भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.4.11

2.4.11.1

ब्रह्मोवाच ॥
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ॥
आजगाम कुमारस्य शरणं बाणपीडित

2.4.11.2

पलायमानो यो युद्धादसोढा तेज ऐश्वरम्॥
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः

2.4.11.3

प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ॥
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात्

2.4.11.4

क्रौंच उवाच ॥
कुमार स्कंद देवेश तारकासुरनाशक ॥
पाहि मां शरणापन्नं बाणासुरनिपीडितम्

2.4.11.5

संगरात्ते महासेन समुच्छिन्नः पलायितः ॥
न्यपीडयच्च मागत्य हा नाथ करुणाकर

2.4.11.6

तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ॥
पलायमानो देवेश शरजन्मन्दयां कुरु

2.4.11.7

दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ॥
दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट्

2.4.11.8

ब्रह्मोवाच ॥
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ॥
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया

2.4.11.9

चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ॥
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः

2.4.11.11

सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ॥
गुहोपकंठं शक्तिस्सा जगाम परमा मुने ॥2.4.11.१ ०॥
ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ॥
निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः

2.4.11.12

तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ॥
स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत

2.4.11.13

ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ॥
त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः

2.4.11.14

प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ॥
कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम्

2.4.11.15

पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ॥
स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा

2.4.11.16

ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा॥
लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः

2.4.11.17

सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः॥
सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम्

2.4.11.18

ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ॥
ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा

2.4.11.19

तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ॥
आजगाम कुमारस्य शरणं दैत्यपीडितः

2.4.11.2.4.11.20

प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ॥
स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः

2.4.11.21

सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ॥
कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम्

2.4.11.22

कुमुद उवाच ॥
देवदेव महादेव वरतात महाप्रभो॥
पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः

2.4.11.23

पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ॥
कुमार स्कन्द देवेश तारकारे महाप्रभो

2.4.11.24

त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ॥
खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः

2.4.11.25

कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ॥
स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ

2.4.11.26

चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ॥
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः

2.4.11.27

तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ॥
गुहोपकंठं सहसाजगामाक्लिष्टवारिणी

2.4.11.28

ततः कुमारः प्रोवाच कुमुदं नागबालकम् ॥
निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः

2.4.11.29

तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ॥
स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ

2.4.11.2.4.11.30

एवं कुमारविजयं वर्णितं ते मुनीश्वर ॥
चरितं तारकवधं परमाश्चर्यकारकम्

2.4.11.31

सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ॥
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम्

2.4.11.32

ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ॥
कुमारचरितं दिव्यं शिव लोकं प्रयांति ते

2.4.11.33

श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ॥
मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम्

2.4.11.11

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc