भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.4.13

2.4.13.1

सूत उवाच ॥
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ॥
नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम्

2.4.13.3

॥ नारद उवाच ॥
देवदेव प्रजानाथ शिवज्ञाननिधे मया ॥
श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २ ।
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ॥
तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम्

2.4.13.4

सूत उवाच ॥
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ॥
प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन्

2.4.13.5

ब्रह्मोवाच ॥
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात्॥
शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्

2.4.13.6

इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ॥
यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना

2.4.13.7

संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ॥
स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि

2.4.13.8

तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ॥
विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात्

2.4.13.9

उद्वाहिते शिवे चात्र कैलासं च गते सति ॥
कियता चैव कालेन जातो गणपतेर्भवः

2.4.13.2.4.13.10

एकस्मिन्नेव काले च जया च विजया सखी ॥
पार्वत्या च मिलित्वा वै विचारे तत्पराभवत्

2.4.13.11

रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ॥
ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः

2.4.13.12

प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ॥
द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः

2.4.13.13

ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ॥
एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे

2.4.13.14

ब्रह्मोवाच ॥
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ॥
हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति

2.4.13.15

ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ॥
नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम्

2.4.13.16

आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ॥
उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा

2.4.13.17

तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ॥
तदीयं तद्वचश्चैव हितं मेने सुखावहम्

2.4.13.18

एवं जाते सदा काले कदाचित्पार्वती शिवा ॥
विचिंत्य मनसा चेति परमाया परेश्वरी

2.4.13.19

मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ॥
मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह

2.4.13.2.4.13.20

विचार्येति च सा देवी वपुषो मलसंभवम् ॥
पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम्

2.4.13.21

सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ॥
विशालं सर्वशोभाढ्यं महाबलपराक्रमम्

2.4.13.23

वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ॥
नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ।1२२॥
मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ॥
एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ

2.4.13.24

॥ गणेश उवाच ॥
किं कार्यं विद्यते तेद्य करवाणि तवोदितम्॥
इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा

2.4.13.25

शिवोवाच॥
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ॥
मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे

2.4.13.26

विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ॥
कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम्

2.4.13.27

ब्रह्मोवाच ॥
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ॥
तदीयं रूपमालोक्य सुन्दरं हर्षमागता

2.4.13.28

मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ॥
स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम्

2.4.13.29

अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ॥
यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया

2.4.13.2.4.13.30

स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ॥
स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता

2.4.13.31

एतस्मिन्नेव काले तु शिवो द्वारि समागतः ॥
कौतुकी मुनिर्शादूल नानालीलाविशारदः

2.4.13.32

उवाच च शिवेशं तमविज्ञाय गणाधिपः ॥
मातुराज्ञां विना देव गम्यतां न त्वया धुना

2.4.13.33

मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ॥
इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत्

2.4.13.34

तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ॥
मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा

2.4.13.35

ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ॥
प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः

2.4.13.36

शिव उवाच ॥
मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ॥
स्वगृहं यामि रे बाल निषेधसि कथं हि माम्

2.4.13.37

इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ॥
क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः

2.4.13.38

ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ॥
को वायं वर्तते किंच क्रियते पश्यतां गणाः

2.4.13.39

इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ॥
भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः

2.4.13.13

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc