सिद्धान्तबिन्दु · अध्याय 1
मधुसूदनसरस्वती: सिद्धान्तबिन्दु
अथ सिद्धान्तबिन्दु
उपोद्घातः
श्रीशङ्कराचार्यनवावतारं
विश्वेश्वरं विश्वगुरुं प्रणम्य ।
वेदान्तशास्त्रश्रवणालसानां
बोधाय कुर्वे कम् अपि प्रयत्नम् ॥
इह खलु साक्षात्परम्परया वा सर्वान् एव जीवान् समुद्दिधीर्षुर् भगवान् श्रीमच्छङ्करो ऽनात्मभ्यो विवेकेनात्मानं नित्यशुद्धबुद्धमुक्तस्वभावं संक्षेपेण बोधयितुं दशश्लोकीं प्रणिनाय ।
नन्व् इदङ्कारास्पदेभ्यो ऽनात्मभ्यो विवेकेनाहङ्कारास्पदम् आत्मानं सर्वो लोको ऽहम् अस्मीति प्रत्येति दुःखं चानुभवति । तेन ज्ञातज्ञापकत्वान् निष्प्रयोजनकत्वाच् च आत्मतत्त्वप्रतिपादनं व्यर्थम् इति चेत्, न, चिद्भास्यत्वेन लक्षणेन इदङ्कारास्पदानाम् अपि देहेन्द्रियमनसां प्रतिभासतो ऽहङ्कारास्पदत्वेन तदविवेकात् तेन विशुद्धे ऽप्य् आत्मनि दुःखित्वाद्यभिमानात् शास्त्रीयेणैव ब्रह्मत्मैक्यज्ञानेन समूलस्य तस्य निवृत्तेः । तस्माद् अज्ञातज्ञापकत्वात् सप्रयोजनकत्वाच् चात्मतत्त्वप्रतिपादनं न व्यर्थम् ।
तस्य चात्मतत्त्वस्य "तत्त्वम् असि" (छु वि.8.7) "अहं ब्रह्मास्मि" (बौ इ.4.10) इत्यादिवेदान्तमहावाक्यम् एव प्रमापकम् । वाक्यं च पदार्थज्ञानद्वारेणैव ज्ञापकम् इति तत्त्वम्पदार्थयोः प्रकृतवाक्यानुकूलयोर् अन्यतो ऽसिद्धत्वात् ताव् अपि शास्त्रेणैव प्रमातव्यौ यूपाहवनीयपदार्थवत् । ततश् च "यतो वा इमानि भूतानि जायन्ते येन वा जातानि जीवन्ति" (तु इइइ.1.1) इत्याद्याः सृष्ट्यादिश्रुतयस् तत्पदवाच्यार्थस्य समर्पिकाः "सत्यं ज्ञानम् अनन्तम्" (तु इइ.1) इत्याद्यास् तु लक्ष्यार्थस्य । एवं जाग्रत्स्वप्नसुषुप्त्यादिश्रुतयः "तद् यथा महामत्स्य उभे कूले अनुसञ्चरति" (बौ इव्.3.18) इत्याद्यास् त्वम्पदवाच्यार्थस्य समर्पिकाः "यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" (बौ इव्.3.7) "न दृष्टेर् द्रष्टारं पश्येः" (बौ इइइ.4.2) इत्याद्यास् तु लक्ष्यार्थस्य । तेन प्रथमम् अवान्तरवाक्येभ्यो ऽनुभूतयोः शुद्धजीवब्रह्मणोस् तत्त्वमस्यादिवाक्ये मुखार्थान्वयानुपपत्तेर् लक्षणया स्मरणोपपत्तिः । सुषुप्तौ निर्विकल्पकसाक्षिचैतन्यानुभवाङ्गीकाराच् च अद्वितीयब्रह्मजिज्जापयिषया प्रवृत्तानां सत्यज्ञानादिपदानाम् उपाधिविशिष्टचैतन्ये शक्तत्वे ऽपि चैतन्यमात्रे तात्पर्येण तत्रैव तदंशे एव संस्कारोद्बोधाच् च । इच्छन्ति हि आकाशादिपदाद् अपि निर्विकल्पकं स्मरणं तात्पर्याधीनत्वाच् छब्दवृत्तेः । एतेन प्रमितिप्रमात्रोर् महावाक्यार्थबोधे भानम् अपास्तम् । असम्प्रज्ञातसमाधेः श्रुतिस्मृतिसिद्धत्वाच् च । पारोक्ष्यसद्वितीयत्वाभ्यां च न तत्त्वम्पदार्थमात्रानुभवाद् एव कृतकृत्यता । वाच्यार्थस्य च भेदावभासान् न पौनरुक्त्यम् । लक्ष्यार्थस्य चैकत्वाद् अखण्डार्थता । पदजन्यस्य च स्मरणस्य निर्विकल्पलवाक्यार्थानुकूलस्य निर्विकल्पकत्वम् अनुभववद् एवाविरुद्धम् । सविकल्पकवाक्यार्थबोधे च सविकल्पकपदार्थापस्थितिर् अङ्गम् । प्रकृते च निर्विकल्पको वाक्यार्थबोधस् तस्यैव प्रमात्वेनाज्ञाननिवर्तनसामर्थ्यात् । अतो न लक्ष्यतावच्छेदकम् अन्तरेण लक्षणानुपपत्तिः । प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितिर् एव शक्तिलक्षणासाध्यत्वात् ।
ननु तर्हि वेदान्तवाक्येभ्य एव पदार्थोपस्थितौ वाक्यार्थबोधे च सति तस्य स्वत एव प्रामाण्यात् तेनाज्ञानतत्कार्यनिवृत्त्यनुपपत्तौ किं विचारेणेति चेत्, सत्यम्, वेदान्ता यद्य् अपि स्वतःप्रामाण्यान् निर्विकल्पकम् आत्मसाक्षात्कारं जनयन्ति तथापि मन्दमतीनां वादिविप्रतिपत्तिजसंशयप्रतिबन्धेन तस्याज्ञाननाशकत्वासामर्थ्यात् विचारेण तु संशयनिवृत्तौ निरपवादम् अज्ञाननिवृत्तिर् इति संशयबीजभूतवादिविप्रतिपत्तिनिराकरणार्थं विचार आरभ्यते ।
प्रथमो विभागः ।
त्वंपदार्थनिर्णयः ।
तत्र त्वम्पदार्थे विप्रतिपत्तयः प्रथमं प्रदर्श्यन्ते । तत्पदार्थस्य शास्त्रतात्पर्यविषयतयाभ्यर्हितत्वे ऽपि त्वम्पदार्थस्य शास्त्रफलमोक्षभागितया ततो ऽप्य् अभ्यर्हितत्वात् ।
तत्र देहाकारपरिणतानि चत्वारि भूतान्य् एव त्वम्पदार्थ इति चार्वाकाः । चक्षुरादीनि प्रत्येकम् इत्य् अपरे । मिलितानीत्य् अन्ये । मन इत्य् एके । प्राण इत्य् अन्ये । क्षणिकं विज्ञानम् इति सौगताः । शून्यम् इति माध्यमिकाः । देहेन्द्रियातिरिक्तो देहपरिमाण इति दिगम्बराः । कर्ता भोक्ता जडो विभुर् इति वैशेषिकतार्किकप्राभाकराः । जडो बोधात्मक इति भाट्टाः । भोक्तैव केवलबोधात्मक इति साङ्ख्याः पातञ्जलाश् च । अविद्यया कर्तृत्वादिभाक् परमार्थतो निर्धर्मकः परमानन्दबोधरूप एवेत्य् औपनिषदाः । एवं सामान्यतो ऽहम्प्रत्ययसिद्धचिदात्मनि वादिविप्रतिपत्तिभिः सन्दिग्धे ऽहम्प्रत्ययस्यालम्बनविशेषनिर्णयायाह भगवान् आचार्यः --
न भूमिर् न तोयं न तेजो न वायुर् न खं नेन्द्रियं वा न तेषां समूहः ।
अनैकान्तिकत्वात् सुषुप्त्येकसिद्धस् तद् एको ऽविशिष्टश् शिवः केवलो ऽहम्
मूल पाठ: Siddhāntabindu · Edition: Divānji. Baroda : Oriental Institute 1933. · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0