भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 141160

सर्वचर्यादुष्करचर्यासाधनः सर्वक्षान्तिदृढीकरणः सर्ववीर्य्âसंसादनः ।
सर्वध्यानप्रज्ञ्âङ्गसंभारः ।
तस्मान् नित्यमुदितः स्यात् ॥
[ बेन्दल्ल् एद् प्183 ---> ]
यथ्âह चन्द्रप्रदीपसूत्रे ।
सगौरवः प्रीतमनाः सदा भवेत् ।
सौम्याय दृष्टीय सदा स्थितो भवेद् ।
इति ॥
उक्तं च्âक्षयमतिसूत्रे ।
तत्र कतमा मुदिता ।
यावद् धर्म्âनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्य्âनवलीनत्âनवमृद्यत्âपरितर्षणा ।
सर्वकामरतीनाम् अपकर्षणा सर्वधर्मरतीनां प्रतिष्ठानं ।
चित्तस्य प्रामोद्यं कायस्य्âउद्बिल्यं बुद्धेः संप्रहर्षणं मनस्ôत्प्लवः ।
तथागतकाय्âभिनन्दनरतिर् लक्षण्âनुव्यञ्जनविभूषणपर्येष्टिकौशल्यं ।
कुशलधर्मश्रवण्âपरिखेदता ।
तत्वधर्मप्रतिशरणप्रतिपत्तिप्रीतिप्रसादप्रमोद्यं मुदितस्य धर्म्ôत्प्लवः ।
सततं सत्वेष्व् अप्रतिहतबुद्धिता ।
तीव्रच्छन्दता ।
बुद्धधर्मपर्येष्टिषु तस्य च धर्मच्छन्दस्य्âनुत्सृजनता ।
उदारेषु बुद्धधर्मेष्व् अधिमुक्तिः ।
विमुक्तिः प्रादेशिकयान्âपकृष्टचित्त्ôत्पादः ।
मात्सर्य्âसंकुचितश् चित्त्ôत्पादः ।
याचितस्य दातुकामता ।
ददतो दत्त्वा च त्रिमण्डलपरिशोधितं दानप्रामोद्यं ।
शीलवत्सु सदा प्रसादः ।
दुःशीलेष्व् अनुग्रहप्रीतिः ।
स्वशीलपरिशुद्ध्या सर्वदुर्गन्धम् अतिक्रम्âश्वासनं ।
तथागतशीलपरिणामनता ।
दृढ्âभेद्यता ।
परदुरुक्तदुरागतेषु वचनपथेष्व् अप्रतिहतचित्तता ।
क्षान्तिसौरत्यं ।
निर्मानता ।
[ चम्ब्रिद्गे म्स् f87ब् ---> ]
गुरुषु गौरव्âवनामश् चित्रीकारः ।
सदा स्मितमुखता भृकुटिविगतता ।
पूर्व्âभिलापित्âकुहनत्âनेष्यैषिकता शुद्ध्âशयता चित्त्âकर्कशत्âकुटिलता ।
सर्वत्र्âनुशंसदर्शित्âत्मस्खलितप्रत्यवेक्षिता ।
आपत्तिष्व् अचोदनता संरञ्जनीयधर्मेष्व् अनुवर्तनता ।
शास्तृप्रेम बोधिसत्वेषु ।
आत्मप्रेम धर्मेषु ।

जीवितप्रेम तथाग-
[ बेन्दल्ल् एद् प्184 ---> ]
तेषु ।
मातापितृप्रेम गुरुषु ।
पुत्रप्रेम सत्वेषु ।
बुद्धप्रेम्âचार्य्ôपाध्यायेषु ।
उत्तम्âङ्गशिरःप्रेम प्रतिपत्तिषु ।
हस्तपादप्रेम पारमितासु ।
सर्वरत्नप्रेम धर्मभाणकेषु ।
सर्वरतिक्रीडाप्रेम्âनुशासनीषु ।
आरोग्यप्रेम संतुष्टौ ।
भैषज्यप्रेम धर्मपर्येष्टिषु ।
वैद्यप्रेम चोदकस्मारकेषु ।
इति हि या सर्व्êन्द्रियेष्व् अनवलीन्êन्द्रियत्êयम् उच्यते मुदित्êत्य् आदि ॥
अत्र च शिक्षितान् बोधिसत्वान् इदं वचनम् अलंकरोति यद् उक्तम् आर्यमहामेघे ।
निरयगतिचित्तनित्यसमाधानशीलाश् च निरयगतिप्रियाश् च निरयगतिपत्तनवणिजश् च भवन्ति ।
निरयलोलाश् च भवन्ति निरयलोभमत्सरिणश् च निरय्âग्निचित्तप्रगुण्णाः भवन्त्îति ॥
उक्ता दुष्ख्âधिवासना क्षान्तिः ॥
आर्यसागरमतिसूत्रे तु त्रिविध्âपि क्षान्तिर् उक्ता ।
इह सागरमते बोधिसत्वो महासत्वः सर्वज्ञताचित्त्ôत्पादरत्ने ।
अनार्यैर् दुःशीलैः सत्वैर् मारैर् मारकायिकाभिर् वा देवताभिर् मार्âधिष्ठितैर् वा मारदूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो । अध्याशयचित्त्ôत्पादो न भिद्यते सर्वसत्वप्रमोक्षमहाकरुणावीर्य्âरम्भात् ।
न भिद्यते त्रिरत्नवंश्âनुपच्छेदपराक्रमात् ।
न भिद्यते सर्वधर्मसमुदानयनकुशलप्रयोगात् ।
न भिद्यते लक्षण्âनुव्यञ्जनपरिनिष्पत्तिगतात् पुण्यसंभार्ôपचयात् ।
न भिद्यते बुद्धक्षेत्रपरिशुद्ध्यभिनिर्हार्âहृताद् औत्सुक्यात् ।
न भिद्यते सर्वधर्म्âपरिग्रह्âभियुक्तात् कायजीवित्ôत्सर्गात् ।
न भिद्यते सर्वसत्वपरिपाचन्âभियुक्ताद् आत्मसौख्य्âनध्यवसानात् ।
स्âइवम् अध्याशयसंपन्न्âइव समानः
[ बेन्दल्ल् एद् प्185 ---> ]
सर्वसत्वानाम् अन्तिकाद् उच्चघनां सहते ।
उन्मननां कुत्सनां सहते
[ चम्ब्रिद्गे म्स् f88अ ---> ]
सर्वसत्वानाम् आक्रोशपरिभाषां दुरुक्तदुरागतान् वचनपथान् सहते ।
सर्वसत्वपीडां सहते ।
सर्वसत्वभारांश् च सहते उत्तारयति वा न च खिद्यते ।
न च लीयते ।
न संलीयते ।
न विषीदति ।
बलम् उपदर्शयति ।
स्थाम संजनयति ।

वीर्यम् आरभते ।
पराक्रमं पराक्रमते ।
उत्साहं जनयति ।
उन्मूढचित्तं निगृह्णाति ।
स्âक्रुष्टो न प्रत्याक्रोशति ।
ताडितो न प्रतिताडयति ।
रोषितो न प्रतिरोषयति ।
क्रुद्धाय न प्रतिक्रुध्यति ।
एवं चित्तगणनासंनाहं संनह्यति । ...
[ बेन्दल्ल् एद् प्186 ---> ]
सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे ऽसिशक्तितोमरपालियोगेन मां पृष्ठतः पृष्ठतो ऽनुबध्नीयुः ।
यत्र्âइष पृथिवीप्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधिचित्तम् उत्पादयिष्यति दानचित्तं वा यावत् प्रज्ञाचित्तं वा श्रुतकुशलमूलचित्तं व्ôत्पादयिष्यति तत्र्âस्य पृथिवीप्रदेशे शतधाबदरीपत्त्रप्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् ।
ते चेत् सर्वसत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् असत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठित्âनर्थकर्माणः शतधाबदरीपत्त्रप्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः ।
एवं मया न कस्यचित् सत्वस्य्âन्तिके क्षोभचित्तम् उत्पादयितव्यं ।
तत् कस्य हेतोः ।
पूर्वा कोटिः संसारस्य्âप्रमाणीकृता यत्र मे ऽयम् आत्मभावो नरकगतस्य्âपि तिर्यग्योनिगतस्य्âपि यमलोकगतस्य्âपि मनुष्यगतस्य्âपि काम्âहारपलिगुद्धस्य धर्मान् अश्रुतवतो विषम्âजीवगोचरस्य निरर्थकजीविनः अङ्गप्रत्यङ्गस्य शतधा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्म्âर्थं कृतो न पर्âर्थः ।
सचेत् पुनर् पुनर् मम्âइते सर्वसत्व्âपर्âन्तकोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथ्âपि मय्âपरित्यक्त्âइव सर्वज्ञता ।
अपरित्यक्त्âइव सर्वसत्वाः ।
अपरित्यक्तः कुशलो छर्मछन्दः ।
तत् कस्य हेतोः ।
सर्वा ह्य् एषा कायपीडा कायवि-
[ बेन्दल्ल् एद् प्187 ---> ]
व-
[ चम्ब्रिद्गे म्स् f88ब् ---> ]
र्तना ।
नैरयिकस्य दुष्खस्य शततमीम् अपि कलां न्ôपैति यावद् उपनिषदम् अपि न क्षमते ।
नरक्âवासम् अप्य् अहम् उत्सहे ।
न पुनर् मया बुद्धधर्माः परित्यक्तव्या न सर्वसत्व्âरम्बणा महाकरुणा ॥
पे ॥
यन् निदानं पुनर् व्यापाद्ôत्पद्येत ।
तं वयं धर्मं प्रहास्यामः ।
कतमश् च स धर्मो ।
यद् उत कायप्रेम कायनिकेतः काय्âध्यवसानं ।
उत्सृष्टश् च काय्ôत्सृष्टो व्यापादः ।
एवं धर्मगणन्âविष्टः सागरमते बोधिसत्वः सर्वसत्वपीडां सहते ॥
पे ॥
यः कायस्य्ôत्सर्गः कायपरित्यागः काय्âनवेक्षा ।
इयम् अस्य दानपारमिता ॥
यत् काये छिद्यमाने सर्वसत्वान् मैत्र्या स्फरति ।
वेदनाभिश् च न संह्रियते ।

इयम् अस्य शीलपारमिता ॥
यत् काये छिद्यमाने य्âइव्âस्य कायं छिन्दति तेषाम् एव प्रमोक्ष्âर्थं क्षमते ।
न च चित्तेन क्षण्यते क्षान्तिबलं च्ôपदर्शयत्îयम् अस्य क्षान्तिपारमिता ॥
येन वीर्येण तं सर्वज्ञताछन्दं न्ôत्सृजति चित्तबल्âधीनं च प्रतिगृह्णाति ।
संसारम् एव च्âनुबध्नाति ।
कुशलमूल्âरम्भम् एव च्âरभते ।
इयम् अस्य वीर्यपारमिता ॥
यत् काये विकीर्यमाणे तत् सर्वज्ञताचित्त्ôत्पादरत्नं कर्तुं न संमुह्यति बोधिम् एव्âपेक्षते शान्तप्रशान्तम् एव प्रत्यवेक्षते ।
इयम् अस्य ध्यानपारमिता ॥
यत् काये छिद्यमाने कायस्य तृणकाष्ठकुड्यवत्प्रतिभास्ôपमतां प्रत्यवेक्षते मायाधर्मतां च कायस्य्âवतरति ।
भूत्âनित्यतां च भूतदुष्खतां च भूत्âनात्मतां च भूतशान्ततां च कायस्य्ôपनिध्यायति ।
इयम् अस्य प्रज्ञापारमित्êति विस्तरः ॥
पे ॥
पुनर् अपरम् अस्य्âइवं भवति ।
एष सत्वः कुसीदः शुक्लधर्मरहितः ।
स माम् आक्रोशयति परिभाषते ।
हन्त वयम् आरब्धवीर्या भविष्यामः ।
अतृप्ताः कुशलमूलपर्येषण्âभियुक्ता ।
एष्âइव तावन् मया सत्वः पूर्वतरं बोधिमण्डे निषादयितव्यः ।
पश्चान् मय्âनुत्तरा सम्यक्संबोधिर् अभिसं-
[ बेन्दल्ल् एद् प्188 ---> ]
बोद्धव्य्êति ॥
पे ॥
ईदृशानाम् अस्माभिः सत्वानाम् अदान्तानाम् अगुप्तानाम् अनुपशान्तानाम् अर्थाय संन्ōüह्ōüः संनद्धव्य्ōüः ॥
पे ॥
हन्त वयं धर्मतां प्रतिसरिष्यामः ।
को ऽत्र्âक्रोशति व्âक्रुश्यते वा ।
स परिगवे-
[ चम्ब्रिद्गे म्स् f89अ ---> ]
षमाणो न तं धर्मम् उपलभते ।
य्âक्रोशति व्âक्रुश्यते वा ।
स्âत्मपर्âनुपलब्ध्ôपलम्भदृष्टिविगतः क्षमतए इति ॥
भगवत्याम् अप्य् उक्तं ।
एवं चित्तम् उत्पादयति ।
येन मया सर्वसत्वानां विवाद्ôत्सारयितव्यः ।
सो ऽहं स्वयम् एव विवदामि ।
लाभा मे दुर्लब्धा यो ऽहं जल्पिते प्रतिजल्पामि ।
येन मया सर्वसत्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्य त्वम् इत्य् अपि वाचं भाषे ।
परुषं वा प्रतिवाचो ददामि ।
इदं मया न्âइव वक्तव्यं जडसमेन ।

एडकमूकसमेन मया कलहविवादेषु भवितव्यं ।
परतो दुरुक्तान् दुरागतान् दुर्भाषितान् भाष्यमाणान् वचनपथान् शृण्वता चित्तं न्âघातयितव्यं ।
परेषाम् अन्तिके न मम्âइतत् साधु न प्रतिरूपं यो ऽहं परस्य दोष्âन्तरं संजनयेयम् ।
एतन् न मम प्रतिरूपं यद् अहं परेषां दोष्âन्तरम् अपि संश्रोतव्यं मन्ये ।
तत् कस्य हेतोः ।
न मय्âशयो विकोपयितव्यो येन मया सर्वसत्वाः सर्वसुख्ôपधानेन सुखयितव्याः परिनिर्वापयितव्याश् च्âनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तत्र नाम्âहं व्यापद्ये ।
न च मया परेषां स्वपराद्धानाम् अपि व्यापत्तव्यं ।
स नाम्âहं मोहं क्षोभं गच्छामि ।
इदं तु मया करणीयं ।
दृढपराक्रमतया पराक्रान्तव्यं ।
न मया जीवित्âन्तराये ऽपि क्रियमाणे क्षोभः करणीयः ।
न मया भृकुटी मुखे [[दोउब्त्]] उत्पादयितव्य्êति ॥
बोधिसत्वप्रातिमोक्षे ऽप्य् उक्तम् ।
ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति ।
अनुलोमयति धर्मेण तोषयत्îति ॥
इति शिक्षासमुच्चये क्षान्तिपारमिता परिच्छेदो नवमः ॥
वीर्यपारमिता दशमः परिच्छेदः ॥
एवं क्षान्तिप्रतिस्थितः श्रुते वीर्यम् आरभेत ।
अन्यथा श्रुतम् एव्âस्य विनाशाय संपद्यते ॥
यथ्ôक्तं चन्द्रप्रदीपसूत्रे ।
कियद्बहू धर्मपर्यायुणेया [[दोउब्त्]] शीलं न रक्षेत श्रुते नमन्त ।
न बाहुश्रुत्येन स शक्यु त्रायितुं दुःशीलयेन व्रजमान दुर्गतिम् ॥
श्रुत्âनुशंसास् तु नारायणपरिपृच्छायाम् उक्ताः ।
तथा हि कुलपुत्राः श्रुतवतः प्रज्ञ्âगमो भवति ।
प्रज्ञावतः क्लेशप्रशमो भवति ।
निःक्लेशस्य मारो ऽवतारं न लभते ॥
अत्र च महर्षेर् उ-
[ चम्ब्रिद्गे म्स् f89ब् ---> ]
त्तरस्य जातकं विस्तरेण कृत्व्âह ।
धर्मकामानां हि ।
विमलतेजः ।
बोधिसत्वानां महासत्वानां सगौरवाणां सप्रतीशानां अन्यलोकधातुस्थित्âपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं च्âनुश्रावयन्ति ।
धर्मकामानां ।
विमलतेजः ।
बोधिसत्वानां महासत्वानां पर्वतकन्दरवृक्षमध्येषु धर्मनिधानानि निक्षिप्तानि ।
धर्ममुखान्य् अनन्तानि पुस्तकगतानि करतलगतानि भवन्ति ।
धर्मकामानां विमलतेजः बोधिसत्वानां पूर्वबुद्धदर्शिन्यो देवता बुद्धप्रतिभानम् उपसंहरन्ति ॥
पे ॥
परिक्षीण्âयुष्काणां बुद्धा भगवन्तो देवताश् च्âयुर्बलं च्ôपसंहरन्ति ।
बुद्ध्âधिष्ठानेन देवत्âधिष्ठानेन च काङ्क्षामाणा वर्षसहस्रम् अवतिष्ठन्ते ॥

पे ॥
यावत् कल्पं वा कल्प्âवशेषं वा यावद् व्âकाङ्क्षन्ति धर्मगौरवजातानां बोधिसत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति ।
व्याधीन् अपनयन्ति ।
स्मृतिम् उपसंहरति ।
गतिं म-
[ बेन्दल्ल् एद् प्190 ---> ]
तिं प्रतिभानं च्ôपसंहरन्ति ॥
पे ॥
दृष्टिकृतानि विनोदयन्ति ।
सम्यग्दृष्टिं च्ôपसंहरन्ति ।
धर्मगौरवेण ।
विमलतेजः ।
बोधिसत्वानां महासत्वानां सर्व्ôपक्रमभयानि न भवन्ति ।
तस्मात् तर्हि विमलतेजः श्रुतसंभारकौशल्य्âभियुक्तेन बोधिसत्वेन भवितव्यम् इति ॥
किम् आकारं श्रुतं बोधिसत्वविनये प्रशस्तं ।
यथ्âर्य्âक्षयमतिसूत्रे ऽभिहितं ।
अशीत्याकारप्रवेशं श्रुतं ।
तद् यथा ।
छन्द्âकारम् आशय्âकारम् अध्याशय्âकारं प्रयोग्âकारं निर्माण्âकारम् अप्रमाण्âकारं कल्याणमित्र्âकारं गौरव्âकारं प्रदक्षिण्âकारं सुवचन्âकारं पर्युपासन्âकारम् अवहितश्रोत्र्âकारं मनस्कार्âकारम् अविक्षेप्âकारम् अवस्थान्âकारं रत्नसंज्ञ्âकारं भैषज्यसंज्ञ्âकारं सर्वव्याधिशमन्âकारं स्मृतिभजन्âकारं गतिबोधन्âकारं मतिरोचन्âकारं बुद्धिप्रवेश्âक्
आरम् अतृप्तबुद्धधर्मश्रवण्âकारं त्यागवृंहण्âकारं दान्त्âजानेय्âकारं बहुश्रुतसेवन्âकारं सत्यकृत्यप्रीत्यनुभवन्âकारं काय्âउद्बिल्य्âकारं चित्तप्रह्लादन्âकारम् अपरिखेदश्रवण्âकारं धर्मश्रवण्âकारं प्रतिपत्तिश्रवण्âकारं परदेशनाश्रवण्âकारं अश्रुतश्रवण्âकारं अभिज्ञाश्रवण्âकारम् अन्ययान्âस्पृहणाश्रवण्âकारं प्रज्ञापारमिताश्रवण्âकारं बोधिसत्वपिटकश्रवण्âकारं संग्रहवस्तुश्रवण्âकारम् उपायकौशल्यश्रवण्âकारं ब्रह्मवि-
[ चम्ब्रिद्गे म्स् f90अ ---> ]
हारश्रवण्âकारं स्मृतिसंप्रजन्यश्रवण्âकारं गौरव्âकारं उत्पादकौशल्यश्रवण्âकारम् अनुत्पादकौशल्यश्रवण्âकारम् अशुभ्âकारं मैत्र्याः श्रवण्âकारं प्रतीत्यसमुत्पाद्âकारं अनित्य्âकारं दुष्ख्âकारम् अनात्म्âकारं शान्त्âकारं शून्यतानिमित्त्âप्रणिहित्âकारं अनभिसंस्
कार्âकारं कुशल्âभिसंस्कार्âकारं सत्व्âधिष्ठान्âकारं अविप्रणाश्âकारं स्व्âधीन्âकारं स्वचित्त्âरक्षण्âकारं वीर्यस्य्âश्रंसन्âकारं धर्मनिध्यप्त्याकारं क्लेशविपक्ष्âकारं स्वपक्षपरिकर्षण्âकारं परपक्षक्लेशनिग्रह्âकारं सप्तधनसमवशरण्âकारं सर्वदारिद्र्य्ôपछेद्âकारं सर्वविद्वत्प्रशस्त्âकारं पण्डित्âभिनन्दन्âकारं आर्यसंमत्âकारं अनार्यप्रसादन्âकारं सत्यदर्शन्âकारं स्कन्धदोषविवर्ज-
[ बेन्दल्ल् एद् प्191 ---> ]
न्âकारं संस्कृतदोषपरितुलन्âकारम् अर्थप्रतिशरण्âकारं धर्मप्रतिशरण्âकारं सर्वपाप्âकरण्âकारं आत्मपरहित्âकारं सुकृतकर्म्âननुतप्यन्âकारं विशेषगमन्âकारं सर्वबुद्धधर्मप्रतिलाभ्âकारम् इति ॥
पुनर् अत्र्âइव्âह ।
यश् च धर्मसंभारयोगः स्âइव्âस्य ज्ञानसंभारो भवति ।
तत्र कतमो धर्मसंभारयोगो य्êयम् अल्प्âर्थत्âल्पकृत्यत्âल्पभाषत्âल्पपरिष्कारता पूर्वरात्र्âपररात्रं जागरिकायोगम् अनुयुक्तस्य श्रुत्âर्थपरितुलनता ।
भूयो भूयः पर्येषणता ।
चित्तस्य्âनाविलता ।
नीवरणानां विष्कम्भनता ।
आपत्तिषु निःशरणज्ञानं ।
अकौकृत्यता ।
अपर्युत्थानता ।
प्रतिपत्तिसारता ।
धर्मनिम्नता धर्मप्रवणता धर्मप्राग्भारता ।
पराक्रमसंपन्नत्âदीप्तशिरश्चैल्ôपमता ज्ञानपर्येष्ट्या ।
तन्मयविहारिता ।
अशिथिलशीलत्âनिक्षिप्तधुरता विशेषगामिता संगणिकाविवर्जनम् एक्âरामत्âरण्य्âभिमुखमनस्कारत्âर्यवंशसन्तुष्टिः धुतगुणेष्व् अचलनता धर्म्âरामरतिरतता लौकिकमन्त्र्âस्मरणता लोक्ôत्तरधर्मपर्येष्टिता स्मृत्यप्रमोषता ।
अर्थगत्यनुग-

[ चम्ब्रिद्गे म्स् f90ब् ---> ]
मता ।
मत्या मार्ग्âनुलोमता ।
धृत्या संवरप्रत्ययैर् ज्ञान्â-
[ बेन्दल्ल् एद् प्192 ---> ]
नुगमः ।
ह्रीरपत्राप्य्âलंकारता ।
ज्ञान्âनुगमनसारता ।
अज्ञानविधमनता ।
अविद्यामोहतमस्तिमिरपटलपर्यवनद्धस्य प्रज्ञाचक्षुर्विशुद्धिः ।
सुविशुद्धबुद्धिता ।
बुद्धिविस्तीर्णता ।
असंकुचितबुद्धिता प्रभिन्नबुद्धिता ।
प्रत्यक्षबुद्धिता ।
अपर्âधीनगुणता ।
स्वगुणैर् अमन्यनता ।
परगुणपरिकीर्तनता ।
सुकृतकर्मकारिता ।
कर्मविपाक्âनुद्धुरता ।
कर्मपरिशुद्धिज्ञानम् इति ॥
किं श्रोतव्यं ।
उक्तं भगवता ज्ञानवैपुल्यसूत्रे ।
स्âर्थकानि शास्त्राणि शिक्षितव्यानि ।
अप्âर्थकानि परिवर्जयितव्यानि ।
तद् यथा ।
लोक्âयतशास्त्राणि दण्डनीतिशास्त्राणि कार्खेदशास्त्राणि वादविद्याशास्त्राणि कुमारक्रीडाशास्त्राणि जम्भकविद्याशास्त्राणि ॥
पे ॥
यान्य् अपि तद् अन्यानि कानिचिन् मोक्षप्रतिकूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधिसत्वयानसंप्रस्थितेन परिवर्जयितव्यान्îति ॥
एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं ।
कथं पुनर् आशयसंपन्नस्य्âप्य् उग्रदत्तपरिपृच्छायां गृहम् अनुज्ञातं ।
यत्नवतो ऽप्य् असामर्थ्यात् ।
परदार्âदिष्व् अपि तर्हि न्âपत्तिः स्यात् ।
न तेषाम् असामर्थ्ये ऽपि प्रकृतिदुष्टत्वाद् गृह्âवासस्य च प्रज्ञप्तिस्âवद्यत्वाद् इति ॥
इति शिक्षासमुच्चये वीर्यपारमिता परिच्छेदो दशमः ॥
अरण्यसंवर्णनं नाम्âइकादशः परिच्छेदः ॥
तद् एवम् उग्रदत्तपरिपृच्छाविधिना गृहदोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥
तथा च्ôक्तं चन्द्रप्रदीपसूत्रे ।
न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां ।
गृहं च सेवित्व जुगुप्सनीयम् अनुत्तरां प्राप्स्यति सो ऽग्रबोधिम् ॥
ये काम वर्जेन्ति यथ्âग्निकर्षूं पुत्रेषु दारेषु जनित्व तृष्णां ।

उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्लभा तेष्व् इयम् अग्रबोधिः ॥
न कश्चि बुद्धः पुरिमेण्âसीद् अनागतो भेष्यति यो ऽवतिष्ठते ।
येहि स्थितैर् एव्âगारमध्ये प्राप्त्êयं उत्तम्âग्रबोधिः ॥
प्रहाय रा-
[ चम्ब्रिद्गे म्स् f91अ ---> ]
ज्यं यथ खेटपिण्डं वसेद् अरण्येषु विवेककामः ।
क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं विरजाम् असंस्कृताम् ॥
पे ॥
अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि ।
न्ôपस्थिता भोन्ति नर्ôत्तमा जिना यथ प्रव्रजित्वा चरमाणधर्मान् ॥
यश् च्âइव बोधिं प्रतिकाङ्क्षमाणः सत्व्âर्थ निर्विण्ण कुसंस्कृतातः ।
अरण्य्âभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्यविशिष्ट भोति ॥
यदि पुनर् विसभागसत्व्âनुनयात् परिषत्कामतया वा लाभ्âदिकामतया वा विवेकप्रवेशे विलम्बेत ।
तदर्थम् अत्र्âइव्ôक्तं ।
[ बेन्दल्ल् एद् प्194 ---> ]
न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति ।
मम्âन्तिके च्êति प्रदुष्टचित्ता न बालधर्मेहि करोन्ति संस्तवम् ॥
न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् ।
कियच्चिरं बालसुसेविता पि पुनो ऽपि ते भोन्ति अमित्रसन्निभाः ॥
न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्वभावसंततिम् ।
स्वभावभिन्ना प्रकृतीय बालाः कुतो ऽस्ति मित्रं हि पृथग्जनानां ॥
सहधार्मिकेनो वचनेन्ôक्ताः क्रोधं च दोषं च्âप्रत्ययं च ।
प्राविष्करोन्त्îमि बालधर्म्êमम् अर्थ विज्ञाय न विश्वसन्ति ॥
बाला हि बालेहि समं समेन्ति यथ्âमेध्येन्âमेध्य सार्द्धम् ।
विज्ञः पुनर् विज्ञजनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पिमण्डे ॥
तथा च पुनर् अत्र्âइवम् आह ।
सूसुखिताः सद ते नरलोके येषु प्रिय्âप्रिय न्âस्ति कहिंचित् ।
ये च न कन्दरके ऽभिरमन्ते श्रामणकं सुसुखं अनुभोन्ति ॥
येषु मम्âपि तु न्âस्ति कहिंचित् ।
येषु परिग्रहु सर्वशु न्âस्ति ।
खड्गसमा विचरन्ति मु लोकं गगने पवन यथ्êव व्रजन्ति ॥
[ बेन्दल्ल् एद् प्195 ---> ]
स्युः सुखिता वत ते नरलोके येषु न सज्जति मानस लोके ।
वायुसमं सद तेष्व् इह चित्तं न्ô च प्रिय्âप्रिय विद्यति संगो ॥
अप्रिय ये दुखितेहि निवासो ये ऽपि प्रिया दुखितेहि वियोगो ।
अन्त्ôभे ऽपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥
पुनर् अत्र्âइव्ôक्तम् ।
भवति सततम् अल्पकृत्ययोगी पृथु गुण दोषत सर्वि वर्जयित्वा ।
न विवदति
[ चम्ब्रिद्गे म्स् f91ब् ---> ]

कदाचि युक्तयोग्îमि गुण तस्य भवन्त्य् अरण्यवासे ॥
सद भवति निविण्ण संस्कृते ऽसौ न भवति तस्य पृहा कहिंचि लोके ।
न च भवति विवृद्धिर् आस्रवाणां वनवसतो ऽस्य भवन्ति आनुशंसाः ॥
अधिकरण न तस्य जातु भोती सद्ôपशान्तरतो विवेकचारी ।
वचचि मनसि काय संवृतस्यो बहुगुण तस्य भवन्त्य् अरण्यवासे ॥
भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो ऽधिमुक्ति शान्ताम् ।
वनिचरि धिमुक्ति सेवते ऽस्य्êमि गुण भोन्त्य् अरण्यवासि सर्वे ॥
पुनर् आह ।
वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् ।
अद्वितीयखड्गसम भोथ सदा न चिरेण लप्स्यथ समाधिवरम् ।
इति ॥
आर्यराष्ट्रपालसूत्रे ऽप्य् आह ।
[ बेन्दल्ल् एद् प्196 ---> ]
त्यक्त्वा गेहम् अनन्तदोषगहनं चिन्त्âनपेक्षाः सदा ।
ते ऽरण्ये रतिम् आप्नुवन्ति गुणिनः शान्त्êन्द्रियाः सूरताः ॥
न स्त्रीसंभव न्âइव च्âपि पुरुषैस् तेषां क्वचिद् विद्यते ।
एकाकी विहरन्ति खड्गसदृशाः शुद्ध्âशया निर्मलाः ॥
लाभैर् न्âपि च तेषु हर्ष स्वमनो लीयन्त्य् अलाभैर् न च ।
अल्प्êच्छ्êतर्êतरैर् अभिरता मायाकुहावर्जिताः ।
ति ॥
उग्रदत्तपरिपृच्छायाम् अप्य् आह ।
सत्वसंसर्गो मे न कर्तव्यो न हि मय्âइकसत्वस्य कुशलमूलानि संजनयितव्यान्îत्य् आदि ॥
यदि पुनः श्रुतवान् इमां क्षणसंपदम् आसाद्य लाभ्âदौ सक्तः चित्तं न शोधयेत् स्âइव्âइकः ।
सदेवके लोके वञ्चितः स्याद् ॥
उक्तं ह्य् आर्यरत्नकूटे ।
तद् यथा काश्यप कश्चिद् एव पुरुषो महत्ôदक्âर्णवेन्ôह्यमान्ôदकतृष्णया कालं कुर्याद् ।
एवम् एव काश्यप्êह्âइके श्रमणब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न रागतृष्णां विनोदयन्ति ।
न द्वेषतृष्णां ।
न मोहतृष्णां विनोदयन्ति ।
ते महता धर्म्âर्णवेन्ôह्यमानाः क्लेशतृष्णया कालगता ।
दुर्गतिविनिपातगामिनो भवन्त्îति ॥
तस्माद् अवश्यम् अरण्यम् आश्रयेत् ॥
तादृशानि च स्थानानि आश्रयेत् ।
येषु च स्थानेषु न्âतिदूरे पिण्डपातगोचरो भवति न
[ बेन्दल्ल् एद् प्197 ---> ]
अतिसंनिकृष्टे ।
येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्मलान्य् अल्प्âयासानि मुखपरिभोगानि या-
[ चम्ब्रिद्गे म्स् f92अ ---> ]
नि च स्थानानि वृक्षसंपन्नानि भवन्ति पुष्पसंपन्नानि फलसंपन्नानि पत्त्रसंपन्नान्य् अपगतदुष्टश्वापदानि गुहासंपन्नानि प्राग्भारसंपन्नानि सुखपरिसर्प्यकाणि शान्तान्य् अद्वितीयानि तादृशानि स्थानान्य् आश्रयेत् ।
स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्वपठितं भवति तत् त्रिभी रात्रैस् त्रिर्दिवसस्य स्व्âध्यायति न्âत्युच्चेन स्वरेण न्âतिनीचेन न्ôद्धतैर् इन्द्रियैर् न बहिर्गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् ।

सचेद् आरण्यकस्य भिक्षो राजा व्ôपसंक्रामति राजमात्रो व्âन्ये वा ब्राह्मणक्षत्रियनैगमजानपदाः ।
तेन तेषाम् आदरेण स्वागतक्रिया कर्तव्या ।
एवं च्âनेन वक्तव्यं ।
निषीद महाराज यथा प्रज्ञप्तए आसने ।
सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं ।
सचेन् न्ôपविशति उभाभ्याम् अपि न्ôपवेष्टव्यं ।
सचेच् चञ्चल्êन्द्रियो भवति उत्कर्षयितव्यं ।
तस्य ते महाराज लाभाः सुलब्धा यस्य ते भूप्रदेशे शीलवन्तो गुणवन्तो बहुश्रुताः श्रमणब्राह्मणाः प्रतिवसन्ति ।
अनुपद्रुताश् चौरभट्âदिभिः ॥
सचेत् स्थिरो भवति विनीतः प्रशान्त्êन्द्रियः भव्यश् च भवति धर्मदेशनायाः ततो ऽस्य विचित्रा धर्मदेशन्ôपसंहर्तव्या ।
सचेद् विचित्रां न प्रियायते ।
संवेग्âनुकूला धर्मदेशन्ôपसंहर्तव्या ।
सचेत् संवेग्âनुकूलां न प्रियायते उदार्ôदाराणि तथागतमाहात्म्यानि उपदेष्टव्यानि ।
ब्राह्मणक्षत्रियनैगमजानपदानाम् अप्य् उपसंक्रामतां यथ्âनुरूपाः क्रिय्ôपसंहर्तव्या ।
स्âइवं बहुश्रुतः सन् प्रतिबलो भवति धार्मश्रवणिकानां चित्तम् आराधयितुं ।
ते च सत्वास् तस्य्âन्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥
[ बेन्दल्ल् एद् प्198 ---> ]
उग्रदत्तपरिपृच्छायाम् अप्य् आह ।
पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन्âरण्ये प्रतिवसत्âइवम् उपपरीक्षितव्यं ।
किम् अर्थम् अहम् अरण्ये प्रतिवसामि ।
न केवलम् अरण्यवासेन श्रमणो भवति ।
बहवो ऽप्य् अत्र्âदान्त्âविनीत्âयुक्त्âनभियुक्ताः प्रतिवसन्ति ।
तद् यथा ।
मृग-
[ चम्ब्रिद्गे म्स् f92ब् ---> ]
वानरपक्षिसंघचौरचण्डालाः प्रतिवसन्ति ।
न च ते श्रमणगुणसमन्वागता भवन्ति ।
अपि तु खलु पुनर् अहं यस्य्âर्थाय्âरण्ये प्रतिवसामि स मय्âर्थः परिपूरयितव्यो यद् उत श्रामण्य्âर्थः ॥
पे ॥
पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन्âरण्ये विहरत्âइवम् उपपरीक्षितव्यं ।
किम् अर्थम् अहम् अरण्य्म् आगतः ।
तेन्âइवं मीमांसयितव्यं ।
भयभीतो ऽस्म्य् अहम् अरण्यम् आगतः ।
कुतो भयभीतः ।
संगणिकाभयभीतः ।
संसर्गभयभीतो रागद्वेषमोहभयभीतो मानमदम्रक्षपरिदाहभयभीतो लोभ्êर्ष्यामात्सर्यभयभीतः रूपशब्दगन्धरसस्पर्ष्टव्यभयभीतः ।
सो ऽहं*कारममकारभयभीतः ।
औद्धत्यविचिकित्साभयभीतः ।
स्कन्धमारभयभीतः ।
क्लेशमारभयभीतो ।

मृत्युमारभयभीतो ।
देवपुत्रमारभयभीतः ।
अनित्ये नित्य्êति विपर्यासभयभीतो ऽनात्मन्य् आत्म्êति विपर्यासभयभीतो ऽशुचौ शुचिर् इति विपर्यासभयभीतो ।
दुष्खे सुखम् इति विपर्यासभयभीतः ।
चित्तमनोविज्ञानभयभीतो ।
निवरण्âवरणपर्युत्थानभयभीतः ।
सत्कायदृष्टिभयभीतः पापमित्रभयभीतो ।
लाभसत्कारभयभीतो ऽकालमन्त्रभयभीतो ऽदृष्टे दृष्टम् इति भयभीतो ऽश्रुते श्रुतम् इति भयभीतो ऽमते मतम् इति भयभीतो ऽविज्ञाते विज्ञातम् इति भयभीतो ऽश्रमणे श्रमणमदभयभीतो ऽन्योन्यविद्वेषणभयभीतः कामधातुरूपधात्वरूप्यधातुभयभीतः सर्वभवगत्युपपत्तिभयभीतो निरयतिर्यग्योनिपितृविषयभयभीतः संक्षेपेण सर्वेभ्यो ऽकुशलेभ्यो मनसिकारेभ्यो भयभी
त्âइभ्यो ह्य् अहम् एवंरूपेभ्यो भयभैरवेभ्यो भीतो ऽरण्य्âवासम् उपगतः ॥
पे ॥
पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन्âरण्यवासस्थितेन भीतेन वा त्रस्तेन व्âइवं शिक्षितव्यं ।
यानि कानिचिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्मग्राहत्ôत्पद्यन्ते ॥
पे ॥
सचेत् पुनर् अहम् अरण्ये प्रतिवसन् न्âत्मग्राहं परित्यजेयं न्âत्म्âभिनिवेशं न्âत्मपरिग्रहं न्âत्मनिदानं न्âत्मतृष्णां न्âत्मसंज्ञां न्âत्मवाद्ôपादानं न्âत्मदृ-
[ बेन्दल्ल् एद् प्199 ---> ]
ष्टिं न्âत्म्âधिष्ठानं न्âत्मपरिकल्पनां न्âत्मरक्षां परित्यजेयं ।
निरर्थको मे ऽरण्यवासः स्याद् ।
अपि तु खलु पुनर् गृहपते न्âस्त्य् आत्मसंज्ञिनो ऽरण्यवासो ।
न्âस्ति परसंज्ञिनः ॥
पे ॥
अरण्यवासो नाम गृहपते उच्यते सर्वधर्मेष्व् असंभववासः सर्वधर्मेष्व् असंगवासः ॥
पे ॥
तद् यथा गृहपते ऽरण्ये तृणगुल्म्âउषधिवनस्पतयः प्रतिवसन्तो न बिभ्यति न्ôत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते ।
एवम् एव गृहपते प्रव्रजितेन बोधिसत्वेन्âरण्ये विहरता तृणगुल्म्âउषधिवनस्पतिकाष्ठकुड्यवद् आत्मप्रतिभासवत् संज्ञा काये उत्पादयितव्या ।
मायासमता चित्तस्य्ôत्पादयितव्या ।
को ऽत्र बिभेति ।
को ऽस्मिन्न् उत्त्रस्यति ।तेन भयभीतेन वा त्रस्तेन व्âइवं योनिशः काय्ôपपरीक्षितव्यः ।
न्âस्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा ।
अभूतपरिकल्प्âइष यद् उत भयं नाम ।
स मय्âभूतपरिकल्पो न परिकल्पयितव्यः ।
तेन यथ्âरण्ये तृणगुल्म्âउषधिवनस्पतयः प्रतिवसन्ति अमम्âपरिग्रहाः ।
एवम् एव्âममेन्âपरिग्रहेण्âरण्यम् एव सर्वधर्म्êति ज्ञात्व्ôपसम्पद्य विहर्तव्यं ।
तत् कस्य हेतोः ।
रणछेदो ऽरण्यवासो ऽममो ऽपरिग्रहः ॥
पे ॥
पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन बुद्ध्âनुज्ञातो ऽरण्यवास्êति ज्ञात्व्âरण्ये वस्तव्यं ।
अत्र हि शुक्लधर्मपरिपूरिर् भवति ।
उपस्तब्धकुशलमूलः पश्चाद्ग्रामनगरनिगमराष्ट्रराजधानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥
पे ॥
सचेत् पुनर् गृहपते प्रव्रजितो बोधिसत्व्ôद्देशस्व्âध्याय्âर्थं गणम् अवतरति ।

तेन तत्र सगौरवेण भवितव्यं सप्रतीसेन्âचार्य्ôपाध्यायेषु स्थविरमध्यनवकेषु भिक्षुषु प्रदक्षिणभवितव्यम् अनलसेन स्वयंकारिण्âपर्ôपतापिना न च तेन्ôपस्थानगुरुकेण भवितव्यं ।
एवं च्âनेन्ôपपरीक्षितव्यं ।
तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः सदेवस्य लोकस्य स-
[ बेन्दल्ल् एद् प्200 ---> ]
मारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्वसत्वानां ।
सो ऽपि तावन् न कस्यचित् सकाशाद् उपस्थानं स्वीकरोति ।
किं-
[ चम्ब्रिद्गे म्स् f93ब् ---> ]
पुनर् अस्माभिर् अशिक्षितैः शिक्षितुकामैः ।
अपि तु वयम् एव सर्वसत्वानाम् उपस्थायका भविष्यामः ।
वयम् एव परेषाम् उपस्थानपरिचर्यां करिष्यामो न च पुनः कस्यचित् सकाशाद् उपस्थानपरिचर्यां स्वीकरिष्यामः ।
तत् कस्य हेतोः ।
उपस्थानगुरुकस्य हि गृहपते भिक्षोर् गुणधर्म्âनुग्रहो नश्यति ।
येषां च संग्रहं करोति तेषाम् एवं भवति ।
उपस्थानहेतोर् एषो ऽस्माकं संग्रहं करोति ॥
पुनर् अत्र्âइव्âह ।
सचेत् पुनर् गृहपते आरण्यको बोधिसत्वो धर्मश्रवण्âर्थिक्âचार्य्ôपाध्यायदर्शन्âर्थिको वा ग्लानपरिपृच्छको वा ग्राम्âन्तिकं शयन्âसनम् आगच्छेत् तेन स्âयम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं ।
सचेत् पुनर् अस्य परप्रतिबद्ध्ôद्देशः स्व्âध्यायो वा तेन विहारे प्रतिवसत्âरण्यप्रवणचित्तेन भवितव्यं ।
एष्âइव तस्य्âरण्यवासो यत् सर्ववस्तुष्व् अरण्यसंज्ञा धर्मपर्येष्ट्या च्âतृप्त्êति ॥
आर्यरत्नराशिसूत्रे ऽप्य् उक्तं ।
यदि पुनर् अस्य तत्र्âरण्य्âयतने विहरतो ऽप्राप्तफलपृथग्जनस्य व्याडमृग्âगच्छेयुः ।
तेन तत्र न भयं न त्रास्ôत्पादयितव्यः ।
एवं च चित्तम् उत्पादयितव्यं ।
पूर्वम् एव्âहम् उत्सृष्टकायजीवितो ऽरण्यवासम् उपगतो ।
न मय्âत्र भेतव्यं ।
न्ôत्त्रसितव्यं ।
अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि ।
यद्य् एवम् अपि कृत्वा ते व्याडमृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् ।
तेन मय्âइवं चित्तम् उत्पादयितव्यं ।
लाभा मे सुलब्धा यस्य मे ऽसारात् कायात् सारम् आदत्तं भविष्यति ।
न पुनर् इमे व्याडमृगाः शक्या मय्âमिषेण तोषयितुं मम मांसं भक्षयित्वा सुखस्पर्शं विहरिष्यन्ति ॥
पे ॥यदि पुनस् तत्र्âरण्य्âयतने विहरतो ऽमनुष्य्ôपसंक्रमिष्यन्ति सुवर्णा वा दुर्वर्णा वा ।
तेन न तत्र्âनुनेतव्यं न प्रतिहन्तव्यं ।
यदि पूर्वबुद्धदर्शिन्यो देवत्âरण्यकं भिक्षुम् उपसंक्रम्य
[ बेन्दल्ल् एद् प्201 ---> ]
प्रश्नं परिपृच्छेयुः ।
तत्र तेन्âरण्यकेन भिक्षुणा यथाशक्ति यथाबलं यथाधर्म्âधिगमाय तासां देवतानां-
[ चम्ब्रिद्गे म्स् f94अ ---> ]
धर्मो देशयितव्यः ।
यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स्âरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं ।

तेन निर्मानेन भूत्वा वाग् भाषितव्य्âशिक्षितो न परिभवितव्यः ।
युञ्जिष्यामि घटिष्ये बुद्धशासने ।
भविष्यति स कालः स समयो यद्âधिगतान् धर्मान् श्रुत्वा सर्वकथां विसर्जयिष्यामि ।
अपि तु प्रतिभातु ते ।
वयं धार्मश्रवणिक्êति ॥
पे ॥तेन तत्र्âरण्य्âयतने प्रतिवसता तृणगुल्म्âउषधिवनस्पतीनां निमित्तं ग्रहीतव्यं ।
कथम् एते भवन्ति ।
यथ्âइषां भावनाम् अस्वामिकानाम् अममानाम् अपरिग्रहाणाम् एवं निश्चेष्टानां निर्व्यापाराणां भवत्य् उत्पादो भङ्गश् च ।
न च्âइषां कश्चिद् उत्पादयिता ।
न निरोधयिता ।
एवम् एव्âयं कायस् तृणकाष्ठकुड्यप्रतिभास्ôपमो ऽस्वामिको ऽममो ऽपरिग्रहो निश्चेष्टो निर्व्यापारो हेतुप्रत्यययुक्त्य्ôत्पद्यते ।
हेतुप्रत्ययवैकल्यान् निरुध्यते ।
न पुनर् अत्र कश्चिद् धर्मः परम्âर्थत*उत्पद्यते वा निरुध्यते व्êति ॥
पुनश् च्ôक्तं ।
तेन तत्र्âरण्य्âयतने विहरत्âइवं चित्तम् उत्पादयितव्यं ।
यद्य् अप्य् अहम् अरण्यम् आगत्âइको ऽद्वितीयो ।
न मे कश्चित् सहायो यो मां सुकृतं दुष्कृतं वा चोदयेत् ।
अपि तु खलु पुनः सन्त्îमे देवनागयक्षा बुद्धाश् च भगवन्तो ये मम चित्त्âशयं जानन्ति ।
ते मम साक्षिणः ।
सो ऽहम् इह्âरण्य्âयतने प्रतिवसन्न् अकुशलचित्तस्य वशं गच्छामि ।
यदि पुनर् अहम् इयद्दूरम् आगत्âइको ऽद्वितीयो ऽसंस्तब्धो ऽममो ऽपरिग्रहः कामवितर्कं वा वितर्कयेयं ।
व्यापआदं विहिन्सावितर्कं वा वितर्कयेयम् अन्यं व्âकुशलवितर्कं वितर्कयेयं ।
निर्विशेषो भवेयं संसर्गसंगणिकाभिर् एतैः सत्वैः ।
ते च मे देवनागयक्षा विसंवादिताः बुद्धाश् च भगवन्तो ऽनभिराद्धा भविष्यन्त्îति ॥
इति शिक्षासमुच्चये ऽरण्यसंवर्णनो नाम्âइकादशः परिच्छेदः ॥
चित्तपरिकर्म द्वादशः परिच्छेदः ॥
तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥
उक्तं हि भगवत्यां ।
स तेषाम् एव सत्वानाम् अर्थाय ध्यानपारमितायां चरन्न् अविक्षिप्तचित्तो भवति ।
तत् कस्य हेतोः ।
[ चम्ब्रिद्गे म्स् f94ब् ---> ]
तथा ह्य् अस्य्âइवं भवति ।
लौकिकी ध्यान्ôपपत्तिर् अपि तावद् विक्षिप्तचित्तस्य दुर्लभा ।
कः पुनर् वादो ऽनुत्तरा सम्यक्संबोधिः ।
तस्मान् मय्âविक्षिप्तचित्तेन भवितव्यम् ।
यावन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयम् इति ॥पुनर् अस्याम् उक्तं ।
पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रथमचित्त्ôत्पादम् उपादाय ध्यानपारमितायां चरन् सर्व्âकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते ।
स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति न्âनुव्यञ्जनग्राही ।
यतो ऽधिकरणम् अस्य चक्षुरिन्द्रियेण्âसंवरसंवृतस्य विहरतो ऽभिध्यादौर्मनस्ये ऽन्ये वा पापक्âकुशला धर्माश् चित्तम् अनुप्राप्नुयुः ।
तेषां संवराय प्रतिपद्यते ।

रक्षति चक्षुरिन्द्रियम् ।
एवं श्रोत्रेण शब्दान् श्रुत्वा ।
घ्राणेन गन्धान् घ्रात्वा ।
जिह्वया रसान् आस्वाद्य ।
कायेन स्प्रष्टव्यानि स्पृष्ट्वा ।
मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति ।
न्âनुव्यञ्जनग्राही ।
यतो ऽधिकरणम् अस्य मन्êन्द्रियेण्âसंवरसंवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः ।
तेषां संवराय प्रतिपद्यते ।
रक्षति मन्êन्द्रियं ।
स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमाणो ऽपि समाहित्âवस्थाम् असमाहित्âवस्थां न विजहाति ।
स भवत्य् अहस्तलोलः ।
अपादलोलो ऽमुखलोलो ऽप्रकीर्णवाक् ।
अविक्षिप्त्êन्द्रियो ऽनुद्धतो ऽनुन्नतो ऽचपलो ऽनलसो ऽसंभ्रान्तकायो ऽसंभ्रान्तचित्तः ।
शान्तकायः शान्तवाक् शान्तचित्तः ।
रहस्य् अरहसि वा कल्पित्êर्यापथः संतुष्टः ॥
पे ॥
सुभरः सुपोषः ।
स्ûपास्यः कल्याण्âचारगोचरः ।
संगणिकय्âपि विवेकगोचरः ।
लाभे ऽलाभे च समो निर्विकारः ।
[ बेन्दल्ल् एद् प्203 ---> ]
अनुन्नतो ऽनवनतः ।
एवं सुखे दुष्खे ।
स्तुतौ निन्दायां ।
यशस्य् अयशसि ।
जीविते मरणे च समो निर्विकारो ऽनुन्नतो ऽनवनतः ।
एवं शत्रौ मित्रे च ।
मन्âपवर्तिनि ... ।
आर्येष्व् अनार्येषु ।
शब्देषु संकीर्णेष्व् असंकीर्णेषु ।
प्रिय्âप्रियेषु च रूपेषु समो निर्विकारः ।
अनुन्नतो ऽनवनतः ।
अनुरोधविरोध्âपगतः ।
तत् कस्य हेतोः ।
तथा
[ चम्ब्रिद्गे म्स् f95अ ---> ]
हि स स्वलक्षणशून्यान् असंभूतान् अनिष्पन्नान् अनभिनिर्वृत्तान् सर्वधर्मान् पश्यत्îति विस्तरः ॥
तत्र लीने मनसि मुदिता भावनय्ôत्तेजनं कुर्यात् ।
उद्धते त्व् अनित्यतामनसिकारैः प्रशमः ॥

उभयप्रतिपक्ष्âर्थं च्âर्यराष्ट्रपाल्ôक्तां गाथां स्मरेत् ।
बहु कल्पकोटीभि कदाचि बुद्धो उत्पद्यते लोकहितो महर्षि ।
लब्धो ऽधुना स प्रवरः क्षणो ऽद्य त्यजति प्रमादं यदि मोक्तुकाम ।
इति ॥
तथा ।
मय्ôपमं वितथम् एतत् स्वप्न्ôपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्वप्रियैः ।
न नित्यम् इह कश्चित् ।
उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु ।
मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवरबोधिम् ।
इति ॥
आर्यललितविस्तरे ऽप्य् उक्तं ।
ज्वलितं त्रिभुवं जरव्याधिदुखैर् मरण्âग्निप्रदीप्तम् अनाथम् इदम् ।
भवनिःशरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भगतः ॥
[ बेन्दल्ल् एद् प्204 ---> ]
अध्रुवं त्रिभुवं शरदभ्रनिभं नटरङ्गसमा जगि जन्मच्युतिः ।
गिरिनद्यसमं लघुशीघ्रजवं व्रजतायु जगे यथ विद्यु नभे ॥ भुवि देवपुरे त्रिअपायपथे भवतृष्ण्âविद्यवशा जनता ।
परिवर्त्तिषु पञ्चगतिष्व् अबुधा यथ कुम्भकरस्य हि चक्र भ्रमी ॥
प्रियरूपवरैः सद स्निग्धरुतैः शुभगन्धरसैर् वरस्पर्शसुखैः ।
परिषिक्तम् इदं कलिपाश जगत् मृगलुब्धकपाशि यथ्âइव कपि ॥
सभयाः सरणाः सद वैरकराः बहुशोक्ôपद्रव कामगुणाः ।
असिधारसमा विषपत्त्रनिभाः जहित्âर्यजनैर् यथ मीढघटः ॥
स्मृतिमोषकरास् तमसीकरणा भयहेतुकरा दुखमूल सदा ।
भवतृष्णलताय विवृद्धिकराः सभयाः सरणा सद कामगुणाः ॥
यथ्âग्निखदाः ज्वलिताः सभयाः तथ काम्êमे विदित्âर्यजनैः ।
महपङ्कसम्âशिशूलसमा मधुदिग्ध्êव क्षुरधारसमा ॥
यथ सर्पशिरो यथ मीढघटः तथ काम्êमे विदिता विदुषाम् ।
तथ शूलसामा द्विजपेशिसमा यथ श्वानकरं किशवैर तथ्ôदकचन्द्रनिभ्êमि कामगुणाः प्रतिबिम्ब्êवा गिरिघोष यथा ।
प्रतिभाससमा नटरङ्गनिभा तथ स्वप्नसमा विदित्âर्यजनैः ॥
[ बेन्दल्ल् एद् प्205 ---> ]
क्षणिकावसिक्êमि कामगुणाः तथ मायमरीचिसम्âलिक्ôदकबुद्बुदफेनसमा वितथाः परिकल्पसमुत्थित बुद्ध बुधैः ॥
प्रथमे वयसे वररूपधरः प्रिय्êष्टमतो इय बालचारी ।
जरव्याधिदुखैर् हततेजवपुं विजहन्ति मृग्êव शुष्कनदीम् ॥
धनधान्यवरो बहुद्रव्यबली प्रिय्êष्टमतो इय बालचारी ।
परिहीणधनं पुन कृच्छ्रगतं विजहन्ति नर्êव शून्यटवीम् ॥
यथ पुष्पद्रुमो सफलो व द्रुमो नरुदानरतः तथ प्रीतिकरः ।
धनहीनु जर्âर्दितु याचनको भवते तद्âप्रियगृध्रसमः ॥
प्रभुद्रव्यबली वररूपधरः प्रियसङ्गमन्êन्द्रियप्रीतिकरः ।
जराव्याधिदुख्âर्दितु क्षीणधनो भवते तद्âप्रियमृत्युसमः ॥जरया जरितः समतीतवयो द्रुम विद्युहतो व यथा भवति ।
जरजीर्ण्âगार यथा सभयो जरनिःशरणं लघु ब्रूहि मुने ॥
जर शोषयते नरनारिगणं यथ मालुलता घन शालवनम् ।

जर वीर्यपराक्रमवेगहरी जर पङ्कनिमग्न यथा पुरुषो ॥
जर रूप सुरूपविरूपकरी जर तेजहरी बलस्थामहरी ।
सद सौख्यहरी परिभावकरी जर मृत्युकरी जर्âउजहरी ॥
बहुरोगशतैर् घनव्याधिदुखैः उपसृष्टु जगज् ज्वलन्êव मृगाः ।
जर व्याधिगतं प्रसमीक्ष्य जगत् दुखनिःशरणं लघु देशय ही ॥
[ बेन्दल्ल् एद् प्206 ---> ]
शिशिरेहि यथा हिमधातु महं तृणगुल्मवन्âउषधि ओजहरो ।
तथ्âउजहरो ऽयु व्याधि जगे परिहीयत्îन्द्रियरूपबलम् ॥
धनधान्यमह्âर्थक्षय्âन्तकरः परिभावकरः सद् व्याधि जगे ।
प्रतिघातकरः प्रियद्वेषकरः परिदाहकरो यथ सूर्यु नभे ॥
मरणं च्यवनं च्युति कालक्रिया प्रियद्रव्यजनेन वियोगु सदा ।
अपुन्âगमनं च्âसंगमनं द्रुमपत्त्रफला नदिश्रोतु यथा ॥
मरणं वशितान् अवशीकुरुते मरणं हरते नदि दारु यथा ।
असहायनरो व्रजते ऽद्वितीयः स्वककर्मफल्âनुगतो विवशः ॥
मरणं ग्रसते बहु प्राणिशतान् मकरो व जल्âकरि भूतगणान् ।
गरुडो उरगं मृगराज गज ज्वलनो व तृण्âउषधिभूतगणम् ।
इति ॥
राज्âववादकसूत्रे ऽप्य् आह ।
तद् यथा महाराज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वत्âगच्छेयुर् दृढाः ।
[ चम्ब्रिद्गे म्स् f96अ ---> ]
सारवन्तो ऽखण्ड्âच्छिद्र्âसुषिराः सुसंवृत्âइकघना नभः स्पृशन्तः पृथिवीं च्ôल्लिखन्तः सर्वतृणकाष्ठशाखापर्णपलाश्âदि सर्वसत्वप्राणिभूतानि निर्मथ्नन्तस् तेभ्यो न सुकरं जवेन वा पलायितुं बलेन वा द्रव्यमन्त्र्âउषधिभिर् वा निवर्तयितुम् ।
एवम् एव महाराज चत्वार्îमानि महाभयान्य् आगच्छन्ति येषां न सुकरं जवेन वा पलायितुं बलेन
[ बेन्दल्ल् एद् प्207 ---> ]
द्रव्यमन्त्र्âउषधैर् वा निवर्तनं कर्तुम् ।
कतमानि चत्वारि ।
जरा व्याधिर् मरणं विपत्तिश् च ॥
जरा महाराज्âगच्छति यौवनं प्रमथमाना ।
व्याधिर् महाराज्âगच्छत्य् आरोग्यं प्रमथमानः ।
मरणम् आगच्छति जीवितं प्रमथमानं ।
विपत्तिर् महाराज्âगच्छति सर्वाः संपत्तीः प्रमथमाना ।
तत् कस्य हेतोः ।
तद् यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणम् अनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति ।
स च मृगो ऽतिबलं व्याडमुखम् आसाद्य विवशो भवति ।
एवम् एव महाराज विद्धस्य मृत्युशल्येन्âपगतमदस्य्âपरायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांसशोणिते परिशुष्यमाणे परितप्ततृषितविह्वलवदनस्य करचरणविक्षेप्âभियुक्तस्य्âकर्मण्यस्य्âसमर्थस्य लालासिङ्घाणकपूयमूत्रपुरीष्ôपलिप्तस्य ईषज्जीवित्âवशेषस्य कर्मभवात् पुनर् भवम् आलम्बानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरम्âश्वासप्रश्वासेष्ûपरुध्यमानेषु ए
काकिनो ऽद्वितीयस्य्âसहायस्य्êमं लोकं जहतः परलोकम् आक्रामतो महापथं व्रजतो महाकान्तारं प्रविशतो महागहनं समवगाहमानस्य मह्âन्धकारं प्रतिपद्यमानस्य मह्âर्णवेन्ôर्ज्यमानस्य कर्मवायुन्âह्रियमाणस्य्âनिमित्तीकृतां दिशं गच्छतो न्âन्यत् त्राणं न्âन्यच् छरणं न्âन्यत् परायणम् ऋते धर्मात् ।
धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति ।
तद् यथा शीत्âर्त्तस्य्âग्निप्रतापः ।
अग्निम् अपगतस्य्âनिर्वापणं ।
उष्ण्âर्त्तस्य शैत्यं ।
अध्वानं प्रतिपन्नस्य शी-

[ चम्ब्रिद्गे म्स् f96ब् ---> ]
तलं छाय्ôपवनं ।
पिपासितस्य शीतलजलं ।
बुभुक्षितस्य वा प्रणीतम् अन्नं ।
व्याधितस्य वैद्य्âउषधिपरिचारकाः ।
भयभीतस्य बलवन्तः सहायाः ।
साधवः प्रतिशरणा भवन्ति ।
एवम् एव महाराज विद्धस्य मृत्युशल्येन्âपगतमदस्य्âत्राणस्य्âशरणस्य्âपरायणस्य न्âन्यत् त्राणं न्âन्यत् परायणम् अन्यत्र धर्मात् ।
तस्मात् तर्हि ते महाराज्âनित्यत्âनुदर्शिना भवितव्यं क्षयव्यय्âनुदर्शिना भवितव्यं मरणभयभीतेन ।
धर्मेण्âइव ते महाराज राज्यं कारयितव्यं न्âधर्मेण ।
[ बेन्दल्ल् एद् प्208 ---> ]
तत् कस्य हेतोः ।
अस्य्âपि ते महाराज्âत्मभावस्य्âइवं सुचिरम् अपि परिरक्षितस्य सुचिरम् अपि शुचिना प्रणीतेन खादनीयभोजनीय्âस्वादनीयेन संतर्पितस्य संप्रवारितस्य ।
क्षुतपिपासापरिगतस्य कालक्रिया भविष्यति ।
एवं काशिकौशेयदूकूलपत्त्र्ôर्णाक्षौम्âदिभिर् वस्त्रविशेषैर् आच्छादितस्य चरमशयन्âवस्थितस्य विविधस्वेद्âम्बुक्लिन्नमलिनवसन्âवृतस्य कालक्रिया भविष्यति ।
एवम् अपि ते महाराज स्नान्âनुलेपनवासधूपपुष्पसुरभिगन्धस्य्âत्मभावस्य न चिरेण दुर्गन्धता भविष्यति ।
एवं स्त्र्य्-आगारमध्यगतस्य्âपि ते स्त्रीगणपरिवृतस्य नानावाद्यगीततूर्यनाद्यैर् उपगीयमानस्य सुमनसः क्रीडतो रममाणस्य परिचारयतो मरणभयभीतस्य्âतीव दुष्खदौर्मनस्याभ्यां कालक्रिया भविष्यति ।
एवम् अपि ते महाराज गृहेष्ûपलेपन्ôपलिप्तेषु सुस्थापित्âर्गलेषु सुपिहितवात्âयनेषु बहुगन्धधूपपुष्पतैलवर्तिप्रज्वालितेष्व् आसक्तपट्टदामकलापेषु मुक्तकुसुम्âवकीर्णेषु गन्धघटिकानिर्धूपितेषु अन्यस्तपादपीठपटिक्âस्तरणगोणिक्âस्तरणकाचलिन्दिकप्रावरणस्âन्तर्ôछदपटिक्ôभयकृत्ôपधानेषु पर्यङ्केषु शयित्वा ।
पुनश् च शृगालकाकगृध्रमृतकडेवरमांस्âस्थिकेशरुधिरवश्âकुले परमबीभत्से श्मशाने गतचेष्टस्य्âत्मभावः पृथिव्याम् अवशः शेष्यते ।
एवम् अपि ते महाराज गजस्कन्ध्âश्वपृष्ठरथ्âभिरूढस्य शङ्खपटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बालव्यजनेन वीजय-
[ चम्ब्रिद्गे म्स् f97अ ---> ]
मानस्य्âनेकहस्त्यश्वरथपदातिभिर् अनुयातस्य्âञ्जलिशतसहस्रैर् नमस्क्रियमाणस्य ।
निर्गमनम् अनुभूय न चिरान् निश्चेष्टस्य मृतशयन्âभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगरद्वारेण निर्णीतस्य मातापितृभ्रातृभगिनीभार्यापुत्रदुहितृवयस्यदासीदासकर्मकरपौरुषेयैः शोकगतहृदयैर् विक्षिप्तकेशैर् उत्क्षिप्तभुजैः स्ôरस्ताडं परमकरुणं ।
हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौरजानपदैः सपरिभावदृश्यमानस्य श्मशानं नीतस्य पुनः काकगृध्रश्वशृगाल्âदिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखा-
[ बेन्दल्ल् एद् प्209 ---> ]
नितानि अद्भिर् वा क्लिन्नानि वात्âतापवर्षैर् वा चूर्णीकृतानि दिग्विदिक्षु प्रक्षिप्तानि तत्र्âइव पूतभवम् आयास्यन्ति ।
एवम् अनित्याः सर्वसंस्कार्âइवम् अध्रुव्êति विस्तरः ॥
तत्र क्लेशाः प्राधान्येन रागद्वेषमोहा यस्य्âइषाम् एकतरस्य तावत् प्रतिपक्षम् आदौ भावयेत् तन्निदानं च वर्जयेत् ॥
तत्र्âर्यरत्नमेघे तावद् आह ।
स रागस्य प्रतिपक्षं भजते ।
राग्ôत्पत्तिप्रत्ययांश् च वर्जयति ।
कतमश् च स रागस्य प्रतिपक्षः ।
कतमे च ते राग्ôत्पत्तिप्रत्ययाः ।
अशुभाभावन्âरागस्य प्रतिपक्षः ।
जनपदकल्याणीराग्ôत्पत्तिप्रत्ययः ।
कतमा च स्âशुभाभावना ।
यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांस्âस्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः ।
अन्त्राण्य् अन्त्रगुण्âम्âशयः पक्व्âशयः ।
औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तकलुङ्गं*प्रस्रावः ।
एषु च वस्तुषु बोधिसत्व्ôपपरीक्षणजातीयो भवति ।

तस्य्âइवम् उपपरीक्षमाणस्य्âइवं भवति ।
यो ऽपि तावत् स्याद् बालो मूढः अभव्यो ऽकुशलः सो ऽपि तावद् एतानि वस्तूनि
[ बेन्दल्ल् एद् प्210 ---> ]
ज्ञात्वा रागचित्तं न्ôत्पादयेत् ।
प्राग् एव सप्रज्ञजातीयः ।
एवं हि बोधिसत्वो ऽशुभाभावनाबहुलो भवत्îति ॥
भगवत्याम् अप्य् उक्तं ।
पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापार-
[ चम्ब्रिद्गे म्स् f97ब् ---> ]
मितायां चरन्न् इमम् एवं कायं यथाभूतं प्रजानाति ।
तद् यथ्âपि नाम सुभूते गोघातको वा गोघातक्âन्तेवासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो ऽथवा निषण्णः ।
एवम् एव सुभूते बोधिसत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रजानाति ।
अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुर् अपि तेजोधातुर् अपि वायुधातुर् अप्îति ।
पे ॥
पुनर् अप्य् आह ।
तद् यथ्âपि सुभूते कर्षकस्य मूतोडी पूर्णा नानाधान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गोधूमानां मशूराणां सर्षपाणां ।तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः ।
एवंजातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिल्âमी तण्डुल्âमी मुद्र्âमी माषा यव्âमी गोधूम्âमी मशूर्âमी सर्षप्êति ॥
एवम् एव बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पादतलाद् अधः केशमस्तकनखरोमत्वक् रोमपर्यन्तं पूर्णं नानाप्रकारस्य्âशुचेर् यथाभूतं प्रत्यवेक्षते ।
सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तकलुङ्गम् अक्षिगूथं कर्णगूथम् इति ॥
पे ॥
पुनर् अपरं सुभूते बोधिसत्वः श्मशानगतः पश्यति नानारूपाणि मृतशरीराणि श्मशाने ऽपविद्धानि शवशयने उज्झितानि एक्âहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा प-
[ बेन्दल्ल् एद् प्211 ---> ]
ञ्च्âहमृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि ।
स्êमम् एव कायं तत्र्ôपसंहरति ।
अयम् अपि काय्âइवंधर्म्âइवंस्वभावः ।
एतां धर्मताम् अव्यतिवृत्तए इति ॥
एवं हि सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बहिर्धा काये काय्âनुदर्शी विहरति ॥
पे ॥
पुनर् अपरं यदा मृतशरीराणि श्मशाने उत्सृष्टानि पश्यति ।
षड्रात्रमृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो ऽन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि
[ चम्ब्रिद्गे म्स् f98अ ---> ]
स्êमम् एव कायं तत्र्ôपसंहरति ।
अयम् अपि काय्âइवंधर्म्âइवंस्वभावः ।
एतां धर्मतां न व्यतिवृत्तए इति ॥
पुनर् अपरं यदा मृतशरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अशुचीनि दुर्गन्धानि ।
स्êमम् एव कायं तत्र्ôपसंहरत्îति पूर्ववत् ॥
पे ॥
पुनर् अपरं यदा पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलिकां मांसशोणितम्रक्षितां स्नायुविनिबद्धां ।स तत्र्êमम् एव कायम् इति पूर्ववत् ॥
पुनर् अपरं यदा मृतशरीराणि पश्यति शिवपथिकायाम् अस्थिसंकलीभूतानि अपगतमांसशोणितस्नायुबन्धनानि ।
स्êमम् एव कायम् इति पूर्ववत् ॥

पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिक्षु क्षिप्तानि ।
यद् उत्âन्येन पाद्âस्थीनि ।
अन्येन जङ्घ्âस्थीनि ।
अन्येन च्ôर्वस्थीनि ।
अन्येन श्रोणिकटाहकं ।
[ बेन्दल्ल् एद् प्212 ---> ]
अन्येन पृष्ठवंशम् अन्येन पार्श्वक्âस्थीनि ।
अन्येन ग्रीव्âस्थीनि ।
अन्येन बाह्वस्थीनि ।
स्êमम् एव कायम् उपसंहरत्îति पूर्ववत् ॥
पे ॥
पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकाणि वात्âनुपरिशोषितानि शङ्खसन्निभानि ।
इमम् एव कायं तत्र्ôपसंहरत्îति पूर्ववत् ।
अयम् अपि काय्âइवंधर्म्âइवंस्वभाव्âइतां धर्मतां न व्यतिवृत्तए इति ॥
पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकाणि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांसुन्âसमसमीभूतानि स्êमम् एव कायं तत्र्ôपसंहरति अयम् अपि काय्âइवंधर्म्âइवंस्वभावः ।
एतां धर्मतां न व्यतिवृत्तए इति ॥
एष तावत् समासतो रागस्य समुदाचारप्रतिपक्षः ।
द्वेषस्य मैत्री प्रतिपक्षः ।
अप्रियसत्व्âदर्शनं च ।
तेन वा सह भोजन्âद्येक्âर्थतय्âप्रीत्युत्पादनं तत्र परसुखस्य्âशंसा प्रार्थना तृष्ण्âभिनन्दनं मैत्री ।
कामरागप्रत्युपकारहेतुभ्याम् अक्लिष्टः स्नेह्êत्य् अर्थः ॥
सा त्रिविध्âर्य्âक्षयमतिसूत्रे ऽभिहिता ।
सत्व्âरम्बणा मै-
[ चम्ब्रिद्गे म्स् f98ब् ---> ]
त्री प्रथमचित्त्ôत्पादिकानां बोधिसत्वानां ।
धर्म्âरम्बणा चर्याप्रतिपन्नानां बोधिसत्वानां ।
अनारम्बणा मैत्री अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्वानाम् इति ॥पुनर् बुद्ध्âरम्बणा बोधिसत्व्âरम्बणा श्रावकप्रत्येकबुद्ध्âरम्बणा सत्व्âरम्बणा च ।
तत्र सत्व्âरम्बणायाः पूर्वं प्रिये सत्वे हितसुख्ôपसंहारान् न ध्यानम् अभ्यस्य ।
तत्समे मैत्रीम् उपसंहरेत् ।
ततः परिचितेषु ।
तत्ôदासीनेषु ।
ततः समीपवासिषु ।
ततः स्वग्रामवासिषु ।
[ बेन्दल्ल् एद् प्213 ---> ]
एवं परग्रामे च ।
एवं यावद् एकां दिशम् अधिमुच्य स्फरित्व्ôपसंपद्य विहरति ।
एवं दशसु दिक्षु ।
बुद्ध्âद्यारम्बणायास् त्व् अयं प्रयासो न्âस्ति ॥सा च वज्रध्वजपरिणामनायाम् उक्ता ।
स बोधिसत्वचर्यायां चरन् यावन्ति कानिचिद् दृश्यन्ते रूपाणि मनोज्ञानि वा प्रतिकूलानि वा ।
एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनोज्ञा वा प्रतिकूला वा ।

अनवद्या विशुद्धाः कल्याण्ôदारप्रभास्वरा वा येन सौमनस्यं जायते ।
सुखम् अवक्रामति ।
प्रसादो जायते ।
प्रीतिः संभवति ।
प्रामोद्यं संतिष्ठते ।
हर्षः प्रादुर्भवति ।
दौर्मनस्यं निवर्तते ।
चित्तकल्यता प्रादुर्भवति ।
चित्तं कर्मण्यं भवति ।
आशयो मृदुभवति ।
इन्द्रियाणि प्रह्लादं गच्छन्ति ।
सततसुखं संवेदयमान्âइवं परिणामयति ।
सर्वबुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो ऽचिन्त्येन बुद्धविहारसुखेन समन्वागता भवन्त्व् अतुल्येन बुद्धसमाधिसुखेन सुसंगृहीता भवन्त्व् अनन्तसुखेन भूयस्या मात्रय्ôपस्तब्धा भवन्तु ।
अप्रमाणेन बुद्धविमोक्षसुखेन समन्वागता भवन्तु ।
अप्रमेयेण बुद्धप्रातिहार्यसुखेन सुसंगृहीता भवन्तु ।
अचिन्त्येन बुद्ध्âसंगविहारसुखेन सुपरिगृहीता भवन्तु ।
दुरासदेन बु-
[ बेन्दल्ल् एद् प्214 ---> ]
द्धवृषभितसुखेन्âभिछन्ना भवन्तु ।
अप्रमेयेण बुद्धबलसुखेन्âत्यन्तसुखिता भवन्तु ।
सर्ववेदितशान्तेन्âनुत्पत्तिसुखेन्âधिकारसुखा भवन्तु ।
असंगविहारसततसमाहितेन तथागतसुखेन्âद्वयसमुदा-
[ चम्ब्रिद्गे म्स् f99अ ---> ]
चारेण्âविकोपितसुखा भवन्तु ॥एवं बोधिसत्वस् तत्कुशलमूलं तथागतेषु परिणमय्य बोधिसत्वेषु परिणमयति ।
यद् इदम् अपरिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति ।
अपरिशुद्धानां सर्वज्ञत्âध्याशयानां परिशुद्धये ।
अपरिनिष्पन्नानां सर्वपारमितानां परिनिष्पत्तये ।
वज्र्ôपमस्य बोधिचित्त्ôत्पादस्य्âधिष्ठानाय ।
अनिवर्त्यस्य सर्वज्ञतासंनाहस्य्âप्रतिप्रस्रब्धये ।
बोधिसत्वानां कुशलमूलानां मार्गणतायै ।
सर्वजगत्समतास्थितस्य महाप्रणिधानस्य परिपूरये ।
सर्वबोधिसत्वविहाराणाम् अधिगमाय ।
सर्वबोधिसत्व्êन्द्रियाणां तीक्ष्ण्âभिज्ञतायै ।
सर्वबोधिसत्वकुशलमूलानां सर्वज्ञतास्पर्शनतायै ॥
स्âइवं तत्कुशलमूलं बोधिसत्वानाम् अर्थाय परिणमय्य बुद्धशासन्âवचरेषु सर्वश्रावकप्रत्येकबुद्धेषु तत्कुशलमूलम् एवं परिणामयति ।
ते केचित् सत्व्âइक्âच्छट्âसंहातमात्रम् अपि बुद्धशब्दं सृण्वति ।
धर्मशब्दं व्âर्यसंघपर्युपासनं वा कुर्वन्ति तेषां तत्कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति बुद्ध्âनुस्मृतिपरिपूर्यै परिणामयति ।
धर्म्âनुस्मृतिप्रयोगतायै परिणामयति ।
आर्यसंघगौरवाय परिणामयति ।
अचिरहितबुद्धदर्शनतायै परिणामयति ।

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc