भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 161180

चित्तपरिशुद्धये परिणामयति ।
बुद्धधर्मप्रतिवेधाय परिणामयति ।
अप्रमेयगुणप्रतिपत्तये परिणामयति ।
सर्व्âभिज्ञाकुशलपरिशुद्धये परिणामयति ।
धर्मविमतिविनिवर्तनाय परिणामयति ।
यथा बुद्धशासन्âवचरेषु परिणामयति ।
श्रावकप्रत्येकबुद्धेषु च तथा बोधिसत्वः सर्वसत्वेषु तत्कुशल-
[ बेन्दल्ल् एद् प्215 ---> ]
मूलं परिणामयति ॥
यद् इदं नैरयिकमार्गविनिवर्तनाय परिणामयति ।
तिर्यग्योनिव्यवच्छेदाय परिणामयति ।
यमलोक्ôपच्छेदसुखाय परिणामयति ।
निरवशेषसर्व्âपायगत्युपपत्तिव्यवच्छेदाय परिणामयति ॥
तेषां च सर्वसत्वानाम् अनुत्तरबोधिछन्दविवर्धनतायै परिणा-
[ चम्ब्रिद्गे म्स् f99ब् ---> ]
मयति ।
अध्याशयसर्वज्ञताचित्तलाभाय परिणामयति ।
सर्वबुद्धधर्म्âप्रतिक्षेपाय परिणामयति ।
अत्यन्तसुखसर्वज्ञताभूमिसंवर्तनाय परिणामयति ।
अत्यन्तसर्वसत्वविशुद्धये परिणामयति ।
सर्वसत्वानाम् अनन्तज्ञान्âधिगमाय परिणामयति ।
पे ॥
तस्य यत् किञ्चिच् चीवरपिण्डपातशयन्âसनग्लानप्रत्ययभैषज्यगमन्âगमनशरीर्ôपस्थाननिषद्य्âदिनिषेवण्âयतनानां प्रवर्तनकर्म्êर्यापथ्âधिष्ठानम् ईर्यापथस्य्âविकोपनं कायकर्म वाक्कर्म मनस्कर्म सचुरितं षण्णाम् इन्द्रियाणां संवरः स्वशरीर्âछादनमर्दनस्नानकर्म ।
अशितपीतखादितं संमिञ्जितप्रसारित्âवलोकितविलोकितसुप्तजागरितस्वशरीरगत्ôपस्थानं सर्वम् एतद् बोधिसत्वस्य सर्वज्ञत्âलम्बनप्रयुक्तस्य न किञ्चिद् अपरिणामितं सर्वज्ञतायां सर्वसत्वहितसुखचित्तस्य ॥
पे ॥सर्वजगत्परित्राणमनसो नित्य्ôद्युक्तकुशलमूलस्य मदप्रमादव्यतिवृत्तस्य ॥
पे ॥सर्वक्लेशपराङ्मुखस्य सर्वबोधिसत्व्âनुशिक्षणचेतसः सर्वज्ञतामार्ग्âप्रतिहतस्य ज्ञानभूमिनिषेवणस्य पण्डितसंवास्âभिरतस्य ।
पे ॥
मधुकर्êव कुशलमूलसंभरणस्य सर्वजगदुच्चलितसन्तानस्य्âनभिनिविष्टसर्वसंस्कारस्य ।
पे ॥अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्योनिगतेष्व् एक्âउदन्ôन्मिञ्जितम् एक्âलोपं वा परित्यजति ।
सुगताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति ।
तस्यास् तिर्यग्योनेस् तस्माद् दुष्ख्âर्णवात् तस्माद् दुष्ख्ôपादानात् तस्माद् दुष्खस्कन्धात् तस्माद् दुष्खावेदनायाः ।
तस्माद् दुष्ख्ôपचयात् तस्माद् दुष्ख्âभिसंस्का-
[ बेन्दल्ल् एद् प्216 ---> ]
रात् तस्माद् दुष्खनिदानात् ततो दुष्खमूलात् तस्माद् दुष्ख्âयतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तदारम्बणेन च सर्वसत्व्âरम्बणीकरोति मनसिकरोति ।
तत्र कुशलमूले पूर्वङ्गमीकरोति ।
यद् इदं सर्वज्ञतायां परिणामयति ।
[ चम्ब्रिद्गे म्स् f100अ ---> ]
बोधिचित्त्ôत्पादेन प्रतिगृह्णाति ।
तत्र कुशलमूलम् उपनयति ।
संसारकान्ताराद् विनिवर्तयति ।

अनावरणेन बुद्धसुखेन्âभिमुखीकरोति ।
संसारसागराद् उन्मज्जयति ।
बुद्धधर्मप्रयुक्ताय मैत्र्या स्फरत्îत्य् आदि ॥
इमाश् च सुवर्णभास्ôक्ता मैत्रीकरुणागर्भा गाथाः सर्व्âदरतः समन्वाहृत्य भावयितव्य्âन्तशो वचस्âपि ॥
सुवर्णभास्ôत्तमदुन्दुभेन शाम्यन्तु दुष्खास् त्रिसहस्रलोके ।
अपायदुष्खा यमलोकदुष्खा दारिद्र्यदुष्खाश् च्êह त्रिलोके ॥
अनेन च्ô दुन्दुभिघोषनादिना शाम्यन्तु सर्वव्यसनानि लोके ।
भवन्तु सत्वा ह्य् अभय्âहता तथा यथ्âभयाः शान्तभयाः मुन्îन्द्राः ॥
यथ्âइव सर्व्âर्यगुण्ôपपन्नाः संसारसर्वज्ञमहासमुद्राः ।
तथ्âइव भोन्तू गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैर् उपेताः ॥
अनेन च्ô दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्वाः ।
स्पृशन्तु बुद्धत्ववर्âग्रबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् ॥
[ बेन्दल्ल् एद् प्217 ---> ]
तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय ।
हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥
ये सत्व तिष्ठन्ति अपायभूमौ आदीप्तसंप्रज्वलित्âस्थिगात्राः ।
शृण्वन्तु ते दुन्दुभिसंप्रवादितं नमो ऽस्तु बुद्धाय भणन्तु वाचम् ॥
जातिस्मराः सत्वा भवन्तु सर्वे जातीशतं जातिसहस्रकोट्यः ।
अनुस्मरन्तू सततं मुन्îन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥
अनेन च्ô दुन्दुभिघोषनादिना लभन्तु बुद्धेहि समागमं सदा ।
विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके ।
ये सत्व विकल्êन्द्रिय्âङ्गहीनाः ते सर्वि सकल्êन्द्रिय भोन्तु सांप्रतम् ॥
ये व्याधिता दुर्बलक्षीणगात्रा निस्त्राणभूताः शयिता दिशासु ।
ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु च्âरोग्य बल्êन्द्रियाणि ॥
ये राजचौरभट तर्जित वध्यप्राप्ता नानाविधैर् भयशतैर् व्यसन्ôपपन्नाः ।
ते स-
[ चम्ब्रिद्गे म्स् f100ब् ---> ]
र्वि सत्व व्यसन्âगतदुष्खिता हि मुच्यन्तु तैर् भयशतैः परमैः सुघोरैः ॥
[ बेन्दल्ल् एद् प्218 ---> ]
ये ताडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु च संस्थिताहि ।
अनेक्âयाससहस्र्âकुला विचित्रभयदारुणशोकप्राप्ताः ॥ ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः ।
वध्याश् च संयुज्यिषु जीवितेन व्यसन्âगता निर्भय भोन्तु सर्वे ॥ये सत्व क्षुत्तर्षपिपासपीडिता लभन्तु ते भोजनपानचित्रम् ।
अन्धाश् च पश्यन्तु विचित्ररूपां बधिराश् च शृण्वन्तु मनोज्ञघोषान् ॥नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्रसत्वाश् च निधिं लभन्तु ।
प्रभूतधनधान्यविचित्ररत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥मा कस्यचिद् भावतु दुष्खवेदनाः सौख्य्âन्विताः सत्व भवन्तु सर्वे ।
अभिरूपप्रासादिकसौम्यरूप्âनेक सुख संचित नित्य भोन्तु ॥मनस्âन्नपानाः सुसमृद्धपुण्याः सह चित्तमात्रेण भवन्तु तेषां ।
वीणा मृदङ्गाः पणवाः सुघोषकाः उत्सा सराः पुष्करिणी तडागाः ॥
सुवर्णपद्म्ôत्पलपद्मिनीश् च सह चित्तमात्रेण भवन्तु तेषाम् ।
गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥त्रिष्कालवृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः ।
कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् ॥
[ बेन्दल्ल् एद् प्219 ---> ]

स बोधिसत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य ।
नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्ट्âक्षणवीतिवृत्ताः ॥
आसादयन्तू जिनराजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा ।
सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदुपण्डिताश् च ॥ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु ।
पश्यन्तु बुद्धान् दशसू दिशासु रत्नद्रुम्êन्द्रेषु सुख्ôपविष्टान् ।
वैडूर्यरत्न्âसनसंनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् ।
इति ॥
एषा संक्षेपतो मैत्री ॥
द्वेषसमुदाचारप्रतिपक्षः ॥
मोह्âनुशयस्य प्रतीत्यसमुत्पाददर्शनं प्रतिपक्षः ॥
तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसूत्रे ऽभिहितः ।
तत्र्âध्यात्मिकस्य प्रतीत्यसमु-
[ बेन्दल्ल् एद् प्220 ---> ]
त्पादस्य
[ चम्ब्रिद्गे म्स् f101अ ---> ]
हेत्ûपनिबन्धः कतमः ।
यद् इदम् अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्ययं जरामरणम् इति ।
अविद्या चेन् न्âभविष्यन् न्âइव संस्काराः प्राज्ञास्यन्त ।
एवं यावद् यदि जातिर् न्âभविष्यन् न जरामरणं प्राज्ञास्यत ।
अथ सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति ।
एवं यावज् जात्यां सत्यां जरामरणस्य्âभिनिर्वृत्तिर् भवति ।
तत्र्âविद्याया न्âइवं भवति ।
अहं संस्कारान् अभिनिर्वर्तयाम्îति ।
संस्काराणाम् अप्य् एवं न भवति ।
वयम् अविद्यय्âभिनिर्वृत्त्êति ।
एवं यावज् जात्या न्âइवं भवति ।
अहं जरामरणम् अभिनिर्वर्तयाम्îति ।
जरामरणस्य्âपि न्âइवं भवति ।
अहं जात्या निर्वृत्त्êति ।अथ च सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः ।
एवं यावज् जात्यां सत्यां जरामरणस्य्âभिनिर्वृत्तिर् भवति प्रादुर्भावः ॥
एवम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेत्ûपनिबन्धो द्रष्टव्यः ॥कथम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्यय्ôपनिबन्धो द्रष्टव्य्êति ।
षण्णां धातूनां समवायात् ।
कतम् एषां षण्णां धातूनां समवायात् ।
यद् इदं पृथिव्य्-अप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्यय्ôपनिबन्धो द्रष्टव्यः ॥तत्र्âध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतम्êति ।
यो ऽयं कायस्य संश्लेषतः कठिनभावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवीधातुः ।
यः कायस्य्âनुपरिग्रहं कृत्यं करोति अयम् उच्यते ऽब्धातुः ।
यः कायस्य्âशितपीतभक्षितं परिपाचयति अयम् उच्यते तेजोधातुः ।
यः कायस्य्âश्वासप्रश्वास-
[ बेन्दल्ल् एद् प्221 ---> ]
कृत्यं करोत्य् अयम् उच्यते वायुधातुः ।

यः कायस्य्âन्तःसौषिर्यभावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाशधातुः ।
यो नामरूपम् अभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंप्रयुक्तं स्âस्रवं च मनोविज्ञानम् अयम् उच्यते विज्ञानधातुः ॥
असत्सु प्रत्ययेषु कायस्य्ôत्पत्तिर् न भवति ।
यद्âध्यात्मिकः पृथिवीधातुर् अविकलो भवत्य् एवम् अप्तेजोवाय्वाकाशविज्ञानधातवश् च्âविकला भवन्ति ।
ततः सर्वेषां समवायात् कायस्य्ôत्पत्तिर् भवति ॥
तत्र पृथिवीधातोर् न्âइवं भवति ।
अहं कायस्य कठिनभावम् अभिनिर्वर्तयाम्îति ।
अब्धातोर् न्âइवं भवति ।
अहं कायस्य्âनुपरिग्रहकृत्यं करोम्îति ।
तेजोधातो-
[ चम्ब्रिद्गे म्स् f101ब् ---> ]
र् न्âइवं भवति ।
अहं कायस्य्âशितपीतखादितं परिपाचयाम्îति ।
वायुधातोर् न्âइवं भवति ।
अहं कायस्य्âश्वासप्रश्वासकृत्यं करोम्îति ।
आकाशधातोर् न्âइवं भवति ।
अहं कायस्य्âन्तः सौर्षिर्यं करोम्îति ।
विज्ञानधातोर् न्âइवं भवति ।
अहम् एभिः प्रत्ययैर् जनित्êति ।
अथ च सत्स्व् एषु प्रत्ययेषु कायस्य्ôत्पत्तिर् भवति ।
तत्र पृथिवीधातुर् न्âत्मा न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं ।
न च्âहं ।
न मम ।
न च्âप्य् अन्यस्य कस्यचित् ।
एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न च्âहं न मम न च्âप्य् अन्यस्य कस्यचित् ॥तत्र्âविद्या कतमा ।
य्âइष्व् एव षट्सु धातुष्व् एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञ्âत्मसंज्ञा सत्वजीवमनुजमानवसंज्ञा ।
अहंकारममकार-
[ बेन्दल्ल् एद् प्222 ---> ]
संज्ञा ।
एवमादि विविधम् अज्ञानम् इयम् उच्यते ऽविद्य्êति ।
एवम् अविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते ।
तत्र ये रागद्वेषमोहा विषयेष्व् अमी उच्यन्ते संस्कार्êति ।
वस्तुप्रतिविज्ञप्तिर् विज्ञानं ।
विज्ञानसहजाश् चत्वारो ऽरूपिण्ôपादानस्कन्धास् तन् नामरूपं ।
चत्वारि च महाभूतानि च्ôपादाय्ôपादाय र् ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नामरूपं ।
नामरूपसंनिश्रितान्îन्द्रियाणि षडायतनं ।
त्रयाणां धर्माणां संनिपातः स्पर्शः ।
स्पर्श्âनुभवना वेदना ।
वेदन्âध्यवसानं तृष्णा ।
तृष्णा वैपुल्यम् उपादानं ।

उपादाननिर्जातं पुनर्भवजनकं कर्म ।
भवः ।
तद्धेतुकस्कन्धप्रादुर्भावो जातिः ।
स्कन्धपरिपाको जरा विनाशो मरणं ।
म्रियमाणस्य मूढस्य स्व्âभिष्वङ्गस्य्âन्तर्दाहः शोकः ।
लालप्यनं परिदेवः ।
पञ्चविज्ञानकायसंप्रयुक्तम् अशात्âनुभवनं दुष्खं ।
मनसिकारसंप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् ।
ये च्âन्यए एवमादय्ôपक्लेशास् तए उपायासाः ॥
पे ॥
पुनर् अपरं तत्वे ऽप्रतिपत्तिः मिथ्या प्रतिपत्तिः अज्ञानम् अविद्या ।
एवम् अविद्यायां सत्यां-
[ बेन्दल्ल् एद् प्223 ---> ]
त्रिविधाः संस्काराः अभिनिर्वर्तन्ते ।
पुण्य्ôपग्âपुण्य्ôपग्âनिञ्ज्य-
[ चम्ब्रिद्गे म्स् f102अ ---> ]
उपगाश् च्êमए उच्यन्ते ऽविद्याप्रत्ययाः संस्कार्êति ।
पुण्य्ôपगानां संस्काराणां पुण्य्ôपगम् एव विज्ञानं भवति ।
अपुण्य्ôपगानां संस्काराणाम् अपुण्य्ôपगम् एव विज्ञानं भवति ।
आनिञ्ज्य्ôपगानां संस्काराणाम् आनिञ्ज्य्ôपगम् एव विज्ञानं भवति ।
इदम् उच्यते संस्कारप्रत्ययं विज्ञानम् इति ।
एवं नामरूपं ।
नामरूपविवृद्ध्या षड्भिर् आयतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते ।
तन् नामरूपप्रत्ययं षडायतनम् इत्य् उच्यते ।
षड्भ्य्âयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते ऽयं षडायतनप्रत्ययः स्पर्श्êत्य् उच्यते ।
यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते ।
इयं स्पर्शप्रत्यया वेदन्êत्य् उच्यते ।
यस् तां वेदयति विशेषेण्âस्वादयति ।
अभिनन्दत्य्*अध्यवस्यत्य् अत्यधितिष्ठति ।
सा वेदनाप्रत्यया तृष्ण्êत्य् उच्यते ।
आस्वादन्âभिनन्दन्âध्यवसानं ।
मा मे प्रियरूपशातरूपैर् वियोगो भवत्व् इति ।
अपरित्यागो भूयो भूयश् च प्रार्थना ।
इदं तृष्णाप्रत्ययम् उपादानम् इत्य् उच्यते ।
एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा ।
अयम् उपादानप्रत्ययो भव्êत्य् उच्यते ।
या कर्मनिर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भवप्रत्यया जातिर् इत्य् उच्यते ।
यो जात्यभिनिर्वृत्तानां स्कन्धानाम् उपचयपरिपाकाद् विनाशो भवति ।
तद् इदं-
[ बेन्दल्ल् एद् प्224 ---> ]

जातिप्रत्ययं जरामरणम् उच्यते ॥
पे ॥
एवम् अयं द्वादश्âङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययतो ।
न्âइव्âनित्यो न नित्यो ।
न संस्कृतो न्âसंस्कृतो ।
न वेदयिता ।
न क्षयधर्मो न निरोधधर्मो ।
न विरागधर्मो ।
अनादिकारप्रवृत्तो ऽनुद्भिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥
अथ च्êमान्य् अस्य द्वादश्âङ्गस्य प्रतीत्यसमुत्पादस्य चत्वारि अङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते ।
कतमानि चत्वारि ।
यद् उत ।
अविद्या तृष्णा कर्म विज्ञानं च ।
तत्र विज्ञानं बीजस्वभावत्वेन हेतुः ।
कर्म क्षेत्रस्वभावत्वेन हेतुः ।
अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः ।
कर्मक्लेशा विज्ञानबीजं संजनयन्ति ।
तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति ।
तृष्णा विज्ञानबीजं स्नेहयति ।
अविद्या विज्ञानबीजम् अवकिरति ।
असतां येषां प्रत्ययानां बीजस्य्âभिनिर्वृत्तिर् न भवति ॥तत्र कर्मणो न्âइवं भवति ।
अहं विज्ञानबीजस्य क्षेत्रकार्यं करोम्îति ।
तृष्णाय्âपि न्âइवं भवति ।अहं विज्ञानबीजं स्नेहयाम्îति ।
अविद्याय्âपि न्âइवं भवति ।
अहं विज्ञानबीजम् अवकिराम्îति ।
विज्ञानबीजस्य्âपि न्âइवं भवत्य् अहम् एभिः प्रत्ययैर् जनित्êति ।
अपि तु विज्ञानबीजे कर्मक्षेत्रप्रतिष्ठिते तृष्णास्नेह्âभिष्यन्दिते ऽविद्य्âवकीर्णे
[ चम्ब्रिद्गे म्स् f102ब् ---> ]
तत्र तत्र्ôत्पत्त्यायतनसन्धौ मातुः कुक्षौ विरोहति ।
नाम-
[ बेन्दल्ल् एद् प्225 ---> ]
रूप्âङ्कुरस्य्âभिनिर्वृत्तिर् भवति ।
स च नामरूप्âङ्कुरो न स्वयंकृतो न परकृतो न्ôभयकृतो न्êश्वर्âदिनिर्मितो न कालपरिणामितो न च्âइककारण्âधीनो न्âप्य् अहेतुसमुत्पन्नः ।
अथ च मातापितृसंयोगाद् ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वाद्âनुप्रविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूप्âङ्कुरबीजम् अभिनिर्वर्तयति ।
अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥
तद् यथा पञ्चभिः कारणैश् चक्षुर्विज्ञानम् उत्पद्यते ।
कतमैः पञ्चभिः ॥
चक्षुश् च प्रतीत्य रूपं च्âलोकं च्âकाशं तज्जं च मनसिकारं च प्रतीत्य्ôत्पद्यते चक्षुर्विज्ञानं ॥
तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति ।
रूपम् आरम्बणकृत्यं करोति ।

आलोको ऽवभासकृत्यं करोति ।
आकाशम् अनावरणकृत्यं करोति ।
तज्जमनसिकारः समन्वाहारकृत्यं करोति ।
असत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानं न्ôत्पद्यते ॥
यदा चक्षुर् आध्यात्मिकम् आयतनम् अविकलं भवति ।
एवं रूप्âलोक्âकाशतज्जमनसिकाराश् च्âविकला भवन्ति ।
ततः सर्वसमवायाच् चक्षुर्विज्ञानस्य्ôत्पत्तिर् भवति ॥
तत्र चक्षुषो न्âइवं भवति ।
अहं चक्षुर्विज्ञानस्य्âश्रयकृत्यं करोम्îति ।
रूपस्य्âपि न्âइवं भवति ।
अहं चक्षुर्विज्ञानस्य्âरम्बणकृत्यं करोम्îति ।
आलोकस्य्âपि न्âइवं भवति ।
अहम् अवभासकृत्यं करोम्îति ।
आकाशस्य्âपि न्âइवं भवति ।
अहं चक्षुर्विज्ञानस्य्âनावरणकृत्यं करोम्îति ।
तज्जमनसिकारस्य्âपि न्âइवं भवति ।
अहं चक्षुर्विज्ञानस्य समन्वाहारकृत्यं करोम्îति ।
चक्षुर्विज्ञानस्य्âपि न्âइवं भवति ।
अहम् एभिः प्रत्ययैर् जनित्êति ।
अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानस्य्ôत्पत्तिर् भवति प्रादुर्भावः ।
एवं शेषाणाम् इन्द्रियाणां यथ्âयोगं कर्तव्यं ॥
तत्र न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं संक्रामति ।
अस्ति च कर्मफल-
[ बेन्दल्ल् एद् प्226 ---> ]
प्रतिविज्ञप्तिः ।
हेतुप्रत्ययानाम् अवैकल्यात् ।
यथा-
[ चम्ब्रिद्गे म्स् f103अ ---> ]
अग्निर् उपादानवैकल्यान् न ज्वलति ।
एवम् एव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्र्ôत्पत्त्यायतनप्रतिसन्धौ मातुः कुक्षौ नामरूप्âङ्कुरम् अभिनिर्वर्तयति ।
अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥
तन् न्âध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥
कतमैः पञ्चभिः ।
न शाश्वततो न्ôच्छेदतो न संक्रान्तितः ।
परीत्तहेतुनो विपुलफल्âभिनिर्वृत्तितस् तत्सदृश्âनुप्रबन्धतश् च्êति ॥
कथं न शाश्वततः ।
यस्माद् अन्ये मारण्âन्तिकाः स्कन्ध्âन्यए ऽउपपत्त्यंशिकाः ।
न तु यए एव मारण्âन्तिकाः स्कन्धास् तए एव्âउपपत्त्यंशिकाः स्कन्धा ।
अपि तु मारण्âन्तिकाश् च स्कन्धा निरुध्यमान्âउपपत्त्यंशिकाः स्कन्धाश् च प्रादुर्भवन्ति ।
अतो न शाश्वततः ॥

कथं न्ôच्छेदतः ।
न च निरुद्धेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति न्âप्य् अनिरुद्धेषु ।
अपि तु मारण्âन्तिकाश् च स्कन्धा निरुध्यन्ते ऽउपपत्त्यंशिकाश् च प्रादुर्भवन्ति ।
तुलादण्ड्ôन्नाम्âवनामवत् ।
अतो न्ôच्छेदतः ॥
कथं न संत्रान्तितः ।
विसदृशात् सत्वनिकायाद् धि सभागाः स्कन्धा जात्यन्तरे ऽभिनिर्वर्तन्ते ।
अतो न संक्रान्तितः ॥
कथं परीत्तहेतुतो विपुलफल्âभिनिर्वृत्तितः परीत्तं कर्म
[ बेन्दल्ल् एद् प्227 ---> ]
क्रियते ।
विपुलः फलविपाको ऽनुभूयते ।
अतः परीत्तहेतुतो विपुलफल्âभिनिवृत्तिः ॥
कथं तत्सादृश्âनुप्रबन्धतः ।
यथा वेदनीयं कर्म क्रियते ।
तथा वेदनीयो विपाको ऽनुभूयते ।
अतस् तत्सदृश्âनुप्रबन्धतश् च्êति ॥
यः कश्चिद् भदन्त शारिपुत्र्êमं प्रतीत्यसमुत्पादं भगवता सम्यक्प्रणीतम् एवं यथाभूतं सम्यक्प्रज्ञया सततसमितम् अजीवं निर्जीवं यथावद् अविपरीतम् अजातम् अभूतम् अकृतम् असंस्कृतम् अप्रतिघम् अनावरणं शिवम् अभयम् अहार्यम् अव्ययम् अव्युपशमम् अस्वभावं पश्यति ।
असत्यतस् तुच्छत ऋक्ततो ऽसारतो ऽघतो ऽनित्यतो दुष्खतः शून्यतो ऽनात्मनश् च समनुपश्यति ।
स न पूर्व्âन्तं प्रतिसरति ।
किम् अहम् अभूवम् अतीते ऽध्वन्य् आहो स्विन् न्âभूवम् अतीते ऽध्वनि ।
को न्व् अहम् अभूवम् अतीते ऽध्वनि ॥
अपर्âन्तं वा पुनर् न प्रतिसरति ।
किं नु भविष्याम्य् अनागते ऽध्वन्य् आहो स्विन् न भविष्याम्य् अनागते ऽध्वनि ।
को नु भविष्याम्îति ।
प्रत्युत्पन्नं वा पुनर् न प्रतिसरति ।
किं स्विद् इदं कथं स्विद् इदं ।
के सन्तः के भविष्या-
[ चम्ब्रिद्गे म्स् f103ब् ---> ]
म्êति ॥
आर्यदशभूमके ऽप्य् उक्तं ।
तत्र्âविद्यातृष्ण्ôपादानं च क्लेशवर्त्मनो ऽव्यवच्छेदः ।
संस्कारा भवश् च कर्मवर्त्मनो ऽव्यवच्छेदः ।
परिशेषं दुष्खवर्त्मनो ऽव्यवच्छेदः ।
अपि तु खलु पुन-
[ बेन्दल्ल् एद् प्228 ---> ]
र् यद् उच्यते ऽविद्याप्रत्ययाः संस्कार्êति ।
एषा पूर्व्âन्तिक्य्- अपेक्षा ॥विज्ञानं यावद् वेदन्êति ।
एषा प्रत्युत्पन्न्âपेक्षा ।
तृष्णा यावद् भव्êति ।

एष्âपर्âन्तिक्य्- अपेक्ष्âत*ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥
पे ॥
तस्य्âइवं भवति ।
संयोगात् संस्कृतं प्रवर्तते ।
विसंयोगान् न प्रवर्तते ।
सामग्र्याः संस्कृतं प्रवर्तते ।
विसामग्र्या न प्रवर्तते ।
हन्त वयम् एवं बहुदोषदुष्टं संस्कृतं विदित्व्âस्य संयोगस्य्âस्याश् च सामग्र्या व्यवच्छेदं करिष्यामो ।
न च्âत्यन्त्ôपशमं सर्वसंस्काराणाम् अधिगमिष्यामः सत्वपरिपाचनतायै ।
इति ॥
इदं संक्षेपान् मोहशोधनं ॥
इति शिक्षासमुच्चये चित्तपरिकर्म परिच्छेदो द्वादशमः ॥
स्मृत्युपस्थानपरिच्छेदः त्रयोदशः ।
एवं कर्मण्यचित्तः स्मृत्युपस्थानान्य् अवतरेत् ॥
तत्र्âशुभप्रस्तावेन कायस्मृत्युपस्थानम् उक्तम् ॥
तद् एव च भेदलेशेन धर्मसंगीतिसूत्रे ऽभिहितं ।
पुनर् अपरं कुलपुत्र बोधिसत्व्âइवं काये स्मृतिम् उपस्थापयति ।
अयं कायः पादपाद्âङ्गुलिजङ्घ्ôरुत्रिक्ôदरनाभिपृष्ठवंशहृदयपार्श्वपार्श्वकाहस्तकलाचीबाह्वंशग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारक्ôपचितो-
[ बेन्दल्ल् एद् प्229 ---> ]
नानाक्लेशसंकल्पविकल्पशतसहस्राणाम् आवासभूतो ।
बहूनि च्âत्र द्रव्याणि समवहितानि ।
यद् उत ।
केशरोमनखदन्त्âस्थिचर्मपिशितवपास्नायुमेदोवशालसीकायकृन्मूत्रपुरीष्âम्âशयरुधिरखेटपित्तपूयसिङ्घाणकमस्तकलुङ्गानि ।
एवम् बहुद्रव्यसमूहः ।
तत् को ऽत्र कायः ।
तस्य प्रत्यवेक्षमाणस्य्âइवं भवति ।
आकाशसमो ऽयं कायः ।
स्âकाशवत् काये स्मृतिम् उपस्थापयति ।
सर्वम् एतद् आकाशम् इति पश्यति ।
तस्य कायपरिज्ञानहेतोर् न भूयः क्वचित् स्मृतिः प्रसरति ।
न विसरति ।
न प्रतिसरत्îति ॥
पुनर् उक्तं ।
अयं कायो न पूर्व्âन्ताद् आगतो ।
न पर्âन्ते संक्रान्तो न पूर्व्âन्त्âपर्âन्त्âवस्थितो ऽन्यत्र्âसद्वि-
[ चम्ब्रिद्गे म्स् f104अ ---> ]
पर्याससंभूतः कारकवेदकरहितो न्âद्यन्तमध्ये प्रतिष्ठितमूलः ।
अस्वामिकः ।
अममः ।
अपरिग्रहः ।

आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय्êति देह्êति भोग्êति आश्रय्êति शरीरम् इति कुणप्êति आयतनम् इति ।
असारको ऽयं कायो मातापितृशोणितशुक्रसंभूतो ऽशुचिपूतिदुर्गन्धस्वभावो रागद्वेषमोहभयविषादतस्कर्âकुलो नित्यं शतनपतनभेदनविकिरणविध्वन्सनधर्मा ।
नानाव्याधिशतसहस्रनीत्êति ॥
आर्यरत्नचूडे ऽप्य् आह ।
अनित्यो वत्âयं कायो ऽचिरस्थितिको मरणपर्यवसान्êति ज्ञात्वा न कायहेतोर् विषमया जीवति ।
सारं च्âइव्âदत्ते ।
स त्रीणि साराण्य् आदत्ते ।कतमानि
[ बेन्दल्ल् एद् प्230 ---> ]
त्रीणि ।
कायसारं भोगसारं जीवितसारं च ।
सो ऽनित्यः काय्êति सर्वसत्वानां दासत्वशिष्यत्वम् अभ्युपगम्य किङ्करणीयतायै उत्सुको भवति ।
अनित्यः काय्êति सर्वकाय दोषवङ्कशाठ्यकुहनां न करोति ।
अनित्यः काय्êति जीवितेन्âश्वासप्राप्तो जीवितहेतोर् अपि पापं कर्म न करोति ।
अनित्यः काय्êति भोगेषु तृष्ण्âध्यवसानं न करोति ।
सर्वस्वपरित्याग्îव भवत्îति ॥
पुनर् अपरं कुलपुत्र बोधिसत्वः काये काय्âनुदर्शनस्मृत्युपस्थानं भावयन् सर्वसत्वकायांस् तत्र स्वकायए उपनिबध्नाति ।
एवं च्âस्य भवति ।
सर्वसत्वकाया मया बुद्धकायप्रतिष्ठानप्रतिष्ठिताः कर्तव्याः ।
यथा च तथागतकाये न्âश्रवस् तथा स्वकायधर्मतां प्रत्यवेक्षते ।
सो न्âश्रवधर्मताकुशलः सर्वसत्वकायान् अपि तल्लक्षणान् एव प्रजानात्îत्य् आदि ॥
वीरदत्तपरिपृच्छायाम् अप्य् उक्तम् ।
यद् उत्âयं कायो ऽनुपूर्वसमुदागतो ऽनुपूर्वविनाशो परम्âणुसंचयः शुषिर्ôन्नाम्âवनामौ नवव्रणमुखरोमकूपस्रावी वल्मीकवदासीविषनिवासः [[दोउब्त्]] ।
अजातशत्रुः ।
मर्कटवन् मित्रद्रोही ।
कुमित्रवद् विसंवादन्âत्मकः ।
फेनपिण्डवत् प्रकृतिदुर्बलः ।
उदकबुद्बुदवद् उत्पन्नभग्नविलीनः ।
मरीचिवद् विप्रलम्भ्âत्मकः ।
कदलीवन् निभुज्यमानासारकः ।
मायावद् वञ्चन्âत्मकः ।
राजवद् आज्ञाबहुलः ।
शत्रुवद् अवतारप्रेक्षी ।
चोरवद् अविश्वसनीयः ।
वध्यघातकवद् अननुवीतः ।
अमित्रवद् अहित्âइषी ।
वधकवत् प्रज्ञाजीवित्âन्त-
[ बेन्दल्ल् एद् प्231 ---> ]
रायकरः ।
शून्यग्रामवद् आत्मविरहितः ।
कुलालभाण्डवद् भेदनपर्यन्तः ।

मूतोडीवन् नान्âशुचिपरिपूर्णः ।
मेदकस्थालीवद् अशुचिस्रावी ॥पे ॥
व्रणवद् घट्टन्âसहिष्णुः ।
शल्यवत् तुदन्âत्मकः ।
जीर्णगृहवत् प्रतिसंस्कारधार्यः ।
जीर्णयानपात्रवत् प्रतिसंस्कारवाह्यः ।
आमकुम्भवद् यत्न्âनुपाल्यः ॥
पे ॥
नदीतटवृक्षवच् चल्âचलः ।
महानदीस्रोतोवन् मरणसमुद्रपर्यवसानः ।
आगन्तुक्âगारवत् सर्वदुष्खनिवासः ।
अनाथशालावद् अपरिगृहीतः ।
चारकपालवद् उत्कोचसाध्यः ॥
पे ॥
बालदारकवत् सततपरिपाल्यः ॥
पुनर् आह ।
एवंविधं कायम् अचौक्षराशिं ।
रूप्âभिमानी बहु मन्यते यः ।
प्रज्ञायमानः स हि बालबुद्धिः विष्ठाघटं याति वहन् विचेताः ॥
पूयप्रकारं वहते ऽस्य नासा ।
वक्त्रं कुगन्धं वहते सदा च ।
चिक्कास् तथ्âक्ष्णोः क्रिमिवच् च जन्तोः ।
कस् तत्र रागो बहुमानता वा ॥अङ्गारम् आदाय यथा हि बालो ।
घृष्येद् अयं यास्यति शुक्लभावम् ।
याति क्षयं न्âइव तु शुक्लभावं बालस्य बुद्धिर् वितथ्âभिमाना ॥
एवं हि यः चौक्षमतिर् मनुष्यः चौक्षं करिष्ये ऽहम् इदं शरीरम् ।
स्ûद्वर्तितं तीर्थशत्âभिषिक्तं याति क्षयं मृत्युवशाद् अचौक्षम् ॥
[ बेन्दल्ल् एद् प्232 ---> ]
तथा प्रभङ्गुरः ।
प्रस्रवन् बोधिसत्वेन कायः प्रत्यवेक्षितव्यो नव व्रणमुखैर् यावत् ।
आवासो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
अशीतिक्रिमिकुलसहस्राणाम् ॥
पे ॥
परभोजनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
वृकशृगालश्वपिशित्âशिनां ।
यन्त्र्ôपमो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः ।
अस्थिस्नायुयन्त्रसंघातविनिबद्धः ।
अस्व्âधीनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः अन्नपानसंभूत्êति विस्तरः ॥
तत्र्âइव ज्ञेयं ।
वेदना स्मृत्युपस्थानं तु यथा तावद् आर्यरत्नचूडसूत्रे ।

इह कुलपुत्र बोधिसत्वो वेदनासु वेदन्âनुपश्यनास्मृत्युपस्थानं भावयन् वेदितसुख्âश्रितेषु सत्वेषु महाकरुणां प्रतिलभते ।
एवं च प्रतिसंशिक्षते ।
तत् सुखं यत्र वेदितं न्âस्ति स सर्वसत्ववेदितप्रहाणाय वेदनासु वेदनास्मृत्युपस्थानं भावयति ।
वेदितनिरोधाय च सत्वानां संनाहं संनह्यति ।
आत्मना च वेदि-
[ चम्ब्रिद्गे म्स् f105अ ---> ]
तनिरोधं न्âर्पयति ।
स यां कांचिद् वेदनां वेदयते तां सर्वां महाकरुणापरिगृहीतां वेदयते ।
स यदा सुखां वेदनां वेदयते तदा रागचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च राग्âनुशयं प्रतिजहाति ।
यदा दुष्खां वेदनां वेदयते तदा द्वेषचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च दोष्âनुशयं प्रजहाति ।
यद्âदुष्ख्âसुखां वेदनां मोहचरितेषु सत्येषु महाकरुणां प्रतिलभते ।
आत्मनश् च मोह्âनुशयं प्रजहाति ।
स सुखायां वेदनायां न्âनुनीयते ।
अनुनयसमुद्घातं च्âर्जयति ।
दुष्खायां वेदनायां न प्रतिहन्यते प्रति-
[ बेन्दल्ल् एद् प्233 ---> ]
घसमुद्घातं च्âर्जयति ।
अदुष्ख्âसुखायां वेदनायां न्âविद्यागतो भवति ।
अविद्यासमुद्घातं च्âर्जयति ।
स यां काञ्चिद् वेदनां वेत्ति सर्वां ताम् अनित्यवेदितां वेत्ति ।
सर्वां तां दुष्खवेदितां वेत्ति ।
अनात्मवेदितां वेत्ति ।
स सुखायां वेदनायाम् अनित्यवेदितो भवति ।
दुष्खायां वेदनायां शल्यवेदितो भवति ।
अदुष्ख्âसुखायां वेदनायां शान्तिवेदितो भवति ।
इति हि यत् सुखं तद् अनित्यं यद् दुष्खं सुखम् एव तत् ।
यद् अदुष्ख्âसुखं तद् अनात्मकम् इत्य् आदि ॥
आर्य्âक्षयमतिसूत्रे ऽप्य् उक्तं ।
दुष्खया वेदनया स्पृष्टः सर्वपाप्âक्षण्ôपपन्नेषु सत्वेषु महाकरुणाम् उत्पादयति ॥
पे ॥अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदन्ôपादानं वेदन्ôपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदन्êत्य् आदि ॥
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ॥
वेदन्âनुभवः प्रोक्तः ।
केन्âसाव् अनुभूयते ।
वेदको वेदनाद् अन्यः पृथग्भूतो न विद्यते ॥
एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः ।
यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥
एतत् समासतो वेदनास्मृत्युपस्थानम् ॥
चित्तस्मृत्युपस्थानं तु यथ्âर्यरत्नकूटे ।
स्âइवं चित्तं परिगवेषते ।
कतरत् तु चित्तं ।

रज्यति वा दुष्यति वा मुह्यति वा ।
किम् अतीतम् अनागतं प्रत्युत्पन्नं व्êति ।
तत्र यद् अतीतं-
[ बेन्दल्ल् एद् प्234 ---> ]
तत् क्षीणं ।
यद् अनागतं तद् असंप्राप्तं ।
प्रत्युत्पन्नस्य स्थितिर् न्âस्ति ।
चित्तं हि काश्यप न्âध्यात्मं न बहिर्धा न्ôभयम् अन्तरेण्ôपलभ्यते ।
चित्तं हि काश्यप्âरूपम् अनिदर्शनम् अप्रतिघम् अविज्ञप्तिकम् अप्रतिष्ठम्
[ चम्ब्रिद्गे म्स् f105ब् ---> ]
अनिकेतं ।
चित्तं हि काश्यप सर्वबुद्धैर् न दृष्टं ।
न पश्यन्ति न द्रक्ष्यन्ति यत् सर्वबुद्धैर् न दृष्टं ।न पश्यन्ति न द्रक्ष्यन्ति ।
कीदृशस् तस्य प्रचारो द्रष्टव्यः ।
अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते ।
चित्तं हि काश्यप मायासदृशम् अभूतपरिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥पे ॥
चित्तं हि काश्यप नदीस्रोतःसदृशम् अनवस्थितम् उत्पन्नभग्नविलीनं ।
चित्तं हि काश्यप दीप्âर्च्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते ।
चित्तं हि काश्यप विद्युत्सदृशं क्षणभङ्ग्âनवस्थितम् ।
चित्तं हि काश्यप्âकाशसदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते ।
पे ॥चित्तं हि काश्यप पापमित्रसदृशं सर्वदुष्खसंजननतया ।
पे ।
चित्तं हि काश्यप मत्स्यबडिशसदृशं दुष्खे सुखसंज्ञया ।
तथा नीलमक्षिकासदृशम् अशुचौ शुचिसंज्ञया ।
चित्तं हि काश्यप प्रत्यर्थिकसदृशं विविधकारण्âकरणतया ।
चित्तं हि ओजोहारयक्षसदृशं सदा विवरगवेषणतया ।
एवं चोरसदृशं सर्वकुशलमूलमुषणतया ।
चित्तं हि काश्यप रूप्âरामं पतङ्गनेत्रसदृशं ।
चित्तं हि काश्यप शब्द्âरामं संग्रामभेरीसदृशं ।
चित्तं हि काश्यप गन्ध्âरामं वराह्êव्âशुचिमध्ये ।
चित्तं हि काश्यप रस्âरामं रथ्âवशेषभोक्तृचेटीसदृशं ।
चित्तं हि काश्यप स्पर्श्âरामं मक्षिक्êव तैलपात्रे ।
चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते ।
यन् न लभ्यते तन् न्ôपलभ्यते ।
यन् न्ôपलभ्यते तन् न्âइव्âतीतं न्âनागतं न प्रत्युत्पन्नं ।
यन् न्âइव्âतीतं न्âनागतं न प्रत्युत्पन्नं तत् त्र्यध्वसमतिक्रान्तं ।
यत् त्र्यध्वसमतिक्रान्तं तन् न्êव्âस्ति न न्âस्त्îत्य् आदि ॥
[ बेन्दल्ल् एद् प्235 ---> ]
आर्यरत्नचूडसूत्रे ऽप्य् आह । स चित्तं परिगवेषमाणो न्âध्यात्मं चित्तं समनुपश्यति ।
न बहिर्धा चित्तं समनुपश्यति ।न स्कन्धेषु चित्तं समनुपश्यति ।

न धातुषु चित्तं समनुपश्यति ।
न्âयतनेषु चित्तं समनुपश्यति ।
स चित्तम् असमनुपश्यंश् चित्तधारां पर्येषते ।
कुतः चित्तस्य्ôत्पत्तिर् इति ।
तस्य्âइवं भवति आलम्बने सति चित्तम् उत्पद्यते ।
तत् किम् अन्यद् आलम्बनम् ।
अथ यद् एव्âलम्बनं तद् एव चित्तं ।
यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं ।
तद् द्विचित्तता भविष्यति ।
अथ यद् एव्âलम्बनं तद् एव चित्तं ।
तत् कथं चित्तं चित्तं समनुपश्यति ।
न हि चित्तं चित्तं समनुपश्यति ।
तद् यथा न तय्âइव्âसिधारया
[ चम्ब्रिद्गे म्स् f106अ ---> ]
स्âइव्âसिधारा शक्यते छेत्तुम् ।
न तेन्âइव्âङ्गुल्य्-अग्रेण तद् एव्âङ्गुल्य्-अग्रं स्प्रष्टुं शक्यते ।
न्âइव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥
पे ॥पुनर् अपरं कुलपुत्र यद् उपद्रुतप्रद्रुत्âनवस्थितप्रचारस्य वानरमारुतसदृशस्य ।
पे ।
दूरंगमचारिणो ऽशरीरस्य लघुपरिवर्तिनो विषयलोलस्य षडायतनगोचरस्य्âपर्âपरसंप्रयुक्तस्य चित्तस्य्âवस्थानाम् एक्âग्रत्âशरणम् अविशरणं शमथ्âइक्âग्रत्âविक्षेप्êत्य् उच्यते चित्तस्य स्मृतिर् इति ॥
[ बेन्दल्ल् एद् प्236 ---> ]
आर्य्âक्षयमतिसूत्रे ऽप्य् उक्तं ।विठपनायां मया योगः करणीयः ।
इयं च चित्तधर्मता न विहातव्या ।
तत्र कतमा चित्तधर्मता ।
कतमा विठपना ।
माय्ôपमं चित्तम् इयम् उच्यते चित्तधर्मता ।
यत् पुनः सर्वस्वं परित्यज्य सर्वबुद्धक्षेत्रपरिशुद्धये परिणामयत्îत्îयम् उच्यते विठपन्êत्य् आदि ॥
धर्मस्मृत्युपस्थानं तु ॥यथा तावद् अत्र्âह ।
धर्मे धर्म्âनुदर्शी विहरन् बोधिसत्वो न कञ्चिद् धर्मं समनुपश्यति ।
यतो न बुद्धधर्मा यतो न बोधिः ।
यतो न मार्गो यतो न निःसरणं ।
स सर्वधर्म्âनिःसरणम् इति विदित्व्âनावरणं नाम महाकरुणासमाधिं समापद्यते ।
स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते ।
निःक्लेश्âइते धर्मा ।
न्âइते सक्लेशाः ।
तत् कस्य हेतोः ।
तथा ह्य् एते नीत्âर्थे समवसरन्ति ।
न्âस्ति क्लेशानां संचयो ।
न राशीभावः ।
न रागभावो न द्वेषभावो न मोहभाव ।

एषाम् एव क्लेशानाम् अवबोधाद् बोधिः ।
यत् स्वभावाश् च क्लेशास् तत् स्वभावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयत्îति ॥आर्यरत्नचूडे ऽप्य् उक्तम् ।
इह कुलपुत्र बोधिसत्वस्य धर्मे धर्म्âनुपश्यना स्मृत्युपस्थानेन विहरत्âइवं भवति ।
धर्म्âइव्ôत्पद्यमान्ôत्पद्यन्ते ।
धर्म्âइव निरुध्य्माना निरुध्यन्ते ॥
न पुनर् अत्र कश्चिद् आत्मभावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा यो जायते वा जीर्यते वा च्यवते व्ôत्पद्यते वा ।
एषा धर्माणां धर्मता ।
यदि समुदानीयन्ते ।
समुदागच्छन्ति ।
अथ न समुदानीयन्ते न समुदागच्छन्ति ।
यादृशाः समुदानी-
[ बेन्दल्ल् एद् प्237 ---> ]
यन्ते तादृशाः समुदागच्छन्ति कुशला व्âकुशला वा
[ चम्ब्रिद्गे म्स् f106ब् ---> ]
अनिञ्ज्या वा ।
न्âस्ति धर्माणां समुदानेता ।
न च्âहेतुकानां धर्माणां काचिद् उत्पत्तिर् इत्य् आदि ॥
तत्र्âइव्âह ।
स कियद्गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्वज्ञताबोधिचित्त्âनुस्मृतिं न विजहाति ॥आर्यललितविस्तरसूत्रे ऽप्य् उक्तम् ।
संस्कार्âनित्य्âध्रुव्âमकुम्भ्ôपमभेदन्âत्मकाः ।
परकेलिकयाचित्ôपमाः पांशुनगर्ôपमता च कालिका ॥
संस्कार प्रलोप धर्मिमे वर्षकालि चलितं विलेपनं ।
नदिकूल्êव सवालुकं प्रत्यय्âधीन स्वभावदुर्बलाः ॥
[ बेन्दल्ल् एद् प्237 ---> ]
संस्कार प्रदीप्âर्चिवत् क्षिप्र्ôत्पत्ति निरोधधर्मकाः ।
अनवस्थितमारुत्ôपमाः फेनपिण्डावद् असारदुर्बलाः ॥संस्कार निरीह शून्यकाः कदलीस्कन्धसमा निरीक्षतः ।
माय्ôपम चित्तमोहना बाल्ôल्लापनरिक्तमुष्टिवत् ॥
हेतूभि च प्रत्ययेभि वा सर्व संस्कारगतं प्रवर्तते ।
अन्योन्यप्रतीत्यहेतुतः तद् इदं बालजनो न बुध्यते ॥
यथा मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता ।
घटियन्त्र सचक्र वर्तते तेष्व् एक्âइकशु न्âस्ति वर्तना ॥
तथ सर्वभव्âङ्गवर्तनी अन्योन्य्ôपचयेन निःश्रिता ।
एक्âइकशु तेषु वर्तनी पूर्व्âपर्âन्ततो न्ôपलभ्यते ॥बीजस्य सतो यथ्âङ्कुरो न च यो बीज स च्âइव्âङ्कुरो ।
न च्âन्य ततो न च्âइव तत् ।
एवम् अनुच्छेद्âशाश्वत धर्मता ॥
[ बेन्दल्ल् एद् प्239 ---> ]
संस्कार्âविद्यप्रत्ययाः ते च संस्कार न सन्ति तत्वतः ।
संस्कार्âविद्य च्âइव हि शून्य्âइते प्रकृती निरीहकाः ॥
मुद्रात् प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न च्ôपलभ्यते ।
न च तत्र न च्âइव सान्यतो एवं संस्कारनुच्छेदशाश्वताः ॥

चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इह्ôपजायते ।
न च चक्षुषि रूपनिश्रितं रूपसंक्रान्ति न च्âइव चक्षुषि ॥
नैरात्म्यशुभाश् च धर्मिमे ते पुनर् आत्म्êति शुभाश् च कल्पिताः ।
विपरीतम् असद्विकल्पितं चक्षुविज्ञान ततो उपजायते ॥
विज्ञान निरोधसंभवं विज्ञ्ôत्पादव्ययं विपश्यति ।
अकहिञ्चि गतम् अनागतं शून्य माय्ôपम योगि पश्यति ॥
[ बेन्दल्ल् एद् प्240 ---> ]
अरणिं यथ
[ चम्ब्रिद्गे म्स् f107अ ---> ]
च्ôत्तर्âरणिं हस्तव्यायामत्रयेभि संगतिं ।
इति प्रत्ययतो ऽग्नि जायते जातु कृतुकार्यु लघू निरुध्यते ॥
अथ पण्डितु कश्चि मार्गते कुत यम् आगतु कुत्र याति वा ।
विदिशो दिशि सर्व मार्गतो न गतिर् न्âप्य् अगतिश् च लभ्यते ॥
स्कन्ध्âयतनानि धातवः तृष्ण्âविद्य्êति कर्मप्रत्ययाः ।
सामग्रि तु सत्वसूचना सा च परम्âर्थतु न्ôपलभ्यते ॥
कण्ठ्âउष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा ।
न च कण्ठगता न तालुकैः अक्षर्âइक्âइक तु न्ôपलभ्यते ॥
सामग्रिप्रतीत्यश् च सा वाचम् अनुबुधिवशेन निश्चरी ।
मनवाच्âदृश्यरूपिणी बाह्यतो ऽभ्यन्तरि न्ôपलभ्यते ॥
उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डिताः ।
क्षणिकां वशिकां तद् ईदृशीं सर्ववाचः प्रतिश्रुतक्ôपमाः ॥
[ बेन्दल्ल् एद् प्241 ---> ]
यथ तन्त्रि प्रतीत्य दारु च हस्तव्यायामत्रयेभि संगतिम् ।
तुणवीणसुघोषक्âदिभिः शब्दो निश्चरते तदुद्भवः ॥
अथ पण्डितु कश्चि मार्गते कुतो ऽयम् आगतु कुत्र याति वा ।
विदिशो दिश सर्वमार्गतः शब्दम् अनागमनं न लभ्यते ॥
तथ हेतुभि प्रत्ययेभि च सर्वसंस्कारगतं प्रवर्तते ।
योगी पुन भूतदर्शनात् शून्य संस्कार निरीह पश्यति ॥
स्कन्ध्âयतनानि धातवः शून्य्âध्यात्मिक शून्यबाह्यकाः ।
सत्व्âत्मविविक्तन्âलयाः धर्म्âकाशस्वभावलक्षणाः ॥
लोकनाथव्याकरणे ऽप्य् उक्तम् ॥
शून्य्âनामका धर्माः नाम किं परिपृच्छसि ।
शून्यता न क्वचिद् देवा न नागा न्âपि राक्षसाः ॥
मनुष्या व्âमनुष्या वा सर्वे तु एष विद्यते ।
नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥
अनामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥
यो हि स्वभावो नाम्नो वै न स दृष्टो न च श्रुतः ।
न च्ôत्पन्नो निरुद्धो वा कस्य नाम्êह पृच्छसि ॥
व्यवहारकृतं नाम प्रज्ञप्तिर् नामदर्शिता ।
रत्नचित्रो ह्य् अयं नाम्ना रत्न्ôत्तमपर्êति ॥

इति शिक्षासमुच्चये स्मृत्युपस्थानपरिच्छेदस् त्रयोदशः ॥
आत्मभावपरिशुद्धिः परिच्छेदश् चतुर्दशः ॥
उक्तानि स्मृत्युपस्थानानि ।
एवं योग्यचित्तो दशसु दिक्षु शेष-
[ चम्ब्रिद्गे म्स् f107ब् ---> ]
स्य जगतो दुष्खसागर्ôद्धरण्âभिसंबोध्युपायो व्योमपर्यन्तत्रैकाल्यसर्वधर्मवशवर्तित्वाय्âइव तु पुनः सर्वधर्मशून्यताम् अवतरेत् ।
एवं हि पुद्गलशून्यता सिद्धा भवति ।
ततश् च छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति ॥
यथ्ôक्तम् आर्यतथागतगुह्यसूत्रे ।
तद् यथ्âपि नाम शान्तमते वृक्षस्य मूलछिन्नस्य सर्वशाखा*पत्रपलाशाः शुष्यन्ति ।
एवम् एव शान्तमते सत्कायदृष्ट्युपशमात् सर्वक्लेश्ôपशाम्यन्त्îति ॥शून्यताभावन्âनुशंसास् त्व् अपर्यन्ताः ॥
यथा तावच् चन्द्रप्रदीपसूत्रे ।
सो ऽसौ शिक्ष न जातु त्रशती सुगतानां ।
सो ऽसौ शूरु न जातु इस्त्रिणां वशम् एती ।
[ बेन्दल्ल् एद् प्243 ---> ]
सो ऽसौ सासनि प्रीति विन्दते सुगतानां ।
यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
सो ऽसौ न्êह चिरेण भेष्यते द्विपद्êन्द्रः ।
सो ऽसौ वैद्यभिषक् भेष्यते सुखदाता ।
सो ऽसûद्धरि शल्य सर्वशो दुखितानां ।यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
सो ऽसौ क्षान्तिबलेन्ôद्गतो नरचन्द्रः ।
सो ऽसौ लोष्टकदण्ड ताडितो न च कुप्यी ।
सो ऽसौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो ।
यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥
न्âसौ दुर्गतिषू पतिष्यती अनुव्यञ्जन ।
नित्यं लक्षणधारि भेष्यती अभिरूपः ।
पञ्च्यो तस्य्âभिज्ञ भावित्êम नित्यं ।
पुरतः सो सुगतान स्थास्यती स च शूर ।
इत्य् आदि ॥
भगवत्याम् अप्य् उक्तं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन बुद्धकायं निष्पादयि-
[ बेन्दल्ल् एद् प्244 ---> ]
तुकामेन द्वात्रिंशन्महापुरुषलक्षणान्य् अशीतिं च्âनुव्यञ्जनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्त्âविप्रणाशतां बोधिसत्वचर्य्âसंप्रमोषतां प्रतिलब्धुकामेन सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्वकल्याणमित्राण्य् आरागयितुकामेन सर्वमारमारकायिकदेवतानिर्जेतुकामेन सर्व्âवरणी
यानि शोधयितुकामेन सर्वधर्म्âनावरणतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं भाषेर-
[ चम्ब्रिद्गे म्स् f108अ ---> ]
न्न् इति प्रज्ञापारमितायां शिक्षितव्यं ।
पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन्âइकचित्त्ôत्पादेन पूर्वस्यां दिशि गङ्गानदीवालुक्ôपमान् लोकधातून् समतिक्रमितुकामेन ।
पे ।
एवं सर्वदिक्षु प्रज्ञापारमितायां शिक्षितव्यम् इत्य् आद्य् इति [[दोउब्त्]] विस्तरः ॥

तत्र यथा निरात्मानश् च सर्वधर्माः ।
कर्मफलसंबन्ध्âविरोधश् च निःस्वभावता च यथादृष्टसर्वधर्म्âविरोधश् च ।
तथा पितृपुत्रसमागमे दर्शितम् ।
षड्धातुर् अयं महाराज पुरुषः षट्स्पर्श्âयतनः ।
अष्टादशमन्ôपविचारः ।
षड्धातुर् अयं महाराज पुरुष्êति ।
न खलु पुनर् एतद् युक्तं ।
किं व्âइतद् प्रतीत्य्ôक्तं षड् इमे महाराज धातवः ।
कतमे षट् ।
तद् यथा पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च ।
इमे महाराज षड् धातवः ॥यावत् षड् इमानि महाराज स्पर्श्âयतनानि ।
कतमानि षट् ।
चक्षुः स्पर्श्âयतनं रूपाणां दर्शनाय ।
श्रोत्रं स्पर्श्âयतनं शब्दानां श्रवणाय ।
घ्राणं स्पर्श्âयतनं गन्ध्âराम्âघ्राणाय ।
जिह्वा स्पर्श्âयतनं रसानाम् आस्वादनाय ।
कायस्पर्श्âयतनं स्प्रष्टव्यानां स्पर्शनाय ।
मनःस्पर्श्âयतनं धर्माणां विज्ञानाय ।
इमानि च महाराज षट् स्पर्श्âयतनानि ॥
पे ॥अष्टादश्êमे महाराज मन्ôपविचाराः ।
कतमे ऽष्टादश ।
इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा ।
सौमनस्यदौर्मनस्य्ôपेक्षास्थानीयान्य् उपविचरति ।
एवं श्रोत्र्âदिषु वाच्यं ।
तेन प्रत्येकम् इन्द्रियषट्केन सौमनस्य्âदित्रयाणां-
[ बेन्दल्ल् एद् प्245 ---> ]
भेदाद् अष्टादश मन्ôपविचारा भवन्ति ।
पे ।
कतमश् च महाराज्âध्यात्मिकः पृथिवीधातुः ।
यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं कक्खटत्वं खरगतम् उपात्तं ।
तत् पुनः कतमत् ।
तद् यथा ।
केशा रोमाणि नखा दन्त्êत्य् आदि ।
अयम् उच्यते आध्यात्मिकः पृथिवीधातुः ॥
कतमश् च महाराज बाह्यः पृथिवीधातुः ।
यत् किञ्चिद् बाह्यं कक्खट्वं खरगतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवीधातुः ।
तत्र महाराज्âध्यात्मिकः पृथिवीधातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो*न क्वचित् संनिचयं गच्छति ।
भवति महाराज स समयो
[ चम्ब्रिद्गे म्स् f108ब् ---> ]
यत् स्त्री अध्यात्मम् अहं स्त्र्îति कल्पयति ।

स्âध्यात्मम् अहं स्त्र्îति कल्पयित्वा बहिर्धा पुरुषं पुरुष्êति कल्पयति ।
सा बहिर्धा पुरुषं पुरुष्êति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते ।
पुरुषो ऽध्यात्मं पुरुषो ऽस्म्îति कल्पयत्îति पूर्ववत् ।
तयोः संयोग्âकाङ्क्षया संयोगो भवति ।
संयोगप्रत्ययात् कललं जायते ।
तत्र महाराज यश् च संकल्पो यश् च संकल्पयिता ।
उभयम् एतन् न संविद्यते ।
स्त्रियां स्त्री न संविद्यते ।
पुरुषे पुरुषो न संविद्यते ।
इति ह्य् असन्न् असद्भूतः संकल्पो जातः ।
सो ऽपि संकल्पास्वभावेन न संविद्यते ।
यथा संकल्पस् तथा संयोगो ऽपि कललम् अपि स्वभावेन न संविद्यते ।
यश् च स्वभावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति ।
इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
निरुध्यमानं न क्वचित् संनिचयं गच्छत्îति ।
भवति महा-
[ बेन्दल्ल् एद् प्246 ---> ]
राज समयो यद् अयं कायः श्मशानपर्यवसानो भवति ।
तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति ।
न दक्षिणां ।
न पश्चिमां ।
न्ôत्तरां ।
न्ôर्ध्वं ।
न्âधो ।
न तु विदिशं गच्छति ।
एवं महाराज्âध्यात्मिकः पृथिव्ōआ̃धातुर् द्रष्टव्यः ।
भवति महाराज स समयो*यद्âकाशीभूते लोकसंनिवेशे ब्राह्मं विमानं संतिष्ठते महारत्नमयं ।
तन् महाराज कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
चक्रवाडमहाचक्रवाडाः संतिष्ठन्ते दृढाः सार्âइकघना वज्रमयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति ।
सुमेरवः पर्वतराजानो युगंधरा निमिंधर्êशाधरा यावत् कालपर्वताः संतिष्ठन्ते ।
सर्वश् च त्रिसाहस्रमहासाहस्रो लोकधातुः संतिष्ठते ।
चतुरशीतिर् योजनसहस्राण्य् उद्वेधेन ।
मध्ये च्âष्टषष्टिं योजनशतसहस्रं महापृथिवी संतिष्ठते ।
तद् अपि महाराज कक्खटत्वं समुदागच्छत् कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यद्âयं लोकः संवर्तते ।
तद्êयं महापृथिवी
[ चम्ब्रिद्गे म्स् f109अ ---> ]
अग्निना वा दह्यते ऽद्भिर् वा क्लिद्यते वायुना वा विकीर्यते ।
तस्य्âग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथ्âपि नाम सर्पिषो वा तैलस्य व्âग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एव्âस्यास् त्रिसाहस्रमहासाहस्राया लोकधातोर् अग्निना दह्यमानाया न्âइव मषिर् न छायिक्âवशिष्टा प्रज्ञायते ।
एवम् अद्भिर् लवणविलयवद् वायुना वैरम्भवात्âभिहतशकुन्तवत् पृथिव्यां न किञ्चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते ।

तत्र महाराज पृथिवीधातोर् उत्पादो ऽपि शून्यः व्ययो ऽपि शून्य्ôत्पन्नो ऽपि पृथिवीधातुः स्वभावशून्य ।
इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन न्ôपलभ्यते ऽन्यत्र व्यवहारात् ।
सो ऽपि व्यवहारो न स्त्री न पुरुषः ।
एवम् एव्âइतन् महाराज यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ।
तत्र कतमो ऽब्धातुः ।
यद् इदम् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् आपः ।
अब्गतं ।
अप्त्वं स्नेहः ।
स्नेहगतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥
तत् पुनः कतमत् ।
तद् यथा ।
अश्रु स्वेदः खेटः सिङ्घाणकं-
[ बेन्दल्ल् एद् प्247 ---> ]
वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव्êत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको ऽब्धातुः ।
पे ॥भवति महाराज स समयो यत् प्रियं दृष्ट्व्âश्रु प्रवर्तते ।
दुष्खेन च्âभ्याहतस्य धर्मसंवेगेन व्âश्रु प्रवर्तते ।
वातेन व्âक्षि प्रस्यन्दते ।
यावत् स महाराज्âब्धातुर् न कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यद्âध्यात्मिको ऽब्धातुः परिशुष्यति ।
स परिशुष्यन् निरुध्यमानो*न क्वचिद् गच्छति ।
पे ।
विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटल्âभ्रघनाः संतिष्ठन्ते संस्थाय सर्वावन्तः ।
त्रिसाहस्रमहासाहस्रं लोकधातुं छादयन्ति ।
यतः पञ्च्âन्तरकल्पान् ईषाधारो देवो वर्षति ।
एवं पञ्च गजप्रमेहो देवो वर्षति ।
पञ्च्âच्छिन्नधारः ।पञ्च स्थूलबिन्दुकः ।
तत्êयं महापृथिवी यावद् ब्रह्मलोकाद् उदकेन स्फुटा भवति ।
स महाराज तावन् महान् अब्धातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति ।
भवति महाराज स समयो यद् अयं लोकः संवर्तते ।
संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्भावो भवति ।
द्वितीयस्य सू-
[ चम्ब्रिद्गे म्स् f109ब् ---> ]
र्यस लोके प्रादुर्भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति ।
एवं तृतीयस्य मह्ôत्सा महानद्यः ।
चतुर्थस्य्âनवतप्तं महासरः सर्वेण सर्वम् उच्छुष्यति ।
चतुर्थस्य सूर्यस्य प्रादुर्भावान् महासमुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति ।
द्वियोजनिकम् अपि त्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनिकम् अपि यावच् चत्वारिंशद्योजनसहस्रम् उदकम् अवशिष्टं भवति ।
यावद् द्वितालमात्रं ।यावत् कण्ठमात्रं ।
यावद् गोष्पदमात्रम् उदकम् अवशिष्टं भवति ।
भवति महाराज स समयो यन् महासमुद्रे पृथितपृथितान्य् अवशिष्टानि भवन्ति ।

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc