भाषा

ENहिગુ
ग्रंथ पाठ

शिवसूत्र · अध्याय 2

2.1

* [<शिवसूत्रवार्तिक:>
* परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् ॥ सिव्स्व्_1.20:1 ॥
* स्थूलप्रमेयपर्यन्तं वमन्ती विश्वम् आन्तरम् ॥ सिव्स्व्_1.20:2 ॥
* प्रमात्रन्तर्बहीरूपहृषीकविषयात्मनाम् ॥ सिव्स्व्_1.20:3 ॥
* खेचर्यादिप्रवाहाणां बाह्याभ्यन्तररूपिणाम् ॥ सिव्स्व्_1.20:4 ॥
* प्रवर्तकत्वात् स्वच्छत्वगम्भीरत्वादिधर्मतः ॥ सिव्स्व्_1.20:5 ॥
* महाह्रदो जगद्व्यापी देशकालाद्यगोचरः ॥ सिव्स्व्_1.20:6 ॥
* अन्तस् तस्यानुसंधानात् तादात्म्यस्यावमर्शनात् ॥ सिव्स्व्_1.20:7 ॥
* अकारादिक्षकारान्तशब्दराशिप्रथात्मनः ॥ सिव्स्व्_1.20:8 ॥
* क्षित्यादिशिवपर्यन्ततत्त्वान्तःक्षोभकारिणः ॥ सिव्स्व्_1.20:9 ॥
* मन्त्रवीर्यस्य सर्वेषां मन्त्राणां प्राणरूपिणः ॥ सिव्स्व्_1.20:10 ॥
* पराहंतापरामर्शमयस्यानुभवः स्फुटम् ॥ सिव्स्व्_1.20:11 ॥
* अखिलं वाचकं वाच्यम् अहम् इत्य् अवमर्शनम् ॥ सिव्स्व्_1.20:12 ॥
* योगिनः सावधानस्य भवतीत्य् एव शिष्यते ॥ सिव्स्व्_1.20:13 ॥
* स्फुटीकरोमि संक्षेपात् तत् प्रमेयं पुरोदितम् ॥ सिव्स्व्_1.20:14 ॥
* महाह्रद इति प्रोक्ता शक्तिर् भगवती परा ॥ सिव्स्व्_1.20:15 ॥
* अनुसंधानम् इत्य् उक्तं तत्तादात्म्यविमर्शनम् ॥ सिव्स्व्_1.20:16 ॥
* मन्त्रवीर्यम् इति प्रोक्तं पूर्णाहंताविमर्शनम् ॥ सिव्स्व्_1.20:17 ॥
* तदीयो ऽनुभवस् तस्य स्फुरणं स्वात्मनः स्फुटम् ॥ सिव्स्व्_1.20:18 ॥
* इति श्रीशाम्भवोपायप्रकाशनपरायणः ॥ सिव्स्व्_1.20:19 ॥
* उन्मेषः प्रथमः सम्यक्स्वरूपोन्मेषलक्षणः ॥ सिव्स्व्_1.20:20 ॥]
शिवसूत्र, द्वितीय उन्मेष
चित्तं मन्त्रः

2.2

* [<शिवसूत्रवार्तिक:>
* चेत्यते ऽनेन परमं स्वात्मतत्त्वं विमृश्यते ॥ सिव्स्व्_2.1:1 ॥
* इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ सिव्स्व्_2.1:2 ॥
* तद् एव मन्त्र्यते गुप्तम् अभेदेन विमृश्यते ॥ सिव्स्व्_2.1:3 ॥
* स्वस्वरूपम् अनेनेति मन्त्रस् तेनास्य दैशिकैः ॥ सिव्स्व्_2.1:4 ॥
* पूर्णाहंतानुसंध्यात्मस्फूर्जन्मननधर्मता ॥ सिव्स्व्_2.1:5 ॥
* संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ सिव्स्व्_2.1:6 ॥
* तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकम् ॥ सिव्स्व्_2.1:7 ॥
* आराधकस्य चित्तं च मन्त्रस् तद्धर्मयोगतः ॥ सिव्स्व्_2.1:8 ॥
* अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः ॥ सिव्स्व्_2.1:9 ॥]
प्रयत्नः साधकः

2.3

* [<शिवसूत्रवार्तिक:>
* उक्तमन्त्रानुसंधानावष्टम्भोद्यन्तृतात्मकः ॥ सिव्स्व्_2.2:1 ॥
* प्रयत्नो ऽन्तःस्वसंरम्भः स एव खलु साधकः ॥ सिव्स्व्_2.2:2 ॥
* यतो मन्त्रयितुर् मन्त्रदेवतैक्यप्रदः स्मृतः ॥ सिव्स्व्_2.2:3 ॥
* ईदृक्साधकसाध्यस्य मन्त्रस्य प्रथमोदितम् ॥ सिव्स्व्_2.2:4 ॥
* वीर्यं विस्तरतः सम्यग् वर्ण्यते ऽथ सलक्षणम् ॥ सिव्स्व्_2.2:5 ॥]
विद्याशरीरसत्ता मन्त्ररहस्यम्

2.4

* [<शिवसूत्रवार्तिक:>
* विद्येति परमाद्वैतसम्प्रवेदनरूपिणी ॥ सिव्स्व्_2.3:1 ॥
* शरीरं यस्य भगवान् शब्दराशिः स उच्यते ॥ सिव्स्व्_2.3:2 ॥
* तस्य सत्ता समस्ताध्वपूर्णाहंतास्वरूपिणी ॥ सिव्स्व्_2.3:3 ॥
* स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणाम् ॥ सिव्स्व्_2.3:4 ॥
* गुप्तार्थताया जननं रहस्यम् इति कथ्यते ॥ सिव्स्व्_2.3:5 ॥
* एतच् छ्रीक्षेमराजेन तन्त्रसारात् समुद्धृतैः ॥ सिव्स्व्_2.3:6 ॥
* संवादैः संमतैः सम्यग्वर्णितं निजवृत्तिगैः ॥ सिव्स्व्_2.3:7 ॥
* सम्यग् एवंविधं मन्त्रवीर्यं येषां यथातथम् ॥ सिव्स्व्_2.3:8 ॥
* महाह्रदानुसंधानप्रकारावेदितं त्व् अपि ॥ सिव्स्व्_2.3:9 ॥
* इच्छयैव महेशस्य हृदयंगमतां दृढम् ॥ सिव्स्व्_2.3:10 ॥
* न गच्छत्य् अथ तुच्छायां चित्तं सिद्धौ प्ररोहति ॥ सिव्स्व्_2.3:11 ॥
* बिन्दुनादादिजातायां तेषां तु मितयोगिनाम् ॥ सिव्स्व्_2.3:12 ॥]
गर्भे चित्तविकासो ऽविशिष्टविद्यास्वप्नः

2.5

* [<शिवसूत्रवार्तिक:>
* गर्भो ऽख्यातिर् महामाया तन्मये सिद्धिसंचये ॥ सिव्स्व्_2.4:1 ॥
* विकासो नाम चित्तस्य तावन्मात्रे कृतार्थता ॥ सिव्स्व्_2.4:2 ॥
* सैवाविशिष्टा विद्येति किंचिज्ज्ञत्वस्वरूपिणी ॥ सिव्स्व्_2.4:3 ॥
* अशुद्धविद्या सा स्वप्नो विकल्पप्रत्ययामकः ॥ सिव्स्व्_2.4:4 ॥
* आगता अपि ताः सिद्धीः खलीकृत्य यदा पुनः ॥ सिव्स्व्_2.4:5 ॥
* अवष्टभ्नात्य् असौ योगी परां सिद्धिं तदाश्नुते ॥ सिव्स्व्_2.4:6 ॥]
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था

2.6

* [<शिवसूत्रवार्तिक:>
* विद्यायाः प्राक्समाख्यातरूपायाः शंकरेच्छया ॥ सिव्स्व्_2.5:1 ॥
* स्वाभाविके समुत्थाने समुल्लासे स्वभावजे ॥ सिव्स्व्_2.5:2 ॥
* उन्मज्जने सति क्षुद्रसिद्धिमज्जनतत्परे ॥ सिव्स्व्_2.5:3 ॥
* अवस्था या शिवस्यान्तरवस्थातुर् अभेदिनी ॥ सिव्स्व्_2.5:4 ॥
* स्फुरत्ता सैव सम्पूर्णस्वानन्दोच्छलनात्मिकाम् ॥ सिव्स्व्_2.5:5 ॥
* मुदं रातीत्य् अतो मुद्रा खेचरी च नभश्चरी ॥ सिव्स्व्_2.5:6 ॥
* व्यज्यते योगिनो विश्वग् विश्वोत्तीर्णस्वरूपिणः ॥ सिव्स्व्_2.5:7 ॥
* एवंप्रभावयोर् वीर्यासादने मन्त्रमुद्रयोः ॥ सिव्स्व्_2.5:8 ॥]
गुरुर् उपायः

2.7

* [<शिवसूत्रवार्तिक:>
* सम्यग्ज्ञानक्रियाप्राणमन्त्रमुद्रायथास्थितिम् ॥ सिव्स्व्_2.6:1 ॥
* गृणात्य् उपदिशत्य् अर्थं तद्वीर्यं चेत्य् अतो गुरुः ॥ सिव्स्व्_2.6:2 ॥
* स एव मन्त्रमुद्राणां वीर्यव्याप्तिप्रकाशनात् ॥ सिव्स्व्_2.6:3 ॥
* उपायः कथ्यते साक्षाद् उपेयं परमं प्रति ॥ सिव्स्व्_2.6:4 ॥
* यद् वा गुरुः परा शक्तिर् ईश्वरानुग्रहात्मिका ॥ सिव्स्व्_2.6:5 ॥
* अवकाशप्रदानेन सैव यायाद् उपायताम् ॥ सिव्स्व्_2.6:6 ॥
* स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ सिव्स्व्_2.6:7 ॥
* आदिमान्त्यविहीनास् तु मन्त्राः स्युः शरदभ्रवत् ॥ सिव्स्व्_2.6:8 ॥
* गुरोर् लक्षणम् एतावद् आदिमान्त्यं च वेदयेत् ॥ सिव्स्व्_2.6:9 ॥
* इति श्रीमालिनीशास्त्रसिद्धातन्त्रोक्तवैभवात् ॥ सिव्स्व्_2.6:10 ॥
* अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदकात् ॥ सिव्स्व्_2.6:11 ॥
* परमेष्ठिसमात् तस्मात् परमोपायतो गुरोः ॥ सिव्स्व्_2.6:12 ॥]
मातृकाचक्रसंबोधः

2.8

* [<शिवसूत्रवार्तिक:>
* मन्त्रमुद्रानुसंधानसंततोद्युक्तचेतसः ॥ सिव्स्व्_2.7:1 ॥
* भवत्य् उक्तगुरोः प्रीतात् साधकस्येति शिष्यते ॥ सिव्स्व्_2.7:2 ॥
* अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानगाः ॥ सिव्स्व्_2.7:3 ॥
* तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ सिव्स्व्_2.7:4 ॥
* पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ॥ सिव्स्व्_2.7:5 ॥
* क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ सिव्स्व्_2.7:6 ॥
* वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ॥ सिव्स्व्_2.7:7 ॥
* तदूर्ध्वे शादि विख्यातं पुरस्ताद् ब्रह्मपञ्चकम् ॥ सिव्स्व्_2.7:8 ॥
* अमूला तत्क्रमाज् ज्ञेया क्षान्ता सृष्टिर् उदाहृता ॥ सिव्स्व्_2.7:9 ॥
* सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ सिव्स्व्_2.7:10 ॥
* इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ॥ सिव्स्व्_2.7:11 ॥
* इति श्रीत्रीशिकाशास्त्रप्रोक्तन्यायेन मातृका ॥ सिव्स्व्_2.7:12 ॥
* अकारादिविसर्गान्तस्वरषोडशगर्भिणी ॥ सिव्स्व्_2.7:13 ॥
* अत एवादिबिन्द्वन्तदशपञ्चतिथिक्रमा ॥ सिव्स्व्_2.7:14 ॥
* तदात्मकतदुत्तीर्णबिन्दुद्वन्द्वविभूषिता ॥ सिव्स्व्_2.7:15 ॥
* अत एव जगत् सर्वं सृजत्य् अन्तर् अनुत्तरे ॥ सिव्स्व्_2.7:16 ॥
* तत् पञ्चदशकस्यान्तरुद्धृतैः पञ्चभिः स्वरैः ॥ सिव्स्व्_2.7:17 ॥
* अ इ उ ऋ ऌ विन्यासैः कादिमान्तं च वाचकम् ॥ सिव्स्व्_2.7:18 ॥
* क्षित्यादिपुरुषान्तं च वाच्यं तत्त्वकदम्बकम् ॥ सिव्स्व्_2.7:19 ॥
* पञ्चपञ्चकभेदेन पञ्चपञ्चविजृम्भितम् ॥ सिव्स्व्_2.7:20 ॥
* बहिश् चानुत्तराद् एव सृजती विश्वम् ईदृशम् ॥ सिव्स्व्_2.7:21 ॥
* वाय्वग्निसलिलेन्द्राणां क्रमाद् य र ल वात्मनाम् ॥ सिव्स्व्_2.7:22 ॥
* अनुत्तरेच्छोन्मेषाख्यत्रितयान्योन्यसंधितः ॥ सिव्स्व्_2.7:23 ॥
* किंचानुत्तरषण्ढाख्यद्वयसंधिवशाद् अपि ॥ सिव्स्व्_2.7:24 ॥
* उत्थितानां कलाविद्यामायारागाभिधायिनाम् ॥ सिव्स्व्_2.7:25 ॥
* स्वरूपगोपनात् सर्वकर्तृत्वाद्यपसारतः ॥ सिव्स्व्_2.7:26 ॥
* खण्डितस्य पशोः किंचित्कर्तृत्वादिप्रदायिनाम् ॥ सिव्स्व्_2.7:27 ॥
* मायोर्ध्वशुद्धविद्यादितत्त्वारोहनिरोधनात् ॥ सिव्स्व्_2.7:28 ॥
* मूलाद् अधो ऽवरोहस्य निरोधाच् च त्रिशण्कुवत् ॥ सिव्स्व्_2.7:29 ॥
* मध्ये संस्थापितस्यास्य धारणाद् धारणात्मनाम् ॥ सिव्स्व्_2.7:30 ॥
* यतिस् तु भावाभावानां व्यवस्थोदयदायिनी ॥ सिव्स्व्_2.7:31 ॥
* कालो ऽपि तां महामायां स्वतन्त्राम् अनुवर्तते ॥ सिव्स्व्_2.7:32 ॥
* इत्युक्त्या कालनियतियुक्तत्वात् षड्विधात्मनाम् ॥ सिव्स्व्_2.7:33 ॥
* स्फारयन्ती वपुः पश्चात् तदूर्ध्वं शादिपञ्चकम् ॥ सिव्स्व्_2.7:34 ॥
* सद्योजातादिकेशानपर्यन्तब्रह्मविग्रहम् ॥ सिव्स्व्_2.7:35 ॥
* सूक्ष्मरूपमहीवारिवह्निवायुनभोमयम् ॥ सिव्स्व्_2.7:36 ॥
* क्रमेण शुद्धविद्येशसादशक्तिशिवात्मकम् ॥ सिव्स्व्_2.7:37 ॥
* विस्फारयन्ती स्वान्तःस्थं विसर्गकलया बहिः ॥ सिव्स्व्_2.7:38 ॥
* कादिसान्ताक्षरान्तस्थः क्षकारो ऽप्य् अन्तिमो यतः ॥ सिव्स्व्_2.7:39 ॥
* अतो ऽकारहकाराभ्याम् अहम् इत्य् अपृथक्तया ॥ सिव्स्व्_2.7:40 ॥
* प्रपंचं शिवशक्तिभ्यां क्रोडीकृत्य प्रकाशते ॥ सिव्स्व्_2.7:41 ॥
* अस्यास् त्व् एवंप्रभावायाश् चक्रं यत् तद् इहोदितम् ॥ सिव्स्व्_2.7:42 ॥
* अनुत्तरेच्छोन्मेषादिस्पन्दशक्तिकदम्बकम् ॥ सिव्स्व्_2.7:43 ॥
* तत्संबोधश् चिदानन्दघनस्वात्मानुसंहितिः ॥ सिव्स्व्_2.7:44 ॥
* अथेदृङ्मातृकाचक्रसंबोधोद्बोधितात्मनः ॥ सिव्स्व्_2.7:45 ॥]
शरीरं हविः

2.9

* [<शिवसूत्रवार्तिक:>
* शून्यं धीः प्राण इत्य् एतत् सृज्यते क्षीयते ऽपि च ॥ सिव्स्व्_2.8:1 ॥
* स्थैर्यम् अस्ति परं देहापेक्षया न तु तत्त्वतः ॥ सिव्स्व्_2.8:2 ॥
* इत्य् उक्तनीत्या शून्यादेः प्रमाता त्व् अस्य भित्तिभूः ॥ सिव्स्व्_2.8:3 ॥
* शरीरं स्थूलसूक्ष्मादि चिदग्नौ परयोगिनः ॥ सिव्स्व्_2.8:4 ॥
* हूयमानं हविः प्रोक्तं तन्मातृत्वनिमज्जनात् ॥ सिव्स्व्_2.8:5 ॥
* परिपूर्णप्रकाशात्मप्रमात्रुन्मज्जनप्रदात् ॥ सिव्स्व्_2.8:6 ॥
* एवं शरीरहव्येन ज्वलद्बोधोर्ध्वरोचिषः ॥ सिव्स्व्_2.8:7 ॥]
ज्ञानम् अन्नम्

2.10

* [<शिवसूत्रवार्तिक:>
* ज्ञानं बन्ध इति प्रोक्तं यत् प्राक् तत् परयोगिनः ॥ सिव्स्व्_2.9:1 ॥
* अनात्मन्य् आत्मताज्ञप्तिर् अन्नं ग्रस्यत इत्य् अतः ॥ सिव्स्व्_2.9:2 ॥
* किं च यद् यत् प्रकाशात्मस्वरूपामर्शनात्मकम् ॥ सिव्स्व्_2.9:3 ॥
* ज्ञानं तत्परमाह्लादकारित्वाद् अन्नम् उच्यते ॥ सिव्स्व्_2.9:4 ॥
* यदा त्व् अवहितः शश्वद् योगी नैवं भवत्य् असौ ॥ सिव्स्व्_2.9:5 ॥
* तदा ज्ञानवतो ऽप्य् अस्य समाधानावलेपतः ॥ सिव्स्व्_2.9:6 ॥]
विद्यासंहारे तदुत्थस्वप्नदर्शनम्

मूल पाठ: Śivasūtra with vārttika · Edition: Madhusudan Kaul Shastri, Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc