सिद्धान्तबिन्दु · अध्याय 2
अहम् अहम्प्रत्ययालम्बनम् । एकः अद्वितीयः । अविशिष्टः सर्वद्वैतबाधे ऽप्य् अवाधितः । शिवः परमानन्दबोधरूपस् तस्यैव मङ्गलरूपत्वात् । केवलो निर्धर्मकः । तेनाद्वितीयः सर्वप्रमाणाबाध्यः परमानन्दबोध एवाहम्प्रत्ययावलम्बनम् इत्य् औपनिषदपक्ष एव श्रेयान् इत्य् अर्थः । एतदुपपादनायेतरवादिमतानि निराकरिष्यन् प्रथमं देहात्मवादं निराकरोति न भूमिर् न तोयं न वायुर् न खम् इति । तत्राहम् इति सर्वत्र प्रत्येकं नञा सम्बध्यते । या भूमिः साहं न भवामि यो ऽहं स भूमिर् न भवतीति च परस्परतादात्म्याभावो दृष्टव्यः ।
यद्य् अपि वादिना प्रत्येकं भूम्यादेर् आत्मत्वं नाभ्युपेयते संघातस्यैव तदभ्युपगमात् तथापि तन्मते अवयव्यनङ्गीकारात् पञ्चमतत्त्वाभ्युपगमप्रसङ्गेन च संयोगादिसम्बन्धानभ्युपगमात् संहन्तुर् अभावाच् च संघातो नोपपद्यत इत्य् अभिप्रेत्य प्रत्येकं भूतनिराकरणेन भौतिकदेहात्मवादो निराकृतः ।
यद्य् अपि च भूतचतुष्टयतत्त्ववादिनो मते आवरणाभावत्वेनाभिमतस्य स्थिरस्यासत आकाशस्य देहानुपादानत्वं तथापि सिद्धान्ते तस्य भावत्वं देहोपादानत्वाद्यङ्गीकारात् तत्राप्य् आत्मत्वप्रसक्त्या तन्निराकृतम् । अथ वा न वायुर् इत्यन्तम् एव देहात्मवादस्य निराकरणं न खम् इति तु शून्यवादस्य खशब्दस्य शून्यवाचकत्वात् ।
नेन्द्रियम् इति प्रत्येकम् इन्द्रियाणाम् आत्मत्वनिरासः । न तेषां समूह इति मिलितानां भूतानां देहावयव्याकारेण परिणतानाम् इन्द्रियाणां च मिलितानां निरासः । पूर्वं संघातम् अनभ्युपगम्य प्रत्येकं भूतानि निराकृतानि । अधुना तु संघातम् अभ्युपगम्यापि निराकृतानीति भेदः । भूतनिराकरणेन भौतिकयोः प्राणमनसोर् निरासः । मनोनिराकरणेन मनोवृत्तेः क्षणिकविज्ञानस्य देहातिरिक्तस्य कर्तृत्वभोक्तृत्वादिविशिष्टस्य च निरासः । सिद्धान्ते ज्ञानेच्छासुखादीनाम् अन्तःकरणाश्रयत्वाभ्युपगमात् कामसङ्कल्पादीन् प्रकृत्य मन एवेति श्रुतेः (बौ इ.5.3) । तेन देहम् आरभ्य केवलभोक्तृपर्यन्तानां तत्तद्वाद्यभिमतानाम् अनात्मत्वं प्रतिज्ञातं भवति तत्र हेतुम् आह -- अनैकान्तिकत्वाद् इति । व्यभिचारित्वात् विनाशित्वाद् इति यावत् । आत्मनो देशकालापरिच्छिन्नत्वात् परिच्च्छिन्नानां घटादिवद् अनात्मत्वात् खभिन्नस्य चात्मत्वाभावात्, आत्मन एकत्वे ऽपि सुखदुःखाद्याश्रयाणाम् अन्तःकरणानां भेदाभ्युपगमाद् व्यवस्थोपपत्तेः स्वेनैव स्वाभावग्रहणे विरोधात्, ग्राह्यकाले ग्राहकासत्त्वात् ग्राहकसत्त्वे ग्राह्याभावात् कृतहान्यकृताभ्यागमप्रसङ्गाच् च न तस्य ध्वंसप्रागभावौ । सद्रूपस्यात्मनः सर्वत्रानुगमाच् च नात्यन्ताभावसंभवः । द्वैतस्य मिथ्यात्वेनाधिष्ठानसत्ताद् आत्म्यापन्नतयैव सिद्धत्वात्, शुक्तिरजतादिवद् अध्यस्तत्वेन तत्तादात्म्यभावानुपपत्तिः । तेनात्मना भावप्रतियोगी । अभावप्रतियोगिनश् च देहेन्द्रियादयः । तेनामी नात्मनः । किं तु स्वप्रकाशबोधरूप आत्मनि अद्वैते ऽप्य् अनाद्यनिर्वचनीयाविद्याकल्पिता अनिर्वचनीया एवेति सिद्धान्तरहस्यम् ।
ननु बोधरूप आत्मेति तवाभ्युपगमात् सुषुप्तौ च बोधाभावात् गाढं मूढो ऽहम् आसं न किञ्चिद् अवेदिषम् इति सुप्तोत्थितस्य परामर्शात् कथम् अव्यभिचारिता तस्येत्य् आशङ्क्याह -- सुषुप्त्येकसिद्ध इति । अयम् अर्थः । आत्मनः सुषुप्तिसाक्षित्वान् न तत्र तदभावः, अन्यथा मूढो ऽहम् आसम् इति परामर्शानुपपत्तेः मातृमानम् इति मेएयानां व्यभिचारित्वे ऽपि तद्भावाभावसाक्षिणः कालत्रये ऽव्यभिचारात् ।
ननु प्रमाश्रयः प्रमाता स एव कर्ता भोक्ता प्रदीपवत् स्वपरसाधारणसर्वभासकश् चेति न घटादिवत् साक्षिसापेक्ष इति चेत्, न, विकारित्वेन स्वविकारसाक्षित्वानुपपत्तेः दृश्यस्य द्रष्टृत्वानुपपत्तेः प्रमातुश् च परिणामित्वेन दृश्यत्वात्, एकस्य कूटस्थस्यैव सर्वसाक्षित्वात् ।
ननु एकः कूटस्थो निर्धर्मकः साक्षी नाद्रियते ऽप्रामाणिकत्वाद् इति चेत्, न, "तम् एव भान्तम् अनुभाति सर्व तस्य भासा सर्वम् इदं विभाति (सु वि.14, मुउ इइ.2.10, कौउ इइ.5.15), "न दृष्टेर् द्रष्टारं पश्येः (बौ इइइ.4.2)" "अदृष्टो द्रष्टा, नान्यो ऽतो ऽस्ति द्रष्टा (बौ इइइ.7.23)" इत्यादि वदता वेदान्तप्रमाणराजेन तस्यैव सर्वसाक्षित्वेनाभिषिक्तत्वात् ।
ननु महद् एतद् इन्द्रजालं प्रमाश्रयान् कूटस्थान् विहाय कूटस्थप्रमाश्रयम् एव प्रमाणराजः सर्वसाक्षिणं करोतीति । बाढम्, इन्द्रजालम् एवैतत्स्वप्नवद् अविद्याविलसितत्वात् तथापि द्ष्श्यस्य घटादिवज् जडत्वेन कथं प्रमाश्रयत्वम् इति चेत्, न, दर्पणादिवद् अतिस्वच्छत्वेन चिद्बिम्बग्राहकत्वाच् चित्ताद् आत्म्याध्यासाद् वा ।
ननु नीरूपस्य निरवयवस्याअत्मनः कथं प्रतिबिम्ब इति चेत्, कात्रानुपपत्तिः, विभ्रमहेतूनां विचित्रत्वात्, जपाकुसुमरूपस्य नीरूपस्य निरवयवस्यापि स्फटिकादौ प्रतिबिम्बदर्शनाच् छब्दस्यापि प्रतिशब्दाख्यप्रतिबिम्बोपलम्भात् तयोः सम्प्रतिपन्नप्रतिबिम्बवैलक्षण्यनिरूपणात् ।
तथापीन्द्रियग्राह्यस्यैव प्रतिबिम्ब इति चेत्, न, व्यभिचारात्, अनिन्द्रियग्राह्यसाक्षिप्रत्यक्षस्याप्य् आकाशस्यापि जलादौ प्रतिबिम्बोपलम्भात् । अन्यथा जानुमात्रे ऽप्य् उदके अतिगम्भीर(ता)प्रतीतिर् न स्यात् । तर्हि अन्धस्य जले प्रतिबिम्बप्रतीतिः कुतो न जायते सालोकस्य साभ्रस्य प्रतिबिम्बितत्वात् तद्ग्रहणार्थं चक्षुषो ऽपेक्षणात् । एतेन नीलं नभ इत्यादिविभ्रमे ऽपि चक्षुरन्वयव्यतिरेकौ व्याख्यातौ तत्र सालोकस्याकाशस्याधिष्ठानत्वात् । तस्माच् चाक्षुषप्रतिबिम्बम् एव रूपसापेक्षम् इत्य् अवधेयम् ।
तथाप्य् आत्मनः प्रतिबिम्बे किं प्रमाणम् इति चेत्, शृणु -- "रूपं रूपं प्रतिरूपो बभूव तद् अस्य रूपं प्रतिचक्षणाय (बौ इइ.5.19)" "मायाभासेन जीवेशौ करोति (नु 9)" "एकधा बहुधा चैव द्ष्श्यते जलचन्द्रवत् (ब्बु 12)" इत्यादिश्रुतिः, "स एष इह प्रविष्टः (बौ इ.4.7)" "स एतम् एव सीमानं विदार्यैतयाद्वारा प्रापद्यत (ऐतु इ.3.12)" "तत्सृष्ट्वा तद् एवानुप्राविशत् (तु इइ.6.1)" इत्यादि प्रवेशश्रुत्यन्यथानुपपत्तिः "आभास एव च (ब्स् इइ.3.50)" "अत एव चोपमास्सुर्यकादिवत् (ब्स् इइइ.2.18)" इत्यादिपारमर्षसूत्रणि च तत्र मानानि ।
तस्य च प्रतिबिम्बस्य सत्यम् एवेति प्रतिबिम्बवादिनः, मिथ्यात्वम् एवेत्य् आभासवादिनः । स्वरूपे तु न विवाद एवेत्य् अन्यद् एतत् । अचेतनविलक्षणत्वं तु तस्य श्रुतिसिद्धम् अनुभवसिद्धं च । तस्मात् सिद्धम् अन्तःकरणस्य प्रतिबिम्बाध्यासद्वारा प्रमातृत्वम् ।
ननु, अध्यासो ऽपि नोपपद्यते । तथाहि -- आत्मनि वा अनात्माध्यस्यते अनात्मन्य् आत्मा वा । नाद्यः, तस्य निःसामान्यविशेषवत्वेन सर्वदाभासमानत्वेन सादृश्यादिरहितत्वेन चाधिष्ठानत्वासम्भवात् । नापि द्वितीयः, तस्य मिथ्यात्वाभ्युपगमात् । मिथ्यावस्तुनो ऽधिष्ठानत्वे शून्यवादप्रसङ्गात् । तस्य च सत्यत्वे तदनिवृत्तेर् अनिर्मोक्षप्रसङ्गाच् च । न हि सत्यं क्वचिन् निवर्तते, निवर्तमानं वा भ्रमज्ञानेन । श्रुतयश् च "भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु इइ.2.8)" "तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते अयनाय (सु इइइ.8)" "तरति शोकम् आत्मवित् (छु विइ.1.3)" इत्याद्याः ज्ञानात् सर्वसंसारनिवृत्तिं दर्शयन्त्यः तस्य मिथ्यात्वं सूचयन्ति । "एकम् एवाद्वितीयम् (छु वि.2.1)" "अतो ऽन्यद् आर्तम् (बौ इइइ.4.2)" "नेह नानास्ति किंचन (बौ इव्.4.19)" "अथात आदेशो नेति नेति (बौ इइ.3.6)" इत्याद्याः श्रुतयः साक्षाद् एव मिथ्यात्वं प्रतिपादयन्ति । दृश्यत्वेन शुक्तिरजतवन् मिथ्यात्वानुमानच् च । आत्मन्य अध्यस्ततयैव चानात्मनि सिद्धे तत्रात्माध्यासः । अनात्माध्यासेन चात्मनो दोषसादृश्यादिसम्भवात् तत्र चानात्माध्यास इत्यात्माश्रयादिदोषप्रसङ्गाच् च । एतेनात्मानात्माध्यासस्याविद्याकल्पितत्वान् न विकल्पावसर इत्य् अपास्तम् स्वप्रकाशात्मन्य् अविद्याया अप्य् अनुपपत्तेः । तथाहि सापि अध्यस्तानध्यस्ता वा । तत्राद्ये कथं नात्माश्रयादिदोषप्रसङ्गः । अन्त्ये तस्या अनुच्छेदाद् अनिर्मोक्षप्रसङः । सर्वस्याध्यासमूलत्वे च भ्रमप्रमादिव्यवस्था न स्यात् । एकस्यैवात्मनः प्रमाणप्रमेयप्रमितिप्रमातृरूपता च विरुद्धा, अविरोधाभ्युपगमे वा सौगतम् अतोपपत्तिर् इति ।
अत्रोच्यते -- अहं मनुष्यह् कर्ता भोक्तेत्यादिप्रतीतिस् तावत् सर्वजनसिद्धा । सा च न स्मृतिर् अपरोक्षावभासत्वाद् भेदाग्रहपूर्वकत्वाच् च ।
नापि प्रमा श्रुतियुक्तिबाधितत्वात् । तथा च श्रुतयः "यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः (बौ इव्.3.7)" "अयम् आत्मा ब्रह्म (बौ इइ.5.19)" "सत्यं ज्ञानम् अनन्तं ब्रह्म (तु इइ.1)" "विज्ञानम् आनन्दं ब्रह्म (बौ इइइ.9.28)" "य आत्मा अपहतपाप्मा (छु वि.7.1)" यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः (बौ इइइ.4.1)" "यो ऽशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति (बौ इइइ.5.1)" "स यत् तत्र किञ्चित् पश्यति अनन्वागतस् तेन भवति असङ्गो ह्य् अयं पुरुषः (बौ इव्.3.15)" इत्याद्या अकर्तृभोक्तृपरमानन्दरूपताम् आत्मनो दर्शयन्ति । युक्तश् च
विकारी परिच्छिन्नत्वेनानात्मत्वापत्तेः स्वेनैव स्वस्य ग्रहणे कर्तृकर्मविरोधात् दृग्दृश्ययोश् च सम्बन्धानुपपत्तेः भेदेनाभेदेन वा धर्मधर्मिभावानुपपत्तेश् च । ज्ञानानित्यत्वपक्षे तत्तद्व्यक्तिभेदध्वंसप्रागभावसमवायज्ञानत्वजात्याद्यभ्युपगमे गौरवात्, एकत्वाभ्युपगमे चातिलाघवात्, घटज्ञानं पटज्ञानम् इत्य् उपाधिभेदपुरस्कारेणैव ज्ञानभेदप्रतीतेः । स्वतस् तु ज्ञानं ज्ञानम् इति एकस्वरूपावगमात्, तदुत्पत्तिविनाशप्रतीत्योश् चावश्यकल्प्यविषयसम्बन्धविषयतयाप्य् उपपत्तेः, उपाधिपरामर्शम् अन्तरेण स्वत एव घटाद् घटान्तरस्य भेदप्रतीतेस् तत्प्रतिबन्दीग्रहासम्भवाद् आकाशकालदिशाम् अपि नानात्वापत्तेश् च ।
कर्तृत्वादेर् वास्तवत्वे ऽनिर्मोक्षप्रसङ्गात् ।
स्वप्रकाशानभ्युपगमे च जगदान्ध्यप्रसङ्गात्, परमप्रेमास्पदत्वेन च तस्यानन्दरूपत्वात्, निर्धर्मकनित्यस्वप्रकाशसुखात्मक एवात्मा इत्यादयः ।
तस्मात् परिशेषाद् भ्रान्तिर् इयम् इति स्थिते तत्कारणम् अपि योग्यं किञ्चित् कल्पनीयम् । कल्प्यमानं च तदात्मन्य् अध्यस्ततयैव धर्मिग्राहकमानेन सिध्यतीति न जानामीति साक्षिप्रतीतिसिद्धम् अनिर्वाच्यम् अज्ञानम् एव तत् । न चेदम् अभावरूपम्, ज्ञानस्य नित्यत्वेन तदभावानुपपत्तेर् उक्तत्वात् ।
धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां च व्याघातापत्तेः । नापि भ्रमसंशयतत्संस्कारपरम्परारुपम्, अपरोक्षत्वात्, अतीतानागतभ्रमसंशयतत्संस्काराणां चापरोक्षत्वेन ज्ञातुम् अशक्यत्वात्, आवरणात्मकत्वात्, भ्रमाद्युत्पादनत्वाच् च । आत्मनो निर्विकारत्वात्, अन्तःकरणादेश् च तज्जन्यत्वात्, "देवात्मशक्तिं स्वगुणैर् निगूढाम् (सु इ.3)" इति गुणवत्त्वश्रुतेश् च "मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् (सु इव्.10)"
"इन्द्रो मायाभिः पुरुरूप ईयते (बौ इइ.5.19)" "अनृतेन हि प्रत्यूढाः (छु विइइ.3.2)" "नीहारेण प्रावृत्ताः (त्स् इव्.6.2.2)" "भूयश् चान्ते विश्वमायानिवृत्तिः (सु इ.10)" इत्यादिश्रुतेश् च मायाविद्यानिर्वाच्यम् अनृतं तत्त्वज्ञाननिवर्त्यञ् चाज्ञानम् एव स्वपराध्यासे कारणम् ।
न चात्माश्रयादिदोषप्रसङ्गः, अनादित्वेन तन्निरासात्, अनादित्वेनोत्पत्त्यभावात्, स्वप्रकाशात्मन एव तज्ज्ञप्तिरूपत्वात् ।
तेनाज्ञानाध्यासः, तद्विशिष्टे चैतन्ये ऽहङ्काराध्यासः, तद्विशिष्टे च कामसङ्कल्पादीनाम् अहङ्कारधर्माणाम् इन्द्रियधर्माणां च काणत्वबधिरत्वादीनाम् अध्याः ।
इन्द्रियाणां तु परोक्षत्वान् नापरोक्षधर्म्यध्यास इति सिद्धान्तः ।
तद्विशिष्टे च स्थूलदेहाध्यासः, धर्मिपुरस्कारेणैवाहं मनुष्य इत्य् आकारः, न तु स्वरूपतो ऽहं देह इत्य् अध्यासः, तथा प्रतीत्यभावात् । तद्विशिष्टे च स्थौल्यादीनां देहधर्माणाम् अध्यासः ।
तद्विशिष्टे बाह्यानां पुत्रभार्यादीनां साकल्यवैकल्यादिधर्माध्यासः । एवं चैतन्यस्याप्य् अहङ्कारादिषु देहपर्यन्तेष्व् अध्यासः संसर्गतः । अध्यासव्यवधानतारतम्याच् च प्रेमतारतम्यम् । तद् उक्तं वार्तिकामृए (बौभ्व् इ.4.1031) --
वित्तात् पुत्रः प्रियः पुत्रात् पिण्डः पिण्डात् तथेन्द्रियम् ।
इन्द्रियेभ्यः प्रियः प्राणः प्राणाद् आत्मा परः प्रियः ॥ इति ॥
पिण्डः स्थूलशरीरम्, प्राणोऽन्तःकरणम् । देहापेक्षया चेन्द्रियाणां प्रियत्वं शस्त्रवृष्ट्यादिधारापाते चक्षुषो निमीलनदर्शनाद् अनुभवसिद्धम् । तेनान्योन्याध्यासाच् चिदचिद्ग्रन्थिरूपो ऽध्यासः ।
एकतरस्याध्यासाङ्गीकारे ऽन्यतरस्याभानप्रसङ्गात्, अध्यस्तस्यैव भ्रमे भाननियमात् (स्स् इ.36) "इमे रङ्गरजते" इति समूहालम्बनभ्रमवद् अवश्यम् इतरेतराध्यासः । सर्वबाधावधिभूतचैतन्यपरिशेषेण च न शून्यवादापत्तिः, सत्यानृतसंभेदावभासत्वाद् अध्यासस्य । तस्मात् पूर्वपूर्वाध्यासमूल एवायम् उत्तरोत्तरो ऽहङ्काराद्यध्यासो बीजाङ्कुरवद् अनादिः । अविद्याध्यासश् च एक एवानादिः ।
नन्व् अध्यासस्यानादित्वे "स्मृतिरूपः परत्र पूर्वदृष्टावभासो ऽध्यास (ब्स्भ्)" इति वदता भाष्यकारेण स्मृतिरूपत्वेन संस्कारजन्यत्वम् उक्तं विरुद्ध्येत इति चेत्, न, कार्याध्यासाभिप्रायत्वात् तस्य, परत्र परावभास इत्य् एतावन् मात्रस्यैव उभयानुगतस्य लक्षणत्वात् ।
यद् वा "सत्यानृते मिथुनीकृत्य (ब्स्भ्)" इति भाष्यकारवचनात् सत्यमिथ्यावस्तुसंभेदावभासो ऽध्यास इत्य् एव सिद्धान्तलक्षणम् । तेन कारणाध्यासे ऽपि न लक्षणाव्याप्तिः । कार्याध्यसस्य च प्रवाहरूपेण बीजाङ्कुरवद् अनादित्वाभिधानान् न को ऽपि दोषः ।
एवम् अध्यासे सिद्धे एकस्याप्य् आत्मनो जीवेश्वरादिव्यवस्था मानमेयादिप्रतिकर्मव्यवस्था चोपपद्यते । तथा हि -- अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविवेकाद् अन्तर्यामी साक्षी जगत्कारणम् इति च कथ्यते, बुद्ध्युपहितश् च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाज् जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्तिककारपादाः ।
प्रतिदेहं बुद्धीनां च भिन्नत्वात् तद्गतचिदाभासभेदेन तदविविक्तं चैतन्यम् अपि भिन्नम् इव प्रतीयते । अज्ञानस्य तु सर्वत्राभिन्नत्वात् तद्गतचिदाभासभेदाभावात् तदविविक्तसाक्षिचैतन्यस्य न कदाचिद् अपि भेदभानम् इति ।
अस्मिंश् च पक्षे तत्त्वमादिपदे जहल्लक्षनैव साभासस्योपाधेर् वाच्यार्थांशस्य हानाद् आभासस्यापि जडाजडविलक्षणत्वेनानिर्वचनीयत्वात् । तद् उक्तं सङ्क्षेपशारीरके --
साभासाज्ञानवाची यदि भवति पुनर् ब्रह्मशब्दस् तथाहं ।
शब्दो ऽहङ्कारवाची भवति तु जहती लक्षणा तत्र पक्षे ॥ इति ॥
न चाभासस्यैव बद्धत्वात् केवलचैतन्यस्य च मुक्तत्वाद् बन्धमोक्षयोर् वैयधिकरण्यं स्वनाशार्थं प्रवृत्त्यनुपपत्तिश् चेति वाच्यम्, केवलचैतन्यस्यैवाभासद्वारा बद्धत्वाभ्युपगमात्, तदुक्तं वार्तिककारपादैः --
"अयम् एव हि नो ऽनर्थो यत् संसार्य् आत्मदर्शनम् (बुभ्व्)" इति ।
तेन शुद्धचैतन्यस्याभास एव बन्धः, तन्निवृत्तिश् च मोक्ष इति न किञ्चिदसमञ्जसम् । अथ वाभासाविविक्तं चैतन्यम् अपि तत्त्वमादिपदवाच्यम् । तेन वाच्यैकदेशस्यात्यागाद् अस्मिन् पक्षे जहदजहल्लक्षणैवेति न को ऽपि दोषः । अयम् एव पक्ष आभासवाद इति गीयते ।
अज्ञानोपहितं बिम्बचैतन्यम् ईश्वरः, अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बितं चैतन्यं जीव इति विवरणकाराः । अज्ञानप्रतिबिम्बितं चैतन्यम् ईश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं तु बिम्बचैतन्यं शुद्धम् इति सङ्क्षेपशारीरककाराः । अनयोश् च पक्षयोः बुद्धिभेदाज् जीवनानात्वम् । प्रतिबिम्बस्य च पारमार्थिकत्वाज् जहल्लक्षणैव तत्त्वमादिपदेषु । इमम् एव प्रतिबिम्बवादम् आचक्षते ।
अज्ञानविषयीभूतं चैतन्यम् ईश्वरः, अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्राः । अस्मिंश् च पक्षे अज्ञाननानात्वाज् जीवनानात्वम् ।
प्रतिजीवं च प्रपञ्चभेदः, जीवस्यैव स्वाज्ञानोपहिततया जगदुपादानत्वात् । प्रत्यभिज्ञा च अतिसादृश्यात् । ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन कारणत्वोपचाराद् इति । अयम् एव चावच्छेदवादः ।
अज्ञानोपहितं बिम्बचैतन्यम् ईश्वरः, अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धचैतन्यम् ईश्वरः, अज्ञानोपहितं जीव इति वा, मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इमम् एव च दृष्टिसृष्टिवादम् आचक्षते । अस्मिंश् च पक्षे जीव एव स्वाज्ञानवशाज् जगदुपादानं निमित्तं च, द्ष्श्यं च सर्वं प्रईतिकम् । देहभेदाच् च जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदार्ढ्याद् आत्मसाक्षात्कारे सति मोक्षः । शुकादीनां मोक्षश्रवणं चार्थवाद एव । महावाक्ये च तत्पदमनन्तसत्यादिपदवदज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकम् इत्याद्या अवान्तरभेदाः स्वयम् ऊहनीयाः ।
ननु, वस्तुनि विकल्पासम्भवात् कथं परस्परविरुद्धमतप्रामाण्यम्, तस्मात् किम् अत्र हेयं किम् उपादेयम् इति चेत्, क एवम् आह वस्तुनि विकल्पो न सम्भवतीति । स्थाणुर् वा पुरुषो वा राक्षसो वा इत्यादिविकल्पस्य वस्तुन्य् अपि दर्शनात् । अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्था इति चेत्, नूनम् अतिमेधावी भवान् ।
अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वाद् अज्ञातत्वाच् च प्रमेयं शास्त्रस्य । जीवेश्वरविभागादिकल्पनास् तु पुरुषबुद्धिमात्रप्रभवा अपि शास्त्रेणानूद्यन्ते, तत्त्वज्ञानोपयोगित्वात् । फलवत् सन्निधाव् अफलं तदङ्गम् इति न्यायात् भ्रमसिद्धस्यापि श्रुत्यानुवादसम्भवात् । एतेन द्वैतज्ञानेनाद्वैतज्ञानस्य बाधो निरस्तः । घटादिद्वैतज्ञानयोस् समानाश्रयविषयत्वनियमात्, जडे च प्रमाणप्रयोजनयोर् अभावेनाज्ञानानन्ङ्गीकारात्, तदवच्छिन्नचैतन्याज्ञानाद् एव तत्राप्य् अज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाज्ञातज्ञापकरूपकत्वात् । अन्यथा स्मृतेर् अपि तदापत्तेर् इति । वेदान्तेषु सर्वत्र एवंविधविरोधे ऽयम् एव परिहारः । तदाहुर् वार्तिककारपादाः (बौभ्व् इ.4.402)
यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि ।
सा सैव प्रक्रिया ज्ञेएया साध्वी सा च व्यवस्था ॥ इति ॥
श्रुतितात्पर्यविषयीभूतार्थविरुद्धत्वं च हेयम् एवेति शतश उद्घोषितम् अस्माभिः । तस्मान् न किञ्चिद् एतत् ।
ननु भवत्य् अविद्यावशाज् जीवेश्वरादिविभागव्यवस्था मानमेयादिप्रतिकर्मव्यवस्था कथम् इति चेत्, उच्यते । दृष्यत्वाद् विनाशित्वाच् च परिच्छिन्नाप्य् अविद्यानिर्वचनीयत्वेन विचारासहा आवरणविक्षेपशक्तिद्वयवती सर्वगतं चिदात्मानम् आवृणोति, अङ्गुलिर् इव नयनपुरःस्थिता सूर्यमण्डलम् । तत्र चक्षुष एवावरणे ऽण्गुलेर् अप्य् अभानप्रसङ्गात् । अधिष्ठानावरणम् अन्तरेण च विक्षेपानुपपत्तेश् च । ततः सा पूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती निखिलजगदाकारेण परिणमते । सा च स्वगतचिदाभासद्वारा चित्तादात्म्यापन्नेति तत्कार्यम् अपि सर्वम् आभासद्वारा चिदनुस्यूतम् एव । तथा च चैतन्यस्य दीपवत्स्वसम्बद्धसर्वभासकत्वाज् जगदुपादानचैतन्यं प्रमाणापेक्षाम् अन्तरेणैव सर्वदा सर्वं भासयत् सर्वज्ञं भवति । तेन तत्र न मानमेयादिव्यवस्था । किन् तु जीवे तस्य बुद्ध्यवच्छिन्नत्वेन परिच्छिन्नत्वात् तेन चिदभिव्यक्तियोग्येन येनान्तःकरणेन यदा यत्सम्बद्धं भवति तद् एव तदा तदवच्छिन्नो जीवो ऽनुभवतीति न साङ्कर्यप्रसङ्गः ।
एवम् अत्र प्रक्रिया -- शरीरमध्ये स्थितः सर्वशरीरव्यापकः सत्त्वप्राधान्येन सूक्ष्मपञ्चभूतारब्धः अन्तःकरणाख्यो ऽविद्याविवर्तो दर्पणादिवद् अतिस्वच्छो नेत्रादिद्वारा निर्गत्य योग्यान् घटादीन् विषयान् व्याप्य तत्तदाकारो भवति द्रुतताम्रादिवत् । तस्य च सौरालोकादिवत् झटित्ये एव स.कोचविकासाव् उपपद्येते । स च सावयवत्वात् परिणममानो देहाभ्यन्तरे घटादौ च सम्यग्व्याप्य देहघटयोर् मध्ये ऽपि चक्षुर्वद् अविच्छिन्नो ऽप्य् अवतिष्ठते । तत्र देहावच्छिन्नान्तःकरणभागो ऽहङ्काराख्यः कर्तेत्य् उच्यते । देहविषयमध्यवर्ती दण्डायमानस् तद्भागो वृत्तिज्ञानाख्यः क्रियेत्य् उच्यते । विषयव्यापकस् तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकम् अभिव्यक्तियोग्यत्वम् इत्य् उच्यते । तस्य च त्रिभागस्यान्तःकरणस्यातिस्वच्छत्वात् चैतन्यं तत्राभिव्यज्यते । तस्य चाभिव्यक्तस्य चैतन्यस्य एकत्वे ऽपि अभिव्यञ्जकान्तःकरणभागभेदात् त्रिधा व्यपदेशो भवति । कर्तृभागावच्छिन्नचिदंशः प्रमाता, क्रियाभागावच्छिन्नचिदंशः प्रमाणम्, विषयगताभिव्यक्तियोग्यत्वभागावच्छिन्नचिदंशः प्रमितिर् इति ।
प्रमेयं तु विषयगतं ब्रह्मचैतन्यम् एवाज्ञातम् । तद् एव ज्ञातं सत्, फलम् ।
अत्र च यस्मिन् पक्षे अन्तःकरणावच्छिन्नो जीवः, यस्मिंश् च पक्षे सर्वगतो ऽसङ्गो ऽविद्याप्रतिबिम्बो जीवः, तत्रोभयत्रापि प्रमातृचैतन्योपरागार्था विषयगतचैतन्यावरणभङ्गार्था चान्तःकरणवृत्तिः । यस्मिंश् च पक्षे अविद्यावच्छिन्नः सर्वगतो जीवः आवृत्तः तस्मिन् पक्षे जीवस्यैव जगदुपादानत्वेन सर्वसम्बद्धत्वात् आवरणभङ्गार्था वृत्तिर् इति विवेकः ।
ननु चिदुपरागार्था वृत्तिर् इति पक्षे स्वतोऽन्तःकरणसम्बद्धानां धर्माधर्मादीनां ब्रह्मणश् च वृत्तिम् अन्तरेण सर्वदा भानं स्यात् । न स्यात्, चैतन्यस्य तत्तदाकारत्वाभावात् । तदभावश् च स्वच्छे ऽपि ब्रह्मचैतन्ये आवरणात्, अनावृत्ते ऽपि शुक्तिरजतादाव् अस्वच्छत्वात्, धर्माधर्मादौ तु अस्वच्छत्वाद् आवृतत्वाद् वा । तेन स्वच्छे ऽप्य् आवृत्ते प्रमाणवृत्या तदाकारता, अनावृते स्वच्छे तु सुखदुःखादौ स्वत इति नान्तःकरणसम्बन्धमात्रेण भानप्रसङ्गः ।
ननु, ब्रह्मणः कथम् आवरणम्, निरवद्यस्वप्रकाशत्वेन सर्वज्ञत्वात् । सत्यम्, स्वसम्बद्धसर्वभासकतया सर्वज्ञम् अपि अन्तःकरणावच्छिन्नजीवाज्ञानविषयतया आवृतम् इति व्यपदेशात् । तस्माद् ब्रह्म जगदुपादानम् इति पक्षे चिदुपरागार्था आवरणभङ्गार्था च वृत्तिः, जीवोपादानत्वपक्षे तु आवरणभङ्गार्थैवेति ।
ननु, एकेनैव घटादिज्ञानेनावरणभङ्गे सद्यो मोक्षप्रसङ्गः, अज्ञानस्यैकत्वात् । नानाज्ञानपक्षे ऽपि एकस्य जीवस्यैकाञानोपाधित्वात् ।
न, उत्तेजकेन मणेर् इव वृत्यावरणस्याभिभवाङ्गीकारात् । तथा च प्रमाणजन्यान्तःकरणवृत्त्यभावसहकृतम् अज्ञानं सति भात्य् अपि वस्तुनि नास्ति न भाति इति प्रतीतिजननसमर्थम् आवरणम् इत्य् उच्यते । वृत्तौ जातायां त्व् अवच्छेदकाभावाद् विद्यमानम् अप्य् अविद्यमानसमम् एवेति न स्वकार्यसमर्थम् अज्ञानं तेनाभिभूतम् इत्य् उच्यते ।
ननु, एवं सति ब्रह्मज्ञानेनाप्य् अविद्याया अनिवृत्तेर् अनिर्मोक्षप्रसङ्गः । न, तत्त्वमस्यादिवाक्यार्थज्ञानाद् अविद्यानिवृत्त्यभ्युपगमात्, स्वविषयप्रमात्वेनैवाविद्यानिवर्तकत्वान् महावाक्यार्थज्,जानस्यैवाबाधितविषयतया प्रमात्वात् । प्रत्यक्षादीनां तु बाधितविषयतया भ्रमत्वे ऽपि व्यवहारसामर्थ्येन प्रामाण्याभिमानात्, ज्ञानादज्ञाननिवृत्तेर् अन्यत्रादर्शनं चाकिञ्चित्करम्, स्वानुभवसिद्धत्वात्, अन्यथानुपपत्तेश् च सर्वतो बलवत्त्वात् । तदुक्तम् (खण्डनखण्डखाद्यम् 1)
अन्यथानुपपतिश् चेद् अस्ति वस्तुप्रसाधिका ।
पिनष्ठ्यसृष्तिवैमत्यं सैव सर्वबलाधिका ॥ इति ॥
अथ वा मूलाज्ञानस्यैवावस्थाज्ञानानि घटादिविषयावरणानि । अज्ञानस्य प्रागभावस्थानीयत्वेन यावन्ति ज्ञानानि तावन्त्य् अज्ञानानीत्य् अभ्युपगमात् एकेन च ज्ञानेनैकाज्ञानस्यैव नाशात्, घटादिज्ञानेनावरणनाशे ऽपि न काचिद् अनुपपत्तिः ।
ननु, अनुमानादिहिर् आवरणं निवर्तते न वा । आद्ये साक्षात्कारिभ्रमस्यापि शङ्खपीतत्वादेः श्वेतत्वाद्यनुमानादिना निवृत्तिप्रसङ्गः, अधिष्ठानाज्ञानोपादानकत्वेन भ्रमस्य तन्निवृत्तौ निवृत्तेः । यौक्तिकज्ञानेन च ब्रह्मण्यविद्यानिवृत्तेः साक्षात्कारार्थं श्रवणमननाद्यपेक्षणं न स्यात् । द्वितीये च वह्न्यादिव्यवहारो न स्यात्, प्रतिबन्धकस्य विद्यमानत्वात् । उच्यते -- द्विविधम् आवरणम्, एकम् असत्त्वापादकम् अन्तःकरणावच्छिन्नसाक्षिनिष्ठम्, अन्यद् अभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठं, घटम् अहं न जानामीत्य् उभयावच्छेदानुभवात् । तत्राद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते । अनुमिते ऽपि वह्न्यादौ नास्तीति प्रत्ययानुदयात् । द्वितीयं तु साक्षात्कारेणैव निवर्तते । यन्निष्ठं यदाकारं ज्ञानं तन्निष्ठं तदाकारम् अज्ञानं नाशयतीति नियमात्, परोक्षापरोक्षनिष्ठत्वात् । तद् उक्तम् (पञ्च 7.45)
परोक्षज्ञानतो नश्येद् असत्त्वावृत्तिहेतुता ।
अपरोक्षधिया नश्येद् अभानावृत्तिहेतुता ॥
तेनानुमानादेर् असत्त्वावरणनाशात् तत्र तद्व्यवहारः । अभानावरणनिवृत्त्या च सोपाधिकसाक्षात्कारिभ्रमनिवृत्तिर् इति । तस्मान् निर्धर्मकस्याप्य् आत्मनो ऽविद्यान्तःकरणतादात्म्याध्यासात् तद्धर्मकर्तृत्वभोक्तृत्वाद्यध्यास उपपद्यते ।
ननु त्वन्मते ऽनिर्वचनीयख्यात्यभ्युपगमात्, ये कर्तृत्वादयो ऽन्तःकरणधर्मा आत्मन्य् अध्यस्यन्ते ते ऽनिर्वचनीयास् तत्रोत्पद्यन्त इति वक्तव्यम् । तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्वभोक्तृत्वादीनां द्वेधावभासः स्यात् । न स्यात्, तादात्म्याभिमानेनाविवेकात् । सकलधर्मविशिष्टस्यैवान्तःकरणस्यात्मन्य् अध्यस्तत्वेन द्वयाभावाद् वा । तस्माद् एकस्यैवात्मन उपाधिभेदेन प्रमात्रादिव्यवस्थोपपत्तेर् न सौगतमतापत्तिर् न वा विरोधः । अन्यापि व्यवस्थाः स्पष्टतरम् उपरिष्टाद् उपपादयिष्यन्ते । तस्माज् ज्ञानस्वरूपस्यात्मनः सुषुप्ताव् अव्यभिचाराद् देहेन्द्रियादीनां च व्यभिचाराद् दृश्यत्वाच् च तत्र तत्रात्मबुद्धिस् तेषां तेषां वादिनां भ्रान्तिर् इत्य् औपनिषदमतम् एव प्रमाणम् इति सिद्धम्
स्याद् एतत् । आत्मनो निर्धर्मकत्वे प्रमात्रादिव्यवहारस्याध्यासमूलत्वे च "ब्राह्मणो यजेत" इत्येवमादीनां शास्त्राणाम् अप्रामाण्यप्रसङ्गः, अकर्तुर् अभोक्तुश् चात्मनः प्रवृत्त्युपपत्तेः, वेदाप्रमाण्ये च कुतो ब्रह्मसिद्धिर् अपि, तस्य तन्मात्रगम्यत्वात्, शास्त्रयोनित्वाद् इति न्यायात् । तथा च वेदप्रामाण्यार्थं प्रमात्रादिव्यवहारस्य सत्यत्वम् अभ्युपेयम् इत्य् आशङ्क्य, किं तत्त्वज्ञानात् पूर्वम् अप्रामाण्यम् आपद्यते ऊर्ध्वं वा । तत्राद्ये यावद् अविद्यानिवृत्तिव्यवस्थाया उपपादितत्वात् सर्वेषां प्रमाणानाम् अविद्यावद् विषयत्वेन तद्दशायां बाधाभावान् निष्प्रत्यूहं प्रामाण्यम् । द्वितीये त्व् इष्टापत्तिर् एवेत्य् आह --
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयो ऽपि ।
अनात्माश्रयाहंममाध्यासहानात् तदेको ऽवशिष्टः शिवः केवलो ऽहम्
मूल पाठ: Siddhāntabindu · Edition: Divānji. Baroda : Oriental Institute 1933. · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0