सिद्धान्तबिन्दु · अध्याय 3
श्लोकार्थः । वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः । आश्रमाश् च ब्रह्मचारिगृहस्थवानप्रस्थभिक्षवः । आचाराः शौचस्नानादयः । धर्माः ब्रह्मचर्यगुरुसेवादयः । अत्र द्वन्द्वद्वयगर्भषष्ठितत्पुरुषेण वर्णानाम् आचाराः धर्माश् च आश्रमाणाम् अप्य् आचाराः धर्माश् च लभ्यन्ते । धारणा ब्रह्मणि बाह्यविषयत्यागेन मनसस् स्थैर्यम् । ध्यानं परमात्मचिन्तनम् । योगश् चित्तवृत्तिनिरोधः । आदिशब्देन श्रवणमननादयो गृह्यन्ते । सर्वेषां ज्ञानोत्तरकालम् असत्त्वे हेतुम् आह -- अनात्माश्रयाहंममाध्यासहानाद् इति । अनात्मा आत्मविरोधिनी अविद्या, तदाश्रयस् तदुपादानो यो ऽहंममकाराद्यध्यासस् तस्य समूलस्यापि तत्त्वज्ञानेन हानात् तत्प्रयुक्तवर्णाश्रमादिव्यवहारो नास्तीत्य् अर्थः
वर्णाश्रमादिव्यवहारस्य मिथ्याज्ञानमाअत्रमूलत्वेन मिथ्यात्वं द्रढयितुं तद्व्यतिरेके सुषुप्तौ, व्यतिरेकम् आह --
न माता पिता वा न देवा न लोका न देवा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात् तदेको ऽवसिष्टः शिवः केवलो ऽहम्
श्लोकार्थः । माता जनकस्त्री । पिता जनकः पुमान् । देवा इन्द्रादयः आराध्याः । लोकास् तदाराधनफलानि स्वर्गादीनि । देवाः अलौकिकहिताहितसाधनप्रतिपादकानि ब्रह्मप्रतिपादकानि च प्रमाणवाक्यानि । यज्ञाः स्वर्गादिसाधनीभूता ज्योतिष्टोमादयः । तीर्थं यज्ञसाधनीभूतः कुरुक्षेत्रादिदेशः । एवं पापकर्मसाधनान्य् अप्य् उपलक्षणीयानि । सर्वेषां देहाभिमानमूकलत्वात् तदभावे स्वतःसम्बन्धाभावाद् अविद्यमानतेत्य् अर्थः । तथा च सुषुप्तिं प्रकृत्य श्रुतिः "अत्र पितापिता भवति मतामता देवादेवा वेदावेदाः स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालो ऽचाण्डालः पौल्कसो ऽपौल्कसः श्रमणो ऽश्रमणस् तापसो ऽतापसो ऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ् छोकान् हृदयस्य भवति" (बौ 4.3.22) इत्याद्या अभिमानाभावे सर्वान् अर्थनिवृत्तिम् अनुवदन्ति ।
ननु, सर्वव्यवहाराभावे शून्यतैव स्यात् । न, इत्य् आह -- निरस्तातिशून्यात्मकत्वाद् इति । निरस्तम् अतिशून्यात्मकत्वं यस्मात् तत् तथा । भावप्रधानो निर्देशः । तस्य सुषुप्तिसाधकत्वात् पुनरुत्थानानुपपत्तेश् च । "अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा" (बौ 4.5.14), "मात्रा संसर्गस् त्व् अस्य भवति", "यद् वैतन् न पश्यति पश्यन् वैतन् न पश्यति" (बौ 4.3.23), "न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते, अविनाशित्वात्, न तु तद्द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् पश्येत्" (बौ) इत्यादिश्रुतिभ्यश् चात्मचैतन्यस्य न सुषुप्तौ शून्यते ऽत्य् अर्थः । निराकृतम् अप्य् एतत् पुनर् अपि स्थूणानिखननन्यायेन निराक्रियते । यद् वा निरस्तम् अशनायाद्यतीतम् अद्वितीयम् अतिशून्यं यद् ब्रह्म तदात्मकत्वात् । तथा च श्रुतिः "यदा पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति, तद् यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् एवेम् एवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" (छु वि.9.1) इति । तेन जगत्कारणीभूतसर्वज्ञसर्वशक्तिपरिपूर्णानन्दबोधरूपेण ब्रह्मणा सहैकत्वाद् असंसार्येव जीव इति सिद्धम्
द्वितीयो विभागः ।
तत्पदार्थनिर्णयः ।
एवं तावत् त्रिभिः श्लोकैः वादिविप्रतिपत्तिनिराकरणपूर्वकं त्वम्पदार्थो निर्धारितः । सम्प्रति तत्पदार्थस् तथैव निर्धारणीयः । तत्र निराकरणीया वादिविप्रतिपत्तयः प्रदर्श्यन्ते । ननु, न ब्रह्म सह जीवस्यैक्यम् उपपद्यते । तथा हि सच्छब्दवाच्यं जगत्कारणं ब्रह्म "सद् एव सोम्य इदम् अग्र आसीत्" (छु वि.2.1) इत्यादिवाक्येन प्रतिपादितम् । जगत्कारणं च प्रधानम् अचेतनम् इति साङ्ख्याः । पशुपतिर् एव जगत्कारणम्, स च चेतनो ऽपि जीवाद् भिन्नः स उपास्य एवेति पाशुपताः । भगवान् वासुदेव ईश्वरो जगत्कारणम्, तस्माद् उत्पद्यते सङ्कर्षणाख्यो जीवः, तस्मान् मनः प्रद्युम्नः, ततो ऽहङ्कारो ऽनिरुद्धः, तेन कार्यत्वाज् जीवस्य तेन सह न ब्रह्मणो वासुदेवस्यात्यन्ताभेद इति पञ्चरात्रिकाः । परिणामी नित्यः सर्वज्ञो भिन्नाभिन्न इति जैनास् त्रिदण्डिनश् च । नास्ति सर्वज्ञत्वाद्युपेतं ब्रह्म, आम्नायस्य क्रियापरत्वेन तत्र तात्पर्याभावात्, किन् तु वाग्धेन्वादिवत् सर्वज्ञत्वादिगुणविशिष्टतया जगत्कारणं परमाण्वादि वा जीवो वा उपास्य इति मीमांसकाः । अस्ति नित्यज्ञानादिमान् ईश्वरः सर्वज्ञः पृथिव्यादिकार्यलिङ्गानुमितः, स च जीवाद् भिन्न एवेति तार्किकाः । क्षणिकः सर्वज्ञ इति सौगताः । क्लेशकर्मविपाकाशयैर् अपरामृष्टो नित्यज्ञानरूपः प्रधानांशसत्त्वगुणप्रतिफलिततया सर्वज्ञः संसारिपुरुषविलक्षण एवेति पातञ्जलाः । अद्वितीयपरमानन्द एव ब्रह्म, तच् च जीवस्य वास्तवं स्वरूपं मायया च सर्वज्ञत्वादिविशिष्टं जगदुपादानं निमित्तं चेति औपनिषदाः ।
एवं वादिविप्रतिपत्तिभिः सन्दिग्धो तत्पदार्थे औपनिषदपक्षस्य परिशेषेण तन्निर्णयायाह भगवान् --
न साङ्ख्यं न शैवं न तत् पाञ्चरात्रं न नैनं न मीमांसकादेर् मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात् तद् एको ऽवशिष्टः शिवः केवलो ऽहम्
आदिशब्देनानुक्तानां सङ्ग्रहः । न तावद् अचेतनं जगदुपादानम्, "तद् ऐक्षत बहु स्यां प्रजायेय" (छु वि.2.3.) इति ईक्षणपूर्वकसृष्टिश्रवणात्, "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" (छु वि.3.2.) इति जीवात्मत्वव्यपदेशात्, "यस्मिन् विज्ञाते सर्वम् इदं विज्ञातं भवति" (मु इ.1.3.) इति चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, प्रधानज्ञानेन च तदप्रकृतिकानां पुरुषाणां ज्ञातुम् अशक्यत्वात्, "ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि" (छु वि.8.7) इति च तदभेदस्य नवकृत्वोपदेशात्, "तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः" (तु इइ.1.) इति श्रुत्यन्तराद् अचेतनस्य जगत्कारणत्वे विचित्ररचनानुपपत्तेः, प्रधानमहदादेर् अप्रामाणिकत्वाच् च न साङ्ख्यमतं साधु । एवं पाशुपतं पाञ्चरात्रिकं जैनं च मतं श्रुतियुक्तिबाधितत्वाद् अयुक्तम् । न च विधिशेषत्वाच् छ्रुतिर् न ब्रह्म प्रतिपादयतीति मीमांसकमतं युक्तम् असिद्धत्वाद् विधिशेषत्वस्य । न चार्थवादाधिकरणन्यायाद् विधिशेषत्वम्, वैषम्यात् । स्वतःप्रयोजनवदर्थाप्रतिपादकानां "वायुर् वै क्षेपिष्ठा देवता" (त्स् इइ.1.1.1.) इत्येवमादीनां स्वाध्यायविधिग्रहणान्यथानुपपत्त्या प्रयोजनवदर्थपरत्वे कल्पनीये शब्दभावनेतिकर्तव्यतांशसाकांक्षस्य विधेः सम्प्रदानभूतदेवतादिस्तुतिद्वारेण तदंशपूरकत्वान् नष्टाश्वदग्धरथन्यायेन तदुभयैकवाक्यता इत्य् अर्थवादाधिकरणे निर्णीतम् । वेदान्तवाक्यजन्यज्ञानाच् च साक्षाद् एव परमानन्दप्राप्तिर् निःशेषदुःखनिवृत्तिश् च पुरुषार्थो लभ्यत इति निराकांक्षत्वान् नान्यशेषत्वसम्भावना, प्रत्युत विधय एवान्तःकरणशुद्धिद्वारा तच्छेषतां स्वत एव प्रामाण्याद् अस्त्य् एव ब्रह्मेति न मीमांसकमतसिद्धिः । तार्किकादीनां च मतं "तत् त्वम् असि" (छु वि.8.7.), "अहं ब्रह्मास्मि" (बौ इ.4.10.), "अयम् आत्मा ब्रह्म" (बौ इइ.5.19.), "सत्यं ज्ञानं अनन्तं ब्रह्म" (तु इइ.1.) इत्यादिश्रुतिबाधितम्, "एकम् एवाद्वितीयं ब्रह्म" (छु वि.2.1.), "नेह नानास्ति किञ्चन" (बौ इव्.4.19.) इत्यादिश्रुतिबाधितं च । भिन्नाभिन्नत्वं क्षणिकत्वं च "आकाशवत् सर्वगतश् च नित्यः" इत्यादिश्रुतिबाधितम् । अत्र च सर्वषां मतस्यासत्त्वे प्रतिज्ञाते विशुद्धात्मकत्वाद् इति हेतुः । निर्विकल्पकाद्वितीयचैतन्यरूपत्वाद् इत्य् अर्थः । अत्र हेतुः विशिष्टानुभूत्येति । विशिष्टा सविकल्पकानुभूतिभ्यो व्यावृत्ता या तत्त्वमस्यादिवाक्यजन्याखण्डानुभूतिस् तयेत्य् अर्थः । तेन सर्वव्यापकम् अद्वितीयं परमानन्दबोधरूपं च ब्रह्मेति सिद्धम्
ननु, "स य एषो ऽणिमा" (छु वि.8.15.), "अणोर् अणीयान्" (त x.12.1, कु इ.2.20, स्वु इइइ.20.) इति ब्रह्मणो ऽणुत्वश्रुतेः, "अङ्गुष्ठमात्रः पुरुषः" (कु इइ.4.12.), "आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः" (स्वु व्.8.) इत्यादिश्रुतिप्रतिपादिताणुजीवाभिन्नत्वाच् च न ब्रह्मणः सर्वव्यापकत्वम् इत्य् आशङ्क्य "ब्रह्मैवेदम् अमृतं पुरस्तात् ब्रह्म पश्चात् ब्रह्म दक्षिणतश् चोत्तरेण । अधश् चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वम् इदं वरिष्ठम्" (मु इइ.2.11.), "तद् एतद् ब्रह्मापूर्वम् अनपरम् अनन्तरम् अबाह्यम्" (बौ इइ.5.11.) इत्याद्याः श्रुतयो निर्विशेषम् एव ब्रह्म प्रतिपादयन्तीति पूरोवोक्तम् एव द्रढयन्न् आह --
न चोर्ध्वं न चाधो न चान्तर् न बाह्यं न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।
वियद्व्यापकत्वाद् अखण्डैकरूपस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम्
श्लोकार्थः । वियद्व्यापकत्वात् वियद्वद् व्यापकत्वात् "आकाशवत् सर्वगतश् च नित्य" इति श्रुतेः, वियतो व्यापकत्वाद् इति वा "ज्यायान् आकाशात्" (सत्ब्र् x.6.3.2), "महतो मयीयान्" (कु इइ.20) इत्यादिश्रुतेः । जीवस्यापि सकलदेहव्यापिचैतन्योपलब्ध्या महत्त्वे ऽपि, उपाधिधर्माध्यासेनाराग्रमात्रत्वाभिधानात्, "बुद्धेर् गुणेनात्मगुणेन चैव ह्य् आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः" (स्वु व्.8.) इति श्रुतेर् ब्रह्मणश् च सूक्ष्मत्वाभिप्रायेणाणुत्वव्यपदेशात् । शेषम् अतिरोहितार्थम्
ननु, ब्रह्मणो जगदुपादानत्वाद् उपादानोपादेययोश् चाभेदाद् विचित्रजगदभिन्नत्वेन ब्रह्मणः दुःखरूपत्वात् न तदभिन्नत्वेन जीवस्य परमपुरुषार्थप्राप्तिर् इत्य् आशङ्क्य ब्रह्मणः स्वप्रकाशपरमानन्दरूपत्वान् निखिलजगद्भ्रमाधिष्ठानत्वेन कारणत्वव्यपदेशाद् अध्यस्तेन च समं सम्बन्धाभावान् न तत्रानर्थलेशो ऽप्य् अस्तीत्य् आह --
न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिर् आकारकत्वात् तदेको ऽवशिष्टः शिवः केवलो ऽहम्
कुबुजम् अणु । पीनं महत् । तेनाणु महत् ह्रस्वं दीर्घं चेति चतुर्विधपरिमाणनिषेधात् द्रव्यत्वप्रतिषेधः । रूप्यत इति रूपं प्रमेयम् । न प्रमेयं अरूपम् । तेन सर्वेषाम् एव द्रव्यगुणकर्मादिपदार्थानां तत्तद्वाद्यभ्युपगतानां निषेधः । तथा च श्रुतिः "अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम्" (बौ इइइ.8.8.) इत्याद्याः "अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत्" (कथु इ.3.15.) इत्याद्याश् च सर्वानर्थशून्यं परमात्मस्वरूपं प्रतिपादयन्ति । श्रौतस्याप्य् अर्थस्य न्यायेन निर्णयाय हेतुम् आह -- ज्योतिर् आकारकत्वाद् इति । स्वप्रकाशज्ञानरूपत्वेनाप्रमेयत्वात्, प्रमेयत्वे घटादिवज्जडत्वापत्तेः, "एतद् अप्रमेयं ध्रुवम्" (बौ इव्.4.20.) इत्यादिश्रुतेश् चेत्य् अर्थः
तृतीयो विभागः
तत्त्वमसिवाक्यार्थनिर्णयः ।
ननु, कस्य ब्रह्मभाव उपदिश्यते, ब्रह्मणो ऽब्रह्मणो वा । नान्त्यः, तस्य जडत्वाद् असत्त्वाच् च, न प्रथमः उपदेशानर्थक्यात्, ब्रह्मभावस्य स्वतःसिद्धत्वात् । जीवस्य स्वतो ब्रह्मभावे ऽप्य् अविद्याव्यवधानं ज्ञानेन निवर्त्यत इति चेत्, न, अविद्यानिवृत्तेर् आत्मभिन्नत्वे द्वैतापत्तेर् ब्रह्मणो ऽसिद्धिप्रसङ्गात् । तद् उक्तं वार्तिके (बौभ्व् इइ.4.14.)
"अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते ।
ब्रह्मार्थो दुर्लभो ऽत्र स्याद् द्वितीये सति वस्तुनि" ॥ इति ॥
अभिन्नत्वे चोपदेशानर्थक्यम् इत्य् उक्तम् । अत्र किं परमार्थतः फलाभावम् अभिप्रैषि किं वा प्रतीतितो ऽपि । तत्राद्यम् इष्टापत्त्या परिहरति --
न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम्
शास्ता उपदेशकर्ता गुरुः । शास्त्रम् उपदेशकरणम् । शिष्य उपदेशकर्म । शिक्षा उपदेशक्रिया । त्वं श्रोता । अहं वक्ता । अयं सर्वप्रमाणसन्निधापितः प्रपञ्चो, देहेन्द्रियादिर् अनर्थः, परमार्थतो नास्तीत्य् अर्थः । द्वितीयं निराकरोति -- स्वरूपेति । अयम् अर्थः -- यद्य् अप्य् अविद्यानिवृत्तिर् आत्मानात्मा वेति विकल्पने किम् अपि फलं निरूपयितुं न शक्यते तथापि स्वरूपावबोधो विज्ञानफलम् अनुभूयते । न चैतत् कथम् इति विकल्पनीयं सर्वद्वैतोपमर्देन विकल्पासहिष्णुत्वात् । न हि दृष्टे ऽनुपपन्नं नाम । तथा च श्रुतिः (गौक् इइ.32.)
"न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः ।
न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता" ॥
"ब्रह्म वा इदम् अग्र आसीत्, तद् आत्मानम् एवावेदाहं ब्रह्मास्मीति, तस्मात् तत्सर्वम् अभवत्" (बौ इ.4.7.) इत्याद्या पूर्वम् अपि ब्रह्मस्वरूपस्यैव सतो जीवस्य ज्ञानाद् ब्रह्मभावं दर्शयति सर्वं च द्वैतं वारयति
नन्व् आत्मनः स्वप्रकाशरूपत्वे सर्वदा समाने जाग्रत्स्वप्नसुषुप्त्यादिव्यवस्था कथम् । न च भ्रान्त्यैव व्यस्थेति वाच्यम्, तथा सति सर्वस्यैव स्वप्नत्वापत्तेर् इति चेत्, न, लक्षणतस् त्रयाणाम् अपि स्वप्नत्वे ऽपि प्रतिभासते ऽविद्यात्मकविशेषसम्भवाद् असद्विलक्षणत्वेन तु सविशेषत्वाद् व्यवस्थोपपत्तेः । परमार्थतस् तु कापि व्यवस्थेत्य् आह --
न जाग्रन् न मे स्वप्नको वा सुषुप्तिर् न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणां तुरीयस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम्
अत्र लयक्रमेण पौर्वापर्ययनिर्देशः । तथा हि -- अस्मन्मते पदार्थो द्विविधः, दृक् दृश्यश् च, अन्यवादिपरिकल्पितानां पदार्थानाम् अत्रैवान्तर्भावात् । तत्र दृक्पदार्थ आत्मा पारमार्थिक एकः सर्वदैकरुपो ऽप्य् औपाधिकभेदेन त्रिविधः, ईश्वरो जीवः साक्षी चेति । तत्र कारणीभूताज्ञानोपाधिर् ईश्वरः, अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितो जीवः । प्रपञ्चितं चैतद् अधस्तात् । अविद्याप्रतिबिम्बेश्वरपक्षे बिम्बचैतन्यं, बिम्बेश्वरपक्षे च बिम्बप्रतिबिम्बमुखानुगतमुखस्वरूपवज् जीवेश्वरानुगतं सर्वानुसन्धातृ चैतन्यं, साक्षीत्य् उच्यते । वार्तिककारमते त्व् ईश्वर एव साक्षीति द्वैविध्यम् एव जीवेश्वरभेदेन द्ष्शः । तत्रेश्वरो ऽपि त्रिविधः । स्वोपाधिभूताविद्यागुणत्रयभेदेन विष्णुकारणीभूतरजौपहितो ब्रह्म स्रष्टा । हिरण्यगर्भस् तु महाभूतकारणत्वाभावान् न ब्रह्मा तथापि स्थूलभूतस्रष्टृत्वात् क्वचिद् ब्रह्मेत्य् उच्यते । कारणीभूततमौपहितो रुद्रः संहर्ता । एवं चैकस्यैव चतुर्भुजचतुर्मुखपञ्चमुखाद्याः पुमाकाराः श्रीभारतीभ्वान्याद्याश् च स्त्र्याकाराः । अन्ये च मत्स्यकूर्मादयो ऽनन्तावताराः लीलयैवाविर्भवन्ति भक्तानुग्रहार्थम् अवधेयम्,
"चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥" इति श्रुतेः ॥
जीवोऽ पि त्रिविधः, स्वोपाध्यवान्तरभेदेन विश्वतैजसप्राज्ञभेदात् । तत्राविद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदवस्थाभिमानी विश्वः । स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितः स्वप्नाभिमानी तैजसः । शरीरान्तःकरणोपाधिद्वयरहितो ऽन्तःकरणसंस्कारावच्छिन्नाविद्यामात्रोपहितः सुषुप्त्यभिमानी प्राज्ञः । एतेषां च स्वतन्त्रोपाधिभेदाभावेन स्वतन्त्रभेदाभावे ऽप्य् अवान्तरोपाधिभेदाद् एकत्वे ऽप्य् अवान्तरभेदो व्यहह्रियते । साक्षी तु सर्वानुसन्धाता सर्वानुगतस् तुरीयाख्य एकविध एव । तत्रोपाधिभेदेनापि न क्वचिद् भेदस् तदुपाधेर् एकरूपत्वात् । अविद्यातद्व्याप्यतत्कार्यात्मकः प्रपञ्चो दृष्यपदार्थः । तस्य चापारमार्थिकत्वे ऽपि व्यावहारिकसत्त्वाभ्युपगमात् न स्वाप्निकपदार्थवन् निरूपणं व्यर्थम्, उपासनादाव् उपयोगाद् इति । सो ऽपि त्रिविधः अव्याकृतामूर्तमूर्तभेदात् । तत्र साभासाविद्या मूर्तामूर्तप्रपञ्चबीजशक्तिरूपा तदजन्यत्वे ऽपि तन्निवृत्तौ निर्वर्तमानत्वेन तद्व्याप्यैश् चैतन्यतत्सम्बन्धजीवेश्वरविभागचिदाभासैः सहानादित्वाद् अव्याकृतम् इत्य् उच्यते । सा च स्वयं जडाप्य् अजडेन चिदाभासेनोज्ज्वलितपूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धात्मकान्य् आकाशवायुतेजोजलपृथिव्याख्यानि पञ्चमहाभूतानि जनयति । तत्र पूर्वपूर्वभूतभावापन्नाया अविद्याया उत्तरोत्तरं प्रति कारणत्वात् पूर्वपूर्वभूतगुणानाम् उत्तरोत्तरभुतेष्व् अनुप्रेवेशः । एवम् अविद्यात एवान्धकारो ऽपि भावरूप एवावणात्मा चाक्षुषज्ञानविरोधी आलोकनाश्यश् च झटिति महाविद्युदादिवद् आविर्भवति तिरोभवति चेति सिद्धान्तः । संसारहेतुदेहोपादनत्वाभावाच् च श्रुतिषु सृष्टिप्रक्रियायाम् आम्नायत इत्य् अविरोधः । दिक्कालौ त्व् अप्रामाणिकत्वान् नोक्तौ, आकाशस्यैव दिग्व्यवहारजनकत्वव्यवस्थासम्भवात् "दिशः श्रोत्रम्" (बौ इइइ.2.13.) इति श्रुतेश् च । कालस् त्व् अविद्यैव तस्या एव सर्वाधारत्वाद् इति । अयं चाव्याकृतपदार्थ ईश्वरोपाधिः ।
तानि च सूक्ष्माण्य् अप्य् अपञ्चीकृतानि पञ्चमहाभूतान्य् अमूर्ताख्यानि कारणैक्यात् सत्त्वरजस्तमोगुणात्मकानि सत्त्वांशप्राधान्येन ज्ञानक्रियाशक्तिप्रधानांशः प्राणः । स च पञ्चधा, प्राणो ऽपाणो व्यान उदानः समान इति । एवम् एकैकभुतेभ्यो ज्ञानक्रियाशक्तिभेदात् प्रत्येकम् इन्द्रियद्वयं जायते । आकाशाच् छ्रोत्रवाचौ, वायोस् त्वक्पाणी, तेजसश् चक्षुःपादौ, अद्भ्यो रसनपायू, पृथिव्या घ्राणोपस्थौ चेति । अत्र "तजोमयी वाक्" (छु वि.5.4.) इति श्रुतेस् तैजसी वाक्, पादस् तु नाभस इति केचित् । शब्दव्यञ्जकेन्द्रियत्वेन तु श्रोत्रवद्वाचो नाभसत्वम्, पादचिकित्सया च चक्षुषः स्वास्थ्यदर्शनाच् चक्षुर्वत् पादस्यापि तैजसत्वम् इति तु युक्तम् उत्पश्यामः । तेजोमयत्वश्रुतिस् तु मनसः पञ्चभूतकार्यस्यापि अन्नमयत्वश्रुतिर् इव तदुपकार्यतया व्याख्येया । मनसश् च पञ्चभूतगुणग्राहकत्वेन तद्वत्त्वनिश्चयात् पञ्चभूतात्मकत्वम् इत्य् अन्यद् एतत् । एतेषाम् अधिष्ठातारो देवा अपि ज्ञानक्रियाशक्तिप्रधानाः, दिगग्नी, वातेन्द्रौ, आदित्यविष्णू, वरुनमित्रौ, अश्विप्रजापती । तत्र ज्ञानशक्तिसमष्टिर् अन्तःकरणं, क्रियाशक्तिसमष्टिः प्राणः । शब्दस्पर्शरूपसरगन्धग्राहकाणि श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि । त्वक्चक्षुषी स्वह्राह्यगुणाश्रयद्रव्यम् अपि गृह्णीतः । श्रोत्रम् अपि चक्षुर्वत् गत्त्वा शब्दग्राहकम् दूरे शब्द इति प्रत्ययात् । वचनादनागतिविसर्गानन्दजनकानि वाक्याणिपादपायूपस्थाख्यानि पञ्चकर्मेन्द्रियाणि । एतच् च सर्वं मिलित्वा सप्तदशकं लिङ्गं ज्ञानशक्तिप्राधान्येन हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन सूत्रम् इति चोच्यते । अयम् अमूर्तपदार्थः कार्यत्वात् व्यष्टौ समष्टौ च जीवोपाधिर् एव ।
तानि च तथाभूतानि भूतानि भोगायतनं शरीरं भोग्यं च विषयम् अन्तरेण भोगं जनयितुम् अशक्नुवन्ति जीवकर्मप्रयुक्तत्वात् स्थौल्याय पञ्चीकृतानि भवन्ति । तत्र च प्रत्येकं पञ्चभूतानि द्विधा विभज्यते । तत्र एकैको भागश् चतुर्धा विभज्यते । तद्भागचतुष्टयं च स्वभावं विहाय इतरभूतचतुष्टयार्धभागेषु प्रविशति इति स्वस्यार्धभागेनेतरेषाम् अष्ट्मभागेन च पञ्चीकरणान् मेलने ऽप्य् आधिक्याद् आकाशादिशब्दप्रयोगः ।
अत्र "त्रिवृतं त्रिवृतम् एकैकां करवाणि" (छु वि.3.3.) इति श्रुतेः "त्रिवृत्कुर्वत उपदेशात्" (ब्स् इइ.4.20.) इति सूत्राच् च त्रयाणाम् एव मेलनप्रतीतेश् च त्रिवृत्करणम् एव केचिन् मन्यन्ते ते वियदधिकरणान्यायेनैव निराकृताः । तथा हि तैत्तिरीयके "तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, आकाशाद् वायुः" (तु इइ.1.1.) इत्यादिश्रुतेः छान्दोग्ये च त्रयाणां तेजोबन्नानां सृष्टिश्रवणे ऽपि द्वयोर् उपसंहारः, तेजसः प्राथम्यपदार्थधर्मापेक्षया आकाशवायुपदार्थयोर् बलीयस्त्वात्, छान्दोग्ये चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, आकाशवाय्वोर् अचेतनयोर् ब्रह्मकार्यत्वस्यावश्यं वाच्यत्वात् । तत्र पञ्चानाम् एव मेलने ऽप्य् अवयुत्यानुवादेन त्रिवृत्करणोपपत्तिः । त्रिवृतम् एवेति तु कल्पनायां वाक्यभेदप्रसङ्गः । "त्रिवृत्कुर्वत उपदेशात्" (ब्स् इइ.4.20.) इति सूत्रं त्व् अनुवादकत्वान् न पञ्चीकरणं न्यायसिद्धं बाधितुम् उत्सहते । मेलनप्रतीतिश् च शरीरादौ पञ्चानाम् अविशिष्टैव, पञ्चीकृतपञ्चमहाभूतानीति च भाष्यकारवचनम् । तस्माद् अकम् अनेनानात्मचिन्तनेनेति दिक् ।
तानि च पञ्चीकृतानि पञ्चमहाभूतानि मूर्ताख्यानि मिलित्वा एकं कार्यम् इन्द्रियाणाम् अधिष्ठानं भोगायतनम् उत्पादयन्ति । तद् एव शरीरम् इत्य् उच्यते । तत्र सत्त्वप्रधानं देवशरीरं, रजःप्रधानं मनुष्यशरीरं, तमःप्रधानं तिर्यगादिस्थावरान्तं शरीरम् । तस्य च शरीरस्य पाञ्चभौतिकस्यापि चित्ररूपस्येव क्वचिन् न्यूनाधिकभावो भूतानां न विरुध्यते । एवं विषया अपि पञ्चीकृतैकैकभूतजन्याश् चतुर्दशभुवनाख्या ऊर्ध्वमध्याधोभावेन सत्त्वरजस्तमोंशप्रधानाः घटादयश् च । एतत् सर्वं ब्रह्माण्डाख्यं विराड् इति मूर्तम् इति चोच्यते ।
अयम् औपनिषदः सृष्टिक्रमः । तद्विपरीतो लयक्रमः । पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं विराडाख्यं मूर्तं पृथिव्याध्येकैकभूतलयेनामूर्ते ऽपञ्चीकृतपञ्चमहाभूतात्मके हिरण्यगर्भाख्ये स्वकारणे लीयते । स एव दैनन्दिनः प्रलयः । अमूर्तं चाव्याकृते परमेश्वरोपाधौ । अव्याकृतस्य त्व् अनादित्वेन कारणाभावान् न लयः, स्वकारणे सूक्ष्मरूपेणावस्थानं लय इति तल्लक्षणात् । अयम् एव प्राकृतः प्रलयः । ब्रह्मज्ञानाद् आत्यन्तिक उच्छेदस् तु आत्यन्तिकः प्रलयः । स च कारणक्रमेणैव, कारणोच्छेदाद् एव कार्योच्छेदात् । सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टिप्रलयवद् अपारमार्थिकम् अपि वासनादार्ढ्यात् व्यवहारक्षमम् इति न मायिकत्वे ऽपि तुच्छत्वप्रसङ्गः । यथा चैतत् तथा व्यक्तम् आकरे ।
एवं स्थिते जागरणादिव्यवस्थोच्यते । इन्द्रियवृत्तिकालीनार्थोपलम्भो जागरणम् । तत्र च मूर्तं विराडाख्यं भोग्यं प्रत्यक्षादिप्रमाणषट्केन व्यवह्रियमाणत्वात् व्यावहारिकं विश्वाख्येन जीवेनोपभुज्यते । स च देहेन्द्रियादिषु प्रवेशात् व्यापनाद् वा विश्व इत्य् उच्यते, विश प्रवेशने विष्.ल् व्याप्ताव् इति च स्मरणात् । अत्र यद्य् अपि विश्वेनामूर्तम् अव्याकृतं चानुमानादिनानुभूयते, तथापि व्यावहारिकं सर्वं विश्वेनैव ज्ञायत इति नियमात् स्थूलशरीरोपाध्यभिमानित्वाच् च न तस्य अवस्थान्तरव्यापकत्वम् । शुक्तिरजतादिज्ञानानाम् अप्रामाणिकत्वात् तद्विषयस्याव्यावहारिकत्वे ऽपि इन्द्रियव्यापारकालीनत्वाज् जागरणोपपत्तिः । ज्ञानोत्पत्त्यादिप्रक्रिया चाधस्ताद् उक्तैव ।
एवं जाग्रभोगजनककर्मक्षये स्वाप्नभोगजनककर्मोदये च सति निराख्यया तामस्या वृत्त्या स्थूलदेहाभिमाने दूरीकृत्ते सर्वेन्द्रियेषु देवतानुग्रहाभावान् निर्व्यापारतया लीनेषु विश्वो ऽपि लीन इत्य् उच्यते । तदा च स्वप्नावस्था । तत्रान्तःकरणवासनानिमित्त इन्द्रियवृत्त्यभावकालीनो ऽर्थोपलम्भः स्वप्नः । तत्र च मन एव गजतुरगाद्यर्थाकारेण विवर्तते अविद्यावृत्त्या च ज्ञायत इति केचित् । अविद्यैव शुक्तिरजतादिवत् स्वप्नार्थकारेण परिणमते ज्ञायते चाविद्यावृत्त्येत्य् अन्ये । कः पक्षः श्रेयान्? उत्तरः । अविद्याया एव सर्वत्रार्थाध्यासज्ञानाध्यासोपादानत्वेन कल्पितत्वान् मनोगतवासनानिमित्तत्वेन च क्वचिन् मनःपरिणामत्वव्यपदेशात् । ननु, तदा मनसो दृश्याकारपरिणामानभ्युपगमे दृष्टृत्वसम्भवेनात्मनः स्वयंज्योतिष्ट्.वासिद्धिर् इति चेत्, न, बहिरिन्द्रियजन्यवृत्त्यभावेन तदानीं मनसोऽग्राहकत्वात् तत्सहकारेणैव तस्य ग्राहकत्वनियमात्, सवृत्तिकान्तःकरणावच्छिन्नस्यैव चैतन्यस्य प्रमातृत्वनियमात् तदान्तःकरनसत्त्वे ऽपि प्रमात्रभावः ।
किमधिष्ठानं स्वप्नाध्यासस्य मनोवच्छिन्नं जीवचैतन्यम् इत्य् एके, मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यम् इत्य् अपरे । किं श्रेयः? मतभेदेनोभयम् अपि । तथा हि -- जाग्रद्बोधेन स्वप्नभ्रमनिवृत्त्यभ्युपगमाद् अधिष्ठानज्ञानाद् एव च भ्रमनिवृत्तेः, ब्रह्मचैतन्यस्य चाधिष्ठानत्वे संसारदशायां तज्ज्ञानत्वाभावात् ज्ञानेन च सर्वद्वैतनिवृत्तेः न जाग्रद्बोधात् स्वप्ननिवृत्तिः स्यात् । "स हि कर्ता" (बौ इव्.3.10.) इति च जीवकर्तृत्वश्रुतेः आकाशादिप्रपञ्चवत् सर्वसाधारण्यापत्तेश् च न मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यम् अधिष्ठानम् ।
ननु, जीवचैतन्यस्यानावृत्त्तत्वेन सर्वदाभासमानत्वात् कथम् अधिष्ठानत्वम्? सत्यं, तत्रापि स्वप्नाध्यासानुकूलव्यावहारिकसंघातभानविरोध्यवस्थाज्ञानाभ्युपगमात्, स्वप्नदशायां चाहं मनुष्य इत्यादिप्रतीतिकसंघातान्तरभानाभ्युपगमात् शय्यायां स्वपिमीति शय्यान्तरवत् । भानसामग्र्यभावश् च तुल्य एव ।
ननु, अहं मनुष्य इत्यादिव्यावहारिकसंघातज्ञानस्य प्रमाणाजन्यत्वात् कथम् अज्ञाननिवर्तकता । अवस्थान्तरान्यथानुपपत्त्या तत्कल्पने सुषुप्ताव् अपि स्वप्नबाधकज्ञानम् आस्थीयेत, तच् चानिष्टं जाग्रत्त्वापत्तेर् इति चेत्, साध्व् अवोचः, स्वप्नावस्थाज्ञानस्यैवान्तःकरणलयसहितस्य सुषुप्तिरूपत्वान् न तत्र तद्बाधः । जागरणे तु मिथ्यैव स्वप्नो ऽभाद् इत्य् अनुभवाद् अहम् इति ज्ञानस्य प्रमाणाजन्यत्वे ऽपि यथार्थत्वात् शरीरादिज्ञानस्य च प्रमाणजन्यत्वाद् अवस्थाज्ञानविरोधित्वम् अनुभवसिद्धम् । विशेषाज्ञानं तु न प्रमाणजन्यवृत्तिम् अन्तरेण निवर्तते । साक्षिणश् चाविद्यानिवर्तकत्वाभावो ऽविद्यासाधकत्वेनैव धर्मिग्राहकमानसिद्ध इति न किञ्चिद् अवद्यम् । यावन्ति ज्ञानानि तावन्त्य् अज्ञानानीति चाभ्युपगमात् शुक्तिज्ञानेनेव व्यावहारिकसंघातज्ञानेनाज्ञाननिवृत्ताव् अपि पुनर् अपि कदाचिद् रजतभ्रमवन् न स्वप्नाध्यासानुपपत्तिर् इति जीवचैतन्यम् एवाधिष्ठानम् इति पक्षे न को ऽपि दोषः ।
यदा पुनर् ब्रह्मज्ञानाद् एवाज्ञाननिवृत्त्यभ्युपगमस् तदा रज्ज्वां दण्डभ्रमेण सर्पभ्रमतिरोधानवद् अधिष्ठानज्ञानाभावे ऽपि जाग्रद्भ्रमेण स्वप्नभ्रमतिरोभावोपपत्तेः ब्रह्मचैतन्यम् एव स्वप्नाध्यासाधिष्ठानम् इति पक्षे ऽपि न कश्चिद् दोषः । प्रतिजीवं स्वप्नाध्यासासाधारण्यं तु मनोगतवासनानाम् असाधारण्याद् एव ।
मनोवच्छिन्नं ब्रह्मचैतन्यम् एवाधिष्ठानम् एतस्मिन्न् अपि पक्षे ऽवस्थाज्ञानस्यावरकत्वाङ्गीकारान् न काप्य् अनुपपत्तिः । अत एव शास्त्रेषु क्वचित् क्वचित् तथा व्यपदेशः । ननु, मनोवच्छिन्नचैतन्यस्याधिष्ठानत्वे अहं गज इत्य् आहङ्कारसामानाधिकरण्येन गजप्रतीतिः स्यात् इदं रजतम् इति शुक्तिसामानाधिकरण्येन रजतप्रतीतिवत् नत्व् अयं गज इति । ब्रह्मचैतन्यस्याधिष्ठानत्वपक्षे ऽपि गज इत्य् आकारैर् एव प्रतीतिः स्यान् न त्व् अयं गज इति तत्रापीदङ्कारास्पदीभूतबाग्यार्थाभावस्य समानत्वाद् इति चेत्, न, आद्ये पक्षे अहङ्कारस्य शुक्तिवद् अधिष्ठानानवच्छेदकत्वात् शुक्ती रजतम् इतिवद् अहं गज इति न भ्रमकारप्रसङ्गः । अहम् इति ज्ञानस्येयं शुक्तिर् इति ज्ञानस्येव भ्रमविरोधित्वात्, इदमंशस्य च भ्रमाविरोधिन एव तत्र भानाभ्युपगमात् । अन्त्ये तु गज इत्य् आकारवद् अयम् इत्य् आकारो ऽपि कल्पित एव । उभयाकारबाधे ऽप्य् अधिष्ठानभूतचैतन्याबाधान् न शून्यवादप्रसङ्गः । जाग्रद्दशायाम् अपि शुक्तीदङ्कारविलक्षणस्य प्रातीतिकस्यैव रजतेदङ्कारस्य भानाभ्युपगमाच् च । "अध्यस्तम् एव हि परिस्फुरति भ्रमेषु" (स्श् इ.36.) इति न्यायात् । शुक्तीइदमंशभानपक्षे ऽपि न इदमंशसत्यत्वम् अध्यासे प्रयोजकम्, किन्त्व् अधिष्ठानसत्यत्वम् । अधिष्ठानं च तत्राज्ञातशुक्तिचैतन्यम् इवात्रापि साक्षिचैतन्यं विद्यत एवेत्य् उपपादितम् । तस्मान् न पक्षद्वये ऽपि काप्य् अनुपपत्तिः ।
अत्र च स्वाप्निकपदार्थभोक्ता तैजस इत्य् उच्यते । पित्ताख्यतेजःप्रधानत्वाद् आदित्यादिज्योतिरन्तरेणापि भासकत्वाद् इति वा ।
एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनस्यान्तःकरणस्य कारणात्मनावस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिद् अवेदिषम् इति कारणमात्रोपलम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावे ऽपि साक्ष्याकारं, सुखाकारं, अवस्थाज्ञानाकारं चाविद्यायाः वृत्तित्रयम् अभ्युपेयते । अहङ्काराभावाच् च नैका विशिष्टवृत्तिः सुषुप्त्यभावप्रसङ्गात् । अत एव वृत्तिरूपस्योपलम्भस्याभावान् न प्रलये ऽतिव्याप्तिः, तत्र तत्कल्पनाबीजाभावात्, इह च सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति सुप्तोत्थितस्य परामर्शात्, अननुभवे च परामर्शानुपपत्तेः । अन्तःकरणोपरागकालीनानुभवजन्यत्वाभावाच् च न तत्तोल्लेखाभावे ऽपि स्मरणत्वानुपपत्तिः । स्मरणे तत्तोल्लेखनियमाभावाच् च जाग्रद्दशायाम् अस्वाप्सम् इत्य् अनुभवानुपपत्तेः लिङ्गाभावेन च आश्रयासिद्ध्या चानुमानस्यासंभवात् । अहङ्कारस् तु उत्थानसमय एवानुभूयते । सुषुप्तौ लीनत्वेन तस्याननूभूतत्वात् स्मरणानुपपत्तेः । मुखप्रतिबिम्बाश्रये दर्पणे जपाकुसुमलौहित्याध्यासे रक्तं मुखम् इति प्रतीतिवद् अहङ्काराश्रयसाक्षिचैतन्यस्य स्मरणाश्रयत्वात् अहम् अस्वाप्सम् इति सामानाधिकरण्यप्रतीतिः, न पुनर् अहं सुखीति वाश्रयतया । स्मृतिसंशयविपर्ययाणां साक्षिचैतन्याश्रयत्वनियमाद् अहङ्कारस्य च प्रमाणजन्यज्ञानाश्रयत्वात् प्रमात्वेनैव तत्कार्यतावच्छेदात्, अप्रमात्वावच्छेदेन च अविद्याया एव कारणत्वात् । अत एव अनाप्तवाक्यादिजन्यपरोक्षविभ्रमो ऽपि अविद्यावृत्तिर् एवेत्य् अभ्युपगमो वेदान्तविदाम् । तत्रान्तःकरणवृत्तिजनकसामग्रीसम्भवे ऽपि प्रमात्वाभावावरोधेनान्तःकरणस्यासामर्थ्यात् । नामादिषु ब्रह्माध्यासस् तु इच्छाधीनतया भ्रमप्रमाविलक्षणा मनोवृत्तिर् एव कामादिवत् । तद् उक्तं "अत एव चोदनाजन्यत्वान् मानसी क्रियैव सा, न ज्ञानम्" इति । एतेन तर्कस्यापि मनोवृत्तित्वं व्याख्यातम् । व्याप्यारोपेण व्यापकप्रसञ्जनात्मकस्य तस्य इच्छाधीनतया भ्रमप्रमाविलक्षणत्वात् । अत एव मनननिदिध्यासनसहिते श्रवणाख्ये वेदान्तविचारे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादिविधिर् उपपद्यते, तस्य चतुर्विधान्वयव्यतिरेकादितर्करूपत्वात् । दृग्दृश्यान्वयव्यतिरेकः, साक्षिसाक्ष्यान्वयव्यतिरेकः, आगमापायितदवध्यन्वयव्यतिरेकः, दुःखिपरमप्रेमास्पदान्वयव्यतिरेक इति । अनुवृत्तव्यावृत्तान्वयव्यतिरेकः पञ्चमः । एतच् च सर्वेषां वेदान्तानुकूलतर्काणां चतुर्लक्षणीमीमांसाप्रतिपादितानाम् उपलक्षणम् इत्य् अभियुक्ताः । विस्तरस् तु वेदान्तकल्पलतिकायाम् अनुसन्धेयः ।
तद् एवं सुषुप्त्यवस्थायाम् अस्त्य् आनन्दभोगस् तद्भोक्ता च सुषुप्त्यभिमानी प्राज्ञ इत्य् उच्यते । प्रकर्षेणाज्ञत्वात् तदानीं विशेषावच्छेदाभावेन प्रकृष्टज्ञत्वाद् वा । तदानीं चान्तःकरणस्य लये ऽपि तत्संस्कारेणावच्छेदान् न जीवाभावप्रसङ्गः, न वा सार्वज्ञापत्तिः । ईश्वराभेदप्रतिपादनं च शर्रिरेन्द्रियाद्यभिमानरहितत्वेनोपचारात् । संस्कारस्य च निमित्तकारणत्वेन साक्ष्याश्रितकार्योपादानकोटाव् अप्रवेशान् न तद्भेदे ऽपि साक्षिभेदः । जागरणे त्व् अन्तःकरणस्य प्रमाश्रितकार्योपादानकोटौ प्रवेशात् तद्भेदेन प्रमातृभेद एव । साक्षिण एव चाधिकोपाधिविशिष्टस्य प्रमातृत्वान् न प्रतिसन्धानानुपपत्तिर् इति ।
मातृमानप्रभेदे ऽपि प्रतिदेहं न भिद्यते ।
साक्षी बाह्यार्थवद् यस्मात् स आत्मेत्य् उच्यते ततः ॥
व्यभिचारो मिथो यद्वत् प्रमात्रादेः स्वसाक्षिकः ।
सर्वमात्राद्यभावार्थसाक्षित्वान् न तथात्मनः ॥ (बौभ्व् इइइ.4.54-55.)
इति वार्तिककारपादैर् व्यवहारदशायाम् अपि साक्षिभेदनिराकरणात् सुषुप्तौ तद्भेदकल्पनं केषाञ्चिद् व्यामोहमात्रम् इत्य् अवधेयम् ।
ननु, दुःखम् अहम् अस्वाप्सम् इति कस्यचित् कदाचित् परामर्शात् सुषुप्तौ दुःखानुभवो ऽप्य् अस्तु । न, तदानीं दुःखसामग्रीविरहेण तदभावात् । सुखस्य चात्मस्वरूपत्वेन नित्यत्वात् शय्यादेर् असमीचीनत्वे च दुःखम् इत्य् उपचारात् दुःखम् अहम् अस्वाप्सम् इति प्रत्ययोपपत्तिः । अथ वा अवस्थात्रयस्यापि त्रैविध्याङ्गीकारात् सुषुप्ताव् अपि दुःखम् उपपद्यते । तथा हि प्रमाज्ञानं जाग्रज्जाग्रत्, शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः, श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत्, स्वप्ने ऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः, जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां च यत्किञ्चिद् अनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यवस्थायाम् अपि सात्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत्, तदनन्तरं सुखम् अहम् अस्वाप्सम् इति परामर्शः, तत्रैव या राजसी वृत्तिः सा सुषुप्तिस्वप्नः, तदनन्तरम् एव दुःखम् अहम् अस्वाप्सम् इति परामर्शोपपत्तिः, तत्रैव या तामसी वृत्तिः सा सुषुप्तिसुषुप्तिः, तदनन्तरं गाढं मूढो ऽहम् आसम् इति परामर्शः । यथा चैतत् तथा वासिष्ठवार्तिकामृतादौ स्पष्टम् ।
एवम् अध्यात्मं विश्वः, अधिभूतं विराट्, अधिदैवं विष्णुः, अध्यात्मं जाग्रत्, अधिदैवं पालनं, अधिभूतं सत्त्वगुणः । एवम् अध्यात्मं तैजसः, अधिभूतं हिरण्यगर्भः, अधिदैवं ब्रह्माः, अध्यात्मं स्वप्नः, अधिदैवं सृष्टिः, अधिभूतं रजोगुणः । एवं अध्यात्मं प्राज्ञः, अधिभूतम् अव्याकृतं, अधिदैवं रुद्रः, अध्यात्मं सुषुप्तिः, अधिदैवं प्रलयः, अधिभूतं तमोगुणः । एवम् अध्यात्माधिभूताधिदेवानाम् एकत्वात् प्रणवावयवत्रयसहितानाम् एतेषाम् उपहितानाम् ऐक्योपासनया हिरण्यगर्भलोकप्राप्तिः, अन्तःकरणशुद्धिद्वारा क्रममुक्तिश् च । एतत् सर्वोपाधिनिराकारणेन साक्षिचैतन्यमात्रज्ञानेन तु साक्षाद् एव मोक्ष इति । तद् एवं त्रयाणाम् अप्य् अवस्थात्रयसहितानां विश्वतैजसप्राज्ञानाम् अविद्यात्मकत्वात् दृ.श्यत्वेन च मिथ्यात्वाद् अनुपहितः केवलः साक्षी तुरीयाख्यो ऽहम् अस्मीत्य् अर्थः । एवं व्यवहारतः सर्वव्यवस्थोपपत्तेः परमार्थतः कस्या अप्य् अवस्थाया अभावान् न काप्य् अनुपपत्तिः । विस्तरेण चैतत् प्रपञ्चितम् अस्माभिर् वेदान्तकल्पलतिकायाम् इत्य् उपरम्यते
ननु, जाग्रत्स्वप्नसुषुप्त्यवस्थासहितानां त्रयाणाम् अपि तदभिमानिनां मिथ्यात्वात्, तत्साक्षिणो ऽपि मिथ्यात्वं स्यात्, अविशषात्, इत्य् आशङ्क्य विशेषाभिधानेन साक्षिणः सत्यत्वम् आह --
अपि व्यापकत्वाद् धितत्वप्रयोगात् स्वतः सिद्धभावाद् अनन्याश्रयत्वात् ।
जगत्तुच्छम् एतत् समस्तं तद् अन्यत् तद् एको ऽवशिष्टः शिवः केवलो ऽहम्
"न दृष्टेर् द्रष्टारं पश्येः" (बौ इइइ.4.2.) इति साक्षिणं प्रकृत्य "अतो ऽन्यद् आर्तम्" (बौ इइइ.4.2.) इति श्रुतेः साक्षिणो ऽन्यत् साक्ष्यं सर्वं जगत्तुच्छं, न तु साक्षी । बाधावधित्वात् भ्रमाधिष्ठानतया ज्ञातत्वाच् च, तद्बाधग्राहकाभावाच् चेत्याद्यनुक्तसमुच्चयार्थः अपिशब्दः । "अथ यद् अल्पं तत् मर्त्यम्" (छु विइ.24.1.) इति श्रुतेः परिच्छिन्नत्वतुच्छत्वयोः समव्याप्तत्वात् परिच्छिन्नत्वनिवृत्त्या तुच्छत्वनिवृत्तिर् इत्य् आह -- व्यापकत्वाद् इति । "सर्वं खल्व् इदं ब्रह्म" (छु इइइ.14.1.) इति सर्वात्मत्वोपदेशेन देशकालापरिच्छिन्नत्वात्, आकाशादीनां च देशकालपरिछिन्नत्वे ऽप्य् आपेक्षिकमहत्त्वेन व्यापकत्वोपचारात् । ननु, सर्वव्यापकत्वेन नित्यत्वाद् भावरूपत्वाच् चात्मा न दुःखनिवृत्तिरूपः, नापि सुखरूपः, सुखस्यानित्यत्वेन नित्यात्मरूपत्वानुपपत्तेः, तथा चात्मस्वरूपो मोक्षो ऽपुरुषार्थ एवेत्य् आशङ्क्य, न, इत्याह -- हितत्वप्रयोगाद् इति । हितत्वं, पुरुषार्थत्वम् । "तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मेति" (बौ इ.4.8.) "यो वै भूमा तत् सुखं" (छु विइ.23.1.) "एष एव परम आनन्दः" (बौ इव्.3.33.) "विज्ञानम् आनन्दं ब्रह्म" (बौ इइइ.9.28.) इत्यादिश्रुतिभ्यस् तस्य परमानन्दरूपत्वोपदेशात् । तस्य च नित्यत्वे ऽपि लोके धर्मजन्यतत्तदन्तःकरणवृत्तिव्यङ्ग्यतया तदुत्पत्तिविनाशोपचारः । अज्ञानव्यवहितस्य च तस्याप्राप्तस्येव ज्ञानमात्राद् अविद्यानिवृत्त्या प्राप्तिर् इव भवतीति तदुद्देशेन मुमुक्षुप्रवृत्त्युपपत्तिः । अध्यस्तस्य प्रपञ्चस्य दुःखस्वरूपस्याधिष्ठानत्वात् स एवाभाव इति दुःखाभावरूपत्वेनापि तस्य पुरुषार्थता ।
ननु, मोक्षे सुखं संवेद्यते न वा । नाद्यः, तदानीं देहेन्द्रियाद्यभावेन तद्व्यञ्जकाभावात्, व्यञ्जकाभावे ऽपि तत्संवेदनाभ्युपगमे संसारदशायाम् अपि तथा प्रसङ्गात् । न द्वितीयः, अपुरुषार्थत्वापत्तेः, ज्ञायमानस्यैव तस्य पुरुषार्थत्वात् । अत एव शर्करातद्भोजिनोर् इवेति वैष्णवं मन्यमानानाम् उद्गार इति चेत्, न, इत्याह -- स्वतः सिद्धभावाद् इति । स्वप्रकाशज्ञानरूपत्वाद् इत्य् अर्थः । यद्य् अपि संसारदशायाम् अविद्यावृतरूपत्वाद् आत्मा परमानन्दरूपतया न प्रथते तथापि तत्त्वविद्ययाविद्यानिवृत्तौ स्वप्रकाशतया स्वयम् एव परमानन्दरूपेण प्रकाशत इति न व्यञ्जकापेक्षा । ननु, सुखस्य स्वप्रकाशज्ञानरूपत्वे ऽपि नात्मरूपता, ज्ञानस्य धात्वर्थरूपतया क्रियात्वेन साश्रयत्वात् जानामीति प्रतीतेः, ज्ञानम् अहम् अस्मीत्य् अप्रतीतेश् च । तथा च कथम् अद्वैतवाद इत्य् आशङ्क्य, न, इत्य् आह -- अनन्याश्रयत्वाद् इति । "यत्साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सार्वान्तरः" (बौ इइइ.4.1.) इत्यादिश्रुतेः स्वप्रकाशज्ञानानन्दरूप एवात्मा, अन्तःकरणतादात्म्याध्यासेन च तद्वृत्तौ ज्ञानाध्यासाज् जानामीति तदाश्रयत्वप्रतीतिः । धात्वर्थत्वम् उत्पत्तिविनाशवत्त्वं चान्तःकरणवृत्तेर् इति ज्ञप्तिरूपमुखज्ञानस्य सर्वाधिष्ठानत्वेनान्याश्रयत्वाभावान् न द्वैतापत्तिः । तेन ज्ञानसुखात्मक आत्मा सत्यस् तद्भिन्नं च सर्वं जगद् असत्यम् इति सिद्धम्
ननु, सर्वस्य जगतस् तुच्छत्वे तन्निषेधेनात्मतत्त्वप्रतिपत्तिर् न स्यात् । न हि शशविषाणं निषिध्यते, क्वचित् प्रमितं क्वचिन् निषिध्यत इति न्यायात् । तथा च निषेधानुपपत्त्यैव न जगतस् तुच्छत्वम् इति, न, इत्य् आह --
न चैकं तदन्यद् द्वितीयं कुतः स्यात् न वा केवलत्वं न चाकेवलत्वम् ।
न शून्यं न चाशून्यम् अद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि
एकत्वसङ्ख्यायोगि एकम् । तद् अपेक्षाबुद्धिजन्यद्वित्वसङ्ख्यायोगि द्वितीयम् । तत एकाभावे द्वितीयं कुतः स्यात् । द्वितीयं च तृतीयादीनाम् अप्य् उपलक्षणम् । ननु, "एकम् एवाद्वितीयम्" (छु वि.2.1.) इति श्रुत्या एकत्वं प्रतिपाद्यते । न, इत्य् आह -- न वा केवलत्वम् इति । केवलम् एकत्वं, तस्याविद्यकत्वात् । यद्य् आत्मन एकत्वं श्रुत्या न प्रतिपाद्यते, तर्हि प्रत्यक्षादिप्रमाणवशाद् अनेकत्वं स्याद् इति चेत्, न, इत्य् आह -- न चाकेवलत्वम् इति । अकेवलत्वम् अनेकत्वं, "नेह नानास्ति किञ्चन" (बौ इव्.4.19.), "एकम् एवाद्वितीयम्" (छु वि.2.1.), "अथात आदेशो नेति नेति" (बौ इइ.3.6.) इत्यादिश्रुतिभ्यः । तर्हि सर्वप्रतिषेधाच् छून्यम् एव स्याद् इति, न, इत्य् आह -- न शून्यम् इति, "असन्न् एव स भवति असद् ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुर् इति" (तु इइ.6.), "सत्यं ज्ञानम् अनन्तं ब्रह्म" (तु इइ.1.) "सद् एव सोम्येदम् अग्र आसीत्" (छु वि.2.1.) इत्य् उपक्रम्य "ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि" (छु वि.8.7.) इत्यादिश्रुतिभिः सत्यत्वज्ञानत्वादिधर्मवद् अपि स्यात्, न, इत्य् आह -- न चाशून्यम् इति । एकम् अद्वितीयम् इति पदद्वयेन सर्वभेदप्रतिषेधे ऽप्य् एवकारेण धर्मधर्मिभावादिभेदाभेदप्रतिषेधात् । सर्वत्र हेतुम् आह -- अद्वैतकत्वाद् इति । द्विधा इतं द्वीतं तस्य भावो द्वैतम् । तद् उक्तं वार्तिके "द्विधेतं द्वीतम् इत्य् आहुस् तद्भावो द्वैतम् उच्यते" (बौभ्व् इव्.3.1807.) इति । न विद्यते द्वैतं द्विधाभावो यत्र तद् अद्वैतम् इत्य् अक्षरार्थः । "सलिल एको दृष्टाद्वैतः" (बौ इव्.3.32.) इतिश्रुतेः । प्रतियोगिज्ञानस्यैव लाघवेनाभावबुद्धौ कारणत्वात् द्वैतस्यानिर्वचनीयत्वाङ्गीकारेण प्रत्यक्षादिवेद्यत्वान् निषेधोपपत्तिर् इत्य् अर्थः । तर्ह्य् एतादृश आत्मा अङुलिनिर्देशेन प्रतिपाद्यताम् इति, न, इत्य् आह -- कथं ब्रवीमीति । किम् आक्षेपे? अद्वैतकत्वेन वागविषयत्वात्, "अवचनेनैव प्रोवाच" (नुउ विइ.), "यतो वाचो निवर्तन्ते अप्राप्य मानसा सह" (तु इइ.4.), "न विज्ञानेर् विज्ञातारं विजानीयाः" (बौ इइइ.4.2.) इत्यादिश्रुतिभ्यः । वागविषयत्वे कथं वेदान्तानां तत्र प्रामाण्यम् इति चेत्, न, अविषये ऽप्य् आत्मनि तदाकारवृत्तिमात्रेण तदविद्यानिवर्तकत्वाद् इत्य् आह -- सर्ववेदान्तसिद्धम् इति । तथा च श्रुतिः "यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातम् अविजानताम्" (कु इइ.3.), "यन् मनसा न मनुते येनाहुर् मनो मतं, तद् एव ब्रह्म त्वं विद्धि नेदं यद् इदम् उपासते" (कु इ.5.) इत्यादिर् अविषयत्वम् आत्मनो दर्शयति । तद् एवं वेदान्तवाक्यजन्याखण्दाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलानर्थनिवृत्तौ परमानन्दरूपः सन् कृतकृत्यो भवतीति सिद्धम्
मूल पाठ: Siddhāntabindu · Edition: Divānji. Baroda : Oriental Institute 1933. · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0