भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.4.12

2.4.12.1

ब्रह्मोवाच ॥
निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ॥
तुष्टुवुश्शांकरिं भक्त्या सर्वेऽन्ये मुदिताननाः

2.4.12.2

देवा ऊचुः ॥
नमः कल्याणरूपाय नमस्ते विश्वमंगल॥
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन

2.4.12.3

नमोस्तु ते दानववर्यहंत्रे बाणासुरप्राणहराय देव ॥
प्रलंबनाशाय पवित्ररूपिणे नमोनमश्शंकरतात तुभ्यम्

2.4.12.4

त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद ॥
प्रपञ्चभूतस्तव लोकबिंबः प्रसीद शम्भ्वात्मज दीनबंधो

2.4.12.5

देवरक्षाकर स्वामिन्रक्ष नस्सर्वदा प्रभो॥
देवप्राणावन कर प्रसीद करुणाकर

2.4.12.6

हत्वा ते तारकं दैत्यं परिवारयुतं विभो ॥
मोचितास्सकला देवा विपद्भ्यः परमेश्वर

2.4.12.7

ब्रह्मोवाच॥
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ॥
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने

2.4.12.8

शैलान्निरीक्ष्य स्तुवतस्ततस्स गिरिशात्मजः ॥
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान्

2.4.12.9

स्कन्द उवाच ॥
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ॥
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ

2.4.12.2.4.12.10

शंभोर्विशिष्टरूपाणि लिंगरूपाणि चैव हि ॥
भविष्यथ न संदेहः पर्वता वचनान्मम

2.4.12.11

योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ॥
तपस्विनां महाभागः फलदो हि भविष्यति

2.4.12.12

देवा ऊचुः ॥
एवं दत्त्वा वरान्हत्वा तारकं चासुराधिपम् ॥
त्वया कृताश्च सुखिनो वयं सर्वे चराचराः

2.4.12.13

इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ॥
जननी जनकौ द्रष्टुं शिवाशंभू त्वमर्हसि

2.4.12.14

ब्रह्मोवाच॥
इत्युक्त्वा निखिला देवा विष्ण्वाद्या प्राप्तशासनाः ॥
कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम्

2.4.12.15

कुमारे गच्छति विभौ कैलासं शंकरालयम् ॥
महामंगलमुत्तस्थौ जयशब्दो बभूव ह

2.4.12.16

आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ॥
सर्वतोलंकृतं रम्यं सर्वोपरि विराजितम्

2.4.12.17

अहं विष्णुश्च समुदौ तदा चामरधारिणौ॥
गुह मूर्ध्नि महाप्रीत्या मुनेऽभूव ह्यतंद्रितौ

2.4.12.18

इन्द्राद्या अमरास्सर्वे कुर्वंतो गुहसेवनम् ॥
यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा

2.4.12.19

शंभोर्जयं प्रभाषंतः प्रापुस्ते शंभुपर्वतम् ॥
सानंदा विविशुस्तत्रोच्चरितो मंगलध्वनिः

2.4.12.2.4.12.20

दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ॥
प्रणम्य शंकरं भक्त्या करौ बद्ध्वा विनम्रकाः

2.4.12.21

कुमारोऽपि विनीतात्मा विमानादवतीर्य च ॥
प्रणनाम मुदा शंभुं शिवां सिंहासनस्थिताम्

2.4.12.22

अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् ॥
तौ दंपती शिवौ देवौ मुमुदातेऽति नारद

2.4.12.23

महाप्रभुस्समुत्थाप्य तमुत्संगे न्यवेशयत् ॥
मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह

2.4.12.24

महानंदभरः शंभुश्चकार मुखचुंबनम् ॥
कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः

2.4.12.25

शिवापि तं समुत्थाप्य स्वोत्संगे संन्यवेशयत् ॥
कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि

2.4.12.26

तयोस्तदा महामोदो ववृधेऽतीव नारद॥
दंपत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः

2.4.12.27

तदोत्सवो महानासीन्नानाविधिः शिवालये ॥
जयशब्दो नमश्शब्दो बभूवातीव सर्वतः

2.4.12.28

ततस्सुरगणास्सर्वे विष्ण्वाद्या मुनयस्तथा ॥
सुप्रणम्य मुदा शंभुं तुष्टुवुस्सशिवं मुने

2.4.12.29

देवा ऊचुः ॥
देवदेव महादेव भक्तानामभयप्रद ॥
नमो नमस्ते बहुशः कृपाकर महेश्वर

2.4.12.2.4.12.30

अद्भुता ते महादेव महालीला सुखप्रदा ॥
सर्वेषां शंकर सतां दीनबंधो महाप्रभो

2.4.12.31

एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ॥
आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम्

2.4.12.33

गंगासलिलधाराय ह्याधाराय गुणात्मने ॥
नमस्ते त्रिदशेशाय शंकराय नमोनमः ।३२॥
वृषांकाय महेशाय गणानां पतये नमः ॥
सर्वेश्वराय देवाय त्रिलोकपतये नमः

2.4.12.34

संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ॥
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते

2.4.12.35

विसंगाय परेशाय शिवाय परमात्मने ॥
निष्प्रपंचाय शुद्धाय परमायाव्ययाय च

2.4.12.36

दण्डहस्ताय कालाय पाशहस्ताय ते नमः ॥
वेदमंत्रप्रधानाय शतजिह्वाय ते नमः

2.4.12.37

भूतं भव्यं भविष्यच्च स्थावरं जंगमं च यत् ॥
तव देहात्समुत्पन्नं सर्वथा परमेश्वर

2.4.12.38

पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ॥
वयं ते शरणापन्नाः सर्वथा परमेश्वर

2.4.12.39

शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ॥
अरूपाय सरूपाय विश्वरूपाय ते नमः

2.4.12.2.4.12.40

शिवाय नीलकंठाय चिताभस्मांगधारिणे ॥
नित्यं नीलशिखंडाय श्रीकण्ठाय नमोनमः

2.4.12.41

सर्वप्रणतदेहाय संयमप्रणताय च ॥
महादेवाय शर्वाय सर्वार्चितपदाय च

2.4.12.42

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यसे

2.4.12.43

पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ॥
ऋषीणां च वशिष्ठस्त्वं देवानां वासवस्तथा

2.4.12.44

अकारस्सर्ववेदानां त्राता भव महेश्वर ॥
त्वं च लोकहितार्थाय भूतानि परिषिंचसि

2.4.12.45

महेश्वर महाभाग शुभाशुभनिरीक्षक ॥
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव

2.4.12.46

रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ॥
अंतं गंतुं न शक्ताः स्म देवदेव नमोस्तु ते

2.4.12.47

॥ ब्रह्मोवाच ॥
इति स्तुत्वाखिला देवा विष्ण्वाद्या प्रमुखस्थिताः ॥
मुहुर्मुहुस्सुप्रणम्य स्कंदं कृत्वा पुरस्सरम्

2.4.12.48

देवस्तुतिं समाकर्ण्य शिवस्सर्वेश्वरस्स्वराट् ॥
सुप्रसन्नो बभूवाथ विजहास दयापरः

2.4.12.49

उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ॥
शंकरः परमेशानो दीनबंधुस्सतां गतिः

2.4.12.2.4.12.50

शिव उवाच ॥
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ॥
सर्वथाहं सतां त्राता देवानां वः कृपानिधिः

2.4.12.51

दुष्टहंता त्रिलोकेशश्शंकरो भक्तवत्सलः ॥
कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान्

2.4.12.52

यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ॥
तदा तदा मां यूयं वै भजंतु सुखहेतवे

2.4.12.53

ब्रह्मोवाच ॥
इत्याज्ञप्तस्तदा देवा विष्ण्वाद्यास्समुनीश्वराः ॥
शिवं प्रणम्य सशिवं कुमारं च मुदान्विताः

2.4.12.54

कथयंतो यशो रम्यं शिवयोश्शांकरेश्च तत् ॥
आनन्दं परमं प्राप्य स्वधामानि ययु र्मुने

2.4.12.55

शिवोपि शिवया सार्द्धं सगणः परमेश्वरः ॥
कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा

2.4.12.56

इत्येवं कथितं सर्वं कौमारं चरितं मुने ॥
शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि

2.4.12.12

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc