôद्ग्रहसंभूता प्रत्यभिज्ञा पुनः पुनः ।
उत्पादयत्य् अनुनयं जायते प्रतिघो ऽप्य् अतः ॥
प्रतिघ्âनुनयौ यस्य तस्य पापम् अवारितम् ।
अभ्याख्यानानि चित्राणि मात्सर्यं च्êर्ष्यया सह ॥
[ बेन्दल्ल् एद् प्267 ---> ]

लाभ्âदिकामता नाम्êत्य् आद्य् आवर्तते बहु ।
तस्मात् सर्वप्रयत्नेन संस्तवं प्र-
[ चम्ब्रिद्गे म्स् f117अ ---> ]
हरेन् मुनिः ॥ सादृश्याद् अन्यद् अप्य् एतद् वारिस्रोतोवद् ईक्ष्यते ।
तद् एव्êदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥
अवस्तु च्âइतत् सादृश्यं दुष्खं च जनयिष्यति ।
अहं च्âइतच् च सर्वं च न चिरान् न भविष्यति ।
इति ॥
आत्मभावपरिशुद्धिश् चतुर्दशः परिच्छेदः ॥
भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥
शिक्षासमुच्चयस्य्âत्मशुद्ध्यनन्तरं भोगशुद्धिः संचय्âभावात् ।
पृथग् इह लेखिता ।
भोगशुद्धिं च जानीयात् सम्यगाजीवशोधनात् ॥
यथ्ôक्तम् आर्य्ôग्रपरिपृच्छायाम् ।
इह गृहपते गृही बोधिसत्वो धर्मेण भोगान् पर्येषते न्âधर्मेण ।
समेन न विषमेण ।
सम्यगाजीवो भवति न विषम्âजीव्êति ॥
आर्यरत्नमेघे ऽप्य् उक्तं ।
न बोधिसत्वो दायकं दानपतिं दृष्ट्व्êर्यापथम् आरचयति ।
कथं न्êर्यापथम् आरचयति ।
न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युगमात्रप्रेक्षिकया सविश्व-
[ बेन्दल्ल् एद् प्268 ---> ]
स्तप्रेक्षिकय्âनाभोगप्रेक्षिकया ।
एवं कायकुहनां न करोति ।
कथं वाक्कुहनां न करोति ।
न बोधिसत्वो लाभहेतोर् लाभनिदानं मन्दभाणी मृदुभाणी न प्रियभाणी भवति ।
न्âनुवर्तनवचनानि निश्चारयति ।
पे ॥कथं न चित्तकुहनां कुरोति ।
बोधिसत्वो दायकेन दानपतिना वा लाभेन प्रवार्यमाणो वा च्âल्प्êच्छतां दर्शयति ।
चित्ते न स्पृहाम् उत्पादयति ।
अन्तर्दाह्âइष कुलपुत्र यद् वाच्âल्प्êच्छता चित्तेन लाभकामता ।
एवं हि कुलपुत्र बोधिसत्वः कुहनलपनलाभ्âपगतो भवति ।
पे ।
न बोधिसत्वो दानपतिं वा दृष्ट्वा निमित्तं करोति ।
विघातो मे चीवरेण ।
विघातो मे पात्रेण ।
विघातो मे ग्लानभैषज्येन ।
न च तं दायकं दानपतिं वा किंचित् प्रार्थयते ।
न वाचं निश्चारयति ।
एवं हि बोधिसत्वो निमित्तलाभ्âपगतो भवति ।

यावन् न बोधिसत्वो दायकं दानपतिं दृष्ट्व्âइवं वाचं निश्चारयति ।
अमुकेन्âमु-
[ चम्ब्रिद्गे म्स् f117ब् ---> ]
केन वा मे दानपतिन्âमुकं वस्तु प्रतिपादितं तस्य च मय्âमुक्ôपकारः कृतः ।
तेन मे शीलवान् अयम् इति कृत्व्êदं च्êदं च दत्तं बहुश्रुत्êति ।
अल्प्êच्छ्êति कृत्वा ।
मया च तस्य कारुण्यचित्तम् उपस्थाप्य परिगृहीतं ।
पे ॥
तत्र कायक्षतिर् यद् उत लाभहेतोर् लाभनिदानम् आधावनपरिधावनं दौःशील्यसमुदाचरणं च ।
चित्तक्षतिर् यद् उत प्रार्थना ।
[ बेन्दल्ल् एद् प्268 ---> ]
लाभिनां च ब्रह्मचारिणाम् अन्तिके व्यापादबहुलता ।
एवं हि बोधिसत्वो विषमपर्येष्टिलाभ्âपगतो भवति ।
पे ॥
इह बोधिसत्वो न तुलाकूटेन न मानकूटेन न विस्रंभघातिकया न धूर्ततया लाभम् उपार्जयति ।
एवं हि बोधिसत्वो ऽधर्मलाभ्âपगतो भवति ।
पे ।
ये ते लाभा स्तौपिकसंसृष्टा वा धार्मिकसंसृष्टा वा सांघिकसंसृष्टा व्âदत्ता व्âननुज्ञाता वा ।
तान् न प्रतीच्छति न स्वीकरोति ।
एवं हि बोधिसत्वो ऽपरिशुद्धलाभ्âपगतो भवति ।
यावल् लब्धा लाभं न ममायते ।
न धनायते ।
न संनिधिं करोति ।
काल्âनुकालं च श्रमणब्राह्मणेभ्यो ददाति ।
मातापितृमित्र्âमात्यज्ञातिसालोहितेभ्यः काल्âनुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् च्âरक्तः परिभुङ्क्ते ।
स्वनध्यवसितो न च्âलभ्यमाने लाभे खेदचित्तम् उत्पादयति ।
न परितप्यति न च दायकदानपतीनाम् अन्तिके ऽप्रसादचित्तम् उत्पादयत्îत्य् आदि ॥
तत्र्âइष्âप्य् अस्य बोधिसत्वस्य भोगशुद्धिर् आत्मभावशुद्धिवत् परहिताय भवेत् ॥
यथ्ôक्तम् आर्यविमलकीर्तिनिर्देशे ।
पुनर् अपरं भदन्त शारिपुत्र ये प्रविशन्त्îदं गृहं तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते ऽयं द्वितीय्âश्चर्य्âद्भुतो धर्मः ॥
पुनर् अत्र्âइव्ôक्तं ।
अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता ।
न च तत् भोजनं क्षीयते ।
यैश् च बोधिसत्वैः श्रावकैश् च शक्रब्रह्मलोकपालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां ता-
[ बेन्दल्ल् एद् प्270 ---> ]
दृशं सुखं काये ऽवक्रान्तं यादृशं सर्व-
[ चम्ब्रिद्गे म्स् f118अ ---> ]
सुखमण्डितायां लोकधातौ बोधिसत्वानां सुखं ।
सर्वरोमकूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति ।
तद् यथ्âपि नाम तस्याम् एव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः ॥

पुनश् च्ôक्तं ।
यैश् च भदन्त्âनन्द भिक्षुभिर् अनवक्रान्तनियामैर् एतद् भोजनं भुक्तं तेषाम् एव्âवक्रान्तनियमानां परिणंस्यति ।
पे ।
यैर् अनुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादितबोधिचित्तानां परिणंस्यति ।
यैर् उत्पादितबोधिचित्तैर् भुक्तं तेषां न्âप्रतिलब्धक्षान्तिकानां परिणंस्यत्îति विस्तरः ॥
शून्यताकरुणा गर्भचेष्टितात् पुण्यशोधनम् ॥
उक्तं ह्य् आर्यगगनगञ्जसूत्रे ।
यद् उत्âहंकारविशुद्धं तद् दानं ददाति ।
ममकारविशुद्धं तद् दानं ददाति ।
हेतुविशुद्धं तद् दानं ददाति ।
दृष्टिविशुद्धं तद् दानं ददाति ।
निमित्तविशुद्धं तद् दानं ददाति ।
नानात्वविशुद्धं तद् दानं ददाति ।
विपाकप्रतिकाङ्क्षणाविशुद्धं तद् दानं ददाति ।
यथा गगनं समविशुद्धं तद् दानं ददाति ॥
पे ।
यथा गगनम् अपर्यन्तम् एवम् अपर्यन्तीकृतेन चित्तेन तद् दानं ददाति ।
यथा गगनं विस्तीर्णम् अनावरणम् एवं बोधिपरिणामितं तद् दानं ददाति ।
यथा गगनम् अरूपि एवं सर्वरूप्âनिश्रितं तद् दानं ददाति ।
यथा गगनम् अवेदयितृ ।
एवं सर्ववेदितप्रतिप्रस्रब्धं दानं ददाति ।
एवम् असंज्ञि असंस्कृतम् अविज्ञप्तिलक्षणम् एवम् अप्रतिज्ञानं तद् दानं ददाति ।
यथा गगनं सर्वबुद्धक्षेत्रस्फरणम् एवं सर्वसत्वमैत्रीस्फरणं तद् दानं ददाति ।
पे ।
यथा गगनं सदाप्रकाशम् एवं चित्तप्रकृतिविशुद्धं तद् दानं दद-ति ।
यथा गगनं सर्वसत्व्âवकाशं एवं सर्वसत्व्ôपजीव्यं तद् दानं ददाति ।
यावद् यथा निर्मितो निर्मिताय ददाति निर्विकल्पो ऽनाभोगः ।
चित्तमनोविज्ञानविगतः सर्वधर्मनिःप्रतिकाङ्क्षी ।
एवं द्वयविगमतया मायालक्ष-
[ बेन्दल्ल् एद् प्271 ---> ]
णस्वभावविशुद्धं बोधिसत्वस् तद् दानं ददाति ।
यस्य्êदृशो दानपरित्यागः प्रज्ञाज्ञानेन च सर्वसत्व-
[ चम्ब्रिद्गे म्स् f118ब् ---> ]
क्लेशपरित्यागः ।
उपायज्ञानेन च सत्व्âपरित्यागः ।
एवं त्यागचित्तः कुलपुत्र बोधिसत्वो गगनसमदानो भवति ॥
आर्य्âक्षयमतिसूत्रे ऽप्य् उक्तं ।
न्âस्ति सत्व्ôत्पीडनादानम् ।
यावन् न्âस्ति यथ्ôक्ते ऊनदानं ।
यावन् न्âस्ति सर्वसत्वेषु दक्षिणीय्âवमन्यनादानं ।

पे ।
न्âस्ति निक्रन्ददानं यावन् न्âस्ति याचनकेष्ûपतप्तदानं न्âस्त्य् उच्चग्घन*उल्लापनदानं न्âस्ति पराङ्मुखदानं न्âस्त्य् अपविद्धदानं न्âस्त्य् अस्वहस्तदानं ।
पे ।
न्âस्त्य् अकल्पिकदानं ।
न्âस्त्य् अकालदानं न्âस्ति विषशस्त्रदानं न्âस्ति सत्वविहेठनादानम् इति ॥
यत् तर्ह्य् उग्रपरिपृच्छायाम् उक्तं ।
दानपारमिताकालो ऽयं यस्य येन्âर्थस् तस्य तत्प्रदानकालः ।
अपि तु तथ्âहं करिष्यामि ।
मद्यपेभ्य्âइव मद्यपानं दास्यामि ।
तांस् तान् स्मृतिसंप्रजन्ये समादापयिष्याम्îति ॥
मद्यपानाद् अपि नैराश्यकृते बोधिसत्वे प्रतिघो गरीयान् ।
सत्वसंग्रहहानिश् च्âतो ऽन्यप्रसादन्ôपाय्âसंभवे मद्यं देयम् इत्य् अभिप्रायः ।
शस्त्र्âदिष्व् अपि यद्य् अनुबधगुरुल्âद्यवविचाराद् दानम् आपद्येत ।
न्âइव्âपत्तिर् इत्य् अत्âइव गम्यते ।
सूत्रेषु तु सामान्येन प्रतिषेध ।
इत्य् उक्ता दानविशुद्धिदिक् ॥
शीलविशुद्धिर् आर्यगगनगञ्जसूत्रे एव्âभिहिता ।
अविरहितबोधिचित्तता चित्तविशुद्ध्यै अपगतश्रावकप्रत्येकबुद्धचित्तता प्रामाणिकविशुद्ध्यîत्य् आदि ॥
[ बेन्दल्ल् एद् प्272 ---> ]
पुनर् अपरा शीलविशुद्धिः ।
शुद्धं गगनं शुद्धं तच्छीलं ।विमलं गगनं विमलं तच्छीलं ।
शान्तं गगनं शान्तं तच्छीलं ।
अनुन्नतं गगनम् अनुन्नतं तच्छीलं ।
अनुनीतं गगनम् अनुनीतं तच्छीलम् ।
यावद् अछेद्य्âभेद्यं गगनम् अछेद्य्âभेद्यं तच्छीलम् इत्य् आदि ॥
अप्रतिहतं गगनं सर्वसत्व्âप्रतिघचित्तस्य क्षान्तिपरिशुद्धिः ।
समप्रयोगं गगनं सर्वसत्वसमचित्तस्य क्षान्तिपरिशुद्धिर् इत्य् आदि ॥
तद् यथ्âपि स्यान् महाशालवनं ।
तस्मि-
[ चम्ब्रिद्गे म्स् f119अ ---> ]
न् कश्चिद् एव्âगत्य शालं छिन्द्यात् ।
तत्र तेषाम् अवशिष्टानां न्âइवं भवति ।
एष छिन्नो वयम् अच्छिन्न्êति ।
न तेषाम् अनुनयो न प्रतिघः ।
न कल्पो न विकल्पो न परिकल्पः ॥
य्âइवं क्षान्तिर् इयं बोधिसत्वस्य परमा गगनसमा क्षान्तिर् ।
इति ॥
आर्यरत्नचूडसूत्रे विस्तरम् उक्त्व्âह ।
इदम् उच्यते वीर्यं ।
तस्य कायपरिशुद्धिः ।

यत् कायस्य प्रतिभासप्रतिबिम्बज्ञानं वाचो ऽनभिलाप्यज्ञानं ।
चित्तस्य्âत्यन्त्ôपशमज्ञानं ।
तथा मैत्रीसंनाहसंनद्धो महाकरुण्âधिष्ठानप्रतिष्ठितः ।
सर्व्âकारवर्ôपेतं शून्यत्âकार्âभिनिर्हृतं ध्यानं ध्यायति ।
तत्र कतमा सर्व्âकारवर्ôपेता शून्यता ।
या न दानविकला ।
यावन् न्ôपायविकला ।
न महामैत्रीमुदित्ôपेक्षाविकला ।
न सत्यज्ञान्âवतारविकला ।
न बोधिचित्तसत्व्âपेक्षाविकला ।
न्âशय्âध्याशयप्रयोगविकला ।
न दानप्रियवद्यत्âर्थक्रिया समान्âर्थताविकला ।
न स्मृतिसंप्रजन्यविकला ।
न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपाद्êन्द्रियबलबोध्यङ्ग्âष्ट्âङ्गमार्गविकला न शमथविपश्यनाविकला ।
पे ।
उपशान्ता च स्वभावेन ।
[ बेन्दल्ल् एद् प्273 ---> ]
अनुपशान्ता च कर्मक्लेशेषु ।
उपेक्षिका च सर्वधर्माणां ।
अवेक्षिका च बुद्धधर्माणां ।
जहा च स्वलक्षणेन ।
विक्रान्ता च्âधिष्ठानकार्यतया ।
अव्यापृता च स्वरसेन ।
सदा व्यापृता च बुद्धकार्येषु ।
शीतीभूता च्ôपशमेन ।
सद्ôज्ज्वलिता च सत्वपरिपाके ।
इयम् उच्यते सर्व्âकारवर्ôपेता शून्यता ॥
यावद् इयं कुलपुत्र ध्यानपारमिता चर्यापरिशुद्धिर् इति ॥
एतेन प्रज्ञापरिशुद्धिर् वेदितव्या ।
एवं सर्वपुण्येष्व् इति ॥
तथ्âर्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं ।सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश् च बोधिसत्वचर्य्âत्यजनगोचरश् च्âयम् अपि बोधिसत्वस्य गोचर ।
इति ॥भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥
भद्रचर्याविधिः षोडशः परिच्छेदः ॥
इदानीं त्रयाणाम् अपि वृद्धिर् वा-
[ चम्ब्रिद्गे म्स् f119अ ---> ]
च्या ॥
किम् अर्थं ।
ग्रहीतारः सुबहवः स्वल्पं च्êदम् अनेन किं ।
न च्âतितृप्तिजनकं वर्धनीयम् इदं ततः ॥अतितृप्ति बुद्धत्वं ।
तन् न श्रावकसाधारणेन शुद्धिमात्रेण सत्वानां जन्यतए इत्य् अर्थः ।

आत्मभावस्य का वृद्धिर् बल्âनालस्य वर्धनं ॥
[ बेन्दल्ल् एद् प्274 ---> ]
तत्र्âर्यरत्नमेघे बलम् उक्तं ।न स सत्वः सत्वनिकाये संविद्यते यो बोधिसत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥
तस्य कथं वर्धनम् ।
यद् उक्तम् आर्यतथागतगुह्यसूत्रे आर्यवज्रपाणेर् बलदर्शनविस्मित्âजातशत्रुपृष्टेन भगवता ।
दशभिर् महाराज धर्मैः समन्वागतो बोधिसत्व्âइवंरूपां बलवत्तां प्रतिलभते ।कतमैर् दशभिः ।
इह महाराज बोधिसत्वः कायं जीवितं च परित्यजति ।
न च पुनः सद्धर्मं परित्यजति ।
सर्वसत्वानां च्âवनमति न च पुनर् मानं बृंहयति ।
दुर्बलानां च सत्वानां क्षमते ।
न प्रतिघं करोति ।
जिघत्सितानां च सत्वानाम् अग्रं वरभोजनं ददाति ।
भीतानां च सत्वानाम् अभयं ददाति ।
ग्लानानां च सत्वानां भूतचिकित्सायै उत्सुको भवति ।
दरिद्रांश् च सत्वान् भोगैः संतर्पयति ।
तथागतचैत्ये च सुधापिण्डलेपनं करोति ।
आनन्दवचनं सत्वानां श्रावयति ।
दरिद्रदुष्खितानां च सत्वानां भोगसंविभागं करोति ।
श्रान्तक्लान्तानां च सत्वानां भारं वहति ।
एभिर् महाराज दशभिर् इति ॥
[ बेन्दल्ल् एद् प्275 ---> ]
अनालस्यवर्धनं कतमत् ।
यद् वीर्यवर्धनं ।
यथ्ôक्तं सागरमतिसूत्रे ।
आरब्धवीर्येण सागरमते बोधिसत्वेन भवितव्यं सदा दृढपराक्रमेण ।
तीव्रच्छन्देन बोधिसत्वेन भवितव्यम् अनिक्षिप्तधुरेण ।
आरब्धवीर्याणां हि सागरमते बोधिसत्वानां न दुर्लभा भवत्य् अनुत्तरा सम्यक्संबोधिः ।
तत् कस्य हेतोः ।
यत्र सागरमते वीर्यं तत्र बोधिः ।
कुसीदानां पुनः सुदूरविदूरे बोधिः ।
न्âस्ति कुसीदस्य दानं यावन् न्âस्ति प्रज्ञा
[ चम्ब्रिद्गे म्स् f120अ ---> ]
न्âस्ति कुसीदस्य पर्âर्थ्êति ॥
चन्द्रप्रदीपसूत्रे ऽप्य् आह ।
उत्पलं वारिमध्ये वा सो ऽनुपूर्वेण वर्धतए ।इत्य् आदि ॥
इयं संक्षेपाद् आत्मभाववृद्धिः ॥
शून्यता करुणागर्भाद् दानाद् भोगस्य वर्धनं ॥
यथ्ôक्तं वज्रच्छेदिकायां ।
यो बोधिसत्वो ऽप्रतिष्ठितो दानं ददाति ।
तस्य पुण्यस्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम् इति ॥

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc