भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय (अन्य संस्करण) · भाग 121140

न सेवते ।
न भजते ।
न पर्युपास्ते ।
न परिप्रश्नयति ।
न परिपृच्छति ।
किं कुशलं किम् अकुशलं किं करणीयं किं कृतं दीर्घरात्रम् अर्थाय हिताय सुखाय भवति ।
किं व्âकृतं दीर्घरात्रम् अनर्थाय्âहिताय्âसुखाय भवत्îति ।
सजडः सजडतरो भवति ।
मोहव्यूहो मानग्राही ।
अनिःसरणदर्शी ।
मारकर्म ॥
सअ मान्âभिभूतो बुद्ध्ôत्पादं विरागयति ।
पूर्वकुशलमूलं क्षपयति ।
नवं न्ôत्थापयति ।
अनिर्देशं निर्दिशति ।
विग्रहम् आरभते विवादबहुलश् च भवति ।
स्âइवं धर्मविहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महाप्रपातं पतेत् ।
अथ च पुनर् बोधिचित्तबल्âधीनाद् ऐश्वर्यं प्रतिलभते ।
स कल्पशतसहस्रेषु बुद्ध्ôत्पादं न्âसादयति ।
कुतः पुनर् धर्मश्रवणम् ।
इदं दशमं मारकर्म ॥
इमानि भो जिनपुत्र दश मारकर्माणि ।
यानि परिवर्ज्य बोधिसत्वा दश ज्ञानकर्माणि प्रतिलभन्ते ।
अत्र्âइव च ज्ञानकर्मसु पच्यते ।
निर्मानता सर्वसत्वेष्व् इति ॥
[ बेन्दल्ल् एद् प्153 ---> ]
आर्यराष्ट्रपालसूत्रे ऽप्य् उक्तं ।
अपायभूमिं ।
गतिम् अक्षणेषु ।
दरिद्रतां ।
नीचकुल्ôपपत्तिम् ।
जात्यन्ध्यदौर्बल्यम् अथ्âल्पस्थामतां ।
गृह्णन्ति ते मानवशेन मूढाः ॥
इति ॥
धर्मसंगीतिसूत्रे ऽप्य् उक्तं ।
सत्वक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रं यतश् च बुद्धक्षेत्राद् बुद्धधर्माणां लाभ्âगमो भवति ।
न्âर्हामि तस्मिन् विप्रतिपत्तुम् ।
एवं च्âस्य भवति ।
सर्वं सुचरितं दुश्चरितं च सत्वान् निश्रित्य प्रवर्तते ।
दुश्चरित्âश्रमाच् च्âपायाः प्रवर्तन्ते ।

सुचरित्âश्रयाद् देवमनुष्य्êति ॥
अत्âइव रत्न्ôल्काधारण्याम् अप्य् उक्तं ।
इह भो जिनपुत्राः प्रथमचित्त्ôत्पादिको बोधिसत्वः आदित्âइव सर्वसत्वानाम् अन्तिके दशप्रकारं चित्तम् उत्पादयति ।
कतमद् दशप्रकारं ।
तद् यथा ।
हितचित्ततां सुखचित्ततां दायाचित्ततां स्निग्धचित्ततां-
[ चम्ब्रिद्गे म्स् f76अ ---> ]
प्रियचित्ततां अनुग्रहचित्ततां आरक्षाचित्ततां समचित्ततां आचार्यचित्ततां शास्तृचित्ततां ।
इदं दशप्रकारं चित्तम् उत्पादयत्îति ॥
श्रद्धाबल्âधान्âवतारमुद्रासूत्रे ऽप्य् उक्तं ।
सर्वसत्वानां शिष्यत्व्âभ्युपगमे स्थितो ऽस्मि ।
परांश् च सर्वसत्वशिष्यत्व्âभ्युपगमे प्रतिष्ठापयिष्याम्îत्य् आश्वासं प्रतिलभते ॥
पेयालं ॥
सर्वसत्वेष्व् अवनमप्रणमनतायां प्रतिष्ठितो ऽस्म्îति पूर्ववत् ॥
तत्र्âवनमनप्रणमनतायां सर्वसत्वेषु निर्मानता ॥
तथ्âर्यविमलकीर्तिनिर्देशे ।
परिशुद्धबुद्धक्षेत्र्ôपपत्तये सर्वसत्वेषु शास्तृप्रेम्ôक्तं ।
लोकप्रसाद्âनुरक्ष्âर्थं त्व् आसनपादप्रख्यालनकर्म कुर्वत्âपि चेतसा स्त्रीषु व्âक्षणप्राप्तेषु वा विनिपतितेषु बोधिसत्वेन प्रेमगौरव्âभ्यासः कार्यः ॥
[ बेन्दल्ल् एद् प्154 ---> ]
उक्तं हि गण्डव्यूहे तस्य समनन्तरनिषण्णस्य तस्मिन् महासिंह्âसने सर्वः स जनकायो ऽभिमुखः प्राञ्जलिस्थितो ऽभूत् ।
तम् एव राजानं नमस्यमानः ॥
पे ॥
स खलु सर्वधर्मनिर्नादच्छत्रमण्डल निर्घोषो राजा तेषां याचनकानां सह दर्शनेन्âत्तमनस्कतरो राज्ञ्âनेन च त्रिसाहस्रचक्रवर्तिराज्यप्रतिलाभेन्âसीम्âप्राप्तकल्पपर्यवसानेन ।
यावत् शुद्ध्âवासदेवशान्तिविमोक्षमुखविहारेण्âपर्यन्तकल्प्âवसानेन ।
तद् यथा कुलपुत्र पुरुषस्य्âइक्âन्ततृष्णाचरितस्य मातापितृभ्रातृभगिनीमित्र्âमात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालवियुक्तस्य्âटवीकान्तारविप्रणष्टस्य तद्दर्शनकामस्य ।
तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्दर्शन्âवितृप्ततया ।
एवम् एव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्र मण्डलनिर्घोषस्य तेषां याचनकानां सह दर्शनेन महाप्रीतिवेगाः संजाताः ।
चित्ततुष्टिसुखम् अवक्रान्तं महांश् चित्त्ôदग्रतावेगः प्रादुर्भू-
[ चम्ब्रिद्गे म्स् f76ब् ---> ]
तो यावत् तेषु सर्वयाचनकेषु एकपुत्रकसंज्ञा मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा वर्णसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा परम्ôपकारिसंज्ञा बोधिमार्ग्ôपस्तम्भसंज्ञ्âचार्यशास्तृसंज्ञ्ôत्पद्येत्êति ॥
एवम् अन्यगतभावे सत्वानाम् अग्रतोगमन्ôपस्थान्âदिप्रसङ्गे सर्व्ôत्सर्गं स्मरेत् ।
एषाम् एव्âयम् आत्मीयः कायः ।
यथ्êष्टम् अत्र वर्तन्ताम् ।
पृथिवीशोधन्ôपलेपन्âदिष्व् इव स्वसुख्âर्थम् इति ।
अथवा स्वाम्य्-अप्रसादभीतेन्êव तत्प्रसाद्âर्थिन्êव तदाज्ञासंपादना मनसि कर्तव्या ।
भगवतो ऽप्य् उपस्थानं कुर्वतो ऽन्यगत्यभावात् ।
भिक्षुणा ग्लानेन्âङ्गीकृतं ॥
यथ्ôक्तं भिक्षुप्रकीर्णके ।
भगवान् आह ।
मा भाय भिक्षु मा भाय भिक्षु ।

अहं ते भिक्ष्ûपस्थास्यं ।
आहर भिक्षु चीवराणि यावत् ते धोपामि ।
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् ।
मा भगवान् एतस्य ग्लानस्य्âशुचिम्रक्स्.इतानि चीवराणि धोवतु ।
अहं भगवन् धोविष्यं ।
भगवान् आह ।
तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव ।
तथागतो उदकम् आ-
[ बेन्दल्ल् एद् प्155 ---> ]
सिञ्चिष्यति ।
अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति ।
भगवान् उदकम् आसिञ्चति ॥
पे ॥
अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु च्âनुपरिगृह्य बहिर्धा हरित्वा स्नापयेत् ।
भगवान् उदकम् आसिञ्चत्îति ।
आह च।
यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति ।
प्राणपरित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ॥
एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः ।
सिद्धिक्षेत्रं न्âन्यत् सत्वेभ्यो विद्यते जगति ॥
एते चिन्तामणयो भद्रघटा धेनवश् च कामदुघाः ।
गुरुवच् च देवत्êव च तस्माद् आराधनीयास् ते ॥
किं च निश्छद्मबन्धूनाम् अप्रमेय्ôपकारिणाम् ।
सत्व्âराधनम् उत्सृज्य निष्कृतिः का परा भवेत् ॥
शिरसा धारयाम् आस पुरा नाथो यथ्êप्सितम् ।
जटास्वध्युषितान् सत्वान् भूत्वा यत्नेन निश्चलः ॥
भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ॥
मह्âपकारिष्व् अपि तेन सर्वं कल्याणम् ए-
[ चम्ब्रिद्गे म्स् f77अ ---> ]
व्âचरणीयम् एषु ॥
स्वयं मम स्वामिन्âइव तावद् यद् अर्थम् आत्मन्य् अपि निर्व्यपेक्षाः ।
अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥
[ बेन्दल्ल् एद् प्156 ---> ]
येषां सुखे यान्ति मुदं मुन्îन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् ।
तत्तोषणात् सर्वमुन्îन्द्रतुष्टिस् तत्र्âपकारे ऽपकृतं मुनीनां ॥
आदीप्तकायस्य यथा समन्तान् ।
न सर्वकामैर् अपि सौमनस्यम् ।
सत्वव्यथायाम् अपि तद्वद् एव न प्रीत्युपायो ऽस्ति महाकृपाणाम् ॥
तस्मान् मया यज्जनदुष्खनेन ।
दुष्खं कृतं सर्वमहादयानां ।

तद् अद्य पापं प्रतिदेशयामि यत्खेदितास् ते मुनयः क्षमन्ताम् ॥
आराधनाय्âद्य तथागतानां सर्व्âत्मना दास्यम् उपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जन्âउघाः निघ्नन्तु वा तुष्यतु लोकनाथाः ॥
आत्मीकृतं सर्वम् इदं जगत् तैः कृप्âत्मभिर् न्âइव हि संशयो ऽत्र ।
दृश्यन्तए एते ननु सत्वरूपास् ।
तए एव नाथाः किम् अनादरो ऽत्र ॥
तथागत्âराधनम् एतद् एव स्व्âर्थस्य संसाधनम् एतद् एव ।
लोकस्य दुष्ख्âपहम् एतद् एव तस्मान् मम्âस्तु व्रतम् एतद् एव ॥
यथ्âइको राजपुरुषः प्रमथ्नाति महाजनं ।
विकरोति न शक्नोति दीर्घदर्शी महाजनः ॥
यस्मान् न्âइव स्âइकाकी तस्य राजबलं बलं ।
तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् ॥
यस्मान् नरकपालाश् च कृपावन्तश् च तद्बलं ।
तस्माद् आराधयेत् सत्वान् भृत्यश् चण्डनृपं यथा ॥
कुपितः किं नृपः कुर्याद् येन स्यान् नरकव्यथा ।
यत्सत्वदौर्मनस्येन कृतेन ह्य् अनुभूयते ॥
[ बेन्दल्ल् एद् प्157 ---> ]
तुष्टः किं नृपतिर् दद्याद् यद् बुद्धत्वसमं भवेत् ।
यत् सत्वसौमनस्येन कृतेन ह्य् अनुभूयते ॥
आस्तां भविष्यद्बुद्धत्वं सत्व्âराधनसंभवं ।
इह्âइव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥
प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिरजीवितं ।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥
मैत्र्âशयश् च यत् पूज्यः सत्वमाहात्म्यम् एव तत् ।
बुद्धप्रसादाद् यत् पुण्यं बुद्धमाहात्म्यम् एव तत् ॥
अत्âइव हि चन्द्रप्रदीपसूत्रे मैत्रीभावफलम् उद्भावितम् ।
यावन्ति पूजां बहुविध्âप्रमेयाः ।
क्षेत्रं शतेषु नियुत च बिम्बरेषू ।
तां पूज कृत्व्âतुलियनाय-
[ चम्ब्रिद्गे म्स् f77ब् ---> ]
कानां ।
संख्याकलापी [[दोउब्त्]] न भवति मैत्रचित्ते ॥
तस्माद् एवंविधेषु महादक्षिणीयेष्ûन्नतिं वर्जयेत् सदा ।
एषा च्ôन्नतिर् अयोनिशोमनस्कारात् संभवत्îति ॥तस्य्âनवतारे यत्नः कार्यः ।
यथ्ôक्तं रत्नमेघे ।
कथं च कुलपुत्र बोधिसत्वो ऽयोनिशोमनस्कार्âपगतो भवति ।
इह बोधिसत्व्âइकाकी रहोगतः प्रविवेकस्थितो न्âइवं चित्तम् उत्पादयति ।
अहं असंकीर्णविहारी ।
अहं प्रविवेकस्थितः ।
अहं प्रतिपन्नस् ताथागते धर्मविनये ।

ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्णविहारिणः ।
संसर्गबहुल्ôद्धुरास् ताथागताद् धर्मविनयात् ॥
[ बेन्दल्ल् एद् प्158 ---> ]
एवं हि बोधिसत्वो ऽयोनिशोमनस्कार्âपगतो भवति ॥
पुनर् अत्र्âइव्ôक्तम् ।
इह बोधिसत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति ।
न च तेन वीर्येण्âत्मानम् उत्कर्षयति ।
न परान् पंसयति ।
तस्य्âइवं भवति ।
को हि नाम सप्रज्ञजातीयः स्वकर्म्âभियुक्तः परांश् चोदयेत् ॥
एवं हि बोधिसत्वो ऽनुन्नतवीर्यो भवति ॥
एष तु पुण्यरक्षायाः संक्षेपो यद् बोधिपरिणामना ॥
तथा ह्य् उक्तम् आर्य्âक्षयमतिसूत्रे ।
न हि बोधिपरिणामितस्य कुशलमूलस्य्âन्तरा कश्चित् परिक्षयो यावद् बोधिमण्डनिषदनात् ।
तद् यथ्âपि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्य्ôदकबिन्दोर् न्âन्तर्âस्ति क्षयो यावन् न कल्पपर्यवसान ।
इति ॥
इति शिक्षासमुच्चये भोगपुण्यरक्षा सप्तमः परिच्छेदः ॥
पापशोधनं अष्टमः परिच्छेदः ।
उक्ता त्रयाणाम् अप्य् आत्मभाव्âदीनां रक्षा ।
शुद्धिर् अधुना वक्तव्या ।
किम् अर्थम् ।
शोधितस्य्âत्मभावस्य भोगः पथ्यो भविष्यति ।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्य्êव देहिनाम् ॥
यथ्ôक्तम् आर्यतथागतगुह्यसूत्रे ।
यानि च तानि महानगरेषु महाश्मशानानि भवन्त्य् अनेकप्राणिशतसहस्र्âकीर्णानि ।
तत्र्âपि स बोधिसत्वो महासत्वो*महान्तम् आत्मभावं मृतं का-
[ बेन्दल्ल् एद् प्159 ---> ]
लगतम् उपदर्शयति ।
तत्र ते तिर्यग्योनिगताः सत्वा यावद् अर्थं मांसं*परिभुज्य्âयुःपर्यन्ते मृताः कालगताः सुगतौ स्वर्गलोके देवेष्ûपपद्यन्ते ।
स च्âइव तेषां हेतुर् भवति यावत् परि-
[ चम्ब्रिद्गे म्स् f78अ ---> ]
निर्वाणाय ।
यद् इदं ।
तस्य्âइव बोधिसत्वस्य पूर्वप्रणिधानपरिशुद्ध्या ।
येन दीर्घरात्रम् एवं प्रणिधानं कृतं ।
ये मे मृतस्य कालगतस्य मांसं परिभुञ्जीरन् ।
स्âइव तेषां हेतुर् भवेत् स्वर्ग्ôत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः ।
ऋध्यति चेतना ।
ऋध्यति प्रार्थना ।
ऋध्यति प्रणिधानम् इति ॥

पुनर् अत्र्âइव्ôक्तं ।
स धर्मकायप्रभावितो दर्शनेन्âपि सत्वानाम् अर्थं करोति ।
श्रवणेन्âपि स्पर्शनेन्âपि सत्वानाम् अर्थं करोति ।
तद् यथ्âपि नाम शान्तमते जीवकेन वैद्यराजेन सर्वभैषज्यानि समुदानीय भैषज्यतरुसंहातम् अयं दारिकारूपं कृतं प्रासादिकं दर्शनीयं सुकृतं सुनिष्ठितं सुपरिकर्मकृतं ।
स्âगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति ।
तत्र ये आगच्छन्त्य् आतुरा मह्âत्मानो राजानो वा राजमात्रा वा श्रेष्ठिगृहपत्यमात्यकोट्टराजानो वा ।
तान् स जीवको वैद्यराजस् तया भैषज्यदारिकया सार्द्धं संयोजयति ।
तेषां समनन्तरसंयोगम् आपन्नानां सर्वव्याधयः प्रस्रभ्यन्ते ऽरागाश् च भवन्ति सुखिनो निर्विकाराः ।
पश्य शान्तमते जीवकस्य वैद्यराजस्य लौकिकव्याधिचिकित्साज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते ।
एवम् एव शान्तमते तस्य धर्मकायप्रभावितस्य बोधिसत्वस्य यावन्तः सत्वाः स्त्रीपुरुषदारकदारिका रागदोषमोहसंतप्ताः कायं स्पृशन्ति ।
तेषां संस्पृष्टमात्राणां सर्वक्लेशाः प्रस्रभ्यन्ते विगतसंतापं च कायं संजानन्ति ॥
यद् इदं तस्य्âइव बोधिसत्वस्य पूर्वप्रणिधानसुपरिशुद्धत्वात् ।
एतदर्थम् आत्मभावः शोध्यः ॥
किं च्âशोधने दोषम् आह ।तृणछन्नं यथा शस्यं रोगैः सीदति न्âइधते ।
बुद्ध्âङ्कुरस् तथा वृद्धिं क्लेशछन्नो न गच्छति ॥
[ बेन्दल्ल् एद् प्160 ---> ]
प्रतिपक्षनिरासेन वृद्ध्यर्थं च्êत्य् अभिप्रायः ॥
आत्मभावस्य का शुद्धिः ।
पापक्लेशविशोधनं ।
संबुद्ध्ôक्त्यर्थसारेण ।
यत्न्âभावे त्व् अपायगः ॥
तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितं ।
चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृत्ôपचितं पापम् अभिभवति ।
कतमैश् चतुर्भिः ।
यद् उत ।
विदूषण्âसमुदाचारेण प्रतिपक्षसमुदाचारेण ।
प्रत्यापत्तिबलेन ।
आश्रयबलेन च ॥
तत्र वि-
[ चम्ब्रिद्गे म्स् f78ब् ---> ]
दूषण्âसमुदाचारो ऽकुशलं कर्म्âध्यचारति तत्र तत्र्âइव च विप्रतिसारबहुली भवति ॥
तत्र प्रतिपक्षसमुदाचारः कृत्व्âप्य् अकुशलं कर्म कुशले कर्मण्य् अत्यर्थ्âभियोगं गतः ॥
प्रत्यापत्तिबलं संवरसमादानाद् अकरणसंवरलाभः ॥
तत्र्âश्रयबलं बुद्धधर्मसंघशरण गमनम् अनुत्सृष्टबोधिचित्तता च ।
सुबलवत्संनिश्रयेण न शक्यते पापेन्âभिभवितुं ।
एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृत्ôपचितं पापम् अभिभवत्îति ॥
तत्र कथं विदूषण्âसमुदाचारो भावयितव्यः ।
यथा सुवर्णप्रभास्ôत्तमसूत्रे ऽभिहितं ॥
समन्वाहरन्तु मां बुद्धाः कृपाकारुण्यचेतसः ।
ये च दशदिशि लोके तिष्ठन्ति द्विपद्ôत्तमाः ॥

[ बेन्दल्ल् एद् प्161 ---> ]
यच् च मे पापकं कर्म कृतं पूर्वं सुदारुणं ।
तत् सर्वं देशयिष्यामि स्थितो दशबल्âग्रतः ॥
मातापित्-र्न् अजानता बुद्धानाम् अप्रजानता ।
कुशलं च्âप्रजानता यत् तु पापं कृतं मया ॥
ऐश्वर्यमदमत्तेन कुलभोगमदेन च ।
तारुण्यमदमत्तेन यत् तु पापं कृतं मया ॥
दुश्चिन्तितं दुरुक्तं च दुष्कृतेन्âपि कर्मणा ।
अनादीनवदर्शिना यत् तु पापं कृतं मया ॥
बालबुद्धिप्रचारेण्âज्ञान्âवृतचेतसा ।
पापमित्रवशाच् च्âइव क्लेशव्याकुलचेतसा ॥
क्रीडारतिवशाच् च्âइव शोकरोगवशेन वा ।
अतृप्तधनदोषेण यत् तु पापं कृतं मया ॥
अनार्यजनसंसर्गैर् ईर्ष्यामात्सर्यहेतुना ।
शाठ्यदारिद्र्यदोषेण यत् तु पापं कृतं मया ॥
व्यसन्âगमकाले ऽस्मिन् कामानां भयहेतुना ।
अनैश्वर्यगतेन्âपि यत् तु पापं कृतं मया ॥
चलचित्तवशेन्âइव कामक्रोधवशेन वा ।
क्षुत्पिपास्âर्दितेन्âपि यत् तु पापं कृतं मया ॥
[ बेन्दल्ल् एद् प्162 ---> ]
पान्âर्थं भोजन्âर्थं च वस्त्र्âर्थं स्त्रीषु हेतुना ।
विचित्रैः क्लेशसंतापैर् यत् तु पापं कृतं मया ॥
कायवाङ्मनसां पापं त्रिधा दुश्चरितं चित्तं ।
यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥
यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथ्âइव च ।
अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥
यत् तु प्रत्येकबुद्धेषु बोधिसत्वेषु वा पुनः ।अगौरवं कृतं स्याद् धि तत् स्र्वं देशयाम्य् अहम् ॥
सद्धर्म-
[ चम्ब्रिद्गे म्स् f79अ ---> ]
भाणकेष्व् एव्âन्येषु गुणवत्सु वा ।
अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥
सद्धर्मः प्रतिक्षिप्तः स्याद् अज्ञानं तेन मे सदा ।
मातापितृष्व् अगौरवं तत् सर्वं देशयाम्य् अहम् ॥
मूर्खत्वेन बालत्वेन मानदर्प्âवृतेन च ।
रागद्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥
व्यवलोकयन्तु मां बुद्धाः समन्वाहृतचेतसः ।
अत्ययं प्रतिगृह्णन्तु कारुण्य्âर्पितचेतसः ॥
[ बेन्दल्ल् एद् प्163 ---> ]
यत् तु पापं कृतं पूर्वं मया कल्पशतेषु च ।
तस्य्âर्थं शोकचित्तो ऽहं क्र्पणीयो भय्âर्दितः ॥

भवामि पापकर्माणां सततं दीनमानसः ।
यत्र यत्र चरिष्यामि न च्âस्ति मे बलं क्वचित् ॥
सर्वे कारुणिका बुद्धाः सर्वे भयहरा जगे ।
अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥
क्लेशकर्मफलं मह्यं प्रवाहयन्तु तथागताः ।
स्नापयन्तु च मां बुद्धाः कारुण्यसरित्ôदकैः ॥
सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया ।
यच् च्âइतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥
आयत्यां संवरम् आपद्ये सर्वदुष्कृतकर्मणाम् ।
न छादयामि तत् पापं यद् भवेन् मम दुष्कृतम् ॥
त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् ।
मनसा त्रिप्रकारेण तत् सर्वं देशयाम्य् अहम् ॥
कायकृतं वाचकृतं मनसा च विचिन्तितं ।
कृतं दशविधं कर्म तत् सर्वं देशयाम्य् अहम् ॥
[ बेन्दल्ल् एद् प्164 ---> ]
यच् च मे पापकं कर्म्âनिष्टफलदायकं ।
तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥
भवगतिसंकटे बालबुद्धिना पापं यन् मे कृतं सुदारुणम् ।
दशबलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि ।
देशयामि च तत् पापं यन् मया संचितं जन्मसंकटे विविधैः कायप्रचारसंकटैर् भवसंकटलोकसंकटे चापलचलचित्तसंकटे मूर्खबालकृतक्लेशसंकटे ।
पापमित्र्âगमसंकटे च ।
भयसंकटरागसंकटे दोषमोहतमसंकटैर् अपि क्षणसंकटे कालसंकटे पुण्य्ôपार्जनसंकटैर् अपि ।
जिनसंकटसंमुखस्थितः ।
तत् सर्वपापं प्रतिदेशयामि ॥
विशेषतस् तु बोधिसत्व्âपत्तीनां गुर्वीणां लघ्वीनां देशन्âर्य्ôपालिपरिपृच्छायाम् उक्ता
[ चम्ब्रिद्गे म्स् f79ब् ---> ]
का पुनर् गुर्वी मूल्âपत्तिः ॥
सामान्यतस् तु तत्र्ôक्तं ।
सचेद् उपाले महायानसंप्रस्थितो बोधिसत्वो महासत्वो गङ्गानदीवालिक्ôपमा रागप्रतिसंयुक्त्âपत्तीर् आपद्येत ।
यां च्âइकतो द्वेषसंप्रयुक्ताम् आपत्तिम् आपद्येत बोधिसत्वयानं प्रमाणीकृत्य ॥
पे ॥
इयं ताभ्यो गुरुतर्âपत्तिर् य्êयं द्वेषसंयुक्ता ।
तत् कस्य हेतोः ।
यो ऽयं द्वेष्ôपाले सत्वपरित्यागाय संवर्तते ।
रागः सत्वसंग्रहाय संवर्तते ।
तत्र्ôपाले यः क्लेशः सत्वसंग्रहाय संवर्तते ।
न तत्र बोधिसत्वस्य छलं न भयं ॥
पे ॥
तस्मात् तर्हि त्वाम् उपाले याः काश्चन रागप्रतिसंयुक्त्âपत्तयः सर्व-स् त्âनापत्तय्êति वदामि ।
को ऽत्र्âभिप्रायः ।

सत्वसंग्रहस्य्âइव पूर्वम् एव विशेषितत्वाद् ।
अध्याशयकृपावतो ह्य् अयम् उपदेशः ॥
यस्माद् अनन्तरम् आह ।
तत्र्ôपाले ये ऽनुपायकुशला बोधिसत्वास् ते रागप्रतिसंयुक्ताभ्य्âपत्तिभ्यो बिभ्यति ।
ये पुनर् उपायकुशला-
[ बेन्दल्ल् एद् प्165 ---> ]
बोधिसत्वास् ते द्वेषसंप्रयुक्ताभ्य्âपत्तिभ्यो बिभ्यति न रागप्रतिसंयुक्ताभ्य्êति ॥
के पुनर् उपायकुशलाः ।
ये प्रज्ञाकृपाभ्यां सत्वत्यागान् निवार्यन्ते ।
उभयथा हि सत्वत्यागो भवति ।
केवलप्रज्ञया दुष्खशून्यत्âवबोधात् ।
केवलया च कृपया क्लेशबलाद् अचिरेण कृपाहानिः ॥
यद् उक्तम् उपायकौशल्यसूत्रे ।
तद् यथा कुलपुत्र मंत्रविद्याधरः पुरुषो राज्ञा पञ्चपाशकेन बन्धनेन बद्धः स्यात् ।
स यदा काङ्क्षेत प्रक्रमणाय तद्âइकमन्त्रविद्याबलेन सर्वबन्धनानि छित्त्वा प्रक्रमेत् ।
एवम् एव कुलपुत्र्ôपायकुशलो बोधिसत्वः पञ्चभिः कामगुणै रतिं विन्दति तैश् च्âकीर्णो विहरति ।
यदा च पुनर् आकाङ्क्षते तदा प्रज्ञाबल्âधीनेन्âइकेन च सर्वज्ञताचित्तेन सर्वकामगुणान् प्रभुज्य च्युतो ब्रह्मलोकए उपपद्यतए इति ॥द्वेषे ऽपि किं न्âइवम् इष्यते ।
प्रकृतिमहास्âवद्यत्वात् ।
कृपावैकल्ये च्ôपायस्य्âइव्âसंभवात् ॥
पर्âर्थसिद्धिं वा स्व्âर्थाद् गुरुतराम् अधिमुच्यमानः कोपपरवत्तय्âपि परम् अनुशास्य्âनुतापपूर्वकम् आयत्यां संवरम् उत्पद्यते ।
अहितनिवारके क्रोधे को दोषः ।
अवकाश-
[ चम्ब्रिद्गे म्स् f80अ ---> ]
दानेन तद्वासनादोषात् कृपाहानिदोषः ।
तच्छेदेन मूलच्छेददोष्êति पश्चाद् दर्शयिष्यामः ।
यद्य् अपि तस्य सत्वस्य तद्धितं तथ्âपि बोधिसत्वकृपाहान्या महतः सत्व्âर्थ्âनुबन्धस्य हानिः स्यात् ॥
आर्यसत्यके परिवर्त्ते ऽपि पुत्रदृष्ट्âन्तः करुण्âधिष्ठित्âइव वेदितव्यः ।
यश् च तत्र्âपि कृपाप्रतिषेधः स लोक्âर्थपाण्डित्येन लोक्âवर्जन्âर्थं ।
निवार्यमाणश् च यदि हितकामे बो-
[ बेन्दल्ल् एद् प्166 ---> ]
धिसत्वे प्रतिघं लभेत स बोधिसत्वः स्याद् उभयोर् अनर्थः ॥
रागे ऽपि तर्हि दोषः पठ्यते ।
काम्âनुषेवणि भोति अन्ध मनुजो ।
मातापितृघातयी ।
कामान् सेवतु शीलवन्तु वधयी ।
तस्माद् विवर्जेत् सद्êति ॥
स्वसौख्यसंगेन च परदुष्ख्ôपेक्षा दृष्टा ॥
सत्यं दृष्टा ।
येन परदुष्खं स्वदुष्खतया न्âभ्यस्तं ।
येन त्व् अभ्यस्तं ।

तस्य्ôभयदोष्âसंभवः ॥
यथ्ôक्तं चन्द्रप्रदीपसूत्रे ।
तद् यथ्âपि नाम्âनन्द कश्चिद् एव पुरुषो ऽधस्तात् पादतलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् ।
संप्रज्वलित्âइकज्वलीभु-तस् तं क?स्चिद् एव पुरुष्ôपसंक्रम्य्âइवं वदेद् ।
एहि त्वां भोः पुरुष निर्वापितेन्âत्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्व्êति ।
तत् किं मन्यसे आनन्द ।
अपि तु स पुरुषो ऽनिर्वापितेन्âत्मभावेन पञ्चभिः कामगुणैः क्रीडेत रमेत् परिचरेत् ॥
आनन्द्âह ॥
न्ô ह्îदं भगवन् ॥
भगवान् आह ।
क्रीडेत्âनन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादाय्âपरिनिर्वापितेन्âत्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतो ।
न त्व् एवं तथागतस्य पूर्वं बोधिसत्वचर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्तप्रसादो व्êति विस्तरः ॥
लोके ऽपि पुत्रे शूलम् आरोप्यमाणे ।
पश्यतोर् मातापित्रोर् न स्वसौख्यसंगो दृष्टः स्व्âनुरूपकृपावशात् ।
प्रच्छन्नस् तर्हि सस्वामिकासु निस्वामिकासु बाहुलधर्मध्वजरक्षितासु काममिथ्य्âचारो न स्यात् ।
सति सत्व्âर्थे सत्व्âनुपघाते च्âनुबन्धं निरूप्य्âदोषः
[ चम्ब्रिद्गे म्स् f80ब् ---> ]
॥
सम्यग्ब्रह्मचारिणीषु कृत्âर्थत्वाद् दूरात् परिहारः ।
पूज्या च मातृभगिन्य्-आदिवत् ।
एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं ।
न तस्य्âपरेण ब्रह्मचर्यप्रकारेण सत्व्âर्थसाधनात् ॥
[ बेन्दल्ल् एद् प्167 ---> ]
तथा ह्य् उक्तम् आर्य्âक्षयमतिसूत्रे ।
काल्âकाले पुनर् अनेन्ôपेक्षा करणीय्êति ॥
अथ ततो ऽप्य् अधिकं सत्व्âर्थं पश्येत् ।
शिक्षां निक्षिपेत् ॥
उपायकौशल्यसूत्रे ज्योतिर्माणवकं द्वाचत्वारिंशद्वर्षसहस्रब्रह्मचारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत ।
किं च्âप्य् अहम् इदं व्रतं खण्डयित्वा निरयपरायणः स्यां ।
तथ्âप्य् उत्सहे ऽहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ च्êयं स्त्री सुखिता भवतु ।
मा कालं करोतु ।
इति हि कुलपुत्र ज्योतिर्माणवकः पश्चान्मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्व्âइवम् आह ।
उत्तिष्ठ भगिनि यथाकामकरणीयस् ते भवाम्îति ॥
पे ॥
सो ऽहं कुलपुत्र महाकारुण्यचित्त्ôत्पादेन्êत्वरेण काम्ôपसंहितेन दशकल्पसहस्राणि पश्चान्मुखम् अकार्षम् ।
पश्य कुलपुत्र यद् अन्येषां निरयसंवर्तनीयं कर्म ।
तद् उपायकुशलस्य बोधिसत्वस्य ब्रह्मलोक्ôपपत्तिसंवर्तनीयम् इति ॥
पुनर् अत्र्âइव्âह ।
यदि बोधिसत्व्âइकस्य सत्वस्य कुशलमूलं संजनयेत् तथारूपां च्âपत्तिम् आपद्येत यथारूपय्âपत्त्य्âपन्नया कल्पशतसहस्रं निरये पच्येत ।
उत्सोढव्यम् एव भगवन् बोधिसत्वेन्âपत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं ।

न त्व् एव तस्य्âइकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥
पुनर् अत्र्âइव्âह ।
इह कुलपुत्र्ôपायकुशलो बोधिसत्वो यदा कदाचित् कस्मिंश्चित् पापमित्रवशेन्âपत्तिम् आपद्येत ।
स्êतः प्रतिसंशिक्षते ।
न मय्âइभिः स्कन्धैः परिनिर्वापयितव्यं ।
मया पुनर् एवं संनाहः संनद्धव्यः ।
अपर्âन्तकोटिः संसरितव्या सत्वानां परिपाचनहेतोर् इति ।
न मया चित्तदाहः करणीयो ।
यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि ।
अपि त्व् एतां च्âपत्तिं यथाधर्मं प्रतिकरिष्यामि ।
आयत्यां संवरम् आपत्स्ये ।
सचेत् कुलपुत्र प्रव्रजितो बोधिसत्वः परिकल्पम् आदा-
[ चम्ब्रिद्गे म्स् f81अ ---> ]
य सर्वाश् चतस्रो मूल्âपत्तीर् अतिक्रमेद् अनेन च्ôपायकौशल्येन विनोदयेद् ।
अनापत्तिं बोधिसत्वस्य वदाम्îति ॥
[ बेन्दल्ल् एद् प्168 ---> ]
स्फुटं च्âर्यरत्नमेघे आनन्तर्यचिकीर्षुपुरुषमारण्âनुज्ञानात् ॥
श्रावकविनये ऽपि मूल्âपत्तिस्थानए एव कारुण्यान् मृग्âदिमोक्षणे ऽनापत्तिर् उक्त्âइव ॥
अयं च रागे गुणो यद् बोधिसत्वे रागम् उत्पाद्य सुगतिर् लभ्यते ।
न तु क्रोधेन ॥
यथ्ôक्तम् उपायकौशल्यसूत्रे ।
प्रियंकरे बोधिसत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य ।
प्रियंकरस्य प्रणिधेः पुनः पुनर् य्êस्त्रि प्रेक्षेत सरागचित्ता ।
स्êस्त्रिभावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदारसत्वः ॥
पश्यस्व्âनन्द गुण्âस्य्êदृशाः ।
येन्âन्यसत्वा निरयम् व्रजन्ति ।
तेन्âइव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥
पे ॥
भैषज्यराजेषु महायशेषु ।
को बोधिसत्वेषु जनयेत द्वेषम् ।
येसां किलेशो ऽपि सुखस्य दायकः ।
किं वा पुनर् यः तान् सत्करेया ।
इति ॥
एवम् अन्यस्मिन् सत्व्âर्थ्ôपाये सति रागज्âपत्तिर् अनापत्तिर् उक्ता ॥
उपायकौशल्यसूत्रे च गणिकावत् कृत्âर्थो बोधिसत्वो निरपेक्षस् तं सत्वं त्यजत्îति विस्तरेण्ôक्तम् ॥
अलब्धभूमेश् च षट्पारमितासु चरितवत्êयं चिन्ता ।
न्êतरस्य्êत्य् आस्तां प्रासङ्गिकम् ॥
तस्माद् द्वेषस्य्âवकाशो न देय ।
उक्तं ह्य् उपालिपरिपृच्छायां ।
बोधिसत्वानां शारिपुत्र द्वे महास्âवद्ये आपत्ती ।

कतमे द्वे ।
द्वेषसहगता मोहसहगता च्êति ।
तत्र शारिपुत्र प्रथमा
[ बेन्दल्ल् एद् प्169 ---> ]
आपत्तिर् दशवर्गे ऋजुकेन देशयितव्या ।
हस्त्âपत्तिः पञ्च वर्गे गुर्वी देशयितव्या ।
स्त्रिया हस्तग्रहणं चक्षुर्दर्शनं ।
दुष्टचित्त्âपत्तिर् एकपुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् ।
पञ्च्âनन्तर्यसमन्वागत्âपत्तिर् बोधिसत्वेन स्त्र्य्-आपत्तिर् दारिक्âपत्तिर् हस्त्âपत्तिः स्तूप्âपत्तिः संघ्âपत्तिस् तथ्âन्याश् च्âपत्तयो बोधिसत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिंदिवं एकाकिना गुर्व्यो देशयितव्याः ॥
तत्र्êयं देशना ।
अहम् एवंनामा बुद्धं शरणं गच्छामि ।
धर्मं शरणं गच्छामि ।
संघं शरणं गच्छामि ॥
नमः शाक्यमुनये तथागताय्âर्हते सम्यक्संबुद्धाय ।
नमो वज्रप्रमर्दिने ।
नमो रत्न्âर्चिषे ।
नमो नाग्êश्वरराजाय ।
नमो वीरसेनाय ।
नमो वीरनन्दिने ।
नमो रत्नश्रिये ।
नमो रत्नचन्द्रप्रभाय ।
नमो ऽमोघदर्शिने ।
नमो रत्नचन्द्राय ।
नमो निर्मलाय ।
नमो विमलाय ।
नमः शूरदत्ताय ।
नमो ब्रह्मणे ।
नमो ब्रह्मदत्ताय ।
नमो वरुणाय ।
नमो वरुणदेवाय ।
नमो भद्रश्रिये ।
नमश् छन्दनश्रिये ।
नमो ऽनन्त्âउजसे ।
नमः प्रभासश्रिये
[ चम्ब्रिद्गे म्स् f81ब् ---> ]
नमो ऽशोकश्रिये ।
नमो नारायणाय ।
नमः कुसुमश्रिये ।
नमो ब्रह्मज्योतिर्विक्रीडित्âभिज्ञाय तथागताय ।
नमो धनश्रिये ।

नमः स्मृतिश्रिये ।
नमः सुपरिकीर्तितनामधेयश्रिये ।
नम्êन्द्रकेतुध्वजराजाय ।
नमः सुविक्रान्तश्रिये ।
नमो विचित्रसंक्रमाय ।
नमो विक्रान्तगामिने ।
नमः समन्त्âवभासव्यूहश्रिये ।
नमो रत्नपद्मविक्रामिणे ।
नमो रत्नपद्मसुप्रतिष्ठितशैल्êन्द्रराजाय तथागताय्âर्हते सम्यक्संबुद्धाय ॥
एवंप्रमुखा यावन्तः सर्वलोकधातुषु तथागत्âर्ह-
[ बेन्दल्ल् एद् प्170 ---> ]
न्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ।
ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मय्âस्यां जातौ अन्यासु वा जातिष्व् अनवर्âग्रे जातिसंसारे संसरता [[दोउब्त्]] पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं व्âनुमोदितं भवेत् ।
स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं व्âनुमोदितं भवेत् ।
पञ्च्âनन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि व्âनुमोदितानि भवेयुः ।
दश्âकुशलान् कर्मपथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना व्âनुमोदिता भवेयुर् येन कर्म्âवरणेन्âवृतो ऽहं निरयं वा गच्छेयं तिर्यग्योनिं वा यमविषयं वा गच्छेयं प्रत्यन्तजनपदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घ्âयुष्केषु देवेष्ûपपद्येयम् इन्द्रियविकलतां व्âधिगच्छेयं मिथ्यादृष्टिं व्ôपगृह्णीयां बुद्ध्ôत्पादं वा विरागयेयं ।
तत् सर्वं कर्म्âवरणं तेषां बुद्धानां भगवतां ज्ञानभूतानां चक्षुर्भूतानां स्âक्षिभूतानां प्रमाणभूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये ।
समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मय्âस्यां जाताव् अन्यासु वा जातिष्व् अनवर्âग्रे वा जातिसंसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्योनिगता-
[ चम्ब्रिद्गे म्स् f82अ ---> ]
य्âप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्मचर्यवासकुशलमूलं यच् च मे सत्वपरिपाककुशलमूलं यच् च मे बोधिचित्तकुशलमूलं यच् च मे ऽनुत्तरज्ञानकुशलमूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्व्âभिसंक्षिप्य्âनुत्त्
अरायां सम्यक्संबोधûत्तर्ôत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अनागता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्युत्पन्ना बुद्धा भगवन्तः ।
तथ्âहम् अपि परिणामयामि ।
सर्वं पुण्यम् अनुमोदयामि ।
सर्वान् बुद्धान् अध्येषयामि ।
भवतु मे ज्ञानम् अनुत्तरम् ।
ये च्âभ्यतीतास् तथ्âपि च ये ऽनागता ये च्âपि तिष्ठन्ति नर्ôत्तमा जिनाः ।
अनन्तवर्णान् गुणसागर्ôपमान् उपैमि सर्वान् शरणं कृत्âञ्जलिः ।
ये बोधिसत्वाः करुणबलैर् उपेता विचरति लोके सत्वहिताय शूराः त्रायन्तु ते मां सदपापकारिणं [[दोउब्त्]] ।
शरणं यामि तान् बुद्धबोधिसत्वान् ॥
[ बेन्दल्ल् एद् प्171 ---> ]
इति हि शारिपुत्र बोधिसत्वेन्êमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागत्âनुगतैर् मनसिकारैः पापशुद्धिः कार्या ।
तस्य्âइवं सर्वपापविशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्वविमोक्ष्âर्थम् एव ।
नानाव्यञ्जन्âकारम् उपदर्शयन्ति विभ्रान्तबालपृथग्जनानां परिपाचनाहेतोः ॥
पे ॥
न शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैर् आपत्तिकौकृत्यस्थानं विशोधयितुं यद् बोधिसत्वस् तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेन्âपत्तिकौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥
उक्तो विदूषण्âसमुदाचारः ।
प्रतिपक्षसमुदाचार्ôच्यते ।
तत्र गम्भीरसूत्र्âन्तपरिचयात् पापक्षयो भवति ॥
यथा वज्रच्छेदिकायाम् उक्तं ।
ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमान् एवंरूपान् सूत्र्âन्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति ।

ते परिभूता भविष्यन्ति सुपरिभूताः ।
तत् कस्य हेतोः ।
यानि तेषां सत्वानां पौर्वजन्मिकानि कर्माणि कृतान्य् अपायसंवर्तनीयानि ।
तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्धबोधिं च प्राप्स्यन्त्îति ॥
शून्यता-
[ चम्ब्रिद्गे म्स् f82ब् ---> ]
अधिमुक्त्य्âपि पापशुद्धिर् भवति तथागतकोषसूत्रे वचनात् ।
यः काश्यप पिता च स्यात् प्रत्येकबुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राण्âतिपातानां ।
इदम् अग्रम् अदत्त्âदानानां यद् उत त्रिरत्नद्रव्य्âपहरणता ।
इदम् अग्रं काममिथ्य्âचाराणां यद् उत माता स्याद् अर्हन्ती च ।
इदम् अग्रं मृषावादानां यद् उत तथागतस्य्âभ्याख्यानं ।
इदम् अग्रं पैशुन्यानां यद् उत्âर्य-
[ बेन्दल्ल् एद् प्172 ---> ]
संघस्य्âवर्णः ।
इदम् अग्रं पारुष्याणां यद् उत्âर्याणाम् अवस्फण्डनं ।
इदम् अग्रं संभिन्नप्रलापानां यद् उत धर्मकामानां विक्षेपः ।
इदम् अग्रं व्यापादानां यद् उत्âनन्तर्यपरिकर्षणम् ।
इदम् अग्रम् अभिध्यानां यद् उत सम्यग्गतानां लाभहरणचित्तता ।
इदम् अग्रं मिथ्यादृष्टीनां यद् उत गहनतादृष्टिः ।
इमे काश्यप दश्âकुशलाः कर्मपथा महास्âवद्याः ।
सचेत् काश्यप्âइकसत्व्âइभिर् एवं महास्âवद्यैर् दशभिर् अकुशलैः कर्मपथैः समन्वागतो भवेत् ।
स च तथागतस्य हेतुप्रत्ययसंयुक्तां धर्मदेशनाम् अवतरेन् ।
न्âत्र कश्चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अकृताम् अनभिसंस्कारां मायाधर्मताम् असंक्लेशधर्मतां प्रकृतिप्रभास्वरतां सर्वधर्माणाम् अवतरत्य् आदिशुद्धान् सर्वधर्मान् अभिश्रद्दधात्य् अधिमुच्यते ।
न्âहं तस्य सत्वस्य्âपायगमनं वदाम्îति ॥
कर्म्âवरणविशुद्धिसूत्रे ऽप्य् उक्तं ।
पुनर् अपरं मञ्जुश्रीर् यो बोधिसत्व्âपत्तिम् अनापत्तिं पश्यति ।
अविनयं विनयं पश्यति ।
संक्लेशं व्यवदानं पश्यति ।
संसारधातुं निर्वाणधातुं पश्यति ।
स कर्म्âवरणविशुद्धिं प्रतिलभतए इति ॥
त्रिसमयराजे ऽपि पापप्रतिपक्षसमुदाचार्ôक्तः ॥
अक्षिणी निमील्य बुद्धबोधिसत्व्â-
[ बेन्दल्ल् एद् प्173 ---> ]
लम्बनचित्तः शत्âक्षरम् अष्टसहस्रं जपेत् ।
निमीलित्âक्ष्âइव बुद्धबोधिसत्वान् पश्यति विगतपापो-
[ चम्ब्रिद्गे म्स् f83अ ---> ]
भवति ।
अथवा चैत्यं प्रदक्षिणीकुर्वन्न् अष्टसहस्रं जपेच् चैत्यप्रतिमायाः सद्धर्मपुस्तकानां च्âइकतमं पुरस्कृत्य्âयम् एव विधिर् इति ॥
चुन्दाधारणीं वा तावज् जपेद् यावत् पापक्षयनिमित्तानि पश्यति स्वप्ने ।
तद् यथा क्रन्दन्âदिछर्दनदधिक्षीर्âदिभोजनात् तु विगतपापो भवति ।

वमनाद् वा चन्द्रसूर्यदर्शनाद् आकाशगमनाज् ज्वलित्âनलमहिषकृष्णपुरुषपराजयाद् भिक्षुभिक्षुणीसंघदर्शनात् क्षीरवृक्षगज वृषगिरिसिंह्âसनप्रासादन्âवरोहणाद् धर्मश्रवणाच् च पापक्षयः संलक्षयितव्यः ॥
तथागतबिम्बपरिवर्ते ऽपि प्रतिपक्षसमुदाचार्ôक्तः ।
तद् यथा पुरुषो मीढ्âवलिप्तः सुधौतुस्नानं कृत्वा गन्धैर् विलिप्यते ।
तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्च्âनन्तर्यकारिणस् तत् पापं विगच्छति ।
यो ऽपि दश्âकुशलकर्मपथसमन्वागतस् तथागते श्रद्धां प्रतिलभ्य तथागतबिम्बं कारयेत् तस्य्âपि तत् पापं न प्रज्ञायते विशेषतो बोधिचित्तसमन्वागतस्य ।
विशेषतो ऽभिनिष्क्रान्तगृह्âवासस्य शीलवत्êति ॥
पुष्पकूटधारण्याम् अप्य् उक्तं ।
यश् च खलु पुनः सिंहविक्रीडिततथागतं संमुखं वर्षं वा वर्षसहस्रं वा वर्षशतसहस्रं वा सर्वसुख्ôपधानैर् उपतिष्ठेद् ।
यश् च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तसंगृहीत्âइकपुष्पम् आरोपयेत् तथागतपूजायै जन्âञ्जलिं च्ôपनामयेज् जलेन वा सिञ्चयेद् इषिकापदं वा दद्यान् निर्माल्यं च्âपनयेद् उपलेपनप्रदानं वा पुष्पप्रदानं वा दीपप्रदानं वा कुर्याद् आत्तमनाः एकक्रमव्यतिहारं व्âतिक्रम्य वाचं भाषते ।
नमस् तस्मै बुद्धाय भगवत्êतिमात्रे ऽत्र सिंहविक्रीडितकाङ्क्षा वा विमतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेन् न्êदं-
[ चम्ब्रिद्गे म्स् f83ब् ---> ]
स्थानं विद्यतए इति ॥
[ बेन्दल्ल् एद् प्174 ---> ]
भैषज्यगुरुवैदूर्यप्रभराजसूत्रे ऽप्य् उक्तं ।
ये पञ्च शिक्षापदानि धारयन्ति ।
ये दश शिक्षापदानि धारयन्ति ।
ये च बोधिसत्वसंवरं चतुर्थं शतं शिक्षापदानां धारयन्ति ।
ये पुनर् अभिनिष्क्रान्तगृह्âवासा भिक्षवः पञ्चाश्âधिके द्वे शिक्षापदशते धारयन्ति ।
याश् च भिक्षुण्यः पञ्चशिक्षापदशतानि धारयन्ति ।
ये च यथापरिगृहीताच् छिक्षासंवराद् अन्यतराच् छिक्षापदाद् भ्रष्टा भवन्ति ।
सचेत् ते दुर्गतिभयभीतास् तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं धारयेयुर् यथाविभवतश् च पूजां कुर्युः ।
न भूयस् तेषाम् अपायगतिः प्रतिकाङ्क्षितव्या ॥
अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म ।
श्रद्दधासि त्वम् आनन्द ।
पत्तीयसि ।
यद् अहं तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य गुणान् वर्णयामि ।
अथ ते काङ्क्षा वा विमतिर् वा विचिकित्सा व्âत्र गम्भीरे बुद्धगोचरे ॥
अथ्âयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् ।
न मे भदन्त भगवन् काङ्क्षा वा विमतिर् वा विचिकित्सा वा तथागतभाषितेषु सूत्र्âन्तेषु ।
तत् कस्य हेतोः ।
न्âस्ति तथागतानाम् अपरिशुद्धकायवाङ्मनःसमुदाचारता ।
इमौ भगवन् चन्द्रसूर्याव् एवं महर्द्धिकाव् एवं मह्âनुभावौ पृथिव्यां पतेतां ।
सुमेरुः पर्वतराजा स्थानाच् चलेत् ।
न तु बुद्धानां वचनम् अन्यथा भवेत् ॥
किंतु भदन्त भगवन् सन्ति सत्वाः श्रद्ध्êन्द्रियविकला ये बुद्धगोचरं श्रुत्वा न श्रद्दधति ।
तेषाम् एवं भवति ।
कथम् इदं नामधेयं स्मरणमात्रेण तस्य तथागतस्य्âइत्तका गुण्âनुशंसा भवति ।
ते न श्रद्दधति ।
न पत्तीयन्ति ।
प्रतिक्षिपन्ति ।

तेषां दीर्घरात्रम् अनर्थाय्âहिताय्âसुखाय विनिपाताय भविष्यति ॥
भ-
[ चम्ब्रिद्गे म्स् f84अ ---> ]
गवान् आह ।
अस्थानम् आनन्द्âनवकाशो येषां तस्य नामधेयं निपतेत् कर्णे तेषां दुर्गत्यपायगमनं भवेद् इति ।
दुःश्रद्धानीयश् च्âनन्द बुद्धानां बुद्धगोचरः ।यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि ।
[ बेन्दल्ल् एद् प्175 ---> ]
तथागतस्य्âइषो ऽनुभावो द्रष्टव्यः ।
अभूमिश् च्âत्र श्रावकप्रत्येकबुद्धानां स्थापयित्व्âइकजातिप्रतिबद्धान् बोधिसत्वान् महासत्वान् इति ॥
अत्र्âइव च्ôक्तं ।
ये च्âन्ये श्राद्धाः कुलपुत्रा वा कुलदुहितरो व्âष्ट्âङ्गसमन्वागतम् उपवासम् उपवसन्ति ।
एकवार्षिकं वा त्रैवार्षिकं वा शिक्षापदं धारयन्ति ।
येषाम् एवम् अभिप्रायः एवं प्रणिधानं ।
अनेन वयं कुशलमूलेन पश्चिमायां दिशायां सुखावत्यां लोकधातûपपद्येम यत्र्âमिताभस् तथागतः ।
यैः श्रुतं भविष्यति तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभवराजस्य तथागतस्य नामधेयं ।
तेषां मरणकालसमये ऽष्टौ बोधिसत्वा ऋद्ध्य्âगत्य मार्गम् उपदर्शयन्ति ।
ते तत्र नानारङ्गेषु पद्मेष्ûपपादुकाः प्रादुर्भवन्ति ।
केचित् पुनर् देवलोकए उपपद्यन्ते ।
तेषां तत्र्ôपपन्नानां तत् पूर्वकं कुशलमूलं न क्षीयते ।
दुर्गतिविनिपातभयं च न भविष्यति ।
ते ततश् च्युत्êह मनुष्यलोके राजानो भवन्ति ।
चतुर्द्वीप्êश्वराश् चक्रवर्तिनः ।
अनेकानि सत्वकोटीनियुतशतसहस्राणि दश कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति ।
अपरे पुनः क्षत्रियमहाशालकुलेष्ûपपद्यन्ते ।
ब्राह्मणमहाशालकुलेष्ûपपद्यन्ते ।
गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोषकोष्ठ्âगारकुलेष्ûपपद्यन्ते ।
ते रूपसंपन्ना भवन्ति ।
परिवारसम्पन्ना भवन्ति ॥
तत्र्âइव्ôक्तं ।
येन च पुनर् मातृग्रामेण तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं श्रुतं भविष्यति ।
उद्गृहीतं वा ।
स तस्य पश्चिमो मातृग्रामभा-
[ चम्ब्रिद्गे म्स् f84ब् ---> ]
वः प्रतिकाङ्क्षितव्य्êति ॥
मञ्जुश्रीबुद्धक्षेत्रगुणव्यूह्âलंकारसूत्रे ऽप्य् उक्तं ।
ज्ञान्ôत्तरप्रभाकेतुं प्रणिधानमतिं तथा ।
शान्त्êन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्य् अहम् ॥
[ बेन्दल्ल् एद् प्176 ---> ]
य्âइषां बोधिसत्वानां नामधेयं तु धारयेत् ।
एतस्य मातृग्रामस्य स्त्रीभावो न भविष्यति ॥

उक्तः संक्षेपात् प्रतिपक्षसमुदाचारः ॥
प्रत्यापत्तिबलम् अधुन्ôच्यते ॥
यथ्ôक्तम् आर्यक्षितिगर्भसूत्रे ।
प्राण्âतिपातात् प्रतिविरतो भवति बोधिसत्वो महासत्वः सर्वसत्वानाम् अभयंददः ।
अनुत्त्रासो ऽनुपायासो ऽलोमहर्षः स तेन कुशलमूलेन कर्मविपाकेन ।
यत् पूर्व्âन्तकोटिपञ्चगतिचक्र्âरुढेन संसारनद्य्-उद्यातेन प्राण्âतिपातहेतुना कायवाङ्मनसा कर्म्âवरणं क्लेश्âवरणं धर्म्âवरणं कृतं वा स्यात् कारितं व्âनुमोदितं स्यात् ।
तत् सर्वं तेन प्राण्âतिपातवैरमणचक्रेण सर्व्âनर्थं मर्दयति ।
यावद् अशेषम् अविपाकं कुरुते ।
सनिकायसभागे देवमनुष्याणां प्रियो भवति निरातङ्को दीर्घ्âयुष्क्êति ॥
यावत् पुनर् अपरं कुलपुत्र यो बोधिसत्वो यावज्जीवम् अदत्त्âदानात् प्रतिविरतो भवति स सर्वसत्वानाम् अभयम् ददाति अन्यत्र्âसयत्नेन्âसंक्षोभेण स्वलाभेन संतुष्टो विहरति ।
अधा-
[ बेन्दल्ल् एद् प्177 ---> ]
र्मिकभोग्âनभिलाषी स तेन कुशलमूलेन यावद् अदत्त्âदानहेतुकं कर्म्âवरणं मर्दयति प्रमर्दयति यावद् अशेषम् अविपाकं कुरुतए इति ॥
पे ॥एवं दश्âपि कुशलाः कर्मपथाः स्वविपक्ष्âकुशलघातकास् तत्र पठ्यन्ते ॥
तथा चन्द्रप्रदीपसूत्रे ऽपि व्यापादविरत्या सर्वपापक्षयः श्रूयते ।
यथ्âह ।
सहिष्याम्य् अत्र बालानाम् अभूतां परिभाषणां ।
आक्रोशनं तर्जनां च्âधिवासिष्य नायकः ॥
क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् ।
अन्येषु बोधिसत्वेषु व्यापादो जनितो मय्êति ॥
उक्तं प्रत्यापत्तिबलम् ॥
आश्रयबलं तु वक्तव्यम् ॥
अत्र सूकरिक्âवदानम् उदाहार्यम् ।
ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिं ।
प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥
इत्य् एवं धर्मं संघं च्âधिकृत्य पापक्षयः ॥
आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिर् उक्ता ।
कल्प-
[ चम्ब्रिद्गे म्स् f85अ ---> ]
उद्दाह्âग्निभूतं सर्वदुष्कृतनिर्दहनतया ।
पातालभूतं सर्व्âकुशलधर्मपर्यादानकरणतया ॥
पे ॥
तद् यथा कुलपुत्र हाटकप्रभासं नाम रसजातं ।
तस्य्âइकं पलं लोहपलसहस्रं सुवर्णीकरोति ।
न च तत्र तत् पलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं ।
न लोहीकर्तुं ।
एवम् एव्âइकः सर्वज्ञताचित्त्ôत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेश्âवरणलोहानि प-
[ बेन्दल्ल् एद् प्178 ---> ]
र्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति ।
न च सर्वज्ञताचित्त्ôत्पादरसधातुः शक्यः सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा ।

तद् यथा कुलपुत्र्âइकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्षसहस्रसंचितम् अपि तमोन्धकारं विधमयति ।
अवभासं च करोति ।
एवम् एव्âइकः सर्वज्ञताचित्त्ôत्पादप्रदीपो यादृशे सत्व्âशये गहने ऽविद्यातमोन्धकार्âनुगते प्रवेश्यते स सह प्रवेशितो ऽनभिलाप्यकल्पशतसहस्रसंचितम् अपि कर्मक्लेश्âवरणतमोन्धकारं विधमति ।
ज्ञान्âलोकं च करोति ॥
तद् यथा कुलपुत्र चिन्तामणिराजमुकुटानां महानागराज्ञां न्âस्ति पर्ôपक्रमभयं ।
एवम् एव बोधिचित्तमहाकरुणाचिन्तामणिराजमुकुट्âवबद्धानां बोधिसत्वानां न्âस्ति दुर्गत्यपायपर्ôपक्रमभयम् इति ॥
आर्य्ôपालिपरिपृच्छायाम् अप्य् उक्तं ।
इह्ôपाले महायानं संप्रस्थितो बोधिसत्वः सचेत् पूर्व्âह्णकालसमये आपत्तिम् आपद्येत ।
मध्य्âह्नकालसमये सर्वज्ञताचित्तेन्âविरहितो विहरेद् अपर्यन्त्âइव बोधिसत्वस्य शीलस्कन्धः ।
सचेन् मध्य्âह्नकालसमये आपत्तिम् आपद्यते साय्âह्नकालसमये सर्वज्ञताचित्तेन्âविरहितो भवेद् अपर्यन्त्âइव बोधिसत्वस्य शीलस्कन्धः ।
एवं यामे यामे विधिर् उक्तः ।
एवं ह्य् उपाले सपरिहारा शिक्षा महायानसंप्रस्थितानां बोधिसत्वानां ।
तत्र बोधिसत्वेन न्âतिकौकृत्यपर्युत्थानम् उत्पाद्यं न्âतिविप्रतिसारिणा भवितव्यं ।
सचेत् पुनः श्रावकयानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत ।
नष्टः श्रावकस्य पुद्गलस्य
[ चम्ब्रिद्गे म्स् f85ब् ---> ]
शीलस्कन्धो वेदितव्यः ।
इति ॥
इति शिक्षासमुच्चये पापशोधनम् अष्टमः परिच्छेदः ॥
क्षान्तिपारमिता नवमः परिच्छेदः ॥
तद् एवम् अविरतप्रवृत्तां बहुसुखां दौःश्-ल्य्ôत्पत्तिं रक्षन्न् एवं च कर्म्âवरणविबन्धम् अपनयन् क्लेशविशोधने प्रयतेत ॥
तत्र्âदौ तावत् क्षमेत ।
अक्षमस्य हि श्रुत्âदौ वीर्यं प्रतिहन्यते ऽखेदसहत्वात् ।
अश्रुतवांश् च न समाध्युपायं जानाति ।
न्âपि क्लेशशोधन्ôपायम् ।
तस्माद् अखिन्नः श्रुतम् एषेत ।
ज्ञानतो ऽपि संकीर्णचारिणः समाधानं दुष्करम् इति ।
संश्रयेत वनं ततः ।
तत्र्âपि विक्षेपप्रशमन्âनभियुक्तस्य चित्तं न समाधीयतए इति ।
समाधानाय युज्येत ।
समाहितस्य च न किञ्चित् फलम् अन्यत्र क्लेशशोधनाद् इति ।
भावयेद् अशुभ्âदिकं ॥
इत्य् एतानि तावत् क्लेशशुद्धेर् उद्देशपदानि ॥
इदानीं निर्देश्ôच्यते ।
तत्र क्षान्तिस् त्रिविधा धर्मसंगीतिसूत्रे ऽभिहिता ।
दुष्ख्âधिवासनक्षान्तिः ।
धर्मनिध्यानक्षान्तिः ।
पर्âपकारमर्षणक्षान्तिश् च्êति ।
तत्र दुष्ख्âधिवासनक्षान्तिविपक्षो ऽनिष्ट्âगमप्राप्तदुष्खभीरुता ।
इष्टविघातप्राप्तश् च सुख्âभिष्वङ्गस् ताभ्यां दौर्मनस्यं ।

ततो द्वेषो लीनता च ॥
अत्âइव्âह चन्द्रप्रदीपसूत्रे ।
सुखे ऽनभिष्वङ्गः ।
दुष्खे ऽवैमुख्यम् इति ॥
रत्नमेघसूत्रे ऽप्य् उक्तं ।
यए इमे आध्यात्मिकाः शोकपरिदेवदुष्ख दौर्मनस्य्ôपायासास् तान् क्षमते ऽधिवासयत्îति ॥
[ बेन्दल्ल् एद् प्180 ---> ]
आर्य्ôग्रदत्तपरिपृच्छायाम् अप्य् उक्तं ।
पुनर् अपरं गृहपते गृहिणा बोधिसत्वेन्âनुनयप्रतिघ्âपगतेन भवितव्यम् अष्टलोकधर्म्âननुलिप्तेन ।
तेन भोगलाभेन वा भार्यापुत्रलाभेन वा धनधान्यवित्तलाभेन वा न्ôन्नमितव्यं न प्रहर्षितव्यं ।
सर्वविपत्तिषु च्âनेन न्âवनमितव्यं ।
न दुर्मनसा भवितव्यं एवं च्âनेन प्रत्यवेक्षितव्यं ।
मायाकृतं सर्वसंस्कृतं विठपनप्रत्युपस्थानलक्ष्-
[ चम्ब्रिद्गे म्स् f86अ ---> ]
अणं ।
कर्मविपाकनिर्वृत्ता ह्य् एते ।
यद् इदं मातापितृपुत्रभार्यादासीदासकर्मकरपौरुषेयमित्र्âमात्यज्ञातिसालोहिता ।
न्âइते मम स्वकाः ।
न्âहम् एतेषाम् इति ॥
अपि च ।
यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् ।
प्रतीकारे ऽपि मुह्येत दुर्मनाः क्रोधमूर्च्छितः ॥
लीनत्वाद् वा हत्ôत्साहो गृह्यते परय्âपदा ।
तच्चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥
तेन्âभ्यासात् त्यजेद् एतं निरर्थकम् अनर्थवत् ॥
कथं च दौर्मनस्यत्यागो ऽभ्यस्यते ।
लघुसुकुमारचित्त्ôत्सर्गात् ॥
यथ्ôक्तम् उग्रदत्तपरिपृच्छायां ।
अपगततूलपिच्ûपमताचित्तस्य्êति ॥
आर्यगण्डव्यूहे ऽप्य् उक्तं ।
दुर्योधनं चित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय ।
अपराजितचित्तं सर्व्âभिनिवेशविनिर्भेदाय ।
अक्षोभ्यचित्तं विषम्âशयत्वसागर्âवर्तप्रयातेष्व् इति ॥
न च्âभ्यासस्य दुष्करं नाम किञ्चिद् अस्ति ।
तथा हि मूढतराणाम् अपि तावद् भारहारक-
[ बेन्दल्ल् एद् प्181 ---> ]
कैवर्तकर्षक्âदीनां दुष्ख्âभ्यासात् क्षुद्रतरफले ऽपि वस्तुनि संरूढकिण्âङ्कितं चित्तम् अवसादेन न परिभूयते ।
किं पुनः सर्वसंसारसुखसर्वबोधिसत्व सुख्âनुत्तरपदसमधिगमफले कर्मणि ।
तथा प्राकृत्âपि किञ्चिद् अपकारिष्व् आत्मदुष्कृतेन्âइव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढप्रहारवेदन्âपि संग्रामयन्त्य् एव ।
कि.ं पुनर् द्राघिष्ठकाल्âपकारिषु दुष्ख्ôपात्तकुशलधनलवस्तैन्येषु नरकेषु न्âवध्यघातकेषु भवचारकपालकेषु निःसरणद्वारदिग्नाशकेष्व् आनुकूल्ये ऽपि दृढतरवाधाकरेष्व् अनपकृतवैरिष्व् अनवधिकल्प्âबद्धदृढवैरेषु क्लेशशत्रुषु प्रहर्तुम् उत्साहो दुष्खसहनं वा न भवेत् ।

विशेषतस् त्रिभुवनविजयया बद्धपरिकरस्य मारशवरप्रतिगृहीतजगद्बन्दिमोक्षाय संग्रामयतः ।
तत्र्âत्मदुष्ख्âभ्यासपूर्वकं कष्टं कष्टतर्âभ्यासः सिध्यति ।
यथा च्âभ्यासवशात् सत्वानां दुष्खसुखस।म्ज्ञा ।
तथा सर्वदुष्ख्ôत्पादेषु सुखसंज्ञा प्रत्युपस्थान्âभ्यासात् सुखसंज्ञ्âइव प्रत्युपतिष्ठते ।
एतन् निष्यन्दफलं च सर्वधर्मसुख्âक्रान्तं नाम समाधिं प्रतिल-
[ चम्ब्रिद्गे म्स् f86ब् ---> ]
भते ॥
उक्तं हि पितापुत्रसमागमे ।
अस्ति भगवन् सर्वधर्मसुखक्रान्तो नाम समाधिः ।
यस्य समाधेः प्रतिलम्भाद् बोधिसत्वः सर्व्âरम्बणवस्तुषु सुखाम् एव वेदनां वेदयते ।
न्âदुष्ख्âसुखां ।
तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुखसंज्ञ्âइव प्रत्युपस्थिता भवति ।
मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुखसंज्ञ्âइव प्रत्युपस्थिता भवति ।
वेत्रैर् अपि ताड्यमानस्य्âर्द्धवेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुखसं-
[ बेन्दल्ल् एद् प्182 ---> ]
ज्ञ्âइव प्रवर्तते बन्धन्âगारेष्व् अपि प्रक्स्.इप्तस्य ॥
पे ॥
तैलपाचिकं वा क्रियमाणस्य ।
इक्षुकुट्टितवद् वा कुट्ठ्यमानस्य ।
नडचिप्पितिकं वा चिप्यमानस्य तैलप्रद्योतिकं व्âदीप्यमानस्य सर्पिःप्रद्योतिकं वा दधिप्रद्योतिकं व्âदीप्यमानस्य सुखसंज्ञ्âइव प्रत्युपस्थिता भवति ।
उल्कामुखं वा ह्रियमाणस्य सिंहमुखं वा ह्रियमाणस्य शुष्कवर्त्तिकां वा वर्त्यमानस्य ॥
पे ॥
कार्षापणच्छेदिकं वा छिद्यमानस्य पिष्टपाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुखसंज्ञ्âइव प्रवर्तते ।
अक्षिण्य्-उत्पाठ्यमाने जीवशूलिकम् अपि क्रियमाणस्य सर्वशो व्âघातं निर्णीय शिरसि वा प्रपात्यमाने सुखसंज्ञ्âइव प्रवर्तते ।
न दुष्खसंज्ञा ।
न्âदुष्ख्âसुखसंज्ञा ॥
तत् कस्य हेतोः ।
तथा हि बोधिसत्वस्य महासत्वस्य दीर्घरात्रं चर्यां चरत्âइतत् प्रणिधानम् अभूत् ।
ये मां भोजयेरन् ।
ते उपशमशमसुखस्य लाभिनो-
[ चम्ब्रिद्गे म्स् f87अ ---> ]
भवेयुः ।
ये मां पालयेयुः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशमसुखस्य लाभिनो भवेयुः ।
ये ऽपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेण्âछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधिसुखस्य लाभिनो भवेयुः ।
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरन्न् इति ॥
स्âइभिर् मनस्कारैः समन्वागत्âइतेन कर्मणा ।
एभिः प्रणिधिभिः समन्वागतः सर्वसत्व्âनुगतां सुखसंज्ञाम् आसेवते निसेवते भावयति बहुलीकरोति ।
स तस्य कर्मणो विपाकेन सर्वधर्मसुख्âक्रान्तं नाम समाधिं प्रतिलभते ।
यस्मिन् समये बोधिसत्वेन सर्वधर्मसुख्âक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये ऽक्षोभ्यो भवत्य् असंहार्यः सर्वमारकर्मभिर् इति विस्तरः ॥
अयं हि प्रयोगः सर्वपरित्यागपूरणः ।

मूल पाठ: Śikṣāsamuccaya · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc