भाषा

ENहिગુ
ग्रंथ पाठ

शिवसूत्र · अध्याय 1

1.1

शिवसूत्र, प्रथम उन्मेष
चैतन्यम् आत्मा

1.2

* [<शिवसूत्रवार्तिक:>
* चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यत् ॥ सिव्स्व्_1.1:1 ॥
* स्वातन्त्र्यम् एतद् एवात्मा ततो ऽसौ परमः शिवः ॥ सिव्स्व्_1.1:2 ॥
* अथवा को ऽयम् आत्मेति प्रष्ट् बोधयितुं शिशून् ॥ सिव्स्व्_1.1:3 ॥
* नात्मा देहो न च प्राणो न मनः खं न शून्यभूः ॥ सिव्स्व्_1.1:4 ॥
* किंतु चैतन्यम् एवात्मेत्य् आदिष्टं परमेष्ठिना ॥ सिव्स्व्_1.1:5 ॥
* अथ चैतन्यम् एवैतद् आत्मा स्वाभाविकं वपुः ॥ सिव्स्व्_1.1:6 ॥
* विशेषाचोदनाद् अस्य जगतश् चेत्य् अरूपिणः ॥ सिव्स्व्_1.1:7 ॥
* अचेत्यमानं कस्यापि वपुः किम् अपि नो भवेत् ॥ सिव्स्व्_1.1:8 ॥
* चेत्यमानं तु चिद्रूपतादात्म्याच् चिन्मयं भवेत् ॥ सिव्स्व्_1.1:9 ॥
* एवं शिवोक्तया नीत्या जङ्गमस्थावरात्मनः ॥ सिव्स्व्_1.1:10 ॥
* चैतन्यम् एव विश्वस्य स्वरूपं पारमार्थिकम् ॥ सिव्स्व्_1.1:11 ॥
* नन्व् एवंविधविश्वस्य चैतन्यं चेद् वपुस् तदा ॥ सिव्स्व्_1.1:12 ॥
* कथं बन्धस्य सम्बन्ध इति शङ्कां व्यपोहितुम् ॥ सिव्स्व्_1.1:13 ॥
* प्रश्लेषाश्लेषपाठाभ्यां सूत्रम् आह महेश्वरः ॥ सिव्स्व्_1.1:14 ॥]
ज्ञानं बन्धः

1.3

* [<शिवसूत्रवार्तिक:>
* अज्ञानम् इति तत्राद्यं चैतन्यस्फाररूपिणि ॥ सिव्स्व्_1.2:1 ॥
* आत्मन्य् अनात्मताज्ञानं ज्ञानं पुनर् अनात्मनि ॥ सिव्स्व्_1.2:2 ॥
* देहादाव् आत्ममानित्वं द्वयम् अप्य् एतद् आणवम् ॥ सिव्स्व्_1.2:3 ॥
* मलं स्वकल्पितं स्वस्मिन् बन्धः स्वेच्छाविभावितः ॥ सिव्स्व्_1.2:4 ॥
* किम् आणवमलात्मैव बन्धो ऽयं नेत्य् उदीर्यते ॥ सिव्स्व्_1.2:5 ॥]
योनिवर्गः कलाशरीरम्

1.4

* [<शिवसूत्रवार्तिक:>
* योनिर् भेदप्रथाहेतुर् माया वर्गस् तदुत्थितः ॥ सिव्स्व्_1.3:1 ॥
* कलादिक्षितिपर्यन्ततत्त्वराशिस् तदात्मकः ॥ सिव्स्व्_1.3:2 ॥
* मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम् ॥ सिव्स्व्_1.3:3 ॥
* कलेति कायम् आविश्य परिच्छेदकरी नृणाम् ॥ सिव्स्व्_1.3:4 ॥
* व्यापृतिः पुण्यपापात्मा शरीरं यस्य तत् पुनः ॥ सिव्स्व्_1.3:5 ॥
* कार्मं च मलम् एतस्मिन् द्वये बन्धो ऽनुवर्तते ॥ सिव्स्व्_1.3:6 ॥
* ईश्वरप्रत्यभिज्ञायाम् उक्तम् एतन् मलत्रयम् ॥ सिव्स्व्_1.3:7 ॥
* स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता ॥ सिव्स्व्_1.3:8 ॥
* द्विधाणवं मलम् इदं स्वस्वरूपापहारतः ॥ सिव्स्व्_1.3:9 ॥
* भिन्नवेद्यप्रथात्रैव मायीयं जन्मभोगदम् ॥ सिव्स्व्_1.3:10 ॥
* कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥ सिव्स्व्_1.3:11 ॥
* इत्य् अथैषां मलानां तु बन्धकत्वं निरूप्यते ॥ सिव्स्व्_1.3:12 ॥]
ज्ञानाधिष्ठानं मातृका

1.5

* [<शिवसूत्रवार्तिक:>
* अपूर्णम् अन्यतारूपं भिन्नवेद्यप्रथात्मकम् ॥ सिव्स्व्_1.4:1 ॥
* शुभाशुभात्मकाशेषकर्मसंस्कारविग्रहम् ॥ सिव्स्व्_1.4:2 ॥
* त्रिविधं मलम् उक्तं यत् तद् एव ज्ञानम् उच्यते ॥ सिव्स्व्_1.4:3 ॥
* न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ॥ सिव्स्व्_1.4:4 ॥
* अनुविद्धम् इव ज्ञानं सर्वं शब्देन गम्यते ॥ सिव्स्व्_1.4:5 ॥
* इत्य् उक्तनीत्या ज्ञानस्य विविधस्यास्य मातृका ॥ सिव्स्व्_1.4:6 ॥
* अकारादिक्षकारान्तपञ्चाशद्वर्णविग्रहा ॥ सिव्स्व्_1.4:7 ॥
* शिवादिक्षितिपर्यन्ततत्त्वग्रामप्रसूतिभूः ॥ सिव्स्व्_1.4:8 ॥
* करन्ध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः ॥ सिव्स्व्_1.4:9 ॥
* पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ॥ सिव्स्व्_1.4:10 ॥
* इति श्रीतिमिरोद्घाटप्रोक्तनीत्यनुसारतः ॥ सिव्स्व्_1.4:11 ॥
* स्वरादिवर्गाधिष्ठातृमातृचक्रपरिष्कृता ॥ सिव्स्व्_1.4:12 ॥
* अपूर्णो ऽहम् अहं पूर्णो ऽहं कृशो ऽहं कृशेतरः ॥ सिव्स्व्_1.4:13 ॥
* इति शब्दानुवेधेन शोकहर्षादिकारिका ॥ सिव्स्व्_1.4:14 ॥
* अधिष्ठानम् अधिष्ठात्री तदधिष्ठानतो नृणाम् ॥ सिव्स्व्_1.4:15 ॥
* अलब्धान्तर्मुखस्वात्मविश्रान्तीनि निरन्तरम् ॥ सिव्स्व्_1.4:16 ॥
* बहिर्मुखानि ज्ञानानि कथ्यन्ते बन्धहेतवः ॥ सिव्स्व्_1.4:17 ॥
* अथेदृग्बन्धसम्बन्धप्रशमोपाय उच्यते ॥ सिव्स्व्_1.4:18 ॥
* परमोपेयविश्रान्तिसतत्त्वः परमेष्ठिना ॥ सिव्स्व्_1.4:19 ॥]
उद्यमो भैरवः

1.6

* [<शिवसूत्रवार्तिक:>
* यो ऽयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः ॥ सिव्स्व्_1.5:1 ॥
* झटित्य् उच्छलनाकारप्रतिभोन्मज्जनात्मकः ॥ सिव्स्व्_1.5:2 ॥
* उद्यमो ऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः ॥ सिव्स्व्_1.5:3 ॥
* स एव सर्वशक्तीनां सामरस्याद् अशेषतः ॥ सिव्स्व्_1.5:4 ॥
* विश्वतो भरितत्वेन विकल्पानां विभेदिनाम् ॥ सिव्स्व्_1.5:5 ॥
* अलं कवलनेनापीत्य् अन्वर्थाद् एव भैरवः ॥ सिव्स्व्_1.5:6 ॥
* अथेदृग्भैरवापत्तेर् बन्धप्रशमकारणात् ॥ सिव्स्व्_1.5:7 ॥
* व्युत्थानं च भवेच् छान्तभेदाभासम् इतीर्यते ॥ सिव्स्व्_1.5:8 ॥]
शक्तिचक्रसंधाने विश्वसंहारः

1.7

* [<शिवसूत्रवार्तिक:>
* यो ऽयम् उक्तः स्वसंवित्तेर् उद्यमो भैरवात्मकः ॥ सिव्स्व्_1.6:1 ॥
* अस्यास्ति महती शक्तिर् अतिक्रान्तक्रमाक्रमा ॥ सिव्स्व्_1.6:2 ॥
* निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा ॥ सिव्स्व्_1.6:3 ॥
* रिक्तारिक्तोभयाकाराप्य् अनेतद्रूपिणी परा ॥ सिव्स्व्_1.6:4 ॥
* ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः ॥ सिव्स्व्_1.6:5 ॥
* परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया ॥ सिव्स्व्_1.6:6 ॥
* सृष्टिस्थितिलयानाख्याभासशक्तिप्रसारणात् ॥ सिव्स्व्_1.6:7 ॥
* प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ॥ सिव्स्व्_1.6:8 ॥
* तया प्रसारितस्यास्य शक्तिचक्रस्य यत् पुनः ॥ सिव्स्व्_1.6:9 ॥
* संधानम् आन्तराम्नायाम्नातक्रमविमर्शनम् ॥ सिव्स्व्_1.6:10 ॥
* तस्मिन् सत्य् अस्य विश्वस्य कालाग्न्यादिकलावधेः ॥ सिव्स्व्_1.6:11 ॥
* संहारः स्यात् स्वसंवित्तिवह्निसद्भावलक्षणः ॥ सिव्स्व्_1.6:12 ॥
* एवं स्वसंवित्कालाग्निप्लुष्टभेदस्य योगिनः ॥ सिव्स्व्_1.6:13 ॥
* न स्यात् समाधिव्युत्थानभेदः को ऽपीति कथ्यते ॥ सिव्स्व्_1.6:14 ॥
* जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ सिव्स्व्_1.6:15 ॥
* उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः ॥ सिव्स्व्_1.6:16 ॥
* तुर्यं नाम परं धाम तदाभोगश् चमत्क्रिया ॥ सिव्स्व्_1.6:17 ॥
* भेदे ऽपि जाग्रदादीनां योगिनस् तस्य सम्भवः ॥ सिव्स्व्_1.6:18 ॥
* अनुस्यूतिः परानन्दरूपा स्याद् इति शिष्यते ॥ सिव्स्व्_1.6:19 ॥
* जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमात् ॥ सिव्स्व्_1.6:20 ॥]
ज्ञानं जाग्रत्

1.8

स्वप्नो विकल्पाः

1.9

अविवेको माया सौषुप्तम्

1.10

* [<शिवसूत्रवार्तिक:>
* ज्ञानं बाह्याक्षजं जाग्रत् सर्वसाधारणार्थकम् ॥ सिव्स्व्_1.9:1 ॥
* स्वप्नः स्वात्मैव सम्प्रोक्तो विकल्पाः स्वात्मसम्भवाः ॥ सिव्स्व्_1.9:2 ॥
* अविवेको निजाख्यातिर् माया मोहस् तदात्मकः ॥ सिव्स्व्_1.9:3 ॥
* सौषुप्तं योगिनाम् एतत् त्रितयं धारणादिकम् ॥ सिव्स्व्_1.9:4 ॥
* ईश्वरप्रत्यभिज्ञायां जागराद्य् अपि लक्षितम् ॥ सिव्स्व्_1.9:5 ॥
* शून्ये बुद्ध्याद्यभावात्मन्य् अहंताकर्तृतापदे ॥ सिव्स्व्_1.9:6 ॥
* अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ सिव्स्व्_1.9:7 ॥
* साक्षाणाम् आन्तरी वृत्तिः प्राणादिप्रेरिका मता ॥ सिव्स्व्_1.9:8 ॥
* जीवनाख्याथवा प्राणे ऽहंता पुर्यष्टकात्मिका ॥ सिव्स्व्_1.9:9 ॥
* तावन् मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् ॥ सिव्स्व्_1.9:10 ॥
* सवेद्यम् अपवेद्यं च मायामलयुतायुतम् ॥ सिव्स्व्_1.9:11 ॥
* मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् ॥ सिव्स्व्_1.9:12 ॥
* स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ सिव्स्व्_1.9:13 ॥
* सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ॥ सिव्स्व्_1.9:14 ॥
* सृष्टिः साधारणी सर्वप्रमात्णां स जागरः ॥ सिव्स्व्_1.9:15 ॥
* इति विस्तरतः प्रोक्ते लोकयोग्यनुसारतः ॥ सिव्स्व्_1.9:16 ॥
* जागरादित्रये ऽमुष्मिन्न् अवधानेन जाग्रतः ॥ सिव्स्व्_1.9:17 ॥
* शक्तिचक्रानुसंधानाद् विश्वसंहारकारणात् ॥ सिव्स्व्_1.9:18 ॥
* तुर्याभोगमयाभेदख्यातिर् अख्यातिहारिणी ॥ सिव्स्व्_1.9:19 ॥
* स्फुरत्य् अविरतं यस्य स तद्धाराधिरोहतः ॥ सिव्स्व्_1.9:20 ॥
* तुर्यातीतमयं योगी प्रोक्तचैतन्यम् आमृशन् ॥ सिव्स्व्_1.9:21 ॥]
त्रितयभोक्ता वीरेशः

1.11

* [<शिवसूत्रवार्तिक:>
* जागरादित्रयं प्रोक्तशक्तिचक्रानुसंधितः ॥ सिव्स्व्_1.10:1 ॥
* तुर्यानन्दरसासाराच् छुरितं भेदवर्जनात् ॥ सिव्स्व्_1.10:2 ॥
* आनन्दरसनिर्मग्नं परमं व्योम भावयन् ॥ सिव्स्व्_1.10:3 ॥
* त्रितयस्यास्य यो भोक्ता चमत्कर्ता स योगिराट् ॥ सिव्स्व्_1.10:4 ॥
* त्रिषु धामसु यद् भोग्यं भोक्ता यश् च प्रकीर्तितः ॥ सिव्स्व्_1.10:5 ॥
* विद्यात् तद् उभयं यस् तु स भुञ्जानो न लिप्यते ॥ सिव्स्व्_1.10:6 ॥
* इत्य् उक्तनिष्प्रतिद्वन्द्विसंवित्साम्राज्यवैभवः ॥ सिव्स्व्_1.10:7 ॥
* चिद्घनः स्वात्मविज्ञानपरमानन्दनिर्भरः ॥ सिव्स्व्_1.10:8 ॥
* वीरेशो येन वीराणां भेदग्रसनकारिणाम् ॥ सिव्स्व्_1.10:9 ॥
* अन्तर्बहिर्विसरताम् इन्द्रियाणाम् अधीश्वरः ॥ सिव्स्व्_1.10:10 ॥
* किम् अस्य परचित्तत्त्वारोहविश्रान्तिसूचिकाः ॥ सिव्स्व्_1.10:11 ॥
* भूमिकाः सन्त्य् अयं याभिर् याति सर्वोत्तरां स्थितिम् ॥ सिव्स्व्_1.10:12 ॥
* इत्य् अन्तेवासिहृच्छङ्काशान्त्यै सन्तीत्य् उदीर्यते ॥ सिव्स्व्_1.10:13 ॥]
विस्मयो योगभूमिकाः

1.12

* [<शिवसूत्रवार्तिक:>
* यथा सातिशयानन्दे कस्यचिद् विस्मयो भवेत् ॥ सिव्स्व्_1.11:1 ॥
* तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने ॥ सिव्स्व्_1.11:2 ॥
* निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये ॥ सिव्स्व्_1.11:3 ॥
* परे स्वात्मन्य् अतृप्त्यैव यद् आश्चर्यं स विस्मयः ॥ सिव्स्व्_1.11:4 ॥
* स एव खलु योगस्य परतत्त्वैक्यरूपिणः ॥ सिव्स्व्_1.11:5 ॥
* भूमिकास् तत्क्रमारोहपरविश्रान्तिसूचिकाः ॥ सिव्स्व्_1.11:6 ॥
* ईर्दृग्विस्मयवद्योगभूमिकारूढचेतसः ॥ सिव्स्व्_1.11:7 ॥]
इच्छा शक्तिर् उमा कुमारी

1.13

* [<शिवसूत्रवार्तिक:>
* परभैरवतां युक्त्या समापन्नस्य शाश्वतीम् ॥ सिव्स्व्_1.12:1 ॥
* तस्यैव योगिनो येच्छा शक्तिः सैव भवत्य् उमा ॥ सिव्स्व्_1.12:2 ॥
* परा भट्टारिका सैव कुमारीति प्रकीर्तिता ॥ सिव्स्व्_1.12:3 ॥
* सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया ॥ सिव्स्व्_1.12:4 ॥
* कुमारी कुं महामायाभूमिं मारयतीत्य् अपि ॥ सिव्स्व्_1.12:5 ॥
* कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः ॥ सिव्स्व्_1.12:6 ॥
* कुमारी नान्यभोग्या च भोक्त्रैकात्म्येन तिष्ठति ॥ सिव्स्व्_1.12:7 ॥
* उमा कुमारी संत्यक्तसर्वासङ्गा महेशितुः ॥ सिव्स्व्_1.12:8 ॥
* आराधनपरा तद्वद् इच्छा शक्तिस् तु योगिनः ॥ सिव्स्व्_1.12:9 ॥
* अयम् एव स्फुटः पाठो दृष्टो ऽनुत्तरदैशिकैः ॥ सिव्स्व्_1.12:10 ॥
* व्याख्यातश् च परैः शक्तितमेतिपठनात् पुनः ॥ सिव्स्व्_1.12:11 ॥
* प्रकर्षो व्याकृतो ऽमुष्याः शक्तेर् ज्ञानक्रियात्मतः ॥ सिव्स्व्_1.12:12 ॥
* एवम् ईदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः ॥ सिव्स्व्_1.12:13 ॥]
दृश्यं शरीरम्

1.14

* [<शिवसूत्रवार्तिक:>
* यद् यद् दृश्यम् अशेषं तच् छरीरं तस्य योगिनः ॥ सिव्स्व्_1.13:1 ॥
* अहम् इत्य् अपृथक्त्वेन पतिवत् प्रतिभासनात् ॥ सिव्स्व्_1.13:2 ॥
* शरीरं देहधीप्राणशून्यरूपं घटादिवत् ॥ सिव्स्व्_1.13:3 ॥
* दृश्यम् एवास्य पशुवत् द्रष्टृत्वेन न भासते ॥ सिव्स्व्_1.13:4 ॥
* एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः ॥ सिव्स्व्_1.13:5 ॥
* मयूराण्डरसन्यायात् प्रतिपत्तिर् अभेदिनी ॥ सिव्स्व्_1.13:6 ॥
* दृश्यं शरीरताम् एति शरीरं चापि दृश्यताम् ॥ सिव्स्व्_1.13:7 ॥
* इत्य् उक्तं योगिनो यत् तन् न दुर्घटम् इतीर्यते ॥ सिव्स्व्_1.13:8 ॥
* हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् ॥ सिव्स्व्_1.13:9 ॥
* हृदयं तद् विजानीयाद् विश्वस्यायतनं महत् ॥ सिव्स्व्_1.13:10 ॥
* इत्य् उक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः ॥ सिव्स्व्_1.13:11 ॥
* स्वसंवित् तत्र संघट्टश् चित्तस्य चलतः सतः ॥ सिव्स्व्_1.13:12 ॥
* तदैकात्म्यपरामर्शजागरूकस्वभावता ॥ सिव्स्व्_1.13:13 ॥
* तस्माद् दृश्यस्य विश्वस्य नीलदेहादिरूपिणः ॥ सिव्स्व्_1.13:14 ॥
* स्वापस्यैतदभावस्य शून्यस्यापि च दर्शनम् ॥ सिव्स्व्_1.13:15 ॥
* स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ॥ सिव्स्व्_1.13:16 ॥
* इति श्रीप्रत्यभिज्ञोक्तनीत्या पत्युर् इव प्रभोः ॥ सिव्स्व्_1.13:17 ॥
* स्वाङ्गकल्पतया तस्य यथावत्प्रथनं भवेत् ॥ सिव्स्व्_1.13:18 ॥
* उक्ते ऽप्य् एवं प्रमेये ऽस्मिन्न् उपायान्तरम् उच्यते ॥ सिव्स्व्_1.13:19 ॥]
शुद्धतत्त्वसंधानाद् वापशुशक्तिः

1.15

* [<शिवसूत्रवार्तिक:>
* शुद्धं तत्त्वं परं वस्तु यत् तत् परशिवात्मकम् ॥ सिव्स्व्_1.14:1 ॥
* तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनम् ॥ सिव्स्व्_1.14:2 ॥
* तेनैव यस्य पश्वाख्या बन्धशक्तिर् न विद्यते ॥ सिव्स्व्_1.14:3 ॥
* तत् सदाशिववत्सो ऽपि विश्वस्य जगतः पतिः ॥ सिव्स्व्_1.14:4 ॥
* शुद्धतत्त्वानुसंधानवत एवास्य योगिनः ॥ सिव्स्व्_1.14:5 ॥]
वितर्क आत्मज्ञानम्

1.16

* [<शिवसूत्रवार्तिक:>
* वितर्कः प्रोक्तसंधानध्वस्तबन्धस्य योगिनः ॥ सिव्स्व्_1.15:1 ॥
* विश्वात्मा शिव एवाहम् अस्मीत्य् अर्थविचिन्तनम् ॥ सिव्स्व्_1.15:2 ॥
* एतद् एव स्फुरद्रूपम् आत्मनो ज्ञानम् उच्यते ॥ सिव्स्व्_1.15:3 ॥
* किं चास्य प्रोक्तवैतर्कस्वात्मविज्ञानशालिनः ॥ सिव्स्व्_1.15:4 ॥]
लोकानन्दः समाधिसुखम्

1.17

* [<शिवसूत्रवार्तिक:>
* लोक्यं लोकयिता चेति लोकश् चेत्यचिदात्मनि ॥ सिव्स्व्_1.16:1 ॥
* तत्तद्रूपतया तस्मिं लोके स्फुरति योगिनः ॥ सिव्स्व्_1.16:2 ॥
* ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ॥ सिव्स्व्_1.16:3 ॥
* योगिनां तु विशेषो ऽयं सम्बन्धे सावधानता ॥ सिव्स्व्_1.16:4 ॥
* इत्य् उक्तनीत्या तत् सर्वम् अहम् इत्य् अनुसंहितेः ॥ सिव्स्व्_1.16:5 ॥
* आनन्दो यो भवत्य् अन्तस् तत् समाधिसुखं स्मृतम् ॥ सिव्स्व्_1.16:6 ॥
* यत् समाधिसुखं तस्य स्वात्मारामस्य योगिनः ॥ सिव्स्व्_1.16:7 ॥
* तद् एव लोके लोकानाम् आनन्दो ऽन्तर्विचिन्वताम् ॥ सिव्स्व्_1.16:8 ॥
* विभूतियोगम् एतस्य दर्शयत्य् अथ योगिनः ॥ सिव्स्व्_1.16:9 ॥]
शक्तिसंधाने शरीरोत्पत्तिः

1.18

* [<शिवसूत्रवार्तिक:>
* इच्छा शक्तिर् उमेत्य् आदिसूत्रोक्ता शक्तिर् अस्य या ॥ सिव्स्व्_1.17:1 ॥
* संधाने योगिनस् तस्यास् तन्मयीभावने सति ॥ सिव्स्व्_1.17:2 ॥
* तद्वशात् तत्तदिच्छार्हशरीरोत्पत्तिर् इष्यते ॥ सिव्स्व्_1.17:3 ॥
* अन्याश् च सिद्धयस् तस्य सम्भवन्तीत्य् उदीर्यते ॥ सिव्स्व्_1.17:4 ॥]
भूतसंधानभूतपृथक्त्वविश्वसंघट्टाः

1.19

* [<शिवसूत्रवार्तिक:>
* भूतानां देहधीप्राणशून्यानां ग्राहकात्मनाम् ॥ सिव्स्व्_1.18:1 ॥
* ग्राह्याणां स्थावराणां च संधानं परिपोषणम् ॥ सिव्स्व्_1.18:2 ॥
* पृथक्त्वम् अथ विश्लेषो व्याध्यादिक्लेशशान्तये ॥ सिव्स्व्_1.18:3 ॥
* विश्वस्य देशकालादिविप्रकृष्टस्य यत् पुनः ॥ सिव्स्व्_1.18:4 ॥
* संघट्टश् चक्षुराद्यक्षप्रत्यक्षीकरणादिकम् ॥ सिव्स्व्_1.18:5 ॥
* एतत् सर्वं भवेच् छक्तिसंधाने सति योगिनः ॥ सिव्स्व्_1.18:6 ॥
* यदा परिमिताः सिद्धीर् अनिच्छन् पुनर् इच्छति ॥ सिव्स्व्_1.18:7 ॥
* विश्वात्मताप्रथारूपां परां सिद्धिं तदास्य तु ॥ सिव्स्व्_1.18:8 ॥]
शुद्धविद्योदयाच् चक्रेशत्वसिद्धिः

1.20

* [<शिवसूत्रवार्तिक:>
* वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिम् आत्मनः ॥ सिव्स्व्_1.19:1 ॥
* यदा योगी तदा तस्य सदाशिवपदस्पृशः ॥ सिव्स्व्_1.19:2 ॥
* ईश्वरो बहिर् उन्मेषो निमेषो ऽन्तः सदाशिवः ॥ सिव्स्व्_1.19:3 ॥
* सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ सिव्स्व्_1.19:4 ॥
* इति नीत्या जगत् सर्वम् अहम् एवेति या मतिः ॥ सिव्स्व्_1.19:5 ॥
* सा शुद्धा निर्मला विद्या तदीयाद् उदयात् स्फुटम् ॥ सिव्स्व्_1.19:6 ॥
* उन्मज्जनात् स चिच्छक्तिम् आत्मनो नित्यम् आमृशेत् ॥ सिव्स्व्_1.19:7 ॥
* यदा योगी तदा तस्य चक्रेशत्वम् अनुत्तरम् ॥ सिव्स्व्_1.19:8 ॥
* माहेश्वर्यं समावेशोत्कर्षात् सिध्यति योगिनः ॥ सिव्स्व्_1.19:9 ॥
* विश्वात्मकतदुत्तीर्णस्वात्मारामत्वम् एव सः ॥ सिव्स्व्_1.19:10 ॥
* इच्छति स्वच्छचिद्रूपो यदा योगी तदास्य तु ॥ सिव्स्व्_1.19:11 ॥]
महाह्रदानुसंधानान् मन्त्रवीर्यानुभवः

मूल पाठ: Śivasūtra with vārttika · Edition: Madhusudan Kaul Shastri, Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc