शिवसूत्र · अध्याय 3
* [<शिवसूत्रवार्तिक:>
* विद्येति ज्ञानविस्फाररूपा या तु पुरोदिता ॥ सिव्स्व्_2.10:1 ॥
* शुद्धविद्याथ संहारे ऽनुत्थाने ऽस्या निमज्जने ॥ सिव्स्व्_2.10:2 ॥
* तदुत्थस्य क्रमेणाञ्चद्विद्यासंहारजन्मनः ॥ सिव्स्व्_2.10:3 ॥
* स्वप्नस्य भेदनिष्ठस्य विकल्पौघस्य दर्शनम् ॥ सिव्स्व्_2.10:4 ॥
* उन्मज्जनं भवत्य् अस्य प्राग्व्याख्यातोत्तमात्मनः ॥ सिव्स्व्_2.10:5 ॥
* अवधाने ऽवलिप्तस्य साधकस्येति शिष्यते ॥ सिव्स्व्_2.10:6 ॥
* इति द्वितीय उन्मेषः शाक्तोपायप्रकाशकः ॥ सिव्स्व्_2.10:7 ॥]
शिवसूत्र, तृतीय उन्मेष
आत्मा चित्तम्
* [<शिवसूत्रवार्तिक:>
* विशेषभोग्यशब्दादिवासनावेशरूपितम् ॥ सिव्स्व्_3.1:1 ॥
* तत्तदध्यवसायादिव्यापारकरणोन्मुखम् ॥ सिव्स्व्_3.1:2 ॥
* सत्त्वादिवृत्त्यवष्टम्भि बुद्ध्यहंकृन्मनोमयम् ॥ सिव्स्व्_3.1:3 ॥
* चित्तं तत् प्रोक्तचैतन्यस्वरूपानवमर्शनात् ॥ सिव्स्व्_3.1:4 ॥
* तत्तत्कर्मानुसारेण नानायोनीर् अनुव्रजत् ॥ सिव्स्व्_3.1:5 ॥
* अततीत्य् अत एवात्मा ततः सो ऽणुः प्रकीर्तितः ॥ सिव्स्व्_3.1:6 ॥
* आत्मनश् चातनं नास्ति संविदेकस्वरूपिणः ॥ सिव्स्व्_3.1:7 ॥
* अतश् चैतन्यम् आत्मेति धीक्रियात्मकम् आत्मनः ॥ सिव्स्व्_3.1:8 ॥
* विश्वस्वभावभूतं तत् तात्त्विकं रूपम् ईरितम् ॥ सिव्स्व्_3.1:9 ॥
* इदानीम् एतदीयेन स्वातन्त्र्येणावभासितात् ॥ सिव्स्व्_3.1:10 ॥
* संकोचाद् अणुतायोगाच् चित्तम् आत्मेति लक्षितम् ॥ सिव्स्व्_3.1:11 ॥
* इति पूर्वापरादेशवैषम्यं नास्ति किंचन ॥ सिव्स्व्_3.1:12 ॥
* अस्य चित्तस्वरूपस्य देहादेर् आत्मनस् त्व् अणोः ॥ सिव्स्व्_3.1:13 ॥]
ज्ञानं बन्धः
* [<शिवसूत्रवार्तिक:>
* अन्तः सुखादिसंवेद्यव्यवसायादिवृत्तिमत् ॥ सिव्स्व्_3.2:1 ॥
* बहिस् तद्योग्यनीलादिदेहादिविषयोन्मुखम् ॥ सिव्स्व्_3.2:2 ॥
* भेदाभासात्मकं चास्य ज्ञानं बन्धो ऽणुरूपिणः ॥ सिव्स्व्_3.2:3 ॥
* तत्पाशितत्वाद् एवासाव् अणुः संसरति ध्रुवम् ॥ सिव्स्व्_3.2:4 ॥
* ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः ॥ सिव्स्व्_3.2:5 ॥
* अनयोर् अपृथग्भावाज् ज्ञानी ज्ञाने प्रकाशते ॥ सिव्स्व्_3.2:6 ॥
* इत्य् उक्तनीत्या ज्ञानं च स्वस्वरूपप्रकाशकम् ॥ सिव्स्व्_3.2:7 ॥
* आत्मवत् तत् कथं तस्य बन्धकत्वप्रसङ्गिता ॥ सिव्स्व्_3.2:8 ॥
* इत्य् आशङ्क्याह यद्य् एवं प्रसन्नात् परमेश्वरात् ॥ सिव्स्व्_3.2:9 ॥
* प्रत्यभिज्ञा भवत्य् एषा तदा सत्यं त्वदीरितम् ॥ सिव्स्व्_3.2:10 ॥
* तन्मायाशक्तितो नैष विमर्शो ऽस्य यदा तदा ॥ सिव्स्व्_3.2:11 ॥]
कलादीनां तत्त्वानाम् अविवेको माया
* [<शिवसूत्रवार्तिक:>
* अन्तरन्तःस्फुरत् किंचित्कर्तृत्वादिप्रदायिनाम् ॥ सिव्स्व्_3.3:1 ॥
* कलादिक्षितिपर्यन्ततत्त्वानां कञ्चुकात्मनाम् ॥ सिव्स्व्_3.3:2 ॥
* पुर्यष्टकमयत्वेन स्थूलदेहादिरूपतः ॥ सिव्स्व्_3.3:3 ॥
* स्थितानाम् अविवेकस् तेष्व् आत्मत्वेनानुसंहितिः ॥ सिव्स्व्_3.3:4 ॥
* सैव सम्मोहिनी माया तत्त्वाख्यातिमयं जगत् ॥ सिव्स्व्_3.3:5 ॥
* अतश् चैतज् जन्यमायाप्रशमायास्य योगिनः ॥ सिव्स्व्_3.3:6 ॥]
शरीरे संहारः कलानाम्
* [<शिवसूत्रवार्तिक:>
* महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि ॥ सिव्स्व्_3.4:1 ॥
* मूलादिसमनान्ते च शरीरे योगिनः परे ॥ सिव्स्व्_3.4:2 ॥
* कलानां तत्र भागानां कार्याणां कारणे निजे ॥ सिव्स्व्_3.4:3 ॥
* संहारः संविदेकाग्निसद्भावो लयचिन्तया ॥ सिव्स्व्_3.4:4 ॥
* दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते ॥ सिव्स्व्_3.4:5 ॥
* एवं ध्यानाभिधानो यः संहारोपाय ईरितः ॥ सिव्स्व्_3.4:6 ॥
* एवम् एतत् प्रधानांश् च प्राणायामपुरःसरान् ॥ सिव्स्व्_3.4:7 ॥
* अन्यान् समाधिपर्यन्तान् उपायान् दर्शयत्य् असौ ॥ सिव्स्व्_3.4:8 ॥]
नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि
* [<शिवसूत्रवार्तिक:>
* भावनीयानि युक्तेन साधकेनेति शिष्यते ॥ सिव्स्व्_3.5:1 ॥
* प्राणादिवाहिनाडीनां संहारः प्राणसंयमात् ॥ सिव्स्व्_3.5:2 ॥
* रेचकादिक्रमोत्पादाद् उदानदहनात्मनि ॥ सिव्स्व्_3.5:3 ॥
* मध्यनाड्यां विलीनत्वापादनं तन्मयत्वतः ॥ सिव्स्व्_3.5:4 ॥
* भूतानां भूजलादीनां जयो यः स उदीर्यते ॥ सिव्स्व्_3.5:5 ॥
* वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ सिव्स्व्_3.5:6 ॥
* माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता ॥ सिव्स्व्_3.5:7 ॥
* आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ सिव्स्व्_3.5:8 ॥
* इति स्वच्छन्दशास्त्रोक्तधारणाभिर् वशीकृतिः ॥ सिव्स्व्_3.5:9 ॥
* भूतेभ्यः किल कैवल्यं चित्तप्रत्याहृतिस् ततः ॥ सिव्स्व्_3.5:10 ॥
* पृथक्त्वं तदनालिप्तस्वच्छस्वात्मैकरूपता ॥ सिव्स्व्_3.5:11 ॥
* भूतसंधान इत्यादिसूत्रोक्तं यत् फलं पुरा ॥ सिव्स्व्_3.5:12 ॥
* अप्रयत्नेन साध्यं तच्छाम्भवोपायशालिनः ॥ सिव्स्व्_3.5:13 ॥
* आणवोपायसाध्यं तु यत्नेनेति विशिष्यते ॥ सिव्स्व्_3.5:14 ॥
* इत्य् एवं देहशुद्ध्याद्यैः समाध्यन्तैश् च या भवेत् ॥ सिव्स्व्_3.5:15 ॥
* सिद्धिः सा मोहवरणान् नात्मज्ञानाद् इतीर्यते ॥ सिव्स्व्_3.5:16 ॥]
मोहावरणात् सिद्धिः
* [<शिवसूत्रवार्तिक:>
* मोहो विमोहिनी माया तत्कृतावरणात् किल ॥ सिव्स्व्_3.6:1 ॥
* पूर्वोक्तधारणाद्युक्त्या सिद्धिः परिमिता भवेत् ॥ सिव्स्व्_3.6:2 ॥
* तत्तत्तत्त्वोपभोगात्मा न त्व् अस्य परचित्प्रथा ॥ सिव्स्व्_3.6:3 ॥
* विनष्टमोहावेशस्य समाधौ चाग्रतः पुनः ॥ सिव्स्व्_3.6:4 ॥
* मध्यमं प्राणम् आश्रित्य प्राणापानपथान्तरम् ॥ सिव्स्व्_3.6:5 ॥
* आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेत् ॥ सिव्स्व्_3.6:6 ॥
* प्राणादिस्थूलभावं तु त्यक्त्वा सूक्ष्मम् अथान्तरम् ॥ सिव्स्व्_3.6:7 ॥
* सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥ सिव्स्व्_3.6:8 ॥
* प्राणायामः स उद्दिष्टो यस्मान् न च्यवते पुनः ॥ सिव्स्व्_3.6:9 ॥
* शब्दादिगुणवृत्तिर् या चेतसा ह्य् अनुभूयते ॥ सिव्स्व्_3.6:10 ॥
* त्यक्त्वा तां परमं धाम प्रविशेत् तत्स्वचेतसा ॥ सिव्स्व्_3.6:11 ॥
* प्रत्याहार इति प्रोक्तो भवपाशनिकृन्तनः ॥ सिव्स्व्_3.6:12 ॥
* धीगुणान् समतिक्रम्य निर्ध्येयं चाव्ययं विभुम् ॥ सिव्स्व्_3.6:13 ॥
* ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच् च विदुर् बुधाः ॥ सिव्स्व्_3.6:14 ॥
* धारणा परमात्मत्वं धार्यते येन सर्वदा ॥ सिव्स्व्_3.6:15 ॥
* धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी ॥ सिव्स्व्_3.6:16 ॥
* स्वपरस्थेषु भूतेषु जगत्य् अस्मिन् समानधीः ॥ सिव्स्व्_3.6:17 ॥
* शिवो ऽहम् अद्वितीयो ऽहं समाधिः स परः स्मृतः ॥ सिव्स्व्_3.6:18 ॥
* इत्य् एवं मृत्युजित्तन्त्रभट्टारकनिरूपितैः ॥ सिव्स्व्_3.6:19 ॥
* प्राणसंयमनारम्भैः समाध्यन्तैः क्रमैर् अपि ॥ सिव्स्व्_3.6:20 ॥
* परतत्त्वसमावेशो भवत्य् एवेति कथ्यते ॥ सिव्स्व्_3.6:21 ॥]
मोहजयाद् अनन्ताभोगात् सहजविद्याजयः
* [<शिवसूत्रवार्तिक:>
* मोहो माया निजाख्यातिस् तज्जयात् तत्पराभवात् ॥ सिव्स्व्_3.7:1 ॥
* उद्यमार्कोत्थितो ऽनन्तः संस्कारप्रशमावधिः ॥ सिव्स्व्_3.7:2 ॥
* आभोगो यस्य विस्तार ईदृशाद् दर्शितात्मनः ॥ सिव्स्व्_3.7:3 ॥
* भवेत् सहजविद्याया जयो लाभो योगिनः ॥ सिव्स्व्_3.7:4 ॥
* एवं मोहजयोपात्तशुद्धविद्यामहोदयः ॥ सिव्स्व्_3.7:5 ॥]
जाग्रद् द्वितीयकरः
* [<शिवसूत्रवार्तिक:>
* भक्त्वैवं सहजां विद्यां तदेकत्वावलम्बने ॥ सिव्स्व्_3.8:1 ॥
* जागरूकः सदा योगी जाग्रद् इत्य् अयम् उच्यते ॥ सिव्स्व्_3.8:2 ॥
* संपूर्णाहंविमर्शात्मस्वाहंतापेक्षया जगत् ॥ सिव्स्व्_3.8:3 ॥
* द्वितीयम् इदम् आकारं करो यस्य स्वदीधितिः ॥ सिव्स्व्_3.8:4 ॥
* तथाभूतो भवत्य् एष स्वकरीभूतविष्टपः ॥ सिव्स्व्_3.8:5 ॥
* ईदृशो ऽयं सदा स्वात्मविमर्शावेशिताशयः ॥ सिव्स्व्_3.8:6 ॥]
नर्तक आत्मा
* [<शिवसूत्रवार्तिक:>
* नृत्यत्य् अन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः ॥ सिव्स्व्_3.9:1 ॥
* स्वेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पन्दलीलया ॥ सिव्स्व्_3.9:2 ॥
* जागरास्वप्नसौषुप्तरूपास् तास् ताः स्वभूमिकाः ॥ सिव्स्व्_3.9:3 ॥
* आभासयति यत् तस्माद् आत्मा नर्तक उच्यते ॥ सिव्स्व्_3.9:4 ॥
* एवंविधजगन्नाट्यनर्तकस्यास्य योगिनः ॥ सिव्स्व्_3.9:5 ॥
* भूमिकाग्रहणस्थानं रङ्गम् आह जगद्गुरुः ॥ सिव्स्व्_3.9:6 ॥]
रङ्गो ऽन्तरात्मा
* [<शिवसूत्रवार्तिक:>
* रज्यते ऽस्मिन् जगन्नाट्यक्रीडाकौतुकिनात्मना ॥ सिव्स्व्_3.10:1 ॥
* इति रङ्गो ऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ सिव्स्व्_3.10:2 ॥
* योगी कृतपदस् तत्र स्वेन्द्रियस्पन्दलीलया ॥ सिव्स्व्_3.10:3 ॥
* सदाशिवादिक्षित्यन्तजगन्नाट्यं प्रकाशयेत् ॥ सिव्स्व्_3.10:4 ॥
* देहान्तरङ्गे रङ्गे ऽस्मिन् नृत्यतः स्वान्तरात्मनि ॥ सिव्स्व्_3.10:5 ॥]
प्रेक्षकाणीन्द्रियाणि
* [<शिवसूत्रवार्तिक:>
* प्रेक्षकाणीति संसारनाट्यप्राकट्यकृद् वपुः ॥ सिव्स्व्_3.11:1 ॥
* चक्षुरादीन्द्रियाण्य् अन्तश् चमत्कुर्वन्ति योगिनः ॥ सिव्स्व्_3.11:2 ॥
* इत्य् एवं प्रेक्षकीभूतस्वाक्षचक्रस्य योगिनः ॥ सिव्स्व्_3.11:3 ॥]
धीवशात् सत्त्वसिद्धिः
* [<शिवसूत्रवार्तिक:>
* धीस् तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः ॥ सिव्स्व्_3.12:1 ॥
* तद्वशाद् एव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः ॥ सिव्स्व्_3.12:2 ॥
* स्फुरत्तारूपिणः सिद्धिर् अभिव्यक्तिः स्फुटं भवेत् ॥ सिव्स्व्_3.12:3 ॥
* एवं निजस्फुरत्तात्मसत्त्वासादनवैभवात् ॥ सिव्स्व्_3.12:4 ॥]
सिद्धः स्वतन्त्रभावः
* [<शिवसूत्रवार्तिक:>
* सिद्धः सम्पन्न एवास्य भवेत् परमयोगिनः ॥ सिव्स्व्_3.13:1 ॥
* स्वतन्त्रभावः सहजज्ञत्वकर्तृत्वलक्षणः ॥ सिव्स्व्_3.13:2 ॥
* स्वातन्त्र्यं वशिनो विश्वस्ववशीकरणक्षमम् ॥ सिव्स्व्_3.13:3 ॥
* स्वतन्त्रभाव एवास्य स्वानन्दभरितात्मनः ॥ सिव्स्व्_3.13:4 ॥]
यथा तत्र तथान्यत्र
* [<शिवसूत्रवार्तिक:>
* यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता ॥ सिव्स्व्_3.14:1 ॥
* यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ सिव्स्व्_3.14:2 ॥
* स्फुटीभवति युक्तस्य पूर्णाहंतास्वरूपिणी ॥ सिव्स्व्_3.14:3 ॥
* न चैवम् अप्य् उदासीनेन भाव्यं योगिनापि तु ॥ सिव्स्व्_3.14:4 ॥]
बीजावधानम्
* [<शिवसूत्रवार्तिक:>
* स्फुरत्तात्मा परा शक्तिर् बीजं विश्वस्य कारणम् ॥ सिव्स्व्_3.15:1 ॥
* तत्रावधानं चित्तस्य भूयोभूयो निवेशनम् ॥ सिव्स्व्_3.15:2 ॥
* योगिना सावधानेन कर्तव्यम् इति शिष्यते ॥ सिव्स्व्_3.15:3 ॥
* एवंविधो महायोगी परशक्त्यवधानवान् ॥ सिव्स्व्_3.15:4 ॥]
आसनस्थः सुखं ह्रदे निमज्जति
* [<शिवसूत्रवार्तिक:>
* आस्यते स्थीयते यस्मिन्न् ऐकात्म्येनेति चासनम् ॥ सिव्स्व्_3.16:1 ॥
* शाक्तं बलं यत् तत्रस्थस् तदेवान्तः परामृशन् ॥ सिव्स्व्_3.16:2 ॥
* योगी परिहृतध्यानधारणादिपरिश्रमः ॥ सिव्स्व्_3.16:3 ॥
* खेचर्यादिमहास्रोतोवाहप्रसरकारणे ॥ सिव्स्व्_3.16:4 ॥
* स्वच्छत्वादिगुणैर् युक्ते स्वानन्दभरिते ह्रदे ॥ सिव्स्व्_3.16:5 ॥
* संप्लुतेदंपदद्वीपे सम्पूर्णे संविदर्णवे ॥ सिव्स्व्_3.16:6 ॥
* निरस्तसकलोपायो निमज्जति यथासुखम् ॥ सिव्स्व्_3.16:7 ॥
* देहादिब्रोडनेनैव तन्मयीभवति स्फुटम् ॥ सिव्स्व्_3.16:8 ॥
* इत्य् एवम् आणवोपायासादितान् मोहनिर्जयात् ॥ सिव्स्व्_3.16:9 ॥
* उन्मज्जच्छुद्धविद्यात्मशाक्तावेशप्रकर्षतः ॥ सिव्स्व्_3.16:10 ॥
* आत्मीकृतपरानन्दह्रदगाढावगाहनात् ॥ सिव्स्व्_3.16:11 ॥
* प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः ॥ सिव्स्व्_3.16:12 ॥]
स्वमात्रानिर्माणम् आपादयति
* [<शिवसूत्रवार्तिक:>
* स्वस्य सम्बन्धिनी मात्रा चैतन्यस्योक्तरूपिणः ॥ सिव्स्व्_3.17:1 ॥
* आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः ॥ सिव्स्व्_3.17:2 ॥
* निर्माणापादनं तस्या निर्मितत्वेन दर्शनम् ॥ सिव्स्व्_3.17:3 ॥
* सम्पादयति योगीन्द्रो यथेष्टं स्पष्टम् इच्छया ॥ सिव्स्व्_3.17:4 ॥
* एवम् ईदृशशक्त्युत्थविश्वरूपस्य योगिनः ॥ सिव्स्व्_3.17:5 ॥
* पुनर्जन्मादिसम्बन्धो न कश्चिद् इति कथ्यते ॥ सिव्स्व्_3.17:6 ॥]
विद्याविनाशे जन्मविनाशः
* [<शिवसूत्रवार्तिक:>
* विद्येति सहजा तस्या अविनाशः सदोदयः ॥ सिव्स्व्_3.18:1 ॥
* तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः ॥ सिव्स्व्_3.18:2 ॥
* देहप्राणमनीषादिसमुदायस्य जन्मनः ॥ सिव्स्व्_3.18:3 ॥
* विनाशो मूलविध्वंसो भवत्य् अस्येति शिष्यते ॥ सिव्स्व्_3.18:4 ॥
* यदा तु शुद्धविद्यायाः स्वरूपं तस्य मज्जति ॥ सिव्स्व्_3.18:5 ॥
* तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः ॥ सिव्स्व्_3.18:6 ॥]
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः
* [<शिवसूत्रवार्तिक:>
* कवर्गादिषु तिष्ठन्त्यस् तदधिष्ठातृतां गताः ॥ सिव्स्व्_3.19:1 ॥
* माहेश्वर्यादिकाः प्रोक्तकरन्ध्रचितिमध्यगाः ॥ सिव्स्व्_3.19:2 ॥
* पशून् प्रमात् ॥
आविश्य तत्तत्प्रत्ययभूमिषु ॥ सिव्स्व्_3.19:3 ॥
* तत्तच्छब्दानुवेधेन मोहनात् पशुमातरः ॥ सिव्स्व्_3.19:4 ॥
* आवृण्वाना निजं रूपं चिदानन्दघनात्मकम् ॥ सिव्स्व्_3.19:5 ॥
* अतिमानं विवृण्वानाः शरीरादौ जडे ऽपि च ॥ सिव्स्व्_3.19:6 ॥
* पशुवत्साधकम् अपि प्रमत्तं मोहयन्त्य् अमूः ॥ सिव्स्व्_3.19:7 ॥
* तस्माद् भाव्यं सदानेन सावधानेन योगिना ॥ सिव्स्व्_3.19:8 ॥
* उक्तं सामान्यतो ज्ञानाधिष्ठानं मातृकेत्य् अतः ॥ सिव्स्व्_3.19:9 ॥
* इदं तु प्राप्ततत्त्वो ऽपि प्रमाद्यन् साधकः पुनः ॥ सिव्स्व्_3.19:10 ॥
* पश्वधिष्ठानभूताभिर् मोह्यते मातृभिस् त्व् इति ॥ सिव्स्व्_3.19:11 ॥
* यत एवम् अतः शुद्धविद्या प्राप्तापि युक्तिभिः ॥ सिव्स्व्_3.19:12 ॥
* बह्वीभिः सा पुनर् मौढ्याद्य् अथास्य न विनश्यति ॥ सिव्स्व्_3.19:13 ॥
* तथा सर्वास्व् अवस्थासु युक्तो भूयाद् इतीर्यते ॥ सिव्स्व्_3.19:14 ॥]
त्रिषु चतुर्थं तैलवद् आसेच्यम्
* [<शिवसूत्रवार्तिक:>
* त्रिष्व् इति प्रोक्तरूपेषु जागरादिषु तैलवत् ॥ सिव्स्व्_3.20:1 ॥
* चतुर्थम् इति पूर्वोक्तं शुद्धविद्याप्रथात्मकम् ॥ सिव्स्व्_3.20:2 ॥
* तुर्यं धाम सदासेच्यं यथा स्यात् तन्मयं त्रयम् ॥ सिव्स्व्_3.20:3 ॥
* यथा तैलं क्रमात् स्वीयम् आश्रयं व्याप्नुयात् तथा ॥ सिव्स्व्_3.20:4 ॥
* आद्यन्तकोट्योः स्फुरता जागरादेः परिस्फुटम् ॥ सिव्स्व्_3.20:5 ॥
* तुर्यानन्दरसेनार्द्रीकुर्यान् मध्यदशाम् अपि ॥ सिव्स्व्_3.20:6 ॥
* जाग्रद् इत्यादिसूत्रेण पूर्वम् उद्यमवत्तया ॥ सिव्स्व्_3.20:7 ॥
* शक्तिचक्रानुसंधानशालिनः परयोगिनः ॥ सिव्स्व्_3.20:8 ॥
* स्वरसप्रसरज्जाग्रत्स्वप्नसौषुप्तभूमिषु ॥ सिव्स्व्_3.20:9 ॥
* उदीरितः स्वतोनिर्यत्तुर्यप्रसरसम्भवः ॥ सिव्स्व्_3.20:10 ॥
* त्रितयेत्यादिसूत्रेण शाम्भवोपायसाधितात् ॥ सिव्स्व्_3.20:11 ॥
* हठपाकक्रमाज् जाग्रत्स्वप्नसौषुप्तसंहृतिः ॥ सिव्स्व्_3.20:12 ॥
* दर्शितानेन सूत्रेण त्व् आणवोपाययुक्तितः ॥ सिव्स्व्_3.20:13 ॥
* दलकल्पतयास्थायि जाग्रदादिपदत्रयम् ॥ सिव्स्व्_3.20:14 ॥
* सिञ्चेत् तुर्यरसेनेति विशेषः समुदीरितः ॥ सिव्स्व्_3.20:15 ॥
* अत्रोपायं पुनश् चाह तुर्यामृतनिषेचने ॥ सिव्स्व्_3.20:16 ॥]
मग्नः स्वचित्तेन प्रविशेत्
* [<शिवसूत्रवार्तिक:>
* प्राणायामादिकं त्यक्त्वा स्थूलोपायं विकल्पकम् ॥ सिव्स्व्_3.21:1 ॥
* अविकल्पकरूपेण स्वचित्तेन स्वसंविदा ॥ सिव्स्व्_3.21:2 ॥
* अन्तर्मुखपरामर्शचमत्काररसात्मना ॥ सिव्स्व्_3.21:3 ॥
* मग्नस् तुर्यरसेनात्र स्वदेहादिप्रमातृताम् ॥ सिव्स्व्_3.21:4 ॥
* मज्जनेन प्रशमयन् प्रविशेत् तत् समाविशेत् ॥ सिव्स्व्_3.21:5 ॥
* इत्थं परपदाविष्टबुद्धेर् वस्तुस्वभावतः ॥ सिव्स्व्_3.21:6 ॥
* यदा भूयः प्रसरणं योगिनो जायते तदा ॥ सिव्स्व्_3.21:7 ॥]
प्राणसमाचारे समदर्शनम्
* [<शिवसूत्रवार्तिक:>
* प्राणस्य प्रस्फुरच्छाक्तसौरभावेशसंस्कृतः ॥ सिव्स्व्_3.22:1 ॥
* सम्यग्विकसिताशेषग्रन्थ्यवष्टम्भधीबलात् ॥ सिव्स्व्_3.22:2 ॥
* ईषद् बहिर् मन्दमन्दं चारे प्रसरणे सति ॥ सिव्स्व्_3.22:3 ॥
* समं चिन्मुद्घनात्मत्वात् सर्वदाभेददर्शनम् ॥ सिव्स्व्_3.22:4 ॥
* संवेदनं भवत्य् अर्थात् सर्वावस्थासु योगिनः ॥ सिव्स्व्_3.22:5 ॥
* तुर्यावष्टम्भतो लभ्यं तुर्यातीतम् अनामृशन् ॥ सिव्स्व्_3.22:6 ॥
* पूर्वापरात्मनोः कोट्योः संवेद्ये तुर्यमात्रके ॥ सिव्स्व्_3.22:7 ॥
* आस्ते योगी तदामुष्य तावन् मात्रेण तुष्यतः ॥ सिव्स्व्_3.22:8 ॥]
मध्ये ऽवरप्रसवः
* [<शिवसूत्रवार्तिक:>
* पूर्वस्याम् अपरस्यां च कोटौ तुर्यनिषेविणः ॥ सिव्स्व्_3.23:1 ॥
* अवधाने ऽवलिप्तस्य कदाचित् तस्य योगिनः ॥ सिव्स्व्_3.23:2 ॥
* मध्यायाम् अवरो ऽश्रेष्ठः कुत्सितः सर्ग आपतेत् ॥ सिव्स्व्_3.23:3 ॥
* व्युत्थानात्मा ततो योगी सावधानः सदा भवेत् ॥ सिव्स्व्_3.23:4 ॥
* अवरप्रसवे वृत्ते ह्य् एवं मध्यपदे पुनः ॥ सिव्स्व्_3.23:5 ॥
* तुर्यावष्टम्भरसतस् तुर्यातीतं परामृशेत् ॥ सिव्स्व्_3.23:6 ॥]
मात्रास्व् अप्रत्ययसंधाने नष्टस्य पुनर् उत्थानम्
* [<शिवसूत्रवार्तिक:>
* मात्राः पदार्थाः रूपाद्यास् तास्व् एभिश् चक्षुरादिभिः ॥ सिव्स्व्_3.24:1 ॥
* अक्षैः स्वप्रत्ययो नाम तत्तत्स्वग्राह्यवेदनम् ॥ सिव्स्व्_3.24:2 ॥
* संधानं तु समस्तं तद् अहम् इत्य् अनुसंहितिः ॥ सिव्स्व्_3.24:3 ॥
* अमुष्मिन् सति नष्टाय हारितस्योक्तवर्गतः ॥ सिव्स्व्_3.24:4 ॥
* तुर्यस्य पुनर् उत्थानं भूय उन्मज्जनं भवेत् ॥ सिव्स्व्_3.24:5 ॥
* तदैक्यसम्पत्पूर्णत्वं योगीन्द्रस्येति शिष्यते ॥ सिव्स्व्_3.24:6 ॥
* एवम् उद्यत्समावेशप्रकर्षः साधकर्षभः ॥ सिव्स्व्_3.24:7 ॥]
शिवतुल्यो जायते
* [<शिवसूत्रवार्तिक:>
* तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् ॥ सिव्स्व्_3.25:1 ॥
* सम्प्राप्तः साधकः साक्षात् सर्वलोकान्तरात्मना ॥ सिव्स्व्_3.25:2 ॥
* शिवेन चिन्मयस्वच्छस्वच्छदानन्दशालिना ॥ सिव्स्व्_3.25:3 ॥
* तुल्यो ऽविगलनाद् देहकलाया गलने शिवः ॥ सिव्स्व्_3.25:4 ॥
* अर्जितं दीक्षया दग्धं भविष्यन्ति यमादिभिः ॥ सिव्स्व्_3.25:5 ॥
* येनेदं साधितं यत्र तद्भुक्त्या विनिवर्तते ॥ सिव्स्व्_3.25:6 ॥
* अनेकभाविकं कर्म दग्धं बीजम् इवाग्निना ॥ सिव्स्व्_3.25:7 ॥
* भविष्यद् अपि संरुद्धं येनेदं तद् धि भोगतः ॥ सिव्स्व्_3.25:8 ॥
* इत्य् उक्तनीत्या प्रारब्धप्राप्तभोगोपभोगभूः ॥ सिव्स्व्_3.25:9 ॥
* कलेवरस्थितिस् तस्य कर्तव्येत्य् उपदिश्यते ॥ सिव्स्व्_3.25:10 ॥]
शरीरवृत्तिर् व्रतम्
* [<शिवसूत्रवार्तिक:>
* एवं पूर्वोक्तया नीत्या शिवतुल्यस्य योगिनः ॥ सिव्स्व्_3.26:1 ॥
* शश्वच्छिवात्मकस्वात्मसपर्यातत्परात्मनः ॥ सिव्स्व्_3.26:2 ॥
* अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ॥ सिव्स्व्_3.26:3 ॥
* भवत्पूजोपयोगाय शरीरम् इदम् अस्तु मे ॥ सिव्स्व्_3.26:4 ॥
* इति लोकोत्तरश्रीमदुत्पलप्रोक्तया दिशा ॥ सिव्स्व्_3.26:5 ॥
* शिवभक्तिसुधापूर्णे शरीरे वृत्तिर् अस्य या ॥ सिव्स्व्_3.26:6 ॥
* व्रतम् एतद् अनुष्ठेयं न तुच्छं तस्य धारणम् ॥ सिव्स्व्_3.26:7 ॥
* एवंविधस्य तस्यास्य या या स्वालापरूपिणी ॥ सिव्स्व्_3.26:8 ॥]
कथा जपः
* [<शिवसूत्रवार्तिक:>
* महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ॥ सिव्स्व्_3.27:1 ॥
* अपूर्वामोदसुभगं परामृतरसोल्वणम् ॥ सिव्स्व्_3.27:2 ॥
* इति श्रीप्रत्यभिज्ञाकृद्दैशिकप्रोक्तया दिशा ॥ सिव्स्व्_3.27:3 ॥
* अकृत्रिमाहमामर्शमयस्वात्मावमर्शिनः ॥ सिव्स्व्_3.27:4 ॥
* या या स्वैराभिलापात्मा कथा याथार्थ्यवादिनः ॥ सिव्स्व्_3.27:5 ॥
* भूयोभूयः परे भावे भावना भाव्यते हि या ॥ सिव्स्व्_3.27:6 ॥
* जपः सो ऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ सिव्स्व्_3.27:7 ॥
* षट्शतानि दिवारात्रं सहस्राण्य् एकविंशतिः ॥ सिव्स्व्_3.27:8 ॥
* जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ सिव्स्व्_3.27:9 ॥
* इत्य् उक्तनीत्या सा सर्वस्वात्मेशामर्शसम्पदः ॥ सिव्स्व्_3.27:10 ॥
* जनिपालनधर्मत्वाज् जप इत्य् अभिधीयते ॥ सिव्स्व्_3.27:11 ॥
* अथेदृग्विधयोगीन्द्रविषयापि च या कथा ॥ सिव्स्व्_3.27:12 ॥
* जपः सो ऽपि जनस्योक्तो जनिपालनयोगतः ॥ सिव्स्व्_3.27:13 ॥
* अथ चास्योच्यते चर्या मर्यादानुविधायिनी ॥ सिव्स्व्_3.27:14 ॥]
दानम् आत्मज्ञानम्
* [<शिवसूत्रवार्तिक:>
* प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः ॥ सिव्स्व्_3.28:1 ॥
* यत् तज् ज्ञानं तद् एवास्य दानं यत्नेन दीयते ॥ सिव्स्व्_3.28:2 ॥
* परिपूर्णं स्वरूपं स्वं दीयते खण्ड्यते भिदा ॥ सिव्स्व्_3.28:3 ॥
* दायते शोध्यते रूपम् आत्मीयं दीयते पुनः ॥ सिव्स्व्_3.28:4 ॥
* रक्ष्यते प्रत्यभिज्ञातः शिवात्मा स्वस्वभावता ॥ सिव्स्व्_3.28:5 ॥
* दीयते चेति यत्नेन स्वात्मज्ञानम् अनुत्तरम् ॥ सिव्स्व्_3.28:6 ॥
* कृपया स्वात्मशिष्येभ्यस् तद् अनेनैव दीयते ॥ सिव्स्व्_3.28:7 ॥
* एवं सम्यग्व्रतं प्रोक्तं जपं चर्या च पालयन् ॥ सिव्स्व्_3.28:8 ॥
* शिवतुल्यः सदा स्वात्मशिवाराधनतत्परः ॥ सिव्स्व्_3.28:9 ॥
* अयम् एव महायोगी महामन्त्रधुरंधरः ॥ सिव्स्व्_3.28:10 ॥
* अन्तेवासिजनस्यान्तस् तत्त्वतस् तत्त्वबोधकः ॥ सिव्स्व्_3.28:11 ॥
* इत्य् आह भगवान् ईशो नित्यानुग्रहकारकः ॥ सिव्स्व्_3.28:12 ॥]
यो ऽविपस्थो ज्ञाहेतुश् च
* [<शिवसूत्रवार्तिक:>
* अवीन् पशुजनान् पातीत्य् अविपं शक्तिमण्डलम् ॥ सिव्स्व्_3.29:1 ॥
* माहेश्वर्यादिकं प्रोक्तं कवर्गाद्यधिदैवतम् ॥ सिव्स्व्_3.29:2 ॥
* अधितिष्ठति यः स्वैरम् अविपस्थः स उच्यते ॥ सिव्स्व्_3.29:3 ॥
* जानातीत्य् अखिलं तत् ज्ञा ज्ञानशक्तिर् उदीर्यते ॥ सिव्स्व्_3.29:4 ॥
* तस्या हेतुस् तया शिष्यान् प्रतिबोधयितुं क्षमः ॥ सिव्स्व्_3.29:5 ॥
* अन्यस् तु शक्तिचक्रेण परतन्त्रीकृतत्वतः ॥ सिव्स्व्_3.29:6 ॥
* स्वात्मन्य् एवासमर्थः सन् कथम् अन्यान् प्रबोधयेत् ॥ सिव्स्व्_3.29:7 ॥
* यच् छब्दापेक्षया सूत्रे तच् छब्दो ऽध्याहृतः स्वयम् ॥ सिव्स्व्_3.29:8 ॥
* चशब्दो ह्य् अर्थवाच्य् अत्र यस्माज् ज्ञानप्रबोधने ॥ सिव्स्व्_3.29:9 ॥
* योगी हेतुस् ततो दानम् आत्मज्ञानम् इतीरितम् ॥ सिव्स्व्_3.29:10 ॥
* इत्य् एवम् अविपस्थस्य ज्ञाहेतोर् अस्य योगिनः ॥ सिव्स्व्_3.29:11 ॥]
स्वशक्तिप्रचयो विश्वम्
* [<शिवसूत्रवार्तिक:>
* शक्तयो ऽस्य जगत् कृत्स्नं शक्तिमांस् तु महेश्वरः ॥ सिव्स्व्_3.30:1 ॥
* इत्य् आगमदिशा विश्वं स्वशक्तिप्रचयो यथा ॥ सिव्स्व्_3.30:2 ॥
* शिवस्य तत्समस्यापि तथास्य परयोगिनः ॥ सिव्स्व्_3.30:3 ॥
* स्वस्याः स्वात्माविमुक्तायाः शक्तेः संवेदनात्मनः ॥ सिव्स्व्_3.30:4 ॥
* प्रचयः स्फुरणारूपो विकासो विश्वम् इष्यते ॥ सिव्स्व्_3.30:5 ॥
* न परं सृष्ट्यवस्थायाम् अमुष्य परयोगिनः ॥ सिव्स्व्_3.30:6 ॥
* स्वशक्तिप्रचयो विश्वं यावत् तत्पृष्ठपातिनौ ॥ सिव्स्व्_3.30:7 ॥]
स्थितिलयौ
* [<शिवसूत्रवार्तिक:>
* स्वशक्तिप्रचयौ प्रोक्तौ ताव् अपीत्य् अनुवर्तते ॥ सिव्स्व्_3.31:1 ॥
* विकासितस्य विश्वस्य क्रियामय्या स्वसंविदा ॥ सिव्स्व्_3.31:2 ॥
* तत्तत्प्रमात्रपेक्षातः किंचित् कालम् इदंतया ॥ सिव्स्व्_3.31:3 ॥
* या स्थितिश् चिन्मयाहंताविश्रान्त्यात्मा च यो लयः ॥ सिव्स्व्_3.31:4 ॥
* ताव् उभौ योगिनस् तस्य स्वशक्तिप्रचयात्मकौ ॥ सिव्स्व्_3.31:5 ॥
* विकसत् संकुचत् सर्वं वेद्यं यत् संविदात्मकम् ॥ सिव्स्व्_3.31:6 ॥
* अन्यथा तस्य वेद्यस्य वेदनानुपपत्तितः ॥ सिव्स्व्_3.31:7 ॥
* ननु सृष्टिस्थितिध्वंसेष्व् एवम् अन्योन्यभेदिषु ॥ सिव्स्व्_3.31:8 ॥
* अन्यथात्वं समायातं स्वस्वरूपस्य योगिनः ॥ सिव्स्व्_3.31:9 ॥
* इत्य् आशङ्कानिवृत्त्यर्थं सूत्रम् आह महेश्वरः ॥ सिव्स्व्_3.31:10 ॥]
तत्प्रवृत्ताव् अप्य् अनिरासः संवेत्तृभावात्
* [<शिवसूत्रवार्तिक:>
* तेषां सृष्ट्यादिभावानां प्रवृत्ताव् अप्य् अनारतम् ॥ सिव्स्व्_3.32:1 ॥
* उन्मज्जने ऽपि निष्कम्पयोगावष्टम्भशालिनः ॥ सिव्स्व्_3.32:2 ॥
* अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ॥ सिव्स्व्_3.32:3 ॥
* कार्यता क्षयिणी तत्र कर्तृत्वं पुनर् अक्षयम् ॥ सिव्स्व्_3.32:4 ॥
* कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते ॥ सिव्स्व्_3.32:5 ॥
* तस्मिंल् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते ॥ सिव्स्व्_3.32:6 ॥
* न तु यो ऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ॥ सिव्स्व्_3.32:7 ॥
* तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात् ॥ सिव्स्व्_3.32:8 ॥
* इति श्रीस्पन्दशास्त्रोक्तनीत्या तस्यास्य योगिनः ॥ सिव्स्व्_3.32:9 ॥
* अनिरासः स्वसंवेत्तृभावाद् अप्रच्युतिर् निजात् ॥ सिव्स्व्_3.32:10 ॥
* उद्यत्तुर्यचमत्काराद् उपलब्धृस्वभावतः ॥ सिव्स्व्_3.32:11 ॥
* निरासे तस्य सृष्ट्यादेः सृज्यस्याप्य् अप्रकाशनात् ॥ सिव्स्व्_3.32:12 ॥
* विश्वसृष्टिस्थितिध्वंसेष्व् अप्रकम्पस्य योगिनः ॥ सिव्स्व्_3.32:13 ॥]
सुखासुखयोर् बहिर् मननम्
* [<शिवसूत्रवार्तिक:>
* उत्तीर्णदेहप्राणादिप्रमातृत्वस्य धीमतः ॥ सिव्स्व्_3.33:1 ॥
* वेद्यस्पर्शजयोस् तस्य मननं सुखदुःखयोः ॥ सिव्स्व्_3.33:2 ॥
* इदंताभासरूपेण नीलपीतादिवद् बहिः ॥ सिव्स्व्_3.33:3 ॥
* अहं सुखीति दुःखीति लोकवन् न त्व् अहंतया ॥ सिव्स्व्_3.33:4 ॥
* स्वशक्तिप्रचयो विश्वम् इति सूत्रार्थनीतितः ॥ सिव्स्व्_3.33:5 ॥
* अहंताच्छादितत्वेन सर्वम् अस्य प्रकाशते ॥ सिव्स्व्_3.33:6 ॥
* योगिनो लौकिकस्येव सुखाद्य् एव न केवलम् ॥ सिव्स्व्_3.33:7 ॥
* अतिक्रान्तमहामोहाक्रान्तदेहाद्यहंकृतिः ॥ सिव्स्व्_3.33:8 ॥
* लोकवत्सुखदुःखाभ्यां कथं स्पृश्येत योगिराट् ॥ सिव्स्व्_3.33:9 ॥
* उदञ्चच्चित्प्रमातृत्वन्यञ्चत्पुर्यष्टकस्थितेः ॥ सिव्स्व्_3.33:10 ॥
* यतो न तत्सुखाद्यन्तस् तत एवैष साधकः ॥ सिव्स्व्_3.33:11 ॥]
तद्विमुक्तस् तु केवली
* [<शिवसूत्रवार्तिक:>
* ताभ्यां मुक्तो विशेषेण योगीन्द्रो यत् तयोर् यतः ॥ सिव्स्व्_3.34:1 ॥
* संस्कारेणाप्य् असंस्पृष्टः केवली चिन्मयः स्मृतः ॥ सिव्स्व्_3.34:2 ॥
* तुशब्दो ऽन्तरम् आख्याति वक्ष्यमाणव्यपेक्षया ॥ सिव्स्व्_3.34:3 ॥
* एवम् उत्तरसूत्रस्थो ऽप्य् एतत्सूत्रव्यपेक्षया ॥ सिव्स्व्_3.34:4 ॥
* तद् एवाह तुशब्दोक्तम् अन्तरं चन्द्रशेखरः ॥ सिव्स्व्_3.34:5 ॥]
मोहप्रतिसंहतस् तु कर्मात्मा
* [<शिवसूत्रवार्तिक:>
* मोहः स्वाख्यातिर् अज्ञानं तेन यः प्रतिसंहतः ॥ सिव्स्व्_3.35:1 ॥
* तदेकघनतां प्राप्तस् ततो दुःखाद्युपाश्रयः ॥ सिव्स्व्_3.35:2 ॥
* तत एव स कर्मात्मा शुभाशुभकलङ्कितः ॥ सिव्स्व्_3.35:3 ॥
* तस्यैवम् ईदृशस्यापि तत्तत्कर्मात्मनो यदा ॥ सिव्स्व्_3.35:4 ॥
* अनर्गलमहेशानशक्तिपातात् समुन्मिषन् ॥ सिव्स्व्_3.35:5 ॥
* स्वातन्त्र्ययोगः सहजः प्रादुरस्ति तदास्य तु ॥ सिव्स्व्_3.35:6 ॥]
भेदतिरस्कारे सर्गान्तरकर्मत्वम्
* [<शिवसूत्रवार्तिक:>
* भेदस्य देहप्राणादिमिताहंकृतिजन्मनः ॥ सिव्स्व्_3.36:1 ॥
* कलादिवलितभ्रान्तसकलाद्युचितात्मनः ॥ सिव्स्व्_3.36:2 ॥
* तिरस्कारे स्थितस्यापि स्वोन्मेषाद् अपहस्तने ॥ सिव्स्व्_3.36:3 ॥
* मन्त्रमन्त्रेशतादात्म्यस्वमाहात्म्यप्रकाशनात् ॥ सिव्स्व्_3.36:4 ॥
* स्यात् सर्गान्तरकर्मत्वम् अमुष्य परयोगिनः ॥ सिव्स्व्_3.36:5 ॥
* यथाभिलाषनिर्मेयनिर्मातृत्वं स्फुटं भवेत् ॥ सिव्स्व्_3.36:6 ॥
* न चैतद् अप्य् असंभाव्यं स्रष्टृत्वं योगिनो यतः ॥ सिव्स्व्_3.36:7 ॥]
करणशक्तिः स्वतो ऽनुभवात्
* [<शिवसूत्रवार्तिक:>
* स्वतः स्वस्माद् अनुभवात् स्वप्नसंकल्पनादिषु ॥ सिव्स्व्_3.37:1 ॥
* करणं निजसंवेद्यग्राह्यग्राहकनिर्मितिः ॥ सिव्स्व्_3.37:2 ॥
* शक्तिस् तत्कर्तृतोन्मेषः स्वसंवित्त्यैव सिध्यति ॥ सिव्स्व्_3.37:3 ॥
* सम्भवन्तीं तथा सृष्टिं यदि दार्ढ्येन भावयेत् ॥ सिव्स्व्_3.37:4 ॥
* सर्वसाधारणाशेषनिर्मितिश् च भवेत् तदा ॥ सिव्स्व्_3.37:5 ॥
* यतः करणशक्त्यात्र शक्तिः स्वातन्त्र्यरूपिणी ॥ सिव्स्व्_3.37:6 ॥
* प्रमातुर् बोधरूपस्य सारं तस्मात् स्वमायया ॥ सिव्स्व्_3.37:7 ॥
* तिरोहितायाः स्वातन्त्र्यशक्तेर् उत्तेजनं प्रति ॥ सिव्स्व्_3.37:8 ॥]
त्रिपदाद्यनुप्राणनम्
* [<शिवसूत्रवार्तिक:>
* त्रिपदं जागरास्वप्नसौषुप्तानाम् अनुक्रमात् ॥ सिव्स्व्_3.38:1 ॥
* प्रत्येकम् आदिमध्यान्तरूपं भङ्ग्या निरूपितम् ॥ सिव्स्व्_3.38:2 ॥
* भावौन्मुख्यतदासक्तितदेकीकरणात्मकम् ॥ सिव्स्व्_3.38:3 ॥
* सृष्टिस्थितिलयाकारं तुर्येणैव तदादिना ॥ सिव्स्व्_3.38:4 ॥
* तत्त्रयान्तश् चमत्काररसानन्दघनात्मना ॥ सिव्स्व्_3.38:5 ॥
* माययाच्छादितेनापि तिरोधानस्वरूपया ॥ सिव्स्व्_3.38:6 ॥
* तत्तद्विषयभोगेषु विद्युद्वत्स्फुरता क्षणम् ॥ सिव्स्व्_3.38:7 ॥
* अनुप्राणनम् आदध्याद् अवधानेन साधकः ॥ सिव्स्व्_3.38:8 ॥
* तेनैव जीवितेनापि जीवितस्य निजात्मनः ॥ सिव्स्व्_3.38:9 ॥
* सम्यगुत्तेजनं कुर्याद् येनासौ तन्मयो भवेत् ॥ सिव्स्व्_3.38:10 ॥
* तुर्यानुप्राणनं प्रोक्तं जागरादौ पुरा त्रिषु ॥ सिव्स्व्_3.38:11 ॥
* चतुर्थम् इति सूत्रेण त्रिपदेत्यादिनामुना ॥ सिव्स्व्_3.38:12 ॥
* जागराद्यादिमध्यान्तपर्वस्व् इति विशिष्यते ॥ सिव्स्व्_3.38:13 ॥
* अन्तर्मुखस्वरूपायाम् अवस्थायां न केवलम् ॥ सिव्स्व्_3.38:14 ॥
* त्रिपदादिप्राणनम् इत्य् एतद् उक्तम् अथापि तु ॥ सिव्स्व्_3.38:15 ॥]
चित्तस्थितिवच् छरीरकरणबाह्येषु
* [<शिवसूत्रवार्तिक:>
* अनुप्राणनम् इत्य् एतद् आदद्याद् इति शिष्यते ॥ सिव्स्व्_3.39:1 ॥
* अन्तर्मुखस्वरूपायां यथा चित्तस्थितौ तथा ॥ सिव्स्व्_3.39:2 ॥
* अनुप्राणनमुक्तेन तुर्येणानन्दरूपिणा ॥ सिव्स्व्_3.39:3 ॥
* कुर्याद् बहिर्मुखत्वे ऽपि देहाक्षविषयात्मनि ॥ सिव्स्व्_3.39:4 ॥
* तन्मयं भवतीत्य् अर्थात् तदा सर्वं चराचरम् ॥ सिव्स्व्_3.39:5 ॥
* एवं स्वानन्दरूपास्य शक्तिः स्वातन्त्र्यलक्षणा ॥ सिव्स्व्_3.39:6 ॥
* यथेष्टभावनिर्माणकारिणी भवति स्फुटम् ॥ सिव्स्व्_3.39:7 ॥
* यदा पुनर् असौ योगी प्रोक्तां तुर्यात्मिकां दशाम् ॥ सिव्स्व्_3.39:8 ॥
* आन्तरीं नामृशत्य् अन्तस् तदा देहाद्यहंकृतेः ॥ सिव्स्व्_3.39:9 ॥
* अपूर्णमन्यतारूपाद् अस्याणवमलात्मनः ॥ सिव्स्व्_3.39:10 ॥]
अभिलापाद् बहिर्गतिः संवाह्यस्य
* [<शिवसूत्रवार्तिक:>
* तत्त्वैः शक्तिगणाक्रान्तैर् धरण्यन्तैः कलादिभिः ॥ सिव्स्व्_3.40:1 ॥
* योनेर् योन्यन्तरं नेयः संवाह्यः पशुर् उच्यते ॥ सिव्स्व्_3.40:2 ॥
* तस्याणवमलाकारात् तत्तत्कर्मानुसारिणः ॥ सिव्स्व्_3.40:3 ॥
* अपूर्णमन्यतारूपाद् अभिलाषाद् बहिर्गतिः ॥ सिव्स्व्_3.40:4 ॥
* विषयोन्मुखतैवास्य नान्तस् तत्त्वानुसंहितिः ॥ सिव्स्व्_3.40:5 ॥
* यदा पुनर् महेशानशक्तिपातवशोन्मिषत् ॥ सिव्स्व्_3.40:6 ॥
* आत्मीयम् एव विमृशन् नास्ते रूपं तदास्य तु ॥ सिव्स्व्_3.40:7 ॥
* अभावाद् अभिलाषस्य न बहिर्गतिर् आपतेत् ॥ सिव्स्व्_3.40:8 ॥
* अपि तूक्तचरस्वात्मारामतैवेति कथ्यते ॥ सिव्स्व्_3.40:9 ॥]
तदारूढप्रमितेस् तत्क्षयाज् जीवसंक्षयः
* [<शिवसूत्रवार्तिक:>
* तद् इत्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणि ॥ सिव्स्व्_3.41:1 ॥
* आरूढा प्रमितिः संवित् तद्विमर्शनतत्परा ॥ सिव्स्व्_3.41:2 ॥
* यस्य तस्यास्य तद् इति प्रोक्ताणवमलात्मनः ॥ सिव्स्व्_3.41:3 ॥
* अभिलापस्य रूढस्य क्षयाज् जीवस्य संक्षयः ॥ सिव्स्व्_3.41:4 ॥
* पुर्यष्टकस्वभावस्य प्रशमस् तत्त्वतो भवेत् ॥ सिव्स्व्_3.41:5 ॥
* प्राप्नोति देहपातो ऽस्य नन्व् एवं जीवसंक्षये ॥ सिव्स्व्_3.41:6 ॥
* नासौ कदापि कस्यापि दृश्यते ऽत्रापि योगिनः ॥ सिव्स्व्_3.41:7 ॥
* तस्मात् कथं तदारूढप्रमितिः साधको भवेत् ॥ सिव्स्व्_3.41:8 ॥
* इत्य् आशङ्क्योत्तरं वक्ति भगवान् विश्वदैशिकः ॥ सिव्स्व्_3.41:9 ॥]
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः
* [<शिवसूत्रवार्तिक:>
* तदेत्य् उक्ताभिलाषस्य प्रशमाज् जीवसंक्षये ॥ सिव्स्व्_3.42:1 ॥
* पुर्यष्टकप्रमातृत्वाभिमानगलने ऽप्य् असौ ॥ सिव्स्व्_3.42:2 ॥
* देहारम्भकरैर् भूतैर् अस्पृशद्भिर् अहंपदम् ॥ सिव्स्व्_3.42:3 ॥
* कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः ॥ सिव्स्व्_3.42:4 ॥
* भूयो बाहुल्यतः पत्या समो ऽयं परमेशिना ॥ सिव्स्व्_3.42:5 ॥
* तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः ॥ सिव्स्व्_3.42:6 ॥
* तत एव परः पूर्णः सम्यक् तन्मयतां गतः ॥ सिव्स्व्_3.42:7 ॥
* भूतकञ्चुकिताप्य् अस्य तदैव न निवर्तते ॥ सिव्स्व्_3.42:8 ॥
* कस्माद् इत्य् अपि शङ्कायाम् उत्तरं वक्ति शंकरः ॥ सिव्स्व्_3.42:9 ॥]
नैसर्गिकः प्राणसम्बन्धः
* [<शिवसूत्रवार्तिक:>
* प्राणे परिणता संवित् प्राग् इति प्रोक्तया दिशा ॥ सिव्स्व्_3.43:1 ॥
* निसर्गात् सहजात् स्वस्य स्वातन्त्र्याद् अनिवारितात् ॥ सिव्स्व्_3.43:2 ॥
* चञ्चत्प्रपञ्चवैचित्र्यप्रकर्षकरणेच्छया ॥ सिव्स्व्_3.43:3 ॥
* संकोचं परिगृह्णाना संविद् भगवती स्वयम् ॥ सिव्स्व्_3.43:4 ॥
* प्राप्नोति संकुचत्तत्तत्प्राणग्राहकभूमिकाः ॥ सिव्स्व्_3.43:5 ॥
* उक्तम् अर्थं दृढीकर्तुं संवादः सो ऽयम् अत्र तु ॥ सिव्स्व्_3.43:6 ॥
* या सा शक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा ॥ सिव्स्व्_3.43:7 ॥
* शक्तिचक्रस्य जननी परानन्दामृतात्मिका ॥ सिव्स्व्_3.43:8 ॥
* महाघोरेश्वरी चण्डा सृष्टिसंहारकारिका ॥ सिव्स्व्_3.43:9 ॥
* त्रिवहं त्रिविधं त्रिष्ठं बलात् कालं प्रकर्षति ॥ सिव्स्व्_3.43:10 ॥
* इति वाजसनेयायाम् इयम् एव चितिः परा ॥ सिव्स्व्_3.43:11 ॥
* स्वातन्त्र्येणावरुह्य प्राक् प्राणरूपे प्रमातरि ॥ सिव्स्व्_3.43:12 ॥
* चन्द्रभास्करवह्न्यात्मनाडीत्रितयवाहिनम् ॥ सिव्स्व्_3.43:13 ॥
* अन्तर्बहिर्विशन्निर्यन्निश्वासोच्छ्वासलक्षणम् ॥ सिव्स्व्_3.43:14 ॥
* अतीतवर्तमानादित्रिविधं कालम् आत्मनि ॥ सिव्स्व्_3.43:15 ॥
* कर्षन्त्य् अन्तर् बहिश् चेति कथ्यते कालकर्षिणी ॥ सिव्स्व्_3.43:16 ॥
* ततो नैसर्गिकस् तस्याः प्राणसम्बन्ध आगतः ॥ सिव्स्व्_3.43:17 ॥
* स्थिते ऽपि प्राणसम्बन्धे यस् तदारूढ आन्तरीम् ॥ सिव्स्व्_3.43:18 ॥
* संविदं विमृशन्न् आस्ते स लोकोत्तरतां व्रजेत् ॥ सिव्स्व्_3.43:19 ॥
* इत्य् उपायोपसंहारमुखेनाह महेश्वरः ॥ सिव्स्व्_3.43:20 ॥]
नासिकान्तर्मध्यसंयमात् किम् अत्र सव्यापसव्यसौषुम्नेषु
* [<शिवसूत्रवार्तिक:>
* नेत्रादिरोमरन्ध्रान्तनाडीनां निविडात्मनाम् ॥ सिव्स्व्_3.44:1 ॥
* सर्वासां मुख्यभूतेषु सर्वावष्टम्भदायिषु ॥ सिव्स्व्_3.44:2 ॥
* सव्यापसव्यसौषुम्ननाडीमार्गेषु सर्वदा ॥ सिव्स्व्_3.44:3 ॥
* नाडीनां नासिका प्राणशक्तिः कुटिलवाहिनी ॥ सिव्स्व्_3.44:4 ॥
* अन्तर् इत्य् आन्तरी संवित् तत्स्वरूपस्य यत् पुनः ॥ सिव्स्व्_3.44:5 ॥
* मध्यं सर्वान्तरत्वेन प्रधानं विश्वभित्तिकम् ॥ सिव्स्व्_3.44:6 ॥
* परामर्शमयं रूपम् उत्तीर्णं तस्य संयमात् ॥ सिव्स्व्_3.44:7 ॥
* निभालनप्रकर्षोत्थात् स्वात्मबुद्धिविमर्शनात् ॥ सिव्स्व्_3.44:8 ॥
* किम् अत्र संयमे वाच्यम् इयम् एव समाहितिः ॥ सिव्स्व्_3.44:9 ॥
* देदीप्यमाना सर्वासु दशास्व् अन्तर्निरन्तरम् ॥ सिव्स्व्_3.44:10 ॥
* निर्व्युत्थानावधानेन योगिनैवानुभूयते ॥ सिव्स्व्_3.44:11 ॥
* मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ॥ सिव्स्व्_3.44:12 ॥
* श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ सिव्स्व्_3.44:13 ॥
* इति श्रीभगवद्गीताप्रोक्तनीत्यनुसारतः ॥ सिव्स्व्_3.44:14 ॥
* विश्वोत्तीर्णनिजाहंतासमावेशितचेतसः ॥ सिव्स्व्_3.44:15 ॥
* पर्यन्ते योगिनो योगफलं सम्यक् प्रदर्शयन् ॥ सिव्स्व्_3.44:16 ॥
* उपसंहरति श्रीमान् उक्तं प्रकरणं शिवः ॥ सिव्स्व्_3.44:17 ॥]
भूयः स्यात् प्रतिमीलनम्
मूल पाठ: Śivasūtra with vārttika · Edition: Madhusudan Kaul Shastri, Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0